अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यम- गन्धवच्च यत्
श्रात्राद्यविषयत्वात् भगवज्ज्ञानस्य दुष्प्राप्यत्वम्
उपनिषत्
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यम- गन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ।। १.३.१५ ।।
भाष्यम्
स्वभार्यायाः परत्वं सिद्धमिति महतः परमित्येवोक्तम् ।। १.३.१५ ।।
।। इति काठकभाष्ये प्रथमाध्यायस्य तृतीया वल्ली ॥
श्रीव्यासतीर्थ:
व्या- दुर्गमत्वं ब्रह्मणः कथमित्यतः शब्दाद्यनात्मकत्वेन श्रोत्राद्य- विषयत्वादित्याह- अशब्दमिति । संसारनिवृत्तिसाधनं तज्ज्ञानं केन साधनीयमित्यत आह- अनादीति ॥ श्रोत्राद्यगोचरमपि महतः परत्वादिरूपेण शास्त्रतो निचाय्य ज्ञात्वा मृत्युमुखात्प्रमुच्यते ।। १.३.१५ ।।
व्या.भा- अनाद्यनन्तमव्यक्तात्परमिति वक्तव्ये महतः परमित्युक्तेः कारणमाह- स्वेति ॥
वामनपण्डिताचार्य:
अप्राकृतरूपत्वादेव प्राकृतेन्द्रियैरगम्यं तद् भवति । तथाऽपि भक्तिपूर्वकसेवया प्रसन्नः प्रकाशते । तज्ज्ञानेन जीवस्य न किञ्चित् प्रयोजनमित्याशङ्कयाह– अनाद्यनन्तमिति ॥ अत्र परमपुरुषस्य विष्णोः अव्यक्ताभिधाया रमायाः परत्वं स्वतः सिद्धमिति महतः परमित्येतावदेवोक्तम् । नतु मुख्यतस्तदभावात् ।। १.३.१५ ।।
श्रीवेदेशतीर्थ:
"अनाद्यनन्तं महतः परम्" इति वाक्येऽव्यक्तमेव प्रतिपाद्यते । महत्परत्वलिङ्गात् । ‘“महान्तं च समावृत्य प्रधानं समवस्थितम्” इति वचनात् । ‘“महतः परमव्यक्तम्" इति अव्यक्तस्यैव महतः परत्वेन प्रकृतत्वाच्चेति कश्चित् । तदसत् । तस्य मोक्षार्थं ज्ञेयत्वानुपपत्तेः । “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इति वचनात् । अस्य विष्णुप्रकरणत्वाच्च । अत्रोक्तरीत्या पितृसौमनस्यस्वर्ग्यानिपरमात्मनां त्रयाणामेव प्रश्नेन तत्स्व - तस्मात्प्राज्ञः परमात्मा हि रूपस्यैवोपन्यासादव्यक्तकथनस्यासङ्गतत्वाच्च तत्रोच्यते । नच महतः परत्वलिङ्गानुपपत्तिः । “महतो महीयान्” इति श्रुतेः । सर्वस्मात्परस्य महत्परत्वस्याप्युक्तत्वात् तर्ह्यव्यक्तपरत्वेन प्रकृते परमात्मनि विशिष्य महतः परत्वं कथमुच्यते । तथोक्तौ विशेषकारणाभावादित्यत आह- स्वभार्याया इति ॥ १.३.१५ ॥
श्रीवेदेशतीर्थ खण्डार्थ:
कुतः शब्दाद्यनात्मकत्वेन श्रोत्राद्यविषयत्वादित्याह- अशब्दमिति ॥ यद्वा दुर्गमत्वमुपपादयितुं तस्येतरवैलक्षण्यं वदन्नाचार्योपदेशेन भगवन्निश्चय एव मोक्षसाधनमित्याह- अशब्दमिति ॥ शब्दो न भवतीत्यशब्दमित्यादिना पञ्चतन्मात्रावैलक्षण्यमुच्यते । अगन्धमित्यपि ग्राह्यम् । अगन्धमित्यनेनोपलक्षणया पञ्चमहाभूतवैलक्षण्यम् । तत्र हेतुरव्ययमिति । यद्वा न विद्यते शब्दो यस्य तदशब्दमित्यादिना शब्दादिगुणशून्यत्वमुच्यते । अशब्दमिति शब्दाविषयत्वञ्च । यच्छब्दस्य तमित्युत्तरेणान्वयः । न विद्यते आदिरुत्पत्तिः पराधीनप्राप्त्यादिलक्षणा यस्य सोऽनादिः । न विद्यतेऽन्तः परिच्छेदो देशतः कालतो गुणतो वा यस्य सोऽनन्तः । अनादिश्चासावनन्तश्च अनाद्यनन्तः तं महतश्चतुर्मुखात्परं तं विष्णुं निचाय्याचार्योपदेशेन निश्चित्य मृत्युमुखात्प्रमुच्यते ।। १.३.१५ ॥
बरद- ‘“अनाद्यनन्तं महतः परं धृवम्" इत्यत्राव्यक्तादपि परत्वं भगवतो वक्तव्यं तत्किमिति नोक्तमित्यत आह- स्वभार्याया इति ।। १.३.१५ ।।
श्रीवरदतीर्थखण्डार्थ:
परमेश्वरप्राप्तिमार्गस्य दुर्गमत्वे कथं तज्ज्ञानेन मोक्षः स्यादित्यत आह- अशब्दमिति । शब्दो न भवतीत्यशब्दम् । एवमस्पर्शमरूप- मरसमित्यादावपि द्रष्टव्यम् । अनेन शब्दादिभ्यो भेद उक्तः । अथवा न विद्यन्ते शब्दस्पर्शरूपरसा यस्य तदशब्दा स्पर्शारूपारसशब्देनोच्यते- अगन्धवदिति ।। यद्गन्धसमवायि पृथिव्याख्यं वस्तु तन्न भवतीत्यर्थः । अनेन पञ्चभूतेभ्यो भेद उक्तः । तेषां शब्दादिगुणवत्वात् ॥ निचाय्येति ॥ शास्त्रमुखतो निश्चित्येत्यर्थः ।। १.३.१५ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
कुतो ब्रह्मणो दुर्गमत्वमित्यतः तस्य श्रोत्राद्यविषयत्वादित्याह- अशब्दमिति ॥ तद् ब्रह्म अशब्दं शब्दगुणहीनम्, इत्थमिति शब्दावेद्यं च । अत्याश्चर्यवस्तुत्वात् । अस्पर्शं स्पर्शगुणहीनम् । अत एव त्वग्विषयत्वहीनम् ।
अरूपमत एव चक्षुर्गोचरत्वहीनम् । भौतिकरूपराहित्यादेवाव्ययं नाशहीनम् । “रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ” ( ब्र. सू. २-२ -१५ ) इति सूत्रे भौतिकरूपादिमत एवानित्यत्वोक्तेः । तथाऽरसं रसगुणवर्जितं च, अत एव रसनेन्द्रियाविषयः । अगन्धवत् नित्यं गन्धवन्न । अत एव घ्राणाविषयश्च । बन्धनिवर्तकं तज्ज्ञानं केन मार्गेण भवतीत्यतो दुर्गं पथ इत्युक्तमाह- अनादीति ॥ अनाद्यनन्तं आद्यन्तवर्जितम् । महतो महत्तत्त्वाभिमानि- चतुर्मुखात् परम् । ध्रुवं शश्वदेकप्रकारं तं तारतम्यान्तगत्वेन प्रागुक्तं पुरुषं निचाय्य विचार्य श्रवणादिभिर्निश्चित्य तदपरोक्षजप्रसादद्वारा मृत्युमुखात् संसृतिबन्धात् प्रकर्षेण मुच्यते । शब्दाद्यवेद्योऽपि भगवान् सदाचार्यसहाय- लब्धश्रवणमननध्यानावृत्त्या प्रसन्नः स्वापरोक्षं दत्त्वा बन्धान्मोचयतीति भावः तदाह सूत्रकारः ‘“प्रकाशश्च कर्मण्यभ्यासात् " ( ब्र.सू. ३.२.२६) इति । अत्र महतः परादव्यक्तात् परमिति वक्तव्येऽप्यव्यक्ताभिमानिन्याः स्वभार्यायाः श्रियःपरत्वं सिद्धमिति महतः परमित्येवोक्तम् । तेन महत्परत्वलिङ्गादव्यक्त- मेवात्र निचाय्यवाक्येन कथ्यत इति प्रत्युक्तम् । तदाह सूत्रे " वदतीति चेन्न प्राज्ञो हि' (ब्र.सू. २.४.५) इति ।। १.३.१५ ।।