तस्माद्वा एतस्मात् प्राणमयात्

मनोमयप्रकरणम्

तैत्तिरीयोपनिषत्

तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग् दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ॥ ८ ॥

तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ९ ॥

भाष्यम्

'शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम् । यजुस्संस्थं च बाहू तु ऋक्सामान्तः स्थितौ सदा ॥'

ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः । पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः ॥' 'अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः । मनोवाचामगम्यं तं ज्ञात्वाऽनन्दस्वरूपिणम् ॥
कुतश्चिन्न बिभेत्येव वासुदेवोऽन्तरस्ततः ।। ' ८-९ ।।

भाष्यप्रकाशिका

ज्ञानपदोक्तसर्वज्ञत्वलक्षणं सामान्यतः सर्वज्ञत्वं, विशिष्य सर्वज्ञत्वमिति द्वेधा प्रपञ्चयितुं क्रमेण प्रकरणद्वयं प्रवृत्तम् । तत्र मनोमयप्रकरणस्य सङ्कर्षणः, उत्तरस्य वासुदेवः प्रतिपाद्य इति विवेक: । सामान्यत: सर्वज्ञत्वं नामा- नन्तानन्तपदार्थेषु ब्राह्मणत्वक्षत्रियत्ववैश्यत्वशूद्रत्वब्रह्मचारित्वगृहस्थत्व-
वानप्रस्थत्वयतित्वदेवत्वमनुजत्वराक्षसत्वपिशाचत्वादिभेदेन पशुत्व - गोत्वमृगत्वरासभत्वादिभेदेन श्येनत्वकाकत्वकोकिलत्वादिभेदेन यान्यनन्तानि चेतननिष्ठसामान्यानि घटत्वपटत्वपृथिवीत्वाप्त्वपर्वतत्वादिभेदेनानन्तजडनिष्ठा ये सामान्यधर्मास्तेषां सर्वेषां विविच्य वेत्तृताख्यं सामान्यतः सर्वज्ञत्वमपि भगवत्यसाधारणत्वाद्भगवल्लक्षणम् । अतः प्रमेयत्वेन सार्वज्ञ्यमस्मदादीना- मप्यस्तीति कुचोद्यं गर्भस्रावेणैव गतम् । अत एव हि -
'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणाः ।।'
इति समग्र सामान्यज्ञानस्य भगवदसाधारणभाग्यत्वोक्तिः । अस्य मनोमयस्य शिरः ज्ञानजनकयजुर्वेदनियामकं सत् यज्ञधारकत्वादिज्यत्वाद्यजुर्नामकं यजुर्वेदमूलमुख्यप्राणान्तः स्थितप्राणनामकप्राणमयशिरोऽन्तस्तिष्ठति । एवमन्यत्राऽपि ।ऋक् पूजायाम्' इति धातोः पूजास्वीकारात् ऋनामकः ऋगन्तर्नियामक: मनोमयस्य दक्षिणकरः व्याननामकप्राणमयदक्षिण- करान्तस्तिष्ठति । दोषादुद्धृत्य सतां समाकर्षणात् सामनामा सामान्तर्यामी मनोमयस्य वामकरः । प्राणमयस्यापानान्तर्गतापाननामककरान्तस्तिष्ठ- तीति । आसमन्ताद्देशो यस्येति व्युत्पत्त्या विस्तृतत्वादादेशनामा सन्नादेशाख्यपञ्चरात्रान्तर्गतो मनोमयस्य मध्यदेहः आ समन्तात्काश- नादाकाशनामके मध्ये तिष्ठति । 'तृतीयोऽतिशये' इति वचनात्सर्वस्मादधो विद्यमानः अङ्गिनां रसभूतश्च पुच्छं प्रतिष्ठा मनोमयस्य पादः पृथक्त्वात् पृथ्वीनामकप्राणमयपादान्तस्तिष्ठति । पुच्छपदस्य नित्यनपुंसकत्वात् रसपदस्य नित्यपुंलिङ्गत्वात् स्त्रीलिङ्गप्रतिष्ठापदविशेषणत्वं ज्ञेयम् । मनोवाचामगोचराs- नन्दस्वरूपसंकर्षणप्रतिपादकत्वाच्छ्लोकश्लोकिनोरैकार्थ्यं ज्ञेयम् ॥ ८-९ ॥

पदार्थदीपिका

'तस्य यजुरेव शिरः' इत्यादौ मनोमयनामसङ्कर्षणाख्यभगवच्छिर आदेर्यजुराद्यभेदप्रतीतिवारणाय यजुरादिशब्दान्मनोमयनामकभगवच्छिर आदौ योगरूढिभ्यां व्याख्याति - शिरस्तस्येत्यादिना । तस्य मनोमयनामकस्य सङ्कर्षणस्य । यज्ञानां हरणात् यज्ञसम्बन्धिभागस्वीकारादित्यर्थः ।यजुःसंस्थं च' इत्यादिना तत्र तत्र स्थितत्वोक्त्या रूढिरुक्तेति ज्ञातव्यम् । यजुर्वेदादौ प्रतिपाद्यतया स्थितमित्यर्थः । 'अर्चनायाः' पूजायाः । ' दोषात् ' दोष - वत्त्वेन । सर्वाभक्तस्वरूपस्यसमीकृतेः' साम्यकरणादित्यर्थः । यद्वा दोषात् इति ल्यब्लोपनिमित्ता पञ्चमी । दोषपरिहारं विधाय निर्दोषत्वेनेति यावत् । सर्वभक्तस्वरूपस्य साम्यकरणादित्यर्थः । 'दोषाच्छमीकृते:' इति कचित् पाठः । तत्र भक्तानां दोषात् शान्तिकरणात् परिहारकरणादित्यर्थो द्रष्टव्यः । 'आदेश आत्मा' इत्यस्यार्थः पञ्चरात्रगतं पञ्चरात्रप्रतिपाद्यं मध्यं मध्याङ्गं आदेशाख्यमिति पञ्चरात्रे आदेशशब्दं निर्वक्ति - सुविस्तृतेरिति ॥ बुध्या विवेकेन पञ्चरात्रमित्यनुवर्तते । उपदेशरूपत्वादिति शेषः । तथा च भगवद्गुणसुविस्तृतेरुपदेशरूपत्वात् पञ्चरात्रमादेशाख्यमिति सम्बन्धः । यद्वा पञ्चरात्रगतमिति आदेशशब्दस्य रूढिमुक्त्वा 'सुविस्तृतेः' इत्यन्तं विस्तृतत्वादादेशाख्यमिति यो प्रदर्शनपरत्वेन व्याख्येयम् । अथर्वाङ्गिरस - स्थितत्वादथर्वाख्यमथर्वाङ्गिरसशब्दवाच्यमित्यर्थः । ऋषिद्वयदृष्ट भाग- द्वयोपेतोऽथर्वणवेद एवाथर्वाङ्गिरसशब्देनोच्यत इति सम्प्रदायविदः । 'अधरं च' इत्यत्र च शब्दात् वर्तयतीत्यस्याऽङ्गिरस इत्यस्य सङ्ग्रहः । तथाचाधरं पातालादिस्थं प्राणिजातं वर्तयतीत्यथर्वाख्यमित्यर्थः । धकारस्य थकारो निर्बंचनादित्यवगन्तव्यम् । अङ्गिनां प्रधानानां देवानां सकाशात्रसः सारो वरः' इति हेतोरङ्गिरस इत्यर्थः ।यतो वाचो निवर्तन्ते' इत्यादेस्तात्पर्यम्- मनोवाचामगम्यं तं इति ।। साकल्येनेति शेषः ।आनन्दं ब्रह्मणो विद्वान्' इत्यत्र आनन्दं ब्रह्मण इत्युक्त्या प्राप्तभेदशङ्कां परिहरति- ज्ञात्वाऽनन्द- स्वरूपिणमिति || विशेषबलात्तथाव्यवहार इति भावः । 'न बिभेति कदाचन' इत्यस्यार्थः कुतश्चिदिति । 'तस्माद्वा एतस्मान्मनोमयात्' इति विज्ञानमय- प्रकरणं व्याचष्टे- वासुदेव इत्यादिना । ततोऽन्तरः । मनोमयनामके सङ्कर्षणे स्थितः । अनेन विज्ञानमयोऽपि कोश इत्यपास्तम् ।। ८-९ ।।

Load More