यश्छन्दसामृषभो विश्वरूपः..

मेधादिप्रार्थनाविद्याः
 तैत्तिरीयोपनिषत्

यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय ॥ ९ ॥

आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा ॥ १० ॥

भाष्यम्

'यो विश्वरूपो भगवान् छन्दसामधिपो हरिः । छन्दोभ्योऽमृतरूपेभ्यः सुव्यक्तस्तदुपासनात् ।
मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते ।' इति च ॥वेदावासत्वतो विष्णुः ब्रह्मकोश इति स्मृतः । भगः षड्गुणपूर्णत्वात् बहुरूपत्वतो विभुः ॥सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम् । मुच्यते नात्र सन्देहः सर्वभोगैश्व पूज्यते " इति प्रकृते ॥ 'आवहन्ती चिरं सर्वभोगान् या श्रीस्सनातनी । तां मय्यावह गोविन्द सुशिखण्डोपशोभिताम् ।'
इति च ।। ९-१०

भाष्यप्रकाशिका

'छन्दोभ्योऽध्यमृतात्सम्बभूव' इत्यत्रामृतात् अमृतेभ्यो नित्येभ्यो वेदेभ्योऽधि अधिकतया सर्वोत्तमत्वेन सम्बभूव सम्यगाविर्बभूव । अमृतादित्येकवचनं छन्दसां भगवद्विषये एकवाक्यताद्योतनार्थम् । अत एवविश्वरूपः' इत्युक्तम् । विश्वस्मिन् इन्द्रादौ रूपमन्तर्यामिरूपं यस्येति विग्रहः । तथा चेन्द्रादिसूक्तान्यपि 'गुहाशयायैव न देहमानिने ' ( भा. ४.३.२२) इति स्मृतेरिन्द्राद्यन्तर्यामिविषयाणीत्येकवाक्यतेति भावः । सइन्द्रो मेधयाधारणया बुद्ध्या मा मां 'स्पृणोतु' सम्बध्नातु । 'स्पृ स्पर्शने ' इति धातोः विकरणव्यत्ययात् वृणोत्वितिवत् स्पृणोत्विति रूपं भवतीति ज्ञेयम् । मेधाऽपि छन्दोविषयैव भवेदिति सूचनाय छान्दसप्रयोगः । अत एवाऽह श्रुतिः अमृतस्य धारणो धारको भूयासमिति । मे शरीरं विचर्षणं वि विशेषेणचर गतिभक्षणयोः' इति धातोर्गत्यर्थानां च ज्ञानार्थत्वात् चर्षणं ज्ञानानुकूलं भवतु । मेधावित्वेऽपि व्याध्यादिना शरीरदौर्बल्ये ज्ञानायोगादिदं प्रार्थनम् । मे जिह्वा मधुमत्तमा अतिशयेन मधुवचनवती भूयात् । गुर्वादिषु प्रियवचनाभावे ज्ञानायोगादिदं प्रार्थनम् । मयि छन्दसामभावे मां प्रति त्वया कथं छन्दोविषयकमेधाप्रार्थनं क्रियत ? इत्यत उक्तं 'ब्रह्मणः कोशोऽसि' इति ।बृह जातिजीवकमलासनशब्दराशिषु' इति धातो: ब्रह्मणो वैदिक- शब्दराशेः कोशोऽसि । मेधया अपिहितः निगूहितोऽसि । व्याख्यानकाले मेधामाविर्भावयसि । अन्यदा निगूह्य कोशान्तस्थितधनवन्न प्रकाशयसीति
भावः ।। ९ ।।
'क्षुधितानां दुर्भगानां कुतो योगसमाधय:' इति वचनादन्नाभावे चित्त- समाधानायोगादन्नदायिन्याः लक्ष्म्याः प्रार्थनप्रकारमाह - आवहन्तीति ॥ चीरं चिरतरं मम वासांसि पटान्नपाने च सर्वदा आवहन्ती 'वह प्रापणे' इति

धातोः आ सम्यक् प्रापयन्ती, 'तनु विस्तारे' इति धातोर्वितन्वाना विशेषेण विस्तारयन्ती या महालक्ष्मीर्यतः एतादृशी तत: कारणात् लोमशां सुशिखण्डो- पशोभितां तां श्रियं मे मयि आवह आधेहि । पशुभिरित्युपलक्षणम् । वासोभिरन्नपानादिभिश्च सहेत्यपि द्रष्टव्यम् । अनेनापि मन्त्रेणाहुति: देयेति भावेन स्वाहेत्युक्तम् || १० ||

पदार्थदीपिका

अथ भाष्यार्थ:-
विद्याभ्यासिनः प्रज्ञापरपर्यायमेधादिना भाव्यम् । अतस्तत्प्राप्त्यर्थं विद्याः निरूप्यन्ते- यच्छन्दसामृषभ इत्यादिना || अत्र प्रसिद्धेन्द्रस्यैव छन्दसामृषभ- त्वादिविशेषणमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे - यो विश्वरूप इति ।विश्वं समस्तं पूर्णञ्च' इति वचनाद्विश्वरूपः पूर्णरूपः ।छन्दसामृषभइत्यस्यार्थःछन्दसामधिपः' इति । इदं रातीति व्युत्पत्त्या भक्ताभिलषित- दातृत्वार्थकेन्द्रशब्दार्थो हरिरिति । भक्ताभिलषितमाहतीति हरिरित्यर्थः । अयं च श्रीवेदव्यास एव । तस्यैव विद्याधीशवेदपतिशब्दवाच्यतायाःविद्याधीशः स्वयम्प्रभुःइति ' वेदपतिर्जगौ' इति भगवत्पादैरुक्तत्वात् । अत्रापि छन्दसामृषभ इत्युक्तत्वात् । तथा 'वयः सुपर्णा उपसेदुरिन्द्रं प्रियम्' इति श्रुतिगतेन्द्रशब्दस्य, ‘सुपर्णा ऋषयो व्यासं नाथमाना ययुः सुराः' इति एकादशस्कन्धतात्पर्ये भगवत्पादैर्वेदव्यासपरत्वेन व्याख्यातत्वेन अत्रापि इन्द्रशब्दस्य तत्परत्वमेवावगन्तव्यमिति सम्प्रदायविदः | अमृतादित्येकवचनं बहुवचनार्थे । तेन छन्दोभ्य इत्येतद्विशेषणत्वमेतस्योपपन्नमित्यभिप्रेत्योक्तम्- अमृतरूपेभ्य इति ।। अपौरुषेयत्वेन नित्येभ्यो 'वयः सुपर्णा अतीदुशक्रओहत' इत्यादिभ्य इत्यर्थः । यद्वा जरामरणादिविध्वंसनहेतुतया प्रसिद्धामृतसरूपेभ्य इत्यर्थः । अधिसम्बभूवेत्यस्यार्थः सुव्यक्त इति । स्पष्टं प्रतिपाद्यतया ज्ञात इत्यर्थः । मेघया स्पृणोत्विति प्रार्थनायाः तात्पर्यमाह - तदुपासनात् मेधावी भूत्वेति । तथा च स इन्द्रो मयोपासितः सन्मोक्षार्थकवेदविद्याभ्यासहेतुभूतया मेधया स्पृणोत्वित्यर्थ उक्तो भवति ।अमृतस्य देवधारणो भूयासम्' इत्यस्य तात्पर्यम्- तत्त्वविज्ञानी भूत्वेति ॥ केवलं स्वाध्यायाध्यनरूपवेदधारणायाः 'स्थापुरयं केवल भारवाहो योऽधीत्य वेदाननधीयतेऽर्थान्' ' शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि । श्रमस्तस्य भ्रमफलो ह्यधेनुमिव रक्षतः ।।' (भा. ११.११.१८)वित्तं त्वत्तीर्थीकृतमङ्ग वाचं हीनां मया रक्ष दु:खदुःखी' (भा. ११.११.१९) इत्यादिश्रुतिस्मृतिभ्यामनर्थहेतुत्वाव- गमेनार्थज्ञानपर्यन्तत्वादेवमुक्तमिति ज्ञातव्यम् । यथोक्तम्– 'तस्मादेवं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः' इति । तथाचामृतस्य वेदस्य धारणो धारको भूयासं मोक्षार्थं वेदविद्याश्रवण-जनितज्ञानवान् भूयासमिति यावदित्यर्थ उक्तो भवति ।
ब्रह्मणः कोशोसिइति वाक्यं, हे इन्द्र त्वं ब्रह्मणश्चिन्मात्रस्य कोशोऽसि निधानमसि आधारोऽसीति यावत् । विशिष्टे 'विशेषणांशसद्भावात्' इति परेण व्याख्यातं तदप्रामाणिकमिति भावेन स्वयं ब्रह्मकोशशब्दार्थमाह- वेदा- वासत्वत इति ।। 'बृह जातिजीवकमलासनशब्दराशिषु' इति धातोः बृहतेर्मन्प्रत्यये अमागमे यणादेशे च सति निष्पन्नो ब्रह्मशब्दो वेदवाची कोशशब्दश्चाऽवासार्थक इति भावः ।तं त्वा भग' इत्यादौ भगशब्देन तन्नामा आदित्यः प्रार्थ्यते इत्येतदपव्याख्यानमिति भावेन भगशब्दार्थमाह- भगष्षड्गुणपूर्णत्वादिति ।।ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । 'ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा' इति वचनात् भगशब्देन षड्गुणा उच्यन्ते । तैः पूर्णत्वादित्यनेन अर्शाद्यजन्ततया भगशब्दो भगवद्वाचक इत्युक्तं भवति । अर्शाद्यजन्तत्वमनङ्गीकृत्य 'ऐश्वर्यादिवाचिभगशब्देनैव विशेषणात् तन्त्वाभगेत्यादौ' इति गीताभाष्योक्तं तु व्याख्यानान्तरमित्यविरोधः ।
हे भग तन्नामकादित्य सहस्रशाखे यथेष्टकिरणे त्वयि' इत्येतदपव्याख्यान- मित्यभिप्रेत्याह- बहुरूपत्वत इति ॥ सहस्रशाखे त्वयि मनसा प्रविष्ट इति शेष इत्यभिप्रेत्य तत्तात्पर्यमाह तमुपास्येति ॥ निमृज इत्यत्र पापमिति शेष इत्यभिप्रेत्य तस्य तात्पर्यमुक्तम् - उच्यत इति ॥ अनेन प्रतिवेशोसीऽत्यस्यापि तात्पर्यमुक्तं ज्ञातव्यम् । सर्वभोगैश्चेत्यनेन प्रमा भाहीत्यस्य मेधादि सम्पन्न- स्याप्यन्नवस्त्राद्यभावे मनःक्षोभेण विद्या न सम्यक् प्रतिष्ठिता भवतीत्यतस्तदर्थं काचन विद्या निरूप्यते- आवहन्ती वितन्वानेति ॥ अत्र स्वाहेति सम्बोध्य श्रियमावति कं प्रति प्रार्थ्यत इति न प्रतीयते इत्यतस्तं दर्शयन् तां विद्यां प्रमाणेन व्याचष्टेआवहन्तीति ॥ दात्रीत्यर्थः । धातूनामनेकार्थत्वात् । यद्वावह-प्रापणे' इति धातोः सम्यक् प्रापयन्तीत्यर्थः । चीरमित्यस्यार्थ- श्चिरमिति । बहुकालमित्यर्थः । वासांसीत्यादेस्तात्पर्यम् । सर्वभोगानिति ॥ वितन्वानेत्यस्यार्थःसनातनीति || ' तनु विस्तारे' विस्तारश्च कालत इत्यभिप्रेत्येत्थं व्याख्यातम् । ततो मे श्रियमावह' इत्यत्र मे इति षष्ठी सप्तम्यर्थ इत्यभिप्रेत्य मयीत्युक्तम् । लोमशामित्यस्यार्थः- सुशिखण्डोप- शोभितामिति ।। शिखण्डा कपर्दा वेणीचतुष्टयोपशोभितामित्यर्थः।चतुष्क- पर्दा युवतिः सुपेशाः' (ऋ. १०.११४.३) इति श्रुतेरिति भावः । स्वाहेत्यस्य विशेष्यकथनं गोविन्देति । अनेन स्वाहेत्यनन्तरं गोविन्देति शेष इत्युक्तं भवति । वेदवेद्य : 'श्रीवेदव्यासः' इत्यर्थः ।। ९-१०॥

Load More