अन्नं भगवन्तं न परिचक्षीत

'अन्नं न परिचक्षीत' इत्यादिमन्त्रार्थविमर्शः

भाष्यम्

अन्नं भगवन्तं न परिचक्षीत । न निराकुर्यात् । तद्गुणांस्तत्कर्माणि वा कुत्रापि बहु कुर्वीत । बहुगुणत्वेन प्रतिपादयेत् भगवन्तम् । यया कया च विधया बह्वन्नं प्राप्नुयात् । अतिप्रयत्नेनापि विहितप्रकारेण बहुतरां भगवद्विद्यां प्राप्नुयात् । 'प्रजापतिः प्रथमजा ऋतस्यात्मनाऽऽत्मानमभिसम्बभूव ' ' प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव' इत्यादिना विरिश्वस्यैवैतद्गा- नम् । अन्यो न परिबभूवेति निषेधात् ।

पदार्थदीपिका

'अन्नं न परिचक्षीत' इत्यस्य प्रमाणेनाव्याख्यातत्वादन्यथाप्रतीति- निरासाय स्वयं व्याचष्टे-अन्नमिति । निराकरणं नामायोग्येषु उपदेश एव ।तन्न कुर्यादित्यर्थः । एवमव्याख्याने 'अन्नं न निन्द्यात्' इत्यनेन पौनरुक्त्यापत्तेरिति ज्ञातव्यम् ।अन्नं बहु कुर्वीत' इत्येतत् 'बहुमन्येत तं सदा' इति प्रमाणेन व्याख्यातमपि तात्पर्याप्रतीतेः स्वयं स्पष्टं व्याकुर्वन्नेव तात्पर्यमाह- तद्गुणानिति || ' कुत्रापि ' यत्र कुत्रापि सत्सभायाम् । बहुगुणत्वेनेत्युपलक्षणम् । बहुकर्मत्वेनेत्यपि द्रष्टव्यम् । 'तस्माद्यया कया च विधया' इत्येतत् न्यायेन वा अन्यायेन वा बह्वन्नं प्राप्नुयादित्यन्यथा- प्रतीतिनिरासाय 'येन केनापि विधिना बह्नित्येव जनार्दनम् । मत्वैव प्राप्नुयान्नित्यम्' इति प्रमाणेन व्याख्यातम् । इदानीं तदनूद्य स्वयं प्रकारान्तरेण व्याख्याति - यया कया चेति । यया कया च विधयेत्यत्र चशब्दोऽप्यर्थं इत्यभिप्रेत्य विहितप्रकारेणापीत्युक्तम् । तस्यैव विवरणमतिप्रयत्नेनापी- त्यर्थः । गुर्वादिसेवारूपातिप्रयत्नेनापीत्यर्थः । बह्नित्यस्यार्थो बहुतरामिति । अन्नमित्यस्य तात्पर्यं भगवद्विद्यामिति । ' अहमस्मि प्रथमजा ऋतस्य' ‘अन्नमदन्तमाद्मि’ ‘अहं विश्वं भुवनमभ्यभवाम्' इति वाक्यत्रयं मुक्तविरिञ्चिपरतया प्रमाणेन व्याख्यातम् । तत् तदा युक्तं स्यात् यदि ब्रह्मणः प्रथमजातत्वमन्नादातृत्वं विश्वोत्तमत्वं च सिद्धं स्यात् तदेव कुत इत्यतस्तत्र प्रमाणमाह- प्रजापतिरिति । प्रजापतिश्चतुर्मुखः ऋतस्य यथार्थज्ञानरूपस्य विष्णोः प्रथमजाः प्रथमपुत्र इत्यर्थः । आत्मशब्दस्य ' यच्चात्ति विषयानिह । तस्मादात्मेति भण्यते' इति वचनेन 'अद भक्षणे' इति धातुनिष्पन्नतया आत्मानं अन्नादिविषयात्तारं जीवजातम् । अभि प्रति आत्मना स्वेच्छया सम्बभूव अदनायेति शेषः । सम्यक् स्थितो बभूव । अभक्षयदिति यावदि- त्यर्थः । यद्वाधात्वर्थं बाधते कश्चित्कश्चित्तमनुवर्तत' इति वचनेनोपसर्गाणां धात्वर्थबाधकताया उक्तत्वादभीत्युपसर्गबलेन भू धातुरेवादनार्थः तथा चाभि- सम्बभूव अभक्षयदित्यर्थः । परिता बभूवेत्यत्र परि ता इति पदच्छेदः । हे प्रजापते भवान् एतानि प्रत्यक्षसिद्धानि तानि परोक्षाणि अतीन्द्रियाणीति यावत् । जातानि उत्पत्तिमन्ति विश्वा विश्वानि सर्ववस्तूनि परिबभूव परितो भूतवान् वशीकृतवान् । तत्स्वामित्वेन वर्तते तदुत्तम इति यावत् । त्वत् त्वत्तोऽन्यस्तु न परि बभूव तदुत्तमो न भवतीत्यर्थः । छन्दसि परेsपि व्यवहिताश्चेति वचनात्परीत्युपसर्गस्य ता इत्यनेन व्यवधानं न दोषायेति ज्ञेयम् । इत्यादिना वाक्येन एतद्गानं अहमस्मि प्रथमजा इत्यादिगानं विरिञ्चस्यैव । तत्कर्तृकमेवेत्यवसीयत इति शेषः । आदिपदेन 'यो ब्रह्माणं विदधाति पूर्वम्' (श्वेता. ६.१८) इत्यादिवाक्यग्रहणम् । ननु 'अहं विश्वं भुवन्नमभ्यभवाम्' इत्युक्तं विश्वस्वामित्वं विरिवस्यैव कुतः । अन्यस्यापि किन्नस्यादित्यत आह- अन्य इति । इत्येवं प्रजापतिशब्दोक्तविरिञ्चान्यस्य विश्वस्वामित्वनिषेधात् युक्तमवधारणमित्यर्थः ।

Load More