हन्ता चेन्मन्यते हन्तुं हतचेन्मन्यते हतम्
अहं हन्ता अहं हतः इति प्रतीतिः भ्रान्तिरेव
उपनिषत्
हन्ता चेन्मन्यते हन्तुं हतचेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१.२.१९ ॥
भाष्यम्
जीवस्यापि स्वतो मरणाभावादुभौ तौ न विजानीतः ॥
श्रीव्यासतीर्थ:
ननु कथं जीवो देहे हन्यमानेऽपि न हन्यत इति यज्ञदत्तस्याहं हन्ता तेनाहं हतः इति तत्प्रतीतिसिद्धत्वाद्धननस्य इत्यतस्तौ भ्रान्तावित्याह- हन्तेति ॥ हन्ता आत्मानं हन्तुं हन्तारं मन्यते चेद्धतश्वात्मानमनेनाहं हत इति मन्यते चेत् । तावुभौ न विजानीत इत्यादि योजना ॥१.२.१९॥
व्या.भा- ‘“उभौ तौ न विजानीतः" इत्येतद्युक्तेरनुक्तत्वाद्युक्तिपूर्वं व्याचष्टे- जीवस्यापीति ॥ अपिशब्देनेश्वरं समुच्चिनोति । स्वतः स्वरूपेण “अणोरणीयान्’” इत्यस्य प्रकृतजीवपरत्वप्रतीतिं निवारयतेश्वरस्याप्रकृतत्व- शङ्का निवारिता ॥ १.२.१९॥
वामनपण्डिताचार्य:
नन्वेवमप्यहमहितं हनिष्यामि, अयमनेन हत इत्यादि - व्यवहारदर्शनात् स्वरूपोत्पत्तिनाशादपि तस्य स्यातामित्यत आह- हन्ता दिति ॥ ौ तौ जीवस्वरूपापेक्षया तं हनिष्यामि अहं हतोऽस्मीति च मन्वानौ तावुभवपि तत्त्वं न जानीतः । नहि तत्स्वरूपस्य हन्यत्वं जन्यत्वं वा प्रमाणसिद्धम् । हननादिव्यवहारस्तु देहमात्रविषय एव ।।१.२.१९।।
श्रीवादिराजतीर्थ:
हन्तुं हननशीलं हन्तारमित्यर्थः ।। १.२.१९ ॥
श्रीवेदेशतीर्थ:
ननु “उभौ तौ न विजानीतः” इति हन्तृत्वहतत्वज्ञानस्य भ्रान्तित्वमुक्त्वा तत्र ‘‘नायं हन्ति न हन्यते " इत्यर्थाभाव हेतुरुच्यते । तदयुक्तम् । देहविनाशरूपहननकर्मत्वस्य तत्कर्तृत्वस्य च सत्त्वादित्यतो हेतुहेतुमद्भावं स्फोरयन् हेतुवाक्यं व्याचष्टे - जीवस्यापीति । देहविनाशाव्य- मरणवत्त्वेन प्रसिद्धस्यापीत्यपिशब्दः । स्वतः स्वरूपेण ।।१.२.१९।।
श्रीवेदेशतीर्थखण्डार्थ:
नन्वेतत्कथम्? जीवहननस्य अहं हन्ता तेनाहं हत इत्यादिप्रत्यक्ष- सिद्धत्वादित्यतस्तस्य भ्रान्तित्वमाह - हन्तेति ॥ हन्ता मैत्रदेहहननकर्ता चैत्रः स्वात्मानं हन्तुं हन्तारं मैत्रजीवस्वरूपहननकर्तारं मन्यते चेत् हतश्च मैत्रस्य स्वरूपं हतं मन्यते चेत् तर्हि तौ उभौ न विजानीतो न सम्यग्जानीतः भ्रान्ताविति यावत् । कुत इत्यतस्तत्रार्थाभावं हेतुमाह- नायमिति ॥ अयं चैत्रो न हन्ति मैत्रस्वरूपं अयं मैत्रो वा स्वरूपेण न हन्यते, यतोऽतो देहविनाशनिमित्तकोऽयं भ्रम इत्यर्थः ।। १.२.१९ ॥
श्रीवरदतीर्थ:
बरद- ननु ‘“उभौ तौ न बिजानीतः" इत्यनेन मुक्तस्यायं हन्ता अस्तीत मन्यमानो न जानातीति यदुच्यते तन्न युज्यते । मुक्तस्य हन्तास्तीत्यस्यैव केनाप्यनाशङ्कितत्वेन तद्वेत्तुरज्ञानिकत्वकथनासम्भवादित्यतः तदमुक्तविषय- मित्याह- जीवस्येति ॥ अमुक्तजीवस्यापि देहसम्बन्धेन निमित्तेन विना स्वतो मरणाभावात्तस्य कश्विद्धन्तास्तीति ज्ञाता केनचिद्धत इति ज्ञाता च न विजानीत इत्युक्तविषयमेवैतद्वाक्यमित्यर्थः । न चामुक्तजीवस्य पूर्वमप्रकृतत्व- दोषः । ‘“कुतश्चिन्न बभूव कश्चित् '' इत्यमुक्तजीवस्यापि प्रकृतत्वात् ।।१.२.१९।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
नन्वेवं हन्ता हतश्चाहमिति प्रतीतिः कथमित्यतो भ्रान्तिरित्याह- हन्तेति । जीवस्वभावं हन्तुमिति योज्यम् ।। न विजानीत इति ॥ जीवस्वरूपस्य नित्यत्वादिति भावः ।। १.२.१९॥