पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे । अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः
भाष्यम्
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे । अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः ॥
।। इति तैत्तिरीयोपनिषद्भाष्ये भृगुवल्ली सम्पूर्णा ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तैत्तिरीयोपनिषद्भाष्यं सम्पूर्णम् ॥
पदार्थदीपिका
परमात्मस्तवनमननाभ्यामेव ग्रन्थस्समापनीयो न तु स्वस्तुत्यैवेति भावेन पुनः भगवन्तं प्रणमति भगवानाचार्य:- पूर्णेति । पूर्णाः प्रत्येकं निरव- धिकाः। ‘तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते' इति वचनात् । पूर्णा- गण्यगुणैः उदारं उत्कृष्टं धाम स्वरूपं यस्यासौ तथोक्तस्तस्मै वेधसे सर्वज्ञायेत्यशेषमतिमङ्गलम् ॥
यः सर्ववेदान् सम्प्रेर्य कारयामास सत्कृतिम् । श्रीपतिं तं गुरूपास्यं भजेऽहं बादरायणम् ॥ श्रीमदानन्दतीर्थार्यहृत्सरोजाख्यमन्दिरः । इन्दिराराध्यपादाब्जः प्रीयतां बादरायणः ।।
श्रीमदानन्दतीर्थार्यचरणावाश्रयेऽनिशम् । रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सताम् ।। वेदेशमुनिसम्प्रोक्तसम्प्रदायप्रवर्तकाः
ये यादवाचार्यगुरवस्तान् भजामो निरन्तरम् ॥ श्रीमदानन्दतीर्थीयाः क वाचो 'देवदुर्गमाः । क्वाहमल्पमतिर्व्यासानुग्रहः किं न साधयेत् ॥ तैत्तिरीयोपनिषदो यद्भाष्यं विवृतं मया । तज्जन्यपुण्यमखिलमवाप्नोतु गुरुर्मम ॥ यादवार्यगुरोः शिष्यश्रीनिवासाख्यसूरिणा । कृतेयं भाष्यविवृविर्भूयाद् व्याख्योपकारिणी ॥ तैत्तिरीयोपनिषदो भाष्यस्य विवृतिस्त्वियम् । पदार्थदीपिकाह्वा स्यात्सम्प्रीत्यै कृष्णमध्वयोः ॥ वेदेशतीर्थीयसुपादभक्तश्रीयादवाचार्यगुरूपदिष्टः ।
अर्थो निबद्धोऽत्रविचार्य सद्भिरायैरुपेक्ष्यो न भवेदतोऽयम् ।।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य तैत्तिरीयोपनिषद्भाष्यस्य टीकायां श्रीनिवासतीर्थविरचितायां पदार्थदीपिकायां भृगुवल्ली सम्पूर्णा ॥