मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्

ब्रह्मविद्यापरिनिष्ठितानां फलोक्तिपूर्वकं नचिकेतोपदेशोपसंहारः

उपनिषत्

मृत्युप्रोक्तां नाचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।

ब्रह्म प्राप्तो विरजोऽभूद् विमृत्युः अन्योऽप्येवं यो विदध्यात्ममेव ॥

॥ इति श्रीकाठकोपनिषत् सम्पूर्णा ॥

श्रीव्यासतीर्थ:

व्या- एवं वेदपुरुषो नचिकेतसे मृत्युप्रोक्तां ब्रह्मविद्यामनूद्य तन्निष्ठावतस्तस्य फलमाह- मृत्युप्रोक्तामिति ॥ एवमन्यस्यापि तन्निष्ठस्य तत्फलमतिदिशति- अन्योऽपीति ॥ अन्योऽप्यध्यात्मवित्सोऽप्येवमेवेति योज्यम् । उपनिषत्प्रतिपादितमर्थमुपसंहरति- अतः सर्वोत्तम इति । अतः प्राधान्येनाग्निष्टोमपूज्यत्वात्, मुक्तामुक्तनियामकत्वात्, जगत्सृष्ट्यादिकर्तृत्वात् शोकादिसकलदोषराहित्यात्, विष्णुरेव सर्वोत्तम इति सिद्धमित्यर्थः ॥ ॥ इति श्रीजयतीर्थपूज्यपादशिष्य श्रीव्यासतीर्थविरचिता काठकभाष्यटीका सम्पूर्णा ॥

वामनपण्डिताचार्य:

बामन - अथ नचिकेतसस्तत्त्वश्रवणफलमुच्यते- मृत्युप्रोक्तमिति ॥ योगविधिः योगानुष्ठानम् । विरजो विगतरागादिर्भूत्वा विष्ण्वाख्यं ब्रह्म प्राप्तो विमृत्युरभूत् । अमृतोऽभवदित्यर्थः । अन्योऽप्येवमध्यात्मवित् तत्प्रसादान्मुक्तो भवेत् ।। २.३.१८ ।।

श्रीवेदेशतीर्थखण्डार्थ:

एवं मृत्युप्रोक्तां विद्यां प्राप्तवता नचिकेतसा विद्याफलं लब्धमित्याह वेदपुरुषः- मृत्युप्रोक्तामिति ॥ नाचिकेतो नचिकेता एव नाचिकेतो मृत्युप्रोक्तामेतां विद्याम् । कृत्स्नामिन्द्रियधारणादिरूपयोगविधिञ्च लब्ध्वा ब्रह्म प्राप्तो विरजो निर्दुष्टो विमृत्युरभवत् । एवमन्यस्यापि तनिष्ठ तत्फलमतिदिशति- अन्योऽपीति ॥ अन्योऽप्यधिकारी । अध्यात्मं अधिकात्मभगवत्स्वरूपमेवमेव पूर्वोक्तप्रकारेणैववित्सोऽपि ब्रह्म प्राप्तो विरजो विमृत्युर्भविष्यतीत्यर्थः ॥२.३.१८॥

श्रीवरदतीर्थखण्डार्थ:

एतद्विद्यायाः फलमाह - मृत्युप्रोक्तामिति ॥ य अन्यो पुरुषः एवमेवाध्यात्मवित् उक्तप्रकारेणाध्यात्मज्ञानवान् सोऽपि ब्रह्म प्राप्त भवतीत्यर्थः ।। २.३.१८ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

एवं ब्रह्मविद्यां प्राप्य नाचिकेतः किमभूदित्यतो वेदपुरुषो वक्ति- मृत्युप्रोक्तामिति ॥ कृत्स्नं योगविधिं च प्रत्याहारादिभगवज्ज्ञानोपायविधिं च लब्ध्वा अनुष्ठाय विरजो निष्पापस्सन् ब्रह्म प्राप्तो भवति प्राप्नोति । विमृत्युरपगतमृत्युः अमृतोऽभूत् । अन्योऽपि योऽध्यात्मं वित् सोऽप्येवमेव भवत्येवेति ।।२.३.१८।।

निर्दोषगुणपूर्णाय दोषदुराय विष्णवे ।

नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ।।

इति श्रीकाठकार्थानां सङ्ग्रहो कारि यन्मया ।

राघवेन्द्रेण यतिना प्रीयतां तेन केशवः ॥

॥ इति श्रीराघवेन्द्रयतिकृतकाठकोपनिषत्खण्डार्थः सम्पूर्णः ॥