पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः

वासुदेवादिचतुर्मूर्तीनामधिभूतमध्यात्मं चोपास्तिनिरूपणम्

तैत्तिरीयोपनिषत्

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसं स्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १८ ॥

भाष्यम्

'पृथिव्यायं पाऊं षट्कं पातेनैव स्वयं हरिः ।

नारायणादिरूपेण बलयत्यञ्जसा प्रभुः ।
इत्युवाच स्वयं विष्णुः वेदद्रष्टा गुणाधिकः '
आत्मा अहङ्कारतत्त्वम् ॥ १८ ॥

इति तत्त्वसंहितायाम् ॥

भाष्यप्रकाशिका

प्राग्व्यस्तव्याहृतीनां महसश्च प्रतिपाद्यानां वासुदेवादिचतुर्मूर्तीनामुपास्ति- प्रकार उक्तः । अधुना समस्तव्याहृत्या सह पञ्चानां प्रतिपाद्यदेवतानां वासुदेवादिचतुर्मूर्तीनां मूलरूपनारायणस्य चाधिभूतमध्यात्मं च षड्विध- पञ्चस्थानेषूपास्तिप्रकारमाह - पृथिव्यन्तरिक्षमित्यादिना ॥ विद्यासार्थक्याय मूलमूर्त्या सहोपास्तेरावश्यकत्वात् पृथगारम्भः । अत एवोक्तंपञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत्' (म.ता.नि. १.१० ) इत्यादि । एतत्पञ्चकं पञ्चकमधिविधाय अधिकफलवत्त्वेन पृथगुपास्यतया विधाय ऋषिर्मन्त्रद्रष्टा विष्णुरवोचत् । उक्तं सर्वमिदं पाङ्कं पञ्चत्वसङ्ख्या युक्तम् । एतद्भगवान् पाङ्केन नारायणादिरूपपञ्चकेन स्पृणोति व्याप्य तिष्ठतीति । सा व्याप्तिस्तत्प्रवर्तयतीति भावेन 'बलयति' इत्युक्तं भाष्ये । 'आकाश आत्मा' इत्यत्र आत्मशब्दार्थमाह- आत्मा अहङ्कारतत्त्वमिति ॥ १८ ॥

पदार्थदीपिका

वेदविद्याप्राप्त्यर्थं पूर्वभावि विद्यान्तरमाह - पृथिवीत्यादिना ।। तत्र 'पातेनैव पाङ्कं स्पृणोति' इत्येतत् व्याचष्टे - पृथिव्याद्यमिति । तत्र पाङ्गमित्यस्यार्थः पृथिव्याद्यं पातं षट्कमिति । पाङ्तेनैवेत्यनूद्य नारायणादिरूपेणेति व्याख्या-तम् । प्रविष्टः सन्निति शेषः । ' स्पृणोति' इत्यस्यार्थो 'बलयति' इति । स्वस्वकार्यक्षमङ्करोतीत्यर्थः । इति 'ऋषिरवोचत्' इत्यत्रोक्तऋषिः क इत्यपेक्षायां तं दर्शयति- इत्युवाचेति || ' आकाश आत्मा' इत्यत्रात्मा जीव इत्यसत् । तस्याधिभूतत्वाभावादित्यभिप्रेत्यात्मशब्दार्थमाह- आत्मा अहङ्कारतत्त्वमिति ।। तस्य पादानत्वेनाधिभूतत्त्वमुपपन्नमिति भावः ।।१८।।

श्रीनिवासतीर्थीयखण्डार्थ:

अथ खण्डार्थ:-
दिशः प्राच्याद्याः । अवान्तरदिशाः आग्नेयाद्याः कोणाः । ' टापं चापि हलन्तानां यथा वाचा निशा दिशा' इति भागुरिवचनात् अवान्तरदिशा इति आकारान्तत्वं युक्तम् । ओषधयः फलपाकान्ताः व्रीह्यादयः । वनस्पतयः अश्वत्थाद्याः ।आत्मा अहङ्कारतत्त्वम्।’ ‘इत्यधिभूतम्।भूतसम्बन्धिपाङ्कं इति निरूपितमित्यर्थः । अत्र पृथिव्यग्निवाय्वाकाशानां भूतत्वात् पृथिव्यग्न्यादिशब्दोक्तानामेव देवानां भूताभिमानित्वादन्तरिक्षद्युलोक- योरोषध्यादीनां च भूतकार्यत्वात् आत्मशब्दोक्तस्याहङ्कारतत्वस्य च भूतोपादानत्वात् पृथिव्यादीनामधिभूतत्वं युक्तमित्याशयेन ' इत्यधिभूतम्इत्येवोक्तमिति द्रष्टव्यम् । अव्याकृताकाशभागभूतानां दिशान्तु भूतसम्बन्धित्वाभावात् तत्राधिभूतत्वं छत्रिन्यायेनेति वा भूताकाशेऽ- व्याकृताकाशस्यापि सत्त्वाद् वेति द्रष्टव्यम् । 'अथाध्यात्मम्' । अत्मानं देहमधिकृत्य विद्यमानम्। तत्सम्बन्धीति यावत् । पाङ्कं निरूप्यत इत्यर्थः । स्नावेन सहितं अस्थि स्नावास्थि । स्नावेत्यविभक्तिकनिर्देशो वा । एतत् पृथिव्यादिपाङ्गषट्कम् अधिविधायाधिकृत्य ऋषिर्मुख्यतो वेदद्रष्टा विष्णु- रवोचत् । किमवोचदित्यतस्तदेव दर्शयति- पाङ्कं वा इदमिति ॥ इदं सर्वं पृथिव्यग्निवाय्वादिकं पाङ्कं पञ्चत्वसङ्ख्ययोपेतम् । तथा चेदं पाङ्कं पृथिव्याद्यंपातषट्कं स्वयं हरिः पाङ्क्तेनैव पञ्चत्वसङ्ख्ययोपेतेन नारायणादिरूपेण प्रविष्टः सन्निति शेषः । सृणोति बलयति स्वस्वकार्यक्षमङ्करोतीत्यर्थः । इतिऋषिरवोचत्इति सम्बन्धः । तत्र पृथिव्यन्यप्प्राणचक्षुश्चर्मसु नारायणः अन्तरिक्षवाय्वोषधिषु व्यानः श्रोत्रमांसेषु वासुदेवः द्वयादित्यवनस्पत्यपान- मनःस्नावेषु सङ्कर्षणः । दिक् चन्द्राकाशोदानवागस्थिषु प्रद्युम्नः । अवान्तर- दिड्नक्षत्रात्मसमानत्वमज्जासु अनिरुद्धस्तिष्ठतीति विवेको द्रष्टव्यः ॥ १८ ॥

Load More