पराश्चि खानि व्यतृणात् स्वयम्भूः तस्मात् पराक् पश्यति नान्तरात्मन्

काठकोपनिषद्भाष्यम्

अथ द्वितीयोऽध्यायः

वैराग्यस्यावश्यसम्पाद्यत्वम्

उपनिषत्

पराश्चि खानि 'व्यतृणात् स्वयम्भूः तस्मात् पराक् पश्यति नान्तरात्मन् ।

कश्चिद् धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥

भाष्यम्

'तृणु कात्करणे" इति धातुः ॥ २.१.१ ॥

श्रीव्यासतीर्थ:

व्यास - पुनरपि ब्रह्मविद्यां वक्तुमध्यायान्तरत्वेनाधिकारार्थं दुस्सम्पाद्यमपि वैराग्यमवश्यं सम्पाद्यमित्याह - पराञ्चीति ॥ खानि इन्द्रियाणि । आत्मनोऽन्तर्न पश्यति । प्रत्यक् अन्तः ।। २.१.१ ॥

व्या. भा- केवलनिर्माणार्थप्रतीतिं निवारयन्व्यतृणात्" इत्येतद्धातु- व्याख्यानेन व्याचष्टे - तृण्विति ॥ तृणु धातुः कात्करणे कुत्सितकरणे वर्तते इति धातुः धातुव्याख्यानमित्यर्थः ।। २.१.१ ।।

वामनपण्डिताचार्य:

अथैवम्भूतस्य तत्त्वज्ञानस्य दौर्लभ्यं सहेतुकमुपपादयति पराश्चि इत्यादिना ।। स्वयम्भूः पराश्चि खानि व्यतृणत् । पराञ्चि स्वरूपतो ष्ठान बाह्यवृत्ती वा । खानि इन्द्रियाणि व्यतृणत् व्यनिन्दत् । तृणुधातोः तदर्थत्वोक्तः । तस्मात् प्राकृतपदार्थानेव पुरुषस्तैरिन्द्रियैः पश्यति नतु परमात्मानम् । तदग्राहकत्वात् तेषाम् । बाह्यार्थेभ्य आवृत्तचक्षुर्भूत्वा तदन्तर्यामिणं कश्चिदेव पश्यति । सुदुर्लभस्तद्द्रष्टेत्यर्थः ।। २.१.१ ।।

श्रीवादिराजतीर्थ:

पूर्वाध्यायान्ते गुरूपदिष्टज्ञानेन तुष्टस्य हरेः प्रसादात् संसारोत्तारः कर्तव्य इत्युक्तम् । स्वहृदि स्थितपरमात्मनो दर्शने स्वमनआदीन्द्रियैरेवालम् । १. "व्यतृणत्इति वामनपण्डिताचार्यपाठः ।किं गुरुप्रसादेनेति शङ्कावारणाय द्वितीयाध्यायस्यादाविन्द्रियाणां बहिर्मुखतया कुत्सिततया च स्वयम्भुवा सृष्टत्वात्तद्वशीकरणाय गुरुप्रसाद आवश्यक इति भावेनाऽऽह - पराश्चि खानीति ॥ खानीन्द्रियाणि पराचि बहिर्मुखानि व्यतृणात्कुत्सितानि चकार । तृणु कात्करण इति धातुः । कश्चिद्धीरः हर्यनुग्रहात् प्रत्यगात्मानमैक्षदिति योजना ।। २.१.१ ॥

श्रीवेदेशतीर्थ:

ब्रह्मविद्याधिकारवैराग्यनिरूपणपूर्वं ब्रह्मस्वरूपं प्रपञ्चेनाह अनेनाध्यानेन ।पराचि खानि व्यतृणात्" इत्यत्र व्यतृणादित्यस्य हिंसितवान् हननं कृतवानिति व्याख्यानमसदिति भावेन धातुं पठति- तृण्वति ॥ धातुर्धातुव्याख्यानमित्यर्थः । कात्करणं नाम कुत्सितत्वेन करणम् । तृणुधातोर्हननार्थत्वस्याश्रुतत्वादिति भावः ।। २.१.१ ॥

श्रीवेदेशतीर्थखण्डार्थ:

स्वयम्भूः ब्रह्मा पराञ्चि पराङ्मुखानि विषयासक्तानि । लोकेन्द्रियस्वरूपकथनमेतत् । खानि इन्द्रियाणि व्यतृणात् कात्कृतवान् । विषयव्यावृत्तान्यकरोत् । तस्माद्विषयव्यावृत्तेन्द्रियत्वात् पराङ् न पश्यति । विषयासक्तो न भवति किन्त्वन्तरात्मनि पश्यति । अन्तरात्मन्येवासक्तो भवतीत्यर्थः । यत एवमतः कश्चिद्धीरः अमृतत्वं मोक्षमिच्छन् आवृत्तचक्षुः विषयव्यावृत्तेन्द्रियः सन् प्रत्यगात्मानमन्तरात्मानमैक्षत् अपश्यत् पश्येदित्यर्थः ।। २.१.१ ।।

श्रीवरदतीर्थ:

वरद- एवं प्रथमाध्याये विषयविरक्तिप्रतिपादनपूर्वकं ब्रह्मस्वरूपं निरूपितम् । अस्मिन्नध्याये विषयाभिलाषनिराकरणपूर्वकं परब्रह्मनिरूपण- विशेषः क्रियते- पराञ्चि खानि व्यतृणादित्यादिना ।। तत्र व्यतृणादिति पदस्याप्रसिद्धार्थत्वात् तज्ज्ञापनाय धातुं पठति तृणु कात्कार इति ॥ कात्कारो नाम कुत्सितत्वेन करणम् । इन्द्रियाणां पराङ्मुखत्वापादनेन कुत्सितं कर्माकरोदित्यर्थः । नहीन्द्रियाणां विषयाभिमुखत्वापादनलक्षणं सत्कर्म मोक्षविरोधित्वादिति ।। २.१.१. ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

पुनरपि ब्रह्मविद्यां वक्तुं तदङ्गतया वैराग्यं दुःसम्पादमपि यत्नेन सम्पाद्यमिति भावेनाह- पराीति ॥ स्वयमेव भवतीति स्वयम्भूः स्वतन्त्रो भगवान्, तत्पुत्रो ब्रह्मा वा । खानि इन्द्रियाणि पराचि परामुखानि अत एव व्यतृणात् कुत्सितान्यकरोत्, “ तृणु कात्करणे" इति धातोः । तस्मात् कारणात् पराक् बाह्यान् विषयान् पश्यति जीवः । आत्मन् आत्मनः स्वस्य अन्तः न पश्यति । सदा बहिर्दृष्टिरेवाऽस्त इत्यर्थः । कश्चिद्धीरो ज्ञानी अमृतत्वं मुक्तिमिच्छन् आवृत्तचक्षुः, उपलक्षणमेतत्, विषयेभ्यः परावृत्तचक्षु- रादिकरणः सन् प्रत्यगन्तः आत्मानं स्वान्तस्थं भगवन्तं ऐक्षत् ईक्षत इत्यर्थः । लडर्थे लङ्, परस्मैपदं छान्दसम् ॥ २.१.१ ॥

Load More