अयं वाव यः पवते । सोऽग्निर्नाचिकेतः

॥ अथ नाचिकेतोपाख्यनम् ॥

नाचिकेताग्निदेवतोपासनाविषयकः कृष्णयजुर्वेदीयतैत्तिरीय ब्राह्मणगतः तृतीय कांडस्य एकादशप्रपाठकस्य सप्तमोऽनुवाकः

अयं वाव यः पवते । सोऽग्निर्नाचिकेतः । स यत्प्राक् पवते । तदस्य शिरः । अथ यद्दक्षिणा । स दक्षिणः पक्षः । अथ यत्प्रत्यक् । तत्पुच्छम् । यदुदक् । स उत्तरः पक्षः । अथ यत्संवाति । तदस्य समञ्चनञ्च प्रसारणञ्च । अथो सम्पदेवास्य सा ।

सह वा अस्मै स कामः पद्यते । यत्कामो यजते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ।

यो ह वा अग्नेर्नाचिकेतस्याऽऽयतनं प्रतिष्ठां वेद । आयतनवान्भवति । गच्छति प्रतिष्ठाम् । हिरण्यं वा अग्नेर्नाचिकेतस्यायतनं प्रतिष्ठा । य एवं वेद । आयतनवान्भवति । गच्छति प्रतिष्ठाम् ॥

यो ह वा अग्नेर्नाचिकेतस्य शरीरं वेद । सशरीर एव स्वर्गं लोकमेति । हिरण्यं वा अग्नेर्नाचिकेतस्य शरीरम् । य एवं वेद । सशरीर एव स्वर्गं लोकमेति ।

अथो यथा रुक्म उत्तमो भाय्यात् । एवमेव स तेजसा यशसा । अस्मिश्च लोकेऽमुष्मिच भाति ।।

उरवो ह वै नामैते लोकाः । येऽवरेणादित्यम् । अथ हैते वरीया सो लोकाः । ये परेणऽऽदित्यम् । अन्तवन्त ह वा एष क्षय्यं लोकं जयति । योऽवरेणादित्यम् । अथ हैषोऽनन्तमपारमक्षय्यं लोकं जयति । यः परेणाऽऽदित्यम् ।।

अनन्तह वा अपारमक्षय्यं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ।।

॥ इति सप्तमोऽनुवाकः ॥

॥ अथ अष्टमोऽनुवाकः ॥

उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । त ँह कुमार ँ सन्तम् । दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । स होवाच । तत कस्मै मां दास्यसीति । द्वितीयं तृतीयम् ।

I

त ँ ह परीत उवाच । मृत्यवे त्वा ददामीति ।

तह स्मोत्थितं वागभिवदति । गौतम कुमारमिति । स होवाच । पहि मृत्योर्गृहान् । मृत्यवे वै त्वाऽदामिति ।

तं वै प्रवसन्तं गन्तासीति होवाच । तस्य स्म तिस्रो रात्रीरवाश्वान्गृहे वसतात् । स यदि त्वा पृच्छेत् । कुमार कति रात्रीरवात्सीरिति । तिस्र इति प्रतिब्रूतात् । किं प्रथमारात्रिमा इति । प्रजां त इति । किं द्वितीयमिति । पशूस्त इति । किं तृतीयमिति । साधुकृत्यां त इति ।

तं वै सन्तं जगाम । तस्य ह तिस्रो रात्रीरनाश्वान्गृह उवास । तमागत्य पप्रच्छ । कुमार कति रात्रीरवात्सीरिति । तिस्र इति प्रत्युवाच । किं प्रथमा रात्रिमश्ना इति । प्रजां त इति । किं द्वितीयामिति । पशूस्त इति । किं तृतीयमिति । साधुकृत्यां त इति ।

नमस्ते इति भगव इति होवाच । वरं वृणीष्वेति । पितरमेव जीवन्नयानीति ।

द्वितीयं वृणीष्वेति । इष्टापूर्तयोर्मेऽक्षितिं ब्रूहीति होवाच । तस्मै हैतम नाचिकेतमुवाच । ततो वै तस्येष्टापूर्ते ना क्षीयेते ।

नाऽस्येष्टापूर्ते क्षीयेते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ।

तृतीयं वृणीष्वेति । पुनर्मृत्योर्मेऽपचितिं ब्रूहीति होवाच । तस्मै हैतमग्निं

नाचिकेतमुवाच । ततो वै सोऽप पुनर्मृत्युमजयत् । अप पुनर्मृत्युं जयति । यो नाचिकेतं चिनुते । य उ चैनमेवं वेद ।।

प्रजापतिर्वै प्रजाकामस्तपोऽतप्यत । स हिरण्यमुदास्यत् । तदग्नौ प्रास्यत् । तदस्मै नाच्छादयत् । तद्द्वितीयं प्रास्यत् । तदस्मै नैवाच्छादयत् । यत्तृतीयं प्रास्यत् । तदस्मै नैवाच्छादयत् । तदात्मन्नेव हृदय्येऽग्नौ वैश्वानरे प्रास्यत् । तदस्मा अच्छदयत् । तस्माद्धिरण्यं कनिष्ठं धनानाम् । भुञ्जत्प्रितमम् । हृदयजहि । स वै तमेव नाऽविन्दत् । यस्मै तां दक्षिणामानेष्यत् । ता ँ स्वायैव हस्ताय दक्षिणायानयत् । तां प्रत्यगृह्णात् । दक्षाय त्वा दक्षिणां प्रतिगृह्णामीति । सोऽदक्षत दक्षिणां प्रतिगृह्य | दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद ।।

एतद्ध स्म वै तद्विद्वा ँसो वाजश्रवसा गोतमाः । अप्यनूदेश्यां दक्षिणां प्रतिगृह्णन्ति । उभयेन वयं दक्षिष्यामह एव दक्षिणां प्रतिगृह्येति । तेऽदक्षन्त दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । प्रहान्यं लीनाति ।

॥ इति कृष्णयजुर्वेदीये तैत्तिरीयब्राह्मणे तृतीयकाण्डे एकादशप्रपाठके अष्टमेऽनुबाके नाचिकेतोपाख्यानम् ॥

 

॥ अथ महाभारते अनुशासनपर्वणि षडधिकशततमेऽध्याये नाचिकेतोपाख्यानम् ॥

युधिष्ठिर उवाच-

दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ ।

विस्तरेण महाबाहो न हि तृप्यानि कथ्यताम् ॥ १॥

भीष्म उवाच-

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥ २ ॥

ऋषिरौद्दालकिर्दीक्षामुपगम्य ततस्सुतम् ।

त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥ ३ ॥

समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ।

उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च ॥ ४॥

इध्मा दर्भास्सुमनसः कलशश्चाभितो जलम् ।

विस्मृतं मे तदादाय नदीतीरादिहाब्रज ॥ ५ ॥

गत्वाऽनवाप्य तत्सर्वं नदीवेगसमाप्लुतम् ।

न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥ ६ ॥

क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा ।

यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः ॥ ७ ॥

तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः ।

प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥ ८ ॥

नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्च्छितः ।

किं मया कृतमित्युक्त्वा निपपात महीतले ।। ९ ।।

तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः ।

व्यतीतं तदहश्शेपं सा चोग्रा तत्र शार्वरी ॥ १० ॥

पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।

प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ ११ ॥

स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः ।

दिव्यैर्गन्धैस्समादिग्धं क्षीणस्वप्रमिवोत्थितम् ॥ १२ ॥

अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।

दिष्ट्या चाऽसि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ १३ ॥

प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना ।

अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत् ॥ १४ ॥

कुर्वन्भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभासाम् ।

वैवस्वतीं प्राप्य सभामवश्यं सहस्रशो योजनहैमभौमाम् ॥ १५ ॥

दृष्ट्वैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश ।

वैवस्वतोऽर्ध्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥ १६ ॥

ततस्त्वहं तं शनकैरवोचं वृतस्सदस्यैरभिपूज्यमानः ।

प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हो यानहं तान्विधत्स्व ॥ १७ ॥

यमोsब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह स त्वां तपस्वी ।

पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्र कर्तुम् ॥ १८ ॥

दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता ।

ददानि किञ्चापि मनःप्रणीतं प्रियातिथेस्तव कामान्वृणीष्व ॥ १९ ॥

तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् ।

इच्छाम्यहं पुण्यकृतां समृद्धांल्लोकान्द्रष्टुं यदि तेऽहं वराहः ॥ २० ॥

यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमत्तत् ।

सन्दर्शयामास तदाऽऽत्मलोकान्सर्वांस्तथा पुण्यकृतां द्विजेन्द्र ॥ २१ ॥

अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम् ।

नाना संस्थानरूपाणि सर्वरत्नमयानि च ।। २२ ।।

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।

अनेकशतभौमानि सान्तर्जलवनानि च ॥ २३ ॥

वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।

तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ २४ ॥

भक्ष्यभोज्यमयाञ्चैलान्वासांसि शयनानि च ।

सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ।। २५ ।।

नद्यो वीथ्यः सभा वाप्यो दीर्घिका चैव सर्वशः ।

घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ।। २६ ॥

क्षीरव्रता वै सरितो गिरीश्व सर्पिस्तथा विमलञ्चापि तोयम् ।

वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् ।। २७ ।।

सर्वान्दृष्ट्वा तदहं धर्मराजमवोचं वै सर्वदेवं सहिष्णुम् ।

क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः ॥ २८ ॥

मोऽब्रवीद्विद्धि भोज्यांस्त्वमेतान्ये दातारः साधवो गोरसानाम् ।

अन्ये लोकाः शाश्वता वीतशोकैः समाकीर्णा गोप्रदाने रतानाम् ।। २९ ।।

 त्वेतासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।

ज्ञात्वा देयं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥ ३० ॥

स्वाध्यायवान्योऽतिमात्रं तपस्वी बैतानस्थो ब्राह्मण: पात्रमासाम् ।

गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः ॥ ३१ ॥

कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ।

अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीताः सोदकाः सोद्वहाव ॥ ३२ ॥

तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।

वत्सैः प्रीताः सुप्रजाः सोपचारास्त्र्यहं दत्वा गोरसैर्वर्तितव्यम् ॥ ३३ ॥

दत्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीश्च ।

यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥ ३४ ॥

तथाऽनङ्वाहं ब्राह्मणेभ्यः प्रदाय दान्तं धुर्यं बलवन्तं युबानम् ।

कुलानुजीव्यं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्सम्मितान्धेनुदस्य ॥ ३५ ॥

बृद्धे ग्लाने सम्भ्रमे वा महार्थे कृश्यर्थं वा हौम्यहेतोः प्रसूत्याम् ।

गुर्वर्थं वा यज्ञसमाप्तये वा गां वै दातुं देशकालोऽविशिष्टः || ३६ ||

नाचिकेत उवाच -

श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम् ।

अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति ।। ३७ ॥

ततोऽब्रवीद्यमो धीमान् गोप्रदानं ततो गतिम् ।

गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः ॥ ३८ ॥

अलाभे यो गवां दद्यात् घृतधेनुं यतव्रतः ।

तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ।। ३९ ।।

घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः ।

स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ ४० ॥

तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः ।

स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥ ४१ ॥

एवमेतानि मे तत्र धर्मराजो न्यदर्शयत् ।

दृष्ट्वा च परमं हर्षमवापमहमच्युत ।। ४२ ।।

निवेदये चाऽहमिमं प्रियं ते ऋतुर्महानल्पघनप्रचारः।

प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः ।। ४३ ।।

शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो वै ।

दानव्युष्टिं तत्र दृष्ट्वा महात्मन् निस्सन्दिग्धान् दानधर्मांश्चरिष्ये ॥ ४४ ॥

इदञ्च मामब्रवीद्धर्मराजः पुनः पुनः सम्प्रहृष्टो महर्षे ।

दानेन यत्प्रयतोऽभूत्सदैव विशेषतो गोप्रदानञ्च कुर्याम् || ४५ ॥

शुद्धो ह्यर्थी नावमन्यस्व धर्मान्पात्रे देयं देशकालोपपन्ने ।

तस्माद्गावस्ते नित्यमेव प्रदेया माभूच्च ते संशय: कश्चिदत्र ।। ४६ ।।

एताः पुरा ददन्नित्यमेब शान्तात्मनो दानपथे निविष्टाः ।

तपांस्युग्राण्यप्रतिशङ्कमानास्ते वै दानं प्रददुश्चैव शक्त्या ॥ ४७ ॥

काले च शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः ।

दत्वा गा वै लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलास्तु नाके ॥ ४८ ॥

एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्षा ।

काम्याष्टम्यां वर्तितव्यं दशाऽहं रसैर्गवां शकृता प्रस्त्रवैर्वा ।। ४९ ।।

देवव्रती स्यात् वृषभप्रदानैर्वेदावाप्तिर्गेयुगस्य प्रदाने ।

तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने ॥ ५० ॥

गामप्येकां कपिलां सम्प्रदाय न्यायोपेतां कलुषाद्विप्रमुच्येत् ।

गवां रसात्परमं नाऽस्ति किञ्चिद्रवां प्रदानं सुमहद्वदन्ति ॥ ५१ ॥

गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं सञ्जनयन्ति लोके ।

यस्तं जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ।। ५२ ।

यैस्तद्दत्तं गोसहस्रं शतं वा दशार्धं वा दश वा साधुवत्सम् ।

अप्येकं वा साधवे ब्राह्मणाय सा स्यामुष्मिन्पुण्यतीर्था नदी वै ।। ५३ ।।

प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्या सूर्यपादैः पृथिव्याम् ।

शब्दश्चैकस्सन्नतिश्चोपभोगा तस्माद्गोदस्सूर्य इवावभाति ॥ ५४ ॥

गुरुं शिष्यो वरयेद्गोप्रदाने स वै गन्ता नियतं स्वर्गमेव ।

विधिज्ञानां सुमहान्धर्म एष विधिं ह्याद्यं विधयस्संविशन्ति ॥ ५५ ॥

इदं दानं न्यायलब्धं द्विजेभ्य: पात्रे दत्वा प्रापयेथाः परीक्ष्य ।

त्वय्याशंसन्त्यमरा दानवाश्च वयञ्चापि प्रसृते पुण्यशीले ।। ५६ ।।

इत्युक्तोऽहं धर्मराजं द्विजर्षे धर्मात्मानं शिरसाऽभिप्रणम्य ।

अनुज्ञातस्तेव वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥ ५७ ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकशततमोऽध्यायः ॥