भृगुवाक्यतया वायुनमस्कारादिकं हरिः

सुबहुदर्शिषु परोक्तानुवादरूपमेव वचः

भाष्यम्

'भृगुवाक्यतया वायुनमस्कारादिकं हरिः ।
'
प्रोवाच ब्रह्मणे चैवं वचस्सुबहुदर्शिषु' इति च ॥

भाष्यप्रकाशिका

एवं वचस्सुबहुदर्शिषु' इत्यत्र सुबहुदर्शिषु एवं वचः परोक्तानुवादरूपमेव वच: वर्तते ।तं व्याससूनुमुपयामि गुरुं मुनीनाम्' इत्यादौ व्यासकृतभागवतग्रन्थे कृतस्तुत्यादिनमस्कारादीनां तत्र तत्राऽनुवाददर्शनादिति भावः ।

पदार्थदीपिका

 नन्वस्या उपनिषदो विष्णुः 'ऋषिरित्ययुक्तम् । 'शन्नोमित्र' इत्यादिना विष्णोर्मित्रादिकं प्रति सुखप्रार्थनस्य नमस्ते वाय्विति वायुं प्रति नमस्कार-करणस्य चाऽयोगादित्यत आह- भूगुवाक्यतयेति ।। आदिपदेन ' त्वमेव प्रत्यक्षम्' इति वायुं प्रति स्तुतिकरणं मित्रादिकं प्रति सुखप्रार्थनं च ग्राह्यम् । उत्तरत्र ब्रह्मविद्यामनुतिष्ठन् भूमुर्विघ्नपरिहाराय नमस्ते वावित्यादिरूपेणवायुनमस्कारादिकंकरिष्यतीत्येवं भृगुवाक्यानुवादरूपेण हरिर्ब्रह्मणे प्रोवाच नतु स्ववाक्यतयाऽतो नोक्तदोषः । तथा ब्रह्मणोऽपि मित्रादिकं सुखप्रार्थनाऽयोगात् सोऽपि भूगुवाक्यतयैव वरुणाय प्रोवाचेति चशब्दार्थः । इमं प्रकारमन्यत्राप्यतिदिशति एवं वच इति ॥ एवमित्यस्यावृत्तिः । चशब्दस्यात्राप्यन्वयः । स चात्रावधारणार्थः । तथाच 'सुबहुदर्शिषु' अतिबह्वर्थदर्शिषु सर्वज्ञेषु विष्ण्वादिषु ऋषित्वेन विवक्षितेषु सत्सु यत् ' एवं वचः' नीचान् प्रति प्रार्थनादिरूपं वचः तत् एवञ्च एवमेव परोक्तानुवादरूपत्वेनैव व्याख्येयं नतु सुबहुदर्शिविष्ण्वादिवाक्यतयैवेति ज्ञातव्यम् । यथा हयग्रीवमुखोद्गीर्णायां छान्दोग्योपनिषदि श्यामाच्छबलं प्रपद्ये शबलाच्छामं प्रपद्ये । धूत्वा शरीरं ब्रह्मलोकमभिसम्भवामि' इत्यादिकं न स्ववाक्यतया हयवदनो दृष्टवान् किन्त्वितरेषां वाक्यतयैव । यथोक्तं छान्दोग्यभाष्ये-

' हयग्रीवमुखोत्थानि यानि वाक्यानि तानि तु ।

रमा ददर्श तान्येव ब्रह्मा तान्येव नारदः ।

यानि विष्णोरयोग्यानि प्रार्थनाद्यात्मकानि तु ।

तान्युत्तरेषां वाक्यानि भविष्याण्यवदद्धरिः ।
एवं रमा तथा ब्रह्मा छान्दोग्योपनिषद्धि सा ।।' इति ।
इदमुपलक्षणम् । अविघ्नत्वमभीप्सूनां शिष्याणां चार्थे दृष्टवान् इत्यपि द्रष्टव्यम् । | यथोक्तमैतरेयभाष्ये- “ ‘वाङ्म' इत्यादिकं खण्डं विष्णुप्रार्थनरूप- कम् । अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः" इति ॥ तदनेन प्रबन्धेनैतदुपनिषदोऽधिकारिविषयप्रयोजनाभिसम्बन्धोऽपि दर्शितो भवति ।ब्रह्मादीनामधिकारिणां अन्नमयादिपञ्चरूपस्य विष्णोर्विषयस्य मोक्षस्य प्रधानस्य ज्ञानभक्त्यादेरवान्तरस्य च प्रयोजनस्य च सूचितत्वात् । अतो युक्तमेतद् उपनिषदो व्याख्यानं गहनार्थत्वात् चेति ।।