य इदं मध्वदं वेदाsत्मानं जीवमन्तिकात्
भगवान् जीवनियामकः नतु जीवाभिन्नः
उपनिषत्
य इदं मध्वदं वेदाsत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद् वै तत् ॥२.१.५॥
भाष्यम्
जीवस्यान्तिके । न हि स्वस्य स्वयं जीवोऽन्तिके भवति । वस्त्वन्तरस्य हि दूरत्वमन्तिकत्वं वा ॥२.१.५॥
श्रीव्यासतीर्थ:
व्या- मध्वदं देहे स्थित्वा सारभोक्तारम् । जीवमन्तिकात् जीवस्य समीपे । तत आत्मनो ज्ञातत्वात् स्वात्मानं गोप्तुं नेच्छति ।
व्या.भा- आत्मानं जीवमिति सामानाधिकरण्यप्रतीत्या जीवस्यात्माभेदः प्रतीयते । स प्रकृतप्रतिज्ञा विरुद्धोऽतस्तां निवारयन् जीवमिति द्वितीयां षष्ठ्यर्थत्वेन व्याकुर्वन् तस्यान्वयञ्च दर्शयति- जीवस्येति । जीवमिति १. ‘“इमम्” इति वामनतपण्डिताचार्यपाठः ।
द्वितीयायाः षष्ठ्यर्थत्वानङ्गीकारे बाधकमाह- नहीति ॥ हीति सूचितामुपपत्तिं स्फोरयन्नाह - वस्त्वन्तरस्येति ॥ २.१.५ ॥
वामनपण्डिताचार्य:
“तं स्वात्मानं मत्वा" इत्यभेदार्थयोजनायां को दोष इत्याशङ्कायामाह— य इममिति ॥ जीवस्यान्तिक इति जीवमन्तिकादिति व्याख्याति । ‘“षट्सु द्वितीया" इति सूत्रेण द्वितीयायाः षष्ठ्यर्थत्वात् । " त्रिषु पञ्चमी” इति च सूत्रम् । य इमं मध्वदं पूर्णानन्दभुजं स्वस्वामिनं जीवस्थान्तिके हृदये नियामकत्वेन स्थितं वेद स ततः परं स्वात्मानं गोतुं नेच्छति । भगवदिच्छयैव स्वगुप्तिसम्भवात् । जीवपरयोरैक्यपक्षे जीवस्यान्तिके पर इति न युज्यते । तस्य ततो भेदाभावात् । भिन्नयोरेव हि अन्योन्यमन्तिकत्वं दूरत्वं वा भवति । तदभिप्रायेण प्राह- नहीति ॥ तस्मात् जीवस्यान्तिक एव ध्येयो भगवान् नतु जीवैक्येनेति सन्मतम् ॥२.१.५ ॥
श्रीवेदेशतीर्थ:
नन्वेवं तर्हि " य इदं मध्वदं वेदात्मानं जीवमन्तिकात्” इति वाक्यविरोधः । तत्र सामानाधिकरण्यत्र्यपदेशेन जीवेशाभेदप्रतीतेरित्यतः तद्व्याचष्टे - जीवस्येति ॥ अनेन जीवमिति द्वितीया षष्ठ्यर्था । अन्तिकादिति पञ्चमी सप्तम्यर्थेत्युक्तं भवति । ननु जीवमिति द्वितीया कुतः षष्ठ्यर्थत्वेन व्याख्येया । " आत्मानं जीवं स्वान्तिके वेदेति यथाश्रुतार्थे बाधकाभावादित्यत आह- नहीति । स्वयं जीवः स्वस्यान्तिके हि यस्मान्न भवेत्तस्माज्जीवस्यान्तिक इति व्याख्येयमित्यर्थः । स्वयं जीवः स्वान्तिके कुतो न भवतीत्यतस्तस्य भेदसापेक्षत्वादित्याह - वस्त्वन्तरस्येति ॥ हि यस्मात् वस्त्वन्तरस्य वस्त्वन्तरात् दूरत्वमन्तिकत्वं वा । नतु तस्यैव तस्मादेव । अतो जीवः स्वयं स्वस्यान्तिके न भवतीत्यर्थः ।। २.१.५ ॥
श्रीवेदेशतीर्थखण्डार्थ:
किश्च य इदं इमं मध्वदं सुखभोक्तारं “मध्वित्यानन्द उद्दिष्टः " इतिवचनात् । भूतस्य, भव्यस्य, वर्तमानस्य चेशानमात्मानं भगवन्तं जीवमन्तिकात् जीवस्यान्तिके वेद स ततो भगवज्ज्ञानसामर्थ्येनान्यविषयक- भयाभावात् न विजुगुप्सते आत्मानं गोतुं नेच्छति ॥२.१.५।।
श्रीवरदतीर्थ:
वरद. भा- यद्यपि जीवेशभेदस्त्वेन साक्षान्न जिज्ञासितः । तथापि यथावद्ब्रह्मज्ञानस्य जिज्ञासितत्वाद्यथावज्ज्ञानान्तर्भूतो जीवेशभेदोऽपि जिज्ञासित एवेति भावः । “य इदं मध्वदं वेदात्मानं जीवमन्तिकात्" इत्यत्रात्मानमेव जीवमिति सामानाधिकरण्यप्रतीतिनिरासार्थमाह- जीवस्येति ॥ अनेन जीवमिति द्वितीया षष्ठ्यर्थ इति सूचितम् । अन्यथा अन्तिक इत्यस्यान्वया- भाव इति आत्मानं जीवमिति सामानाधिकरण्यमेव किं न स्यादित्यत आह- नहीति ।। कुतो न भवतीत्यत आह- वस्त्वन्तरस्येति ॥ २.१.५ ॥
श्रीवरदतीर्थखण्डार्थ:
इदं मध्वदं सुखभोक्तारमात्मानं विष्णुं जीवमन्तिकात् जीवस्य समीपे यो वेद सः ततो विष्णोरन्यमात्मानं गोप्तुं नेच्छतीत्यर्थः ॥२.१.५॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
योऽधिकारी इदं इमं मध्वदं मधु सुखमत्तीति मध्वदः तम्, अत्तेरच्प्रत्ययः, देहे स्थित्वा सांरभोक्तारमिति यावत्, जीवमन्तिकात् जीवसमीपे तन्नियामकतया स्थितं आत्मानं भूतभव्यस्य, द्वन्द्वैकवद्भावः, भूतभाविनोरीशानं प्रेरकं वेद जानाति स ततः आत्मनो नियामकतया ज्ञातत्वात् न विजुगुप्सते, गुपू रक्षणे, आत्मानं गोतुं रक्षितुं नेच्छति । भगवानेव सदा सर्वत्र रक्षकतयाऽऽस्त इति ज्ञात्वा स्वात्मरक्षणार्थं न प्रयतत इत्यर्थः । एतद्वै तत् यत् त्वया पृष्टं तत् एतद्वै प्रागुक्तगुणकं वै ॥२.१.५।।