ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै

ब्रह्मवल्ली

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥

ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्त्सह । ब्रह्मणा विपश्चितेति ॥ २ ॥

स्वयोग्यं ब्रह्मवित् भुङ्क्ते विरिञ्चेन परेण च ।

ब्रह्मणा सह तद्वश्यः सुखमेव न दुष्कृतम् ॥ इति च ॥ २ ॥

तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥ ३ ॥

स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा ॥ ४ ॥

तदप्येष श्लोको भवति । अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीग्ग् श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ॥ ५ ॥

स एष भगवान् विष्णुर्भूतस्रष्टा गुणाधिकः ।

स एवान्नात् पुनर्जातो ह्यजातोऽपि यतो विभुः ॥

अन्नात्मनि शरीरेऽसौ व्यज्यते सुविवेकिभिः ।

अन्नस्य सारभूतोऽयं शरीरस्य च केशवः ॥

अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः ।

अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः ॥

उपजीव्यश्च भूतानामिति चान्नं जनार्दनः ।

स ज्यायान् सर्वभूतेभ्यस्तस्मात् सर्वौषधं स्मृतः ॥

संसारे दह्यमानानामाश्रयत्वात् स औषधम् ।

प्रचुरं मय इत्युक्तं प्रचुरात्ता यतो हरिः॥

प्रचुरैस्सेव्यते नित्यमतोऽन्नमय ईरितः ।

देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम् ॥

बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनौ तथा ॥

पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः ॥ ५ ॥

तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा ॥ ६ ॥

तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग् दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ॥ ८ ॥

तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ९ ॥

.... तस्मिन् सङ्कर्षणः स्थितः ॥

शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम् ।

यजुःसंस्थं च बाहू तु ऋक्सामान्तःस्थितौ सदा ॥

ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः ।

पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः ॥

अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः ।

मनोवाचामगम्यं तं ज्ञात्वाऽऽनन्दस्वरूपिणम् ॥

कुतश्चिन्न बिभेत्येव ..

तस्माद्वा एतस्मात् मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ॥ १० ॥

तदप्येष श्लोको भवति । विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ११ ॥

....वासुदेवोऽन्तरस्ततः ॥ ९ ॥

श्रद्धाख्यं श्रुतिधर्तृत्वाच्छ्रद्धायां तच्छिरः स्मृतम् ।

ऋतं ज्ञानततेर्दाता चर्तस्थो दक्षिणः करः ॥

वामः सत्यस्थितः सत्यं सतां यस्मान्नियामकः ।

योगाख्यं सर्वलोकस्य योगादत्रैव योगगम् ॥

मध्यं पुच्छं महोनाम महनीयत्वतस्सदा ॥ ११ ॥

तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योऽन्तर आत्माऽऽ नन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥

तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ १२ ॥

तस्मिन्नानन्दरूपोऽसौ स्थितो नारायणस्सदा ।

शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम् ।

मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात् ॥

मोदप्रमोदनामानावानन्दस्त्वाततत्वतः ।

मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥

पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा ।

अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः ॥

देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः ।

बहिःस्थो देहवद्विष्णुरन्तस्थो देहिवत् स्मृतः ॥

अन्तर्व्याप्तिविशेषेण न त्वशक्तत्वतो बहिः ।

सर्वेऽपि पुरुषाकाराः उत्तरात् पूर्वसम्भवाः ॥

उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः ।

अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता ॥

आनन्दश्च यतः पूर्णस्ततोऽन्नादिमयास्स्मृताः ।

अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि ॥

नामभेदस्ततस्तूक्तः सर्वनामवतामपि ।

पञ्चरूपं च तद् ब्रह्म जीवादन्यन्न विद्यते ॥

इति ये तु विजानन्ति तेऽसन्तस्तमआलयाः ।

जीवादन्यत् परं ब्रह्म पञ्चरूपं च ये विदुः ॥

सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम् ॥ १२ ॥

अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित् समश्नुता३ उ ॥ १३ ॥

इत्युक्ते ब्रह्मणा पूर्वं पप्रच्छवरुणो विभुम् ।

अविद्वानपि यः कश्चिद् ब्रह्माप्नोति कथञ्चन ॥

विद्वानेवोत तत्रापि सर्वे वाऽथैव केचन ।

यदि सर्वेऽथ तत्रापि सर्वे सम्यक् समाप्नुयुः ॥

केचिदेवोत सम्यक् तदसम्यगपरे जनाः ।

ज्ञानिनोऽपीति पृष्टः सन् ब्रह्मा प्राह चतुर्मुखः ॥

अज्ञा न प्राप्नुयुर्ब्रह्म प्राप्नुयुर्ज्ञानिनोऽखिलाः ।

तत्रापि सम्यक् प्राप्तिस्तु विरिञ्चस्यैव सर्वदा ॥

अन्येषां तारतम्येन प्राप्तिः सुखविशेषतः ।

इत्यभिप्रायवान् ब्रह्मा ह्युकारेण समासतः ॥

उक्त्वा प्रश्नोत्तरं पश्चाद्विस्तरेण जगाद ह ।

कश्चिदेवोत सम्यक् तदाप्नुयादिति वाक्यतः ॥

अनन्तरं तथैवेति ब्रह्मोङ्कारमुवाच ह ॥ १३ ॥

सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदग्ं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानु प्राविशत् । तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत् सत्यमित्याचक्षते ॥ १४ ॥

अज्ञो नैव तदाप्नोति ज्ञान्येवैतदवाप्नुते ।

इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु ॥

आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः ।

प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः ॥

अग्न्यादयोऽपि किमुत तदन्ये मुक्तिदस्ततः ।

स एवैकस्स विज्ञेयः पूर्णैश्वर्यादिरूपवान् ॥

इति तस्य महैश्वर्यमुच्यते स त्वकामयत् ।

सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु ॥

बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत् ।

स्यादित्यालोचनान्नान्यत् तपो विष्णोः कदाचन ॥

अवतारेष्वनुकृतिर्बाह्यवृत्या तपस्विनाम् ।

सृष्टिर्नाम स्वरूपात्तु बहिर्निष्क्रमणं स्मृतम् ॥

यद्यपीदं जगत्सर्वं स्वोदरस्थं महात्मनः ।

तथाऽप्येष द्वितीयेन रूपेण बहिराक्षिपेत् ॥

रूपान्तरेणाविशच्च जगत्सर्वं जनार्दनः ।

त्यच्चानिरुक्तं विज्ञानं तथा निलयनं महान् ॥

सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथाऽनृतम् ।

अविज्ञानं चानिलयनं प्रकृतिप्राणयोः परम् ॥

तद्गविष्णोस्तु सम्बन्धात् स्वतस्तन्नामको हरिः ।

ततो नियामकश्चेति त्यदानन्त्यादवाच्यतः ॥

अनिरुक्तं निलयनं सर्वाधारत्वतो हरिः ।

विज्ञानं सर्वविज्ञानात् सत्यं साधुस्वरूपतः ॥

अवसादसुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः ।

प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः ॥

अतः साधुस्वरूपः सन् सत्यनामाऽनृतादिकम् ।

नामानेन गतत्वादेर्यदिदं किञ्च भाषितम् ॥

सन्निरुक्तादिशब्देन तत् सर्वं साधुतैव हि ।

अवसादनादिहेतुत्वं साधुतैव हि सर्वशः ॥

असाधुताऽवसादादिस्तत्कर्तृत्वं हि भाषितम् ॥ १४ ॥

तदप्येष श्लोको भवति । असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानग्ग् स्वयमकुरुत । तस्मात् तत् सुकृतमुच्यत इति ॥ यद्वै तत् सुकृतम् । रसो वै सः । रसग्ग् ह्येवायं लब्ध्वाऽऽनन्दीभवति । को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति ॥ १५ ॥

अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः ।

स आसाद्यश्च सन्नामा वासुदेवोऽभवत् प्रभुः ॥

स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम् ।

तस्मात् तत् सुकृतं नाम स आनन्दो रसस्ततः ॥

आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्न चान्यथा ।

आदीप्तस्त्वेष भगवान् यद्यानन्दो भवेन्न च ॥

सामान्यचेष्टा धर्म्याश्च कस्य स्युस्तमृते प्रभुम् ।

सुखं लब्ध्वा हि कुरुते लोकचेष्टां जनार्दनः ॥

अल्पात् सुखादल्पकर्मा पूर्णानन्दाद्धि सर्वकृत् ।

न ह्यार्ताः कर्म कुर्वन्ति मुग्धाश्चैव विशेषतः ॥

तस्माद् यादृक् सुखं तादृक् कर्म पूर्णसुखत्वतः ।

सर्वकृत्त्वात् परो विष्णुराह तस्मात् सनातनी ॥

सुखं लब्ध्वा करोतीति च्छन्दोगानां श्रुतिः परा ।

अलब्ध्वा तु सुखं नैव करोतीत्यपि सादरम् ॥

तत् पूर्णानन्ददेवेन कारितः प्राणिति स्फुटम् ।

सर्वलोकः स एवैक आनन्दयति चाखिलम् ॥ १५ ॥

यदा ह्येवैष एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति । भीषास्माद् वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ॥ १६ ॥

तस्माददृश्ये जैवानां गुणानामप्यसङ्गतेः ।

अनात्म्येऽथ गुणानन्त्यादनिरुक्ते निराश्रयात् ॥

अनिलयनेऽभयत्वेन यदा ज्ञानेन तिष्ठति ।

तदाऽभयं हरिं गच्छेन्नैवाज्ञानी कथञ्चन ॥

यदैतस्मिन् परे विष्णावुदरं जीवगत्वतः ।

भेदं करोति तेनैव भयमस्य महद् भवेत् ॥

अ इत्युक्तः परो विष्णुरेभ्य उच्च स एव तु ।

त उदा जीवसङ्घाः स्युरुदरं तद्गतान्तरम् ॥

तदेव ब्रह्म भयकृद् विदुषोऽविदुषस्तथा ।

विदुषोऽल्पभयं कुर्याद् यावन्मुक्तिं व्रजत्यसौ ॥

अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा ।

तस्माद् वाय्वादयो देवा विद्वांसोऽपि विशेषतः ॥

भीताः स्वकर्म कुर्वन्ति विष्णोः प्रीत्यर्थमञ्जसा ।

अमन्वानस्य नुर्विष्णुः कुर्यान्नित्यं महद्भयम् ॥

तमआख्यमनुत्थानम् .... .... ॥ १६ ॥

सैषानन्दस्य मीमाग्ं सा भवति । युवा स्यात् साधु युवाऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १७ ॥

..... विदुषां नियमेन तु ।

स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता ॥

यस्तु साधुगुणैर्युक्तस्तस्यैवाप्यखिला मही ।

त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः ॥

अधीतिफलपूर्णत्वादाध्यायक इतीरितः ।

स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः ॥

एकानन्दस्वरूपोऽसौ मानुषो मुक्त इष्यते ।

तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः ॥

मुक्ताः श्रुतिफलं प्राप्तास्ततः कामाहतास्तथा ॥ १७ ॥

ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १८ ॥

ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १९ ॥

ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २० ॥

ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानामानन्दः ॥

ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ॥२१॥

ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २२ ॥

ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २३ ॥

ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २४ ॥

ते ये शतं बृहस्पतेरानन्दाः ॥ स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २५ ॥

ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २६ ॥

तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।

ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च ॥

शताधिका हि पितरस्तेभ्य आजानदेवताः ।

अनाख्याता देवतास्तु जाता देवकुले च याः ॥

आजानदेवतास्ता हि ताभ्योऽग्र्याः कर्मदेवताः ।

बल्याद्या अन्तराप्राप्तदेवताः कर्मदेवताः ॥

ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः ।

तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रारयत् पुरा ॥

तस्मात् बृहस्पतिर्नाम महेन्द्रत्वात् पुरन्दरः ।

तस्मात् प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता ॥

तस्माद् ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः ।

यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलाधिके ॥

सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिलाः ।

अथवा सहस्रगुणिता अनन्तगुणितास्तथा ॥

परिमाणे शतगुणेऽप्यानन्दस्फुटतावशात् ।

यथा दीपाच्छतगुणाऽप्यग्निज्वाला न दीपवत् ॥

स्फुटीभवेद् यथैवाग्निर्बहुलोऽपि न सूर्यवत् ।

यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ॥

उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः ।

प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः ॥

अतोऽस्पष्टस्वरूपास्ते स्फुटरूपास्तथोत्तराः ॥ १८-२६ ॥

स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति ॥ २७ ॥

तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति ॥ एतग्ं ह वाव न तपति । किमहग्ं साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानग्ग् स्पृणुते । उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ २८ ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ इति ब्रह्मवल्ली ॥ २ ॥

॥ इति द्वितीया ब्रह्मवल्ली समाप्ता ॥ २ ॥

यत्प्रसादात् स्वरूपाप्तिर्ब्रह्मादीनां समन्ततः ।

स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः ।

एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः ॥

सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान् ।

जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम् ॥

विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन ।

प्रियाप्रियेषु तज्ज्ञानी ह्यास्तृणोति यतो नृषु ॥

अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम् ।

ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति ॥

इत्यादि यजुःसंहितायाम् ।

न च सह ब्रह्मणा इत्यादेरन्योऽर्थः कल्प्यः । अप्रामाणिकत्वात् । अनाश्वासाच्च । न चौषधीभ्योऽन्नमन्नरसमय इत्यत्रोभयार्थत्वेन विरोधः । अन्नस्यान्नम् मध्यमः प्राणः प्राणः स्थूणा इत्यादिवद् विशेषितत्वादुपपत्तेः ।

न चान्नमयदीनामब्रह्मत्वे किञ्चिन्मानम् । येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते आनन्दं ब्रह्मणो विद्वान् विज्ञानं ब्रह्म चेद् वेद अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम् इत्यादिना ब्रह्मशब्देनोक्तत्वाच्च । न च लौकिकान्नस्यात्तृत्वमस्ति । येऽन्यथा विदुस्तेऽन्यराजानस्ते क्षय्यलोका भवन्ति इति श्रुतेरविद्यमानोपासनाद् दोषावगतेश्च ।

न च रमन्त्यहो असदुपासनयाऽऽत्महनः इति च भागवते ।

नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः ।

अविद्यमानं ध्यायन्तो यान्ति सर्वेऽधरं तमः ॥

तस्मात् सत्यार्थतां ब्रूयात् वेदानामपि सर्वशः ।

य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत् ॥

इति वेदार्थविवेके ।

स यश्चायं पुरुषे यश्चासावादित्ये इत्यधिकरणत्वेन भेद एव जीवस्य परमादुक्तः । एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते एतमानन्दमयमात्मानमुपसङ्क्रामति सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता एतमानन्दमयमात्मानमुसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् इत्यादिना मुक्तस्यापि भेद एवाभ्यस्यते । अथ सोऽभयं गतो भवति इति मुक्तिप्रस्तावात् । सैषानन्दस्य मीमांसा इति मुक्तानन्दो मीमांस्यते । श्रोत्रियस्य चाकामाहतस्येति सर्वत्र विशेषणाच्च । न ह्यमुक्तस्याकामहतत्वं मुख्यं भवति । न च मुख्या श्रोत्रियता ।

यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः ।

स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते ॥

यस्य कामास्तु सत्याः स्युस्सहि कामैर्न हन्यते ।

न ह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपि च ॥ इति ब्रह्माण्डे ।

.न च देवपदाकामस्य सकाशादिन्द्रपदाकामस्य शतगुणानन्दो दृश्यते सति च प्राजापत्यादिकामे । न च मानुषाः प्रायस्तदिच्छवः । चक्रवर्तिनस्तु युवशब्देनैव मुक्तत्वमुक्तम् । तस्मान्मुक्तविषयेयं मीमांसा । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः इत्यत्राप्यन्तःकरणस्थानामेव कामानां विमोक्ष उक्तः । न तु स्वरूपभूतानाम् । यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति इति मुक्तानामपि स्वरूपभूतः कामः प्रतीयते ।

कामाः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः ।

स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपकाः ॥ इति पाद्मे ।

सङ्कल्पादेव च तच्छ्रुतेः इति सूत्रम् । भेदव्यपदेशात् इति जीवेशयोर्भेदश्चोक्तो भगवता ।

न च भेददर्शनमसुकरम् । स्वरूपत्वात् भेदस्य । सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते । अन्यथाऽहं वा दृष्टोऽन्यो वा दृष्ट इत्यपि संशयः स्यात् । न च पश्चात् भेदो ज्ञायत इत्यत्र किञ्चिन्मानम् । न हि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः । न च सर्वतो व्यावृत्यनुभवे सर्वज्ञताऽपेक्षितेति दोषः । सामान्यतः सर्वस्य सर्वैरपि ज्ञातत्वात् । यावत्तु सर्वतो भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम् । न हि ज्ञाताद्वस्तुनोऽव्यावृत्तिः केनचित् शङ्क्यते । यदा तु संशीयते तदापि कुतश्चिद् व्यावृत्तमेव ज्ञायते । न हि सर्वमिदं भवति वा न वेति कस्यचित् संशयः । अतो व्यावृत्तिरेव स्वरूपम् । अस्य भेद इति विशेष्यत्वमस्य स्वरूपमितिवत् । यथाऽस्तीति वर्तमानः कालो वस्तुना सहैवानुभूयते एवमन्यस्मात् व्यावृत्तमित्यत्रान्यदपि सामान्यतः सहैवानुभूयते । न ह्यस्तीति वर्तमानकालापेक्षयानुभूयत इत्येतावता विद्यमानता नाम वस्तुनोऽन्या । सदित्यपि शत्रन्तत्वात् कालसम्बन्ध्येवाऽनुभूयते तिष्ठन्नितिवत् । एवमन्यस्मात् व्यावृत्तमित्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत् । अस्माद् व्यावृत्तिरन्यस्य स्वरूपमन्यस्माद् व्यावृत्तिरस्य स्वरूपमिति नैकस्वरूपता । ज्ञानानन्दादिवत् स्वरूपत्वेऽपि व्यवहारविशेषो भवति । न च स्वरूपत्वेन भेदस्याभावो भवति । ज्ञानान्दादिवदेव । अन्यप्रतियोगिकत्वाद् भेदस्य न स्वस्मादपि भवति ।

भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् ।

नष्टानामपि वस्तूनां भेदो नैव विनश्यति ॥

अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा ।

विशेषरूपनाशेन भेदमात्रावसायिता ॥

नाश इत्युच्यते सद्भिर्भेदो न हि विनश्यति ।

इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः ॥

सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः ।

तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित् ॥

अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः ।

एवम्भावादभावस्य न भेदो भावरूपवान् ॥

अभावाद् भावरूपस्य स्वरूपं भाव इष्यते ।

नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः ॥

स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्यचित् ।

सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते ॥

तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते ।

प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम् ॥

न ह्यभावोऽप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक् ।

अभावस्यास्तिता नाम स्यादेवाभावरूपिणी ॥

अभावतापि सैव स्यान्न तु स्याद् भावरूपिणी ।

अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः ॥

येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः ॥

इति तत्त्वनिर्णये ॥