इह चेदशकद् बोद्धुं प्राक् शरीरस्य विस्रसः
मरणात्प्रागेव भगवज्ज्ञानस्य सम्पाद्यत्वकथनम्
उपनिषत्
इह चेदशकद् बोद्धुं प्राक् शरीरस्य विस्रसः ।
ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते ।।२.३.४।।
श्रीव्यासतीर्थ:
व्या- बाल्येऽविलम्बेन ज्ञानमापादितवन्तं नचिकेतसं दृष्ट्वा विस्मितः अन्योऽप्येवमेव कुर्यादित्याशयवांस्तथाकर्तुः फलमाह- इह चेदिति ॥ विस्रसः विस्रंसनात् शरीरस्य पतनात्प्रागित्यर्थः ।। २.३.४ ॥
वामनपण्डिताचार्य:
भयादपि स्वाधर्मानुष्ठाने कथञ्चिद् ब्रह्मवेत्तुः अमृतभाव- प्रकारमाह्— इह चेदिति । इह जन्मनि अचिच्छरीरविरहात् पूर्वं कथञ्चिद् ब्रह्मा बोद्धुमशकच्चेत् तद्विरहानन्तरं चिदात्मा स्वयमेव स्वशरीरत्वाय कल्पते । कदा तदिति चेत् सर्वलोकेषु तत्तत्पदार्थसर्गेषु क्रियमाणेषु सत्सु ।।२.३.४ ।।
श्रीवेदेशतीर्थ खण्डार्थ:
बे. खं- एतद्भगवद्वेदनं मनुष्यजन्मप्राप्तावेव सम्पादनीयमन्यत्रालाभादिति भावेन तस्य फलमाह- इह चेदिति ॥ यदीह मनुष्यजन्मनि शरीरस्य विस्रसो विस्रंसनात्प्राक् बोद्धुं भगवत्तत्वादिकं ज्ञातुमशकत् समर्थो जातस्तर्हि स्वर्गेषु स्वरूपभूतरमणज्ञानात्मकेषु वैकुण्ठानन्तासनश्वेतद्वीपेषु शरीरत्वाय चिन्मयशरीरत्वाय कल्पते समर्थो भवति । अतः शरीरपातात्पूर्वमेव भगवज्ज्ञानाय यत्नः कार्य इति भावः ।। २.३.४ ॥
श्रीवरदतीर्थखण्डार्थ:
एतच्च विष्णुज्ञानं मनुष्यजन्मप्राप्तावेव सम्पादनीयमन्यत्रा- लाभादिति भावेन तस्य फलमाह - इहेति ॥ इह मनुष्यजन्मनि शरीरस्य बिस्रसः प्राक् शरीरविस्रंसात्पूर्वमेव बोद्धुं हरितत्त्वं ज्ञातुमशक्तश्चेत् समर्थो भवेचेत् ततस्तस्मादेव ज्ञानात् ज्ञानसामर्थ्यात् स्वर्गेषु लोकेषु वैकुण्ठादिलोकेषु शरीरत्वाय दित्र्यशरीरत्वाय कल्पत इत्यर्थः ।। २.३.४ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
बाल्य एव सम्पादितज्ञानं नचिकेतसं दृष्ट्वा विस्मितोऽन्योऽप्येवं कुर्यादित्याशयवान् तथा कर्तुः फलमाह - इह चेदिति ॥ इह मनुष्यदेहे शरीरस्य भौतिकदेहस्य विस्रसः विस्रंसनात् पतनात् प्राक् बोद्धुमशकत् शक्तश्चेत् सः स्वर्गेषु लेकेषु वैकुण्ठादिषु शरीरत्वाय अप्राकृतचिदानन्दात्मक- देहवत्त्वाय कल्पते, मुक्तो भवतीति यावत् ।।२.३.४ ।।