अथातोऽनुप्रश्नाः
ज्ञानिनोऽखिलाः ब्रह्म प्राप्नुयुः
तैत्तिरीयोपनिषत्
अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित् समश्नुता३ उ ॥ १३ ॥
भाष्यम्
'इत्युक्ते ब्रह्मणा पूर्वं पप्रच्छ वरुणो विभुम् । अविद्वानपि यः कश्चित् ब्रह्माऽप्रोति कथञ्चन ॥ विद्वानेवोत तत्रापि सर्वे वाऽथैव केचन । यदि सर्वेऽथ तत्रापि सर्वे सम्यक् समाप्नुयुः ॥ केचिदेवोत सम्यक् तदसम्यगपरे जनाः । ज्ञानिनोऽपीति पृष्टः सन् ब्रह्मा प्राह चतुर्मुखः ॥
अज्ञान प्राप्नुयुर्ब्रह्म प्राप्नुयुर्ज्ञानिनोऽखिलाः । तत्रापि सम्यक् प्राप्तिस्तु विरिश्वस्यैव सर्वदा ॥ अन्येषां तारतम्येन प्राप्तिस्सुखविशेषतः । इत्यभिप्रायवान् ब्रह्मा ह्युकारेण समासतः ॥ उक्त्वा प्रश्नोत्तरं पश्चाद् बिस्तरेण जगाद ह । कश्चिदेवोत सम्यक् तदाप्नुयादिति वाक्यतः ॥ अनन्तरं तथैवेति ब्रह्मोकारमुवाच ह ॥ १३ ॥
भाष्यप्रकाशिका
अथ पञ्चविधरूपप्रतिपादनानन्तरम् । अतः अस्मिन्नर्थे । पञ्चविध- रूपज्ञानात् मुक्तिर्भवतीत्यर्थे इति यावत् । अनु नानामतान्यनुसृत्य श्रोतुः प्रश्ना भवन्ति । इत्थमुक्तप्रकारेणाविद्वान् प्रेत्य कश्चन अमुं लोकं गच्छति, आहो आहोस्वित् प्रेत्यामुं लोकं विद्वानेव गच्छतीत्येकः प्रश्नः । उत विद्वानेक एव गच्छति आहोस्वित् सर्वे गच्छन्तीति द्वितीयः प्रश्नः । गतेषु विद्वत्सु सर्वेऽपि समश्नुवन्ति सम्यक् सुखमश्नुवन्ति उत कश्चित्समश्नुते सम्यक्सुखमश्नुत इति तृतीयः प्रश्नः । एतेषां सर्वेषामपि प्रश्नानाम् उ तथैव भवतीत्यर्थकोकारेण ब्रह्मा एकमेवोत्तरमाह । अत्रायं विवेकः । अविद्वानपि गच्छतीति प्रथमोक्तां कोटिं त्यक्त्वा विद्वान् गच्छतीति द्वितीयकोटिस्त्वयैव गृहीता । अतस्त्वया त्यक्तकोटि : मयाऽपि त्यक्ता । त्वयाऽङ्गीकृता या कोटि: त्वयोक्ता सैव मयाऽप्यङ्गीकृतेति पुनरुकारेणैवोत्तरमाह । तृतीयप्रश्रेऽपि सम्यगश्नुवन्तीति कोटिमुपेक्ष्य 'कश्चित्समश्रुते' इति या कोटिस्त्वयाऽङ्गीकृता सा मयाऽङ्गीकृतेति पुनश्चोकारेणैवोत्तरमाह । तथा च त्रयस्याप्येकेनै- बोकारेणोत्तरमभूदिति । एवं चैकेनैबोकारेणोत्तरं वदन् ब्रह्मा न केवलं चतुराननः किं तु महाचतुरतरप्रवचनकौशलवानपीति युक्तमुत्पश्यामः || १३ ॥
पदार्थदीपिका
अथ भाष्यार्थः ॥ ननु 'अथातोऽनु प्रश्ना' इत्यत्र केन कं प्रतिकृताः प्रश्नाः कथ्यन्त इति न प्रतीयते । किञ्च एतेषां प्रश्नानां बीजमित्यतः प्रमाणेनैव तद्दर्शयति - इत्युक्त इति ।। पूर्वं ब्रह्मणा चतुर्मुखेन वरुणं प्रति ब्रह्मविदाप्नोति परम्' इत्युक्ते सति वरुणो विभुं प्रश्नानां प्रतिवचनदाने समर्थं ब्रह्माणं प्रति पप्रच्छेत्यर्थः । प्रश्नबीजसद्भाववाच्यतः शब्दाभिप्राय इत्युक्त इत्यनेनेोक्त इत्यवगन्तव्यम् । उताविद्वानित्यादिकं व्याचष्टे - अविद्वानपीति । ननु ‘ब्रह्मवित् परमाप्नोति' इति ज्ञानिनः परब्रह्मप्राप्तेरुक्तत्वेन उताविद्वानिति प्रश्न बीजाभावात् तत्कोटिप्रसक्तिरेव नास्तीति चेत् उच्यते । 'ब्रह्मविदाप्नोति परम्' इत्यत्र ब्रह्मविदेवेत्यवधारणाभावाद् ब्रह्मवेत्ता तदवेत्ताऽप्यानोति इत्यप्यर्थसम्भवमभिप्रेत्यायं प्रश्नः । अत एवाविद्वानपीति प्रमाणेsपिशब्दप्रयोग इत्यवगन्तव्यम् । अविद्वानित्याद्येकवचनं बहुवचनार्थे । ननु उताविद्वानाहो विद्वानिति द्विकोटिकोऽयमेकः प्रश्नः । कश्चित् समश्रुत इत्यपरः प्रश्न इत प्रश्नद्वयमेव प्रतीयते । अथातोऽनुप्रश्ना इति कथं बहवः प्रश्नाः प्रतिज्ञाताः । अन्त्यप्रश्ने च कोट्यन्तरं न प्रतीयते । अतोऽध्याहारेण द्वितीयं प्रश्नं तृतीय प्रश्ने कोट्यन्तरं च प्रमाणेनैव दर्शयति- उत तत्रापीत्यादिना || तत्रापि विद्वांस एव ब्रह्म प्राप्नुवन्तीति पक्षेऽपि । वचनव्यत्ययेन ब्रह्माप्नुवन्तीति वर्तते । यदि सर्वेऽपि विद्वांसो ब्रह्माप्नुवन्तीति पक्षः अथ तर्हि तत्रापि तस्मिन् पक्षेऽपीत्यर्थः। समाप्नुयुर्ब्रह्मेति वर्तते । तथा च मुक्तौ किं सर्वेऽपि समा इत्याशयः । अनेनोपनिषदि तृतीयप्रश्ने आद्या कोटिरभिप्रेता दर्शितति ज्ञातव्यम् । 'कश्चित् समश्रुता' इत्यस्यार्थमाह- केचिदेवेति || मुक्तब्रह्मगणविवक्षया केचिदिति बहुवचनम् । उत ‘केचिदेव’ ज्ञानिनो जनाः सम्यक् तद्ब्रह्म समाप्नुयुः अपरे ज्ञानिनोऽपि जना असम्यक् तदानुयुरिति तृतीयप्रश्ने द्वितीयकोटिप्रदर्शनं
कृतमित्यवगन्तव्यम् । ‘कश्चित् समश्रुते' इत्यनन्तरं अध्याहर्तव्यमाह - इति पृष्टःसन्निति ।। तत्र उ इति ब्रह्मकृतसमाधानाभिप्रायमाह - अज्ञा इत्या- दिना || ' तत्राज्ञान प्राप्नुयुर्ब्रह्म' इत्यनेन द्विकोटिकप्रश्नत्रयमध्ये आद्यप्रश्ने आद्यकोटिंरनभ्युपगमेनैव परास्ता । ' ज्ञानिनां मोक्षदश्च सः' (ब्र.सू. अनु. १.१.१, श्लो. १५) 'ज्ञानी प्रियतमोऽतः ' ' तमेवं विद्वान्' (म.ना.उ. ४.३) ‘तं विद्वानेव चामृत:' इत्यादिप्रमाणविरोधादिति भावः । तत्र द्वितीयामेव कोटिमङ्गीकरोति प्राप्नुयुर्ज्ञानिन इति ॥ द्वितीयप्र द्वितीयकोटिरसम्मतैव । ‘न कश्चिद् ब्रह्मवित् सृतिमनुभवति' । ‘अनियमः सर्वेषामविरोधात्' इत्यादि श्रुतिसूत्रविरुद्धत्वादित्यभिप्रेत्य तत्राद्यामेव कोटि- मङ्गीकरोति- अखिला इति ।। तृतीयप्रश्ने आद्यकोटिरसम्मतैव । ‘अक्षण्वन्तः कर्णवन्तः' इत्यादिप्रमाणविरोधेन सर्वेषां ज्ञानिनां मुक्तौ साम्येन सम्यग् - ब्रह्मप्राप्तेरभावादित्यभिप्रेत्य 'केचिदेवोत सम्यक्तदसम्यगपरे जनाः । ज्ञानि- नोऽपि' इत्युक्तद्वितीयकोटिमेवाङ्गीकरोति तत्रापीति । ब्रह्मप्राप्तेषु अखिले- ष्वपि ज्ञानिषु मध्य इत्यर्थः । ननु विरिवस्येव सम्यब्रह्मप्राप्तिर्भवति । अन्येषां तारतम्येन ब्रह्मप्राप्तिर्भवतीत्येतत् कुतः ? इत्यत आह- सुखविशेषत इति ।। विशेषो वैचित्र्यं मुक्तानां तावत्सुखे वैचित्र्यमस्ति ।
'तत्राप्यानन्दस्य विचित्रता ।
मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात् ।
तत्रापि तारतम्यं स्यात्तेषु ब्रह्माधिको मतः ।
विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता'
इत्यादि प्रमाणात् । न च तत् आकस्मिकम् ।
यतः साधनतारतम्याधीनं ब्रह्मप्राप्तितारतम्यमित्यङ्गीकार्यम् ।
अन्यथा तन्नस्यादिति भावः । ब्रह्मप्राप्तितारतम्यं च
‘केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ।
अत्रैव च स्थितिस्तेषामन्तरिक्षे च केचन ।
केचित्स्वर्गे महर्लोके जुने तपसि चापरे ।
केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ।
तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगाः ।
सालोक्यं च सरूपत्वं सामीप्यं योग एव च ।
इमामारभ्य सर्वत्र यावत्सु क्षीरसागरम् ।
पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ।' (ब्र.सू.भा. ४. ४. १९)
इति प्रमाणानुसारेण ज्ञातव्यम् । समासतः सङ्कोचतः - पश्चादिति । 'अज्ञा न प्राप्नुयुर्ब्रह्म' इत्येतद्विस्तरेण 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ' इत्यनेनोच्यते । ‘प्राप्नुयुर्ज्ञानिनोऽखिलाः' इत्येतद् 'यदा ह्येवैष एतस्मिन्नदृश्य' इति वाक्येनोच्यते । तत्रापि सम्यक् प्राप्तिस्तु विरिञ्चस्यैवेत्येतद् क्षितिपमारभ्य ब्रह्मपर्यन्तमानन्दतारतम्यकथनपरेण 'सैषानन्दस्य मीमाँसा भवति' इत्यादि ग्रन्थेनोच्यते । तत्राधिकारिवर्गे ब्रह्मण एव पूर्णानन्दत्वोक्त्या तस्यैव सम्यक् परब्रह्मप्राप्तिरन्येषां तारतम्येनेति स्पष्टमवगमात् । 'कश्चिदेव सम्यक् समश्नुत' इत्यस्य ज्ञानिन एव मुच्यन्ते इत्यत्रैवान्तर्भावात् । उत्तरत्र विस्तरात् तदनुक्तिरिति पूर्वटीकाकाराः । हेत्यनेन
‘सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः ।
बहुदारस्मृतेस्तस्य फलबाहुल्यकारणात् ।।'
इति प्रमाणप्रसिद्धिं दर्शयति ।
ननु अयमभिप्राय उकारेण कथं लब्ध इत्यत आह- कश्चिदेवेति ॥ ‘कश्चित्समश्नुते’ इत्यस्यार्थानुवादोऽयम् । तथैवेत्युकारमित्यन्वयः । कश्चिदेव सम्यक् तदाप्नुयादिति यदुक्तं तत् तथैवेत्यर्थकमुकारमित्यर्थः । तथा
चाऽज्ञानिनोऽपि ब्रह्माप्नुवन्ति ? ज्ञानिन एव वा ? ज्ञानिनोऽपि सर्वे ब्रह्माप्नुवन्ति वा केचन वा ? यदि सर्वेऽपि तत्रापि सर्वेऽपि ज्ञानिनः सम्यक् ब्रह्माप्नुयुरुत कश्विदेव समश्नुते ? इति प्रश्ने 'कश्चित्समश्रुते' इति वाक्यानन्तरमेव तथैवेत्यर्थकस्य उकारस्य ब्रह्मणा प्रयुक्तत्वात् कश्चिदेव विरिञ्चः सम्यक् तद्द्ब्रह्माश्नुते' इत्यभिप्राय उकारप्रयोगेण लब्ध इति भावः ।। १३ ।।