ॐ शं नो मित्रः शं वरुणः ॐ
॥ श्री राघवेन्द्रयतिविरचिततैत्तिरीयोपनिषत्खण्डार्थः ॥
खण्डार्थः
श्रीब्रह्मशेषरुद्रादिदैवतैस्सर्ववेदगैः ।
वचोभिरीडितं विष्णुं नानारूपमुपास्महे ||
प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् ।
तैत्तिरीयोपनिषदः करिष्याम्यर्थसङ्ग्रहम् ॥
भाष्यस्यार्थो व्यासतीर्थटीकातो ह्यवगम्यते ।
विक्षिप्तत्वादुपनिषदर्थस्यैवात्र सङ्ग्रहः ॥
अस्या उपनिषदो रविमण्डलगो विष्णुर्ब्रह्मा वरुणो भृगुश्चेति र्क्रमादृषयश्चत्वारः । स एव हरिर्देवता । वाक्यरूपत्वान्न च्छन्दोऽन्वेषणं ‘शं नो मित्र' 'आवहन्ति' इत्यादौ । छन्दोबद्धस्थलेऽक्षरपरिगणनयाऽनुष्टुबादि बोध्यम् । ब्रह्मविद्यामभ्यस्यन् भूगुर्विघ्नविघातार्थं देवान् प्राथर्यते शन्नो मित्र इत्यादिना ॥
तैत्तिरीयोपनिषत्
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
खण्डार्थ:
(खं.) मित्र: नोऽस्माकं शं सुखकरो भवत्विति सर्वत्रान्वेति । एवमग्रेऽप्यर्थो बोध्यः । वायोर्ब्रह्मविद्याप्रवर्तकेषु मुख्यत्वात् परब्रह्मणो मुख्याधिष्ठानत्वाच्च तन्नतिस्तुती कुर्वन् पृथक् प्रार्थयते - नम इत्यादिना ॥ तत्र वदिष्यामीत्यन्तेन स्तुति:, तन्मामित्यादिना प्रार्थनेति विवेकः । ब्रह्मणे परब्रह्माधिष्ठानाय, ज्ञानादिगुणबृंहिततया ब्रह्मपदवाच्यायेति वा, 'प्राणो ब्रह्म' इति श्रुतेः ।
अध्यात्मरूपं नत्वा अधिदैवरूपं नमति नमस्त इति वा, परोक्षतो नत्वाऽपरोक्षतो नमति- नमस्त इति वाऽर्थः । 'वाग् वै ब्रह्म' इति काण्वश्रुतेः वाण्यै नम इति वा, विरिञ्चायेति वा । नतं वायुं स्तौति - त्वमेवेति ॥ प्रत्यक्षभूतप्राणापानादिवायुवृत्तिशरीरकत्वात् प्रत्यक्षमित्युक्तिः । मुख्यवायोः प्राणादिपञ्चात्मना वक्ष्यमाणानां संहितायाः पञ्चाधिकरणानाम् अभिमानि- देवतात्वं, ‘पृथिव्यन्तरिक्षं द्यौः' इत्यादिनोक्तं पाङ्क्तत्वं चास्ति, अभिमन्य- मानोक्तिरेवाभिमान्युक्तिरिति तदभिप्रायेणाऽह भृगुः - 'त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि' इति । अक्षि अक्षि प्रति प्रत्यक्षं, 'प्रतिपरसमनुभ्योऽक्ष्णः' इति समासान्तः, प्रतिगृहं कूप इतिवत् । नियामकतया सर्वेन्द्रियस्थमिति वा प्रत्यक्षमित्यस्यार्थः । त्वमित्यस्य त्वामित्यर्थो व्यत्ययात्, ऋतं यथार्थ - ज्ञानवन्तम्, सत्यं यथार्थज्ञानपूर्वकं वक्तारं कर्तारं चेत्यर्थः, प्रत्येकं क्रियाभ्यास आदरार्थः, तत् तस्मात्, त्वन्नन्तृत्वात्तद्वदितृत्वाच्च मां वक्तारमिति सामा- नाधिकरण्यं वा, मां वक्तारम् आचार्यं चेति वा, अभ्यासः प्राग्वत् । ओं
वाय्वादौ सर्वत्र व्याप्ततया रक्षकत्वेन च ओम् पदवाच्येन विष्णुना शान्ति- रस्त्वित्यर्थः । दिव्यान्तरिक्षभौमानिष्टनिरासाय शान्तिरिति त्रिरुक्तिः । आध्यात्मिकाधिभौतिकाधिदैविकानिष्टनिरासार्थं त्रिरुक्तिरित्येके || १ || ब्रह्मविद्याभ्यासार्थिनः पूर्वं शिक्षणीयमर्थं प्रतिज्ञापूर्वकमाह-शीक्षामिति ।
तैत्तिरीयोपनिषत्
ॐ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ २ ॥
खण्डार्थ:
(खं.) शिक्ष्यत इति शिक्षा, शिक्षणीयमर्थं विविच्य स्पष्टं वक्ष्याम इत्यर्थः । शीक्षेति दैर्घ्यं च्छान्दसम् । प्रतिज्ञातमाह- वर्ण इत्यादिना ।। वर्ण अकारादि- वर्णोच्चारणस्थानानि कण्ठताल्वादीनि, ज्ञातव्यपदं सर्वत्र योज्यम् । स्वर
उदात्तादिः, मात्रा एकमात्रादिः, बलं वर्णोच्चारणप्रयत्नो विवृतादिः, साम वर्णानां सन्धिः, सन्तानो वर्णमाला । न केवलं वर्णोत्पत्तिस्थानादिकमेव ज्ञातव्यम् । किन्तु वरणीयत्वहेतुना वर्णनामकं वर्णस्थं वर्णवाच्यं पुरुषे वर्णोच्चारणक्रियाप्रदं विष्णो रूपं वर्ण इति ज्ञेयम् । स्वस्मिन् रमत इति व्युत्पत्त्योदात्तादिस्वरनामकं स्वरवाच्यं स्वरगतं पुरुषे स्वरोच्चारणक्रियाप्रदं रूपं स्वर इत्यनेन ज्ञेयम् । मानात् ज्ञानान्निमित्तात् त्रातेति व्युत्पत्त्या मात्रानामकं मात्रास्थितं मात्रावाच्यं मात्रोच्चारणक्रियापदं रूपं मात्रेत्यनेन ज्ञेयम् । बलरूपतया बलनामकं बलस्थं विवृतादिपुरुषगतप्रयत्नरूपक्रियाप्रदं रूपं बलमित्यनेन ज्ञेयम् । सर्वरूपेषु समत्वहेतुना सामनामकं सामवाच्यं सामशब्दितसन्धिस्थं पुङ्गतसन्ध्युच्चारणक्रियाप्रदं रूपं सामेति ज्ञेयम् । गुणादिना सन्ततत्वनिमित्तेन सन्ताननामकं वर्णसन्ततिस्थं सन्तानवाच्यं पुरुषगत - सन्तानोच्चारणक्रियाप्रदं रूपं सन्तान इत्यपि ज्ञेयम् । शीक्षाध्यायः । अध्याय इति ग्रन्थसन्दर्भनाम । शीक्षा शिक्षणीयोऽर्थो यस्मिन्नध्याये स शीक्षाध्यायः इत्येवमुक्त इत्यर्थः । प्रतिज्ञोपसंहारयोरुक्तिरुक्तेऽर्थेऽव-धारणद्योतनार्था । एवमग्रेऽपि ज्ञेयम् ।। २ ।।
आदावेबाविघ्नत्वार्थं कृतेऽपि प्रार्थने प्रतिविद्यमविघ्नता प्रार्थनीयेति भावेन 'अथाऽत' इति वक्ष्यमाणविद्याया अविघ्नत्वाय प्रार्थयते - सहेति ॥
तैत्तिरीयोपनिषत्
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहितायाः उपनिषदं व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते ॥ ३ ॥
खण्डार्थ:
(खं) स प्रागुक्तो मित्रादिर्नौ गुरुशिष्ययोर्यशस्करो ब्रह्मवर्चस्करो भवत्वित्यर्थः । इदान सामेति प्रकृतवर्णसन्धिनिष्ठां ब्रह्मविद्यामाह- अथेति ॥ वर्णादि-शिक्षोक्त्यनन्तरम् अतः फलवत्त्वात् संहितायाः पूर्वोत्तरवर्णसन्धिसन्धानभेदेन चतूरूपायाः संहिताया उपनिषदं रहस्यं प्रतिपाद्यत्वेन वा तन्निष्ठत्वेन वा स्थितं रूपजातं व्याख्यास्याम इत्यर्थः । व्या ख्येयसंहितासम्बन्धिरूपजातस्य स्थानान्याह- पञ्चस्वधिकरणेष्विति ॥ स्थितामुपनिषदमिति पूर्वेणान्वयः । तान्याह- अधिलोकमित्यादिना ॥ लोकेष्वधि अधिकृत्य स्थितं अधि- लोकम् । ज्योतिष्वधि अधिज्यौतिषमित्यादिविग्रहो ध्येयः । लोकेषु ज्योतिस्सु विद्यास्वित्यादिरर्थः । चतुरात्मकलोकादिवर्गपश्चके प्रत्येकं चतुरात्मतया स्थितं नारायणाद्यनिरुद्धान्तं रूपपञ्चकं चतुरात्मकसंहिताप्रतिपाद्यत्वेन तत्संस्थत्वेन वा व्याख्यास्याम इति समुदायार्थ: । आदरजननाय संहितां स्तौति - ता इति । ताः उक्तविधभगवद्रूपप्रतिपादिकाः पूर्वोत्तरवर्णसन्धिसन्धानभेदेन चतुरात्मिकाः सकलवेदगता: संहिता: महद् ब्रह्मप्रतिपादकतया महासंहिता इत्याचक्षत इत्यर्थः ।। ३ ॥
'अधिलोकम्' इत्याद्युक्तं विवृणोति अथाधिलोकमिति ॥
तैत्तिरीयोपनिषत्
अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः । वायुः सन्धानम् । इत्यधिलोकम् ॥ ४ ॥
खण्डार्थ:
(खं.) लोकेषु स्थितं भगवद्रूपचतुष्टयं चतूरूपसंहिताप्रतिपाद्यं तत्स्थं वा, अथ महासंहितात्वादेव व्याख्यास्याम इत्यनुषङ्गः । पृथिवीति । पृथिवीस्थितं पृथिवीनामकं नारायणवासुदेवाख्यं रूपं पूर्वरूपम् संहितायाः पूर्ववर्णेन रूप्यते प्रतिपाद्यत इति पूर्वरूपम् । द्यौर्चुलोकस्थं द्युनामकं नारायणसंकर्षणाख्यं रूपं संहिताया उत्तररूपम् उत्तरवर्णप्रतिपाद्यम् । आकाशः आकाशस्थम् आकाशनामकं नारायणप्रद्युम्नाख्यं सन्धिः सन्निकर्षप्रतिपाद्यम् । वायुः वायुस्थं वायुनामकं नारायणानिरुद्धाख्यं रूपं सन्धानं सन्धिकार्यप्रतिपाद्यम्, इति प्रतिपाद्यप्रतिपादकाभिप्रायेण 'पृथिवी पूर्वरूपम्' इत्याद्युक्तिः । यद्वा पृथिव्यादिषु चतुर्षु स्थितानि पृथिव्यादिनामकानि नारायणवासुदेवनारायण- सङ्कर्षणनारायणप्रद्युम्ननारायणानिरुद्धाख्यानि चत्वारि रूपाणि संहितायाः पूर्वोत्त (वर्ण) रार्ण सन्धिसन्धानेषु तिष्ठन्तीत्याधाराधेयाभिप्रायेण पृथिवीपूर्वरूपमित्याद्युच्यत इति ज्ञेयम् । इत्यधिलोकमिति । इति एवं प्रकारेण लोकेष्वधिकृत्य स्थितं रूपचतुष्टयं चतूरूपसंहितास्थं व्याख्यातमित्यर्थः । अत्र पृथिव्यादीनामभिमानिनयन्यायेन देवतापरत्वमुपेत्य पृथिवीदेवतास्थ- मित्यादिरर्थ इत्याहुः ।। ४ ॥
तैत्तिरीयोपनिषत्
अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् ॥ ५ ॥
खण्डार्थ:
(खं.) अथाधिज्यौतिषमिति । अथेत्यर्थान्तरे, अधिलोकोक्त्यनन्तरमिति वा । चतुरात्मकज्योतिर्गतरूपचतुष्टयं चतु: स्वरूपसंहितासम्बन्धीत्येतद् व्याख्यास्याम इत्यर्थः । अग्निः पृथिवीगताग्निस्थमग्निनामकं वासुदेववासुदेवाख्यं संहितायाः पूर्वरूपम् । पूर्ववर्णप्रतिपाद्यमिति वा पूर्ववर्णस्थमिति वा द्वेधा पूर्वरूपत्वं ध्येयम् । एवमुत्तररूपमित्यादावप्यर्थो बोध्यः । आदित्य इति । द्युलोकस्थादित्यस्थमादित्यनामकं वासुदेवसङ्कर्षणात्मकं रूपं संहिताया उत्तररूपम् । आपः अप्सु स्थितम् अम्नामकं वासुदेवप्रद्युम्नात्मकं रूपं सन्धिः संहिताया: सन्निकर्षः । वैद्युत: विद्युत्समूहगतं वैद्युताख्यं वासुदेवानिरुद्धाख्यं सन्धानमित्यर्थः । इत्यधिज्यौतिषमिति । इत्यधिलोकमित्यत्रेव व्याख्या ।
तैत्तिरीयोपनिषत्
अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ ६ ॥
खण्डार्थ:
(खं.) अथाधिविद्यमिति पूर्ववद् व्याख्येयम् । आचार्यः आचार्यस्थम् आचार्यनामकं संकषर्णवासुदेवात्मकं रूपं संहितायाः पूर्वरूपं पूर्ववर्णस्थं पूर्ववर्णप्रतिपाद्यमिति वा । अन्तेवासी अन्तेवासिस्थम् अन्तेवासिनामकं सङ्कर्षणसङ्कर्षणात्मकं रूपं संहिताया उत्तररूपम् । विद्या गुरुशिष्यसङ्घर्षजं ज्ञानं विद्या, विद्यास्थं विद्यानामकं सङ्कर्षणप्रद्युम्नाख्यं रूपं सन्धिः सन्निकर्षः । प्रवचनं प्रवचनस्थं प्रवचननामकं सङ्कर्षणानिरुद्धाख्यं रूपं सन्धानं सन्धि- कार्यम् । इत्यधिबिद्यम् । व्याख्यानं प्राग्वत् ।। ६ ।।
तैत्तिरीयोपनिषत्
अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ७ ॥
खण्डार्थ:
(खं.) अथाधिप्रजमित्यपि प्राग्वत् । माता मातृस्थं मातृनामकं प्रद्युम्नवासुदेवात्मकं रूपं संहितायाः पूर्वरूपम् । पिता पितृस्थं पितृनामकं प्रद्युम्नसङ्कर्षणात्मकं रूपं संहितोत्तररूपम् । प्रजा प्रजास्थं प्रजानामकं प्रद्युम्नप्रद्युम्नात्मकं रूपं सन्धिः । प्रजननं प्रजननस्थं प्रजनननामकं प्रद्युम्नानिरुद्धात्मकं रूपं सन्धानम् । इत्यधिप्रजम् इत्युक्तार्थः' ॥ ७ ॥
तैत्तिरीयोपनिषत्
अथाध्यात्मम् । अधराहनुः पूर्वरूपम् । उत्तराहनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ८ ॥
खण्डार्थ:
(खं.) अथाध्यात्ममिति प्राग्वत् । आत्मनि देहे अधीति विग्रहः । हनुः तत्स्थं तन्नामकम् अनिरुद्धवासुदेवात्मकं रूपं पूर्वरूपम् । उत्तरा हनुः तत्स्थं तन्नामकम् अनिरुद्धसङ्कर्षणात्मकं रूपम् उत्तररूपम् । वाक् वामिन्द्रियस्थं वाड्नामकम् अनिरुद्धप्रद्युम्नात्मकं रूपं सन्धि: । जिह्वा जिह्वास्थं जिह्वानामकम् अनिरुद्धानिरुद्धात्मकम् रूपं सन्धानं सन्धिकार्यम् । इत्यध्यात्ममिति प्राग्वत् । संहिता: स्तौति - इतीमा इति ॥ विष्णुरूपमहार्थकत्वान्महासंहिता इति । न केवलं महार्थत्वान्महत्त्वं संहितानाम् । किन्तु महाफलवत्त्वाच्च महत्त्वमिति भावेन अथात इत्यत्र अतः : शब्देन सूचितं फलमाह - य एव - मिति । यः कश्चित् सात्विकोऽधिकारी एवं नारायणादीन्यनिरुद्धान्तानि प्रत्येकं वासुदेवादिचतुरात्मतया पृथिव्यादिवर्गपञ्चकगतानि चतूरूपसंहिता- स्थानीति व्याख्याता ‘महासंहिता' महासंहितारूपाणि 'वेद' उपास्ते साक्षात्करोति च स इति शेषः । प्रजयेत्यादिना स्वयोग्यसर्वभोग उप- लक्ष्यते । सुवर्गलोकपदेन श्वेतद्वीपादिविष्णुस्थानग्रहः । विष्णुलोकेन प्रजाद्युपलक्षितस्वयोग्यसर्वभोगेन च सन्धीयते संयुक्तो भवतीत्यर्थः । ‘ब्रह्महस्तिभ्यां वर्चसः' इत्यच् - प्रत्ययविधानात् ब्रह्मवर्चसेनेति साधुः । अन्नाद्येन अन्नादिनेत्यर्थः ॥ ८ ॥
विद्याभ्यासिनो मेधाप्राप्त्यर्थं काञ्चन विद्यामाह - यश्छन्दसामिति ॥
तैत्तिरीयोपनिषत्
यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय ॥ ९ ॥
खण्डार्थ:
(खं.) य इन्द्रः परमेश्वरः छन्दसामृषभोऽधिपतिर्नियन्तेति यावत् । विश्वरूपः पूर्णविग्रहस्वरूप:, नानारूप इति वा, 'इन्द्रो मायाभिः पुरुरूप ईयते' इत्यादेः।अमृतात् अमृतेभ्यः व्यत्ययात् नित्येभ्यः छन्दोभ्यः बेदेभ्यः अधिसम्बभूव अधिकतया सुव्यक्तः स इन्द्रः मा मां मेधया प्रज्ञया स्पृणोतु, ‘स्पृक् प्रीतिरक्षणयो:' इति धातुपाठात् । ' स्पृक् प्रीतिरक्षणयो:' इति क- विकल्पद्रुमोक्तेः । प्रीणयतु, प्राणनं बलम्, बलयतु, मेधाविनं करोतु । हे देव अमृतस्य नित्यस्य वेदस्य धारणः धारको भूयासम्, तत्त्वज्ञानी भूत्वा क्षिप्रं मुक्त: स्यामिति भावः । मे शरीरं विचर्षणं विशिष्टाश्चर्षणय: प्रजा: यस्य तत् विशिष्टशिष्यप्रजायुक्तं भूयादिति विपरिणामेनान्वयः । मे जिह्वा मधुमत्तमा अतिशयेन मधुमती मधुरभाषिणी सुखसाधनभगवद्बोधकवेदोच्चारणवती भूयादित्यर्थः । कर्णाभ्यां भूरि ब्रह्म विश्रुवम् । विशेषेण शृणवानीति । व्याख्यातैषा श्रुतिः कर्मनिर्णयटीकायाम् । त्वत्तो मे वेदप्रार्थनं त्वद्विषय- मेधाप्रार्थनं च युक्तम् । तब तदुभयवत्त्वादिति भावेनाऽह - ब्रह्मण इति ॥ ब्रह्मणो वेदस्य कोशोऽसि आवासोऽसि । मेधया प्रज्ञया पिहितः आच्छादितः, सम्पूर्णज्ञानोऽसीत्यर्थः । मे श्रुतं मया श्रुतं गोपाय रक्ष । गुपू रक्षणे, 'गुपूधूपविच्छिपणिपनिभ्य आय:' इति आयप्रत्ययः, फलवत्कुर्वित्यर्थः ॥९॥ विद्याभ्यासिनो मनःक्षोभनिरासाय अन्नादिना भाव्यम् । अतस्तदर्थं काञ्चनविद्यामाह - आवहन्तीति ||
तैत्तिरीयोपनिषत्
आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा ॥ १० ॥
खण्डार्थ:
(खं.) आत्मनो जीवजातस्य चीरं चिरं सर्वभोगानावहन्ती आनयन्ती, वितन्वाना सनातनी, विपूर्वात्तनोतेर्लट: शानच् उ विकरणं यणादेशः, विस्तारवतीत्यर्थः, विस्तारश्च कालतो विवक्षितः । मम वासांसि गावश्च गाश्च अन्नपाने च कुर्वाणा यतस्ततः स्वाहा सुष्ठु आहूयते वेदैः प्रतिपाद्यत इति स्वाहेत्युक्तो गोविन्दः, सु आङ् इत्युपसर्गद्वयपूर्वकात् ह्वयतेः कर्मणि डाप्रत्यये वलोपे च सति स्वाहेति सिद्धेः शब्दस्वाभाव्यादव्ययत्वम् । लोमशां बहुकेझवर्ती ‘लोमादिपामादिपिच्छादिभ्यः शनेलचः' इति मत्वर्थे शप्रत्ययः। सुशिखण्डाम्, वा । ‘चतुष्कपर्दा युवति:' इत्यादिश्रुतेः, ‘चतु:शिखण्डा’ इति श्रुत्यन्तराच्च, एवम्भूतां श्रियं पशुभिस्सह सदा में मयि आवह आनयेत्यर्थः
।। १० ।।
अभ्यस्ता विद्या प्रवचनादधिकफलाय भवति । प्रवचनं च शिष्यसापे- क्षम् । अतः शिष्यसम्पत्तये काञ्चन विद्यामाह - आ मेति ||
तैत्तिरीयोपनिषत्
आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि मा यन्तु ब्रह्मचारिणः स्वाहा ।
प्र मा यन्तु ब्रह्मचारिणः स्वाहा । दमा यन्तु ब्रह्मचारिणः स्वाहा ।
शमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा ।
श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा ॥ ११ ॥
खण्डार्थ:
(खं.) ब्रह्मचारिणो मा माम् आयन्तु । ते कीदृशाः वि विविधा:, प्र प्रकृष्टाः, दमा इन्द्रियनिग्रहवन्तः, 'अर्श आदिभ्योऽच्' इति मत्वर्थेऽच्- प्रत्ययः, शमा विष्णुनिष्ठावन्तः । शिष्यागत्यर्थं यशो यशस्वी जने जनेषु असानि । व्याख्याताऽयं गुरुरिति कीर्तिमान् भवानीत्यर्थः । अस्तेर्लोट उत्तमपुरुषैकवचनमसानीति । स्वाहेत्युक्तार्थम् । अभ्यास आदरार्थः । यश इत्यत्र मतुपो लुक् छान्दसः । वस्यसः सुखस्य विषये, श्रेयान् प्रशस्ततरः श्रेष्ठो वा असानि अविरतसुखवान् स्यामित्यर्थः । तथात्व एव मनसोऽक्षोभेण नित्यं प्रवचनं भवति । नान्यथेत्यर्थः । हे भग षड्गुणपूर्ण त्वं ब्रह्मकोशत्वादिगुणकं मया प्रार्थितं च त्वा त्वां प्रविशानि । हे भग स त्वं मा मां प्रविश । भगवति स्वस्य प्रवेशोक्तेः फलमाह - तस्मिन्निति । सहस्रशाखे सहस्राणि शाखा इव शाखा: रूपाणि यस्य तस्मिन्निति बहुरूपतया सहस्रशाखपदोक्ते तस्मिन् भगपदोक्ते त्वयि प्रविष्टोऽहं निमृजे पापमिति शेष:, प्रक्षालये त्वदुपासनादिना निवृत्तकल्मषो मुक्तो भवानीति भावः ॥ ११ ॥
शिष्यागमनमप्रयत्नेनास्त्विति सदृष्टान्तं प्राथर्यते - यथाssप इति ॥
तैत्तिरीयोपनिषत्
यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरा यन्तु ब्रह्मचारिणः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ १२ ॥
खण्डार्थ:
(खं.) यथा प्रवताः निम्नभूमी: प्रति आपो यन्ति, अहर्जरम् अहानि जीर्यन्त्यत्रेत्यहर्जरं संवत्सरं प्रति यथा मासा यन्ति, एवं हे धातः मां ब्रह्मचारिणः सर्वत आयन्त्विति । प्रतिवेशोऽसि प्रवेष्टुं त्वं योग्योऽसि । श्रमापनयनस्थानम् आसन्नगृहं प्रतिवेशः, तादृशोऽसीत्यर्थः । मां प्रति प्रभाहि 'अभिव्यक्तो भव । म़ां प्रपद्यस्व प्राप्नुहि, मयि सन्निहितो भवेत्यर्थः । भाष्ये तु प्रमाणानुरोधेनाऽमायन्त्विति विद्यां पूर्वं लेशतो व्याख्याय पश्चादावहन्तीति विद्या व्याख्याता । तदनुरोधेन व्यासतीर्थटीकाऽपि तथैव प्रवृत्तेति ज्ञेयम् ||
१२ ॥
वेदविद्याभ्यासार्थिनस्तत्प्राप्त्यर्थं तत्पूर्वभाविनीं व्याहृतिनिष्ठोपास्तिमाह- भूर्भुव: सुवरिति ॥
तैत्तिरीयोपनिषत्
भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ॥ १३ ॥
खण्डार्थ:
(खं.) इत्येता निर्दिष्टा भूरित्यादि त्रयः शब्दाः व्याहृतय: अनिरुद्धादि - चतुरात्मनो विष्णोर्व्याहरणाद्वा, 'व्याहृत्यर्था ऋगादयः' इति वचनात् सर्ववेदोक्तसर्वस्वव्याहरणाद्वा, विशेषेणाऽहरन्ति विष्णुं भक्तं प्रतीति वा व्याहत इत्युच्यन्ते । वै प्रसिद्धमेतत् । तासां व्याहृतीनां महरित्येतां व्याहृतिं चतुर्थीम्, माहाचमस्यः ब्रह्मा प्रवेदयते, स्वार्थे णिच् प्रवेत्ति । भूरादिव्याहृतित्रयं जानन्नपि ब्रह्मा महरिति व्याहृतिं चतुर्थतया जानातीति भावेनैतां चतुर्थी महाचमस्यः प्रवेदयते मह इति विशिष्योक्तिः, न तु भूरादिव्याहृतित्रयं न जानातीति भावेनेति ज्ञेयम् । प्रवेदयते वरुणादीन् बोधयतीति वाऽर्थः । ' णिचश्च' इत्यात्मनेपदम् । उ ह स्मेति निपातसमुदाय: प्रसिद्धिद्योतकः । केन निमित्तेन भूरादयश्चत्वारः शब्दाः विष्णुं व्याहरन्तो व्याहृतिशब्दवाच्या अभूवन्निति चेदुच्यते । 'भुक् शुद्धिचिन्तयो:' इति कविकल्पद्रुमोक्तेः चिन्तार्थकस्य भूधातोः क्विपि ज्ञानरूपत्वाद् भूः । 'भू बहौ' इति छान्दोग्यभाष्योक्तेः भूशब्दो बहुत्ववाची, वशब्दो वीर्यवाची, भूः भूरि वः वीर्यं यस्येति व्युत्पत्तौ भूशव्दे ह्रस्वत्वे सति भूरिवीर्यत्वात् भुव इति ज्ञेयम् । वशब्दो बलवाची, तेन तत्कार्यमारब्धान्तगामित्वं वीर्यं लक्षयित्वा भूरिवीर्यत्वात् भुव इति वा व्याख्ये- यम् । सुवः सुष्ठु वं बलं यस्येति विग्रहेण सुबलरूपत्वात्सुवः, पूर्णत्वान्महः, इत्यादिप्रवृत्तिनिमित्तेन विष्णोर्व्याहर्तृत्वात् भूरादेः व्याहृतिशब्दितत्वं ध्येयम् । उक्तं हि - 'भूर्नामा स्फूर्तिरूपत्वात्' इत्यादि ||
स्थलान्तरे च 'भावनाचैव सुत्वाच्च' इति । 'पूर्णो भूतिवरोऽनन्तसुखः' (ऋ.भा.) इति च । चमदित्यव्ययात् करोत्यर्थे 'असप्रत्यये ‘अव्ययानां भमात्रे टिलोपः' इति टिलोपे चमस इति सिद्धेः । चमसशब्दस्य महत्पदेन समासे सति महाचमसशब्देनातिचमत्कृतित्त्वात् व्याहृतिचतुष्टयप्रतिपाद्यो वक्ष्यमाणदिशा षोडशात्मा हरिरुच्यते । तं महाचमसं जानातीत्यर्थे ण्यप्रत्यये आदिवृद्धौ 'यस्य' इति पूर्वान्तलोपे माहाचमस्यो व्याहृत्यर्थविष्णुज्ञानी ब्रह्मेति ध्येयम् । भूरादिचतुष्टयेन व्याहृतं विष्णुरूपं कुत: ? येन तेषां व्याहृतित्वमित्यत आह- तद् ब्रह्मेति ॥ भूरादिचतुश्शब्दव्याहृतमनि- रुद्धादिरूपचतुष्टयं ब्रह्म, गुणैबृंहितत्वाद् ब्रह्मेत्यर्थः । स चतुरात्मा ब्रह्मपदोक्तः आत्मा देवादीनां सर्वेषां स्वामी । अन्या देवता ब्रह्मादयः अङ्गानि गुणभूतानि तत्परिवारभूतानीत्यर्थः । ‘अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ' ( ब्र. सू. ३.३.५७) इत्युक्तेः । यद्वा तद् ब्रह्मेत्यत्र तत्पदेन महरिति चतुर्थव्याहृति- वाच्यं सन्निहितं विष्णुरूपं परामृश्य तस्य ब्रह्मेति वासुदेवाख्यचतुर्थरूपत्वमुच्यते, ‘ब्रह्म पन्थाः सत्यं कर्मेति क्रमेण वासुदेवाद्याश्चतस्रो मूर्तयः' इत्यैतरेय- भाष्योक्ते: । 'वासुदेवो महो नाम' इतीहैवोक्तेश्च स इति तस्यैव परामर्शः । स वासुदेवः आत्मा मध्यदेहः, अन्या देवता अनिरुद्धप्रद्युम्नसंकर्षणरूपा देवता अङ्गानि शिरोबाहुपादरूपाङ्गानीत्यर्थः । भूरित्येकवर्णप्रतिपाद्य- मनिरुद्धरूपं शिरस्त्वेन, भुव इति वर्णद्वयप्रतिपाद्यं प्रद्युम्नरूपद्वयं बाहुद्वयतया सुवरिति वर्णद्वयप्रतिपाद्यं संकर्षणरूपद्वयं पादद्वयतयाऽस्तीत्यर्थः । रूपाणां ‘न स्थानतोऽपि' इति न्यायेनाभेदेऽपि चत्वार इति विशेषशक्त्या संख्यामात्रविशेषेणान्या देवता इत्यन्यत्वोक्तिरिति ज्ञेयम् । ‘अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः' (ब्र.सू.भा. १.१.६ ) इति सूत्रभाष्योक्तेः । ‘अङ्गाङ्गित्वेन भगवान् स्वानन्दानुभवे स्थितः । स एव व्यूह्य चाऽऽत्मानं पृथग्रूप इव स्थितः' इत्यैतरेयभाष्योक्तेश्च ॥ १३ ॥
भूरादिशब्दचतुष्टयवाच्यरूपचतुष्टयस्य लोकज्योतिर्वेदप्राणाख्यवर्ग- चतुष्टयरूपस्थानान्याह - भूरित्यादिना ॥ अयं लोक इति ॥
तैत्तिरीयोपनिषत्
भूरिति वा अयं लोकः । भुवः इत्यन्तरिक्षम् । सुवरित्यसौ लोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे लोका महीयन्ते ।
भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते ।
भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।
भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ १४ ॥
खण्डार्थ:
(खं.) समीपस्थत्वसर्वाधारत्वहेतुभ्यामयं लोक इति शब्दवाच्यो भूलोकस्थोऽनिरुद्धः भूरित्युक्तानिरुद्धात्मा वै अनिरुद्धानिरुद्ध इति प्रसिद्ध इत्यर्थः । अन्तरीक्षणीयत्वहेतुनाऽन्तरिक्षनामाऽन्तरिक्षस्थोऽनिरुद्धः भुवः भुव इति शब्दवाच्य प्रद्युम्नात्मा सोऽयमनिरुद्धप्रद्युम्नः । प्राणस्थितत्व- सर्वाधारत्वभ्याम् असौ लोक इत्युक्तो द्युलोकस्थोऽनिरुद्धः सुवरित्युच्यते । सुवरशब्दवाच्यसंकर्षणात्मा सोऽयमनिरुद्धसङ्कर्षण: । आदित्यः अदिति - सुतत्वहेतुना आदित्यस्थ आदित्यनामाऽनिरुद्धः । महरितिशब्दवाच्य - वासुदेवात्मा सोऽयमनिरुद्धवासुदेव इति । तस्य महिमानमाह - आदित्ये- नेति || आदित्येन महरिति शब्दवाच्यवासुदेवात्मना स्थितेन अनिरुद्ध - वासुदेवाख्येन सर्वे लोका: पृथिव्यादिलोकत्रयस्था: अनिरुद्धानिरुद्धानिरुद्ध- प्रद्युम्नानिरुद्धसङ्कर्षणाख्यास्तिस्रो मूर्तयः सर्वे लोका इत्युच्यमाना महीयन्ते पूज्यन्ते, क्रीडया पूज्यपूजकभावेन वर्तन्त इत्यर्थः । वावेति किलार्थे, वस्तुतो न पूज्यपूजकभावकृतोच्चनीचत्वादीति भावः । भूरिति वा अग्निरिति । अङ्गनेतृत्वादिनाऽग्निनामाऽग्निस्थ: प्रद्युम्नः भूरित्युक्तानिरुद्धः सोऽयं प्रद्युम्नानिरुद्धः वै प्रसिद्धः । ' वय बन्धने' इत्यतो वयति बध्नाति जगदिति वायुनामा वायुस्थ: प्रद्युम्नः । भुवः भुवः शब्दवाच्यप्रद्युम्नात्मा सोऽयं प्रद्युम्न - प्रद्युम्नः । आदित्यस्थः आदित्यनामा प्रद्युम्नः सुवरिति शब्दवाच्यसङ्कर्षणात्मा सोऽयं प्रद्युमसङ्कर्षणः । आह्लादरूपत्वेन चन्द्रमाः तच्छब्दवाच्यः चन्द्रस्थः प्रद्युम्नः महरितिशब्दवाच्यवासुदेवात्मा सोऽयं प्रद्युम्नवासुदेव: । चन्द्रमसा वावेति पूर्ववज्ज्ञेयम् । ऋचः अर्च्यत्वशब्दितपूज्यत्वहेतुना ऋड्नामा ऋकूस्थित: सङ्कर्षण: भूरिति व्याहृतिवाच्यानिरुद्धात्मा सोऽयं सङ्कर्षणानिरुद्धः । समत्व- हेतुना सामनामा सामस्थितः सङ्कर्षण : भुव इति शब्दोक्तप्रद्युम्नात्मा सोऽयं सङ्कर्षणप्रद्युम्नः । याज्यस्वरूपतया यजुर्नामा यजुषि स्थितः सङ्कर्षण: सुवरिति शब्दोक्तसङ्कर्षणात्मा सोऽयं सङ्कर्षणसङ्कर्षण: । बृहत्त्वादखिलवेदाद्युक्तत्वहेतुना ब्रह्मनामा ब्रह्मशब्दिताखिलवेदसमुदायस्थः सङ्कर्षण: महरित्युक्तवासुदेवात्मा सोऽयं सङ्कर्षणवासुदेवः । ब्रह्मणा वावेति प्राग्न्नत् । प्रकृष्टनयनहेतुना प्राणनामा प्राणस्थो वासुदेवः भूरित्युक्तानिरुद्धात्मा सोऽयं वासुदेवानिरुद्धः वै प्रसिद्धः। अवाङ्नयनहेतुनाऽपाननामा अपानस्थः वासुदेव: भुव इत्युक्तप्रद्युम्नात्मा सोऽयं वासुदेवप्रद्युम्न इति प्रसिद्धः । विविधनयनहेतुना व्याननामा व्यानस्थितः - वासुदेवः सुवरित्युक्तसंकषर्णात्मा सोऽयं वासुदेवसङ्कर्षणः । सर्वजीवोप- जीव्यत्वरूपाद्यत्वहेतुना अन्ननामा अन्नस्थो वासुदेव: महरित्युक्तवासुदेवात्मा सोऽयं वासुदेववासुदेवः । अन्नेन बावेति प्राग्वत् । प्रागुक्तं बुध्यारोहाय सङ्गृह्येोक्त्वा तदनुवादेन फलवत्तामाह - ता वा एता इत्यादिना || ताः भूर्भुव: सुवरिति वा इत्यत्र निर्दिष्टा एता भूरिति वाऽयं लोक इत्यादिना लोकज्योतिर्वेदप्राणेषु प्रत्येकं चतुरात्मकस्थानेषूक्ताः चतस्रो व्याहृतयः, व्याहृतिशब्दवाच्यभूरादिशब्दवाच्या मूर्तयोऽनिरुद्धादयः प्रत्येकमनिरुद्धादि - भेदेन चतुर्धा भवन्ति । वै खल्विति । कियन्त्यो मूर्तयो जाता इत्यत आह –
चतस्रश्वतस्रो व्याहृतय इति । व्याहृतयः, व्याहृतिभिर्वाच्या भगवन्मूर्तयः चतस्रश्चतस्रः षोडश भवन्ति । ताः षोडशमूर्तीर्यो वेद ब्रह्मपदयोग्यो यः कश्चिद्वेद उपास्ते साक्षात्करोति च स एव ब्रह्म गुणबृंहितं विष्णुं वेद, विशेषतो जानाति । अस्मै मुक्तब्रह्मणे सर्वे मुक्तौ स्थिता देवा: बलिं पूजाम् आवहन्ति आहरन्तीति । तथा च सूत्रं ' प्रत्यक्षोपदेशादिति चेन्नाऽधिकारिकमण्डल- स्थोक्ते:' इति (४-४-१९) ।। १४ ।।
भूरादिव्याहृतिचतुष्टयवाच्यस्य अनिरुद्धादेः देहेऽपि स्थानविशेषानु- पास्त्यर्थमाह - स य एष इति ॥
तैत्तिरीयोपनिषत्
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो वि वर्तते । व्यपोह्य शीर्षकपाले ॥ १५ ॥
खण्डार्थ:
(खं.) स: प्रसिद्धो य एष हृदयेऽन्तराकाशः तस्मिन्नाकाशे अयं भूरित्युक्तः, मनोमयः ज्ञानप्रचुरः, अमृतः नित्य:, हिरण्मयः विलक्षणानन्दप्रचुरः, ‘हिरुक् सुखं हिरण्यं स्यात्' इति स्मृतेः । पुरुषोऽनिरुद्धः वर्तत इत्याकृष्यते । तालुके तालुकयोः अन्तरेण मध्ये य एष स्तन इवावलम्बते सा इन्द्रयोनि: इन्द्रस्य परमेश्वरस्य प्रद्युम्नस्य योनि: स्थानम्, विधेययोन्यपेक्षया सेति स्त्रीलिङ्गोक्तिः । यत्रासौ केशान्तः, बहुव्रीहिः, केशमूलम्, तत्रेति शेषः । वि अविभक्तिको निर्देशः, विः सुपर्णरूपः सङ्कर्षणो वर्तते, अशीर्षकपाले, शिर:कपालान्यदेशे, कपालादुपरीति यावत् । व्यपः, व्यप इत्युक्तो वासुदेवो वर्तते, हि प्रसिद्धमेतदिति । 'उपसर्गा हि धातुसम्बन्धेन तदर्थबोधादिहेतवः, केवलास्तु ससाधनक्रियावाचिनो भवन्ति' इति 'यो व्यतरफाणयत्' इत्यत्र कर्मनिर्णये टीकाकृदुक्तेः । व्यपगतवाचिव्यपशब्दे उपपदे अस्ते: क्विपि,
अन्तलोपे, शकन्ध्वादित्वात् "अतो गुण' इति पररूपे व्यप इति रूप- सिद्धेः । व्यपगतेऽपि जगति स्थातेति व्यपो वासुदेवो ज्ञेयः ॥ १५ ॥
भूरादिव्याहृतिवाच्यानामनिरुद्धादीनामुपासनार्थं स्थानान्तराण्याह - भूरित्यग्नावित्यादिना ॥
तैत्तिरीयोपनिषत्
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् ततो भवति ॥ १६ ॥
खण्डार्थ:
(खं.) प्रागुक्तनिरुक्त्या भूरित्युक्तोऽनिरुद्धोऽग्नौ प्रतितिष्ठति । भुव इत्युक्तः प्रद्युमः वायौ प्रतितिष्ठतीत्यनुषङ्गः । सुवरित्युक्तः सङ्कर्षण: आदित्ये महरित्युक्तो वासुदेव: ब्रह्मणि चतुर्मुखे प्रतितिष्ठति । चतुर्मुखस्थोऽपि वासुदेवः न परिच्छिन्न इत्याह - आप्नोतीति ॥ स्वाराज्यं जगत् आप्नोति व्याप्नोति, जगद् व्याप्य वर्तत इत्यर्थः । मनसस्पतिमनिरुद्धं चाऽऽप्नोतीत्यर्थः । नित्यैश्वर्यबलात् स्वव्यापी जगद् व्यापी च यतस्ततः वाक्पति: वाचि स्थित:
बानियन्ता, चक्षुष्पतिः श्रोत्रपति: विज्ञानपतिरित्येतद् भवति इत्येवंरूप एष भवतीत्यर्थः ।। १६ ॥
वासुदेवस्य गुणानाह - आकाशशरीरमित्यादिना ||
तैत्तिरीयोपनिषत्
आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् । इति प्राचीनयोग्योपास्व ॥ १७ ॥
खण्डार्थ:
(खं.) 'ब्रह्म' वासुदेवाख्यं ब्रह्म 'आकाशशरीरम् ' आकाशवद् व्याप्त- देहम् । 'सत्यात्म' साधुगुणपूर्णम्, 'सद्भावे साधुभावे च' इत्युक्तेः सच्छब्दपर्यायसत्यशब्दस्य, साधुगुणदाचित्वात् । प्राणारामं प्राणस्य वायो : आ समन्तात् विशेषेण रामं रमकं रमतेर्ण्यन्तादच् प्रत्ययः । यद्वा प्राणशब्दो बलवाची । बलात्मकत्वात् सुखात्मकत्वात् प्राणारामम् । मन आनन्दं ज्ञानानन्दात्मकम् । सुखोन्नतिरूपत्वाच्छान्त्यात्मकं स्वतः पूर्तेः समृद्धम् । अमृतं देहतोऽपि नित्यम् इत्येवं रूपेण हे प्राचीनयोग्य अधिकारिणां प्राथमिकयोग्य चतुर्मुख उपास्वेति प्राह - भगवान्नृषिर्विष्णुश्चतुर्मुखमिति ज्ञेयम्
वेदविद्याप्राप्त्यर्थं पूर्वभाविविद्यान्तरमाह - पृथिवीत्यादिना ||
तैत्तिरीयोपनिषत्
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसं स्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १८ ॥
खण्डार्थ:
( स्वं.) पृथिव्याद्यधिभूतपञ्चकत्रये प्राणाद्यध्यात्मपञ्चकत्रये च क्रमान्नारायणादिवासुदेवान्ताः मूर्तय: पृथुत्वादिनिमित्तै: पृथिव्यादिषु स्थिताः पृथिव्यादिशब्दैः पञ्चभिः पञ्चभिरुच्यत इति ज्ञेयम् । इत्यधिभूतमिति भूतपञ्चकत्रये स्थितानि पञ्चरूपाण्युक्तानीत्यर्थः । तत्राऽत्मशब्दोऽहङ्कार- तत्त्वपरः भूताधिकारत्वात् । अथेत्यर्थान्तरे तदाह- अध्यात्ममिति ।। आत्मनि देहे स्थितानि नारायणादिरूपाणि साधिष्ठानान्युच्यन्त इत्यर्थः । एतत् पृथिव्यादिपञ्चकषट्कम् अधिविधाय अधिकृत्य ऋषिरादिऋषिर्विष्णुः, इदं सर्वं पृथिव्यादिवर्गषट्कं पाङ्क्तं पञ्चत्वसङ्ख्यायुक्तं वै खलु पाङ्क्तेन पञ्चत्वसंख्यायुक्तेन नारायणादिरूपेणैव पाङ्क्तं पञ्चसंख्यायुक्तं पृथिव्यादिकं स्पृणोति ‘स्पृक् प्राणने' इत्युक्तेः बलयति स्वस्वव्यापारशक्तं करोति इत्यवोचदिति योजना ।। १८ ॥
वेदविद्याभ्यासार्थिनः पूर्वभाविनीं प्रणवविद्यामाह - ओमिति ब्रह्मेति ॥
तैत्तिरीयोपनिषत्
ॐ इति ब्रह्म । ॐ इतीदं सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्या श्रावयन्ति । ओमिति सामानि गायन्ति । ओग्ंशोमिति शस्त्राणि शग्ंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १९ ॥
खण्डार्थ:
(खं.) ब्रह्म विष्णु: ओम् इत्युच्यते । अकारोकारौ अधिकोञ्चत्ववाचकौ. योग्यतया गुणानामन्वयः । अधिकोच्चगुणत्वहेतुनेति भावः । न केवलं मूलरूपी विष्णुरेव ओंनामा । इदं सर्वं मत्स्यादिसर्वरूपजातम् ओमित्युच्यते । सर्वरूपाणाम् अधिकगुणपूर्णत्वादिति भावः । तथा च सूत्रम् - ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ (३.२.११) इति । कुतो विष्णोरोन्नामत्वं ज्ञायत इत्यतो विष्णुमुद्दिश्य कर्माणि कुर्वद्भिः नियमेन तदा तदा ओमित्युच्चार्य - माणत्वादिति भावेनाऽऽह् - ओमित्येतदनुकृतीत्यादि । ओम् अधिकोच- होतृस्थविष्णो श्रावय स्वमूलरूपं श्रावयेति आश्रावयन्ति उच्चैरुच्चारयन्ति अध्वर्यवो होतृस्थं हरिं प्रतीत्यर्थः । यदि हरिरोन्नामा न स्यात् तदाऽध्वर्युः तथा न ब्रूयादिति भावः । ओ श्रावयेति वाक्ये ओंकारो नोपलभ्यत इत्यत उक्तम्- ओमित्येतदनुकृतीति ॥ एतदनुरूपं ह स्म वै ओ इत्येतदकारानु- करणरूपं प्रसिद्धमित्यर्थ । अपिर्वक्ष्यमाणमन्त्रसमुच्चये । ओमिति सामा-नीति । उद्गातृप्रस्तोतृप्रतिहर्तृसुब्रह्मण्याख्याश्चत्वारः उद्गातार: । ओमिति विष्णुमुद्दिश्य सामानि गायन्ति - ओशोमितीति । होतृमैत्रावरुणाच्छावाक- ग्रावसुतश्चेति चत्वारो ह्येतृगणस्था: ॐ शोशावेति ओं अधिकोच्च शं सुखरूप ॐ शं अत्युच्चसुख विष्णो अव रक्ष, इत्युक्त्वा शस्त्राणि शंसन्तीत्यर्थः ' ओमितीति || ' ओ धामो देव' इति 'ओ' अधिको 'धाम' महाधाम 'ओ देव' सूच्चदेवेति प्रतिगरं मन्त्रम् अध्वर्युः प्रतिगृणाति उच्चारयति । ओमति विष्णुमुद्दिश्य ब्रह्मा ब्रह्माख्यऋत्विक् प्रसौति सोममभिषुणोतीत्यर्थः । • ओमित्यग्निहोत्रमिति ॥ विष्णुः कर्म साङ्गं सफलं करोत्विति भावेन ओमित्यग्निहोत्रादिकमनुजानाति तत्कर्मकृतावनुज्ञाम् ओमित्यनेन करोतीत्यर्थः । ब्राह्मणः प्रबक्ष्यन् व्याकरिष्यन् स्वाध्यायाध्ययनादिकं करिष्यन् ब्रह्म विष्णुम् उपाप्नवानीति भावेनोमित्याहेत्यर्थः । तत्किं तदभिसन्धिर्मृषा भवति ? नेत्याह - ब्रह्मैवोपाप्नोतीति ॥ एतच्चोपलक्षणम् । यद्यध्वर्युप्रभृतयोऽप्युक्तज्ञानपूर्वकं ब्रह्मोपानवानीत्यभिसन्धिपूर्वकं मन्त्रानुच्चारयेयुः तदा ब्रह्म प्राप्नुवन्त्येवेत्यपि ध्येयम् || १९ ॥
वेदाख्यब्रह्मविद्याकामस्य तत्प्राप्त्यर्थं तत्पूर्वभाविनो यमनियमानाह ऋतं चेत्यादिना ॥
तैत्तिरीयोपनिषत्
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च च स्वाध्यायप्रवचने च । दमश्च च स्वाध्यायप्रवचने च । शमश्च च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ॥ २० ॥
खण्डार्थ:
(खं.) ऋतं यथार्थज्ञानम्, स्वाध्यायो गुरुच्चारणानूच्चारणम्, प्रवचनं व्याख्यानम्, ऋतं च स्वाध्यायप्रवचने चेत्यादीनि कर्तव्यानीति सर्वत्र शेष: । सत्यं चेति यथार्थज्ञानपूर्वकं वचनम्, तत्पूर्वकं करणं चेति ज्ञेयम् । ध्यानं सत्यं पूज्यपूजा च तपः, दम इन्द्रियनिग्रहः, शमः भगवन्निष्ठा, अग्नयः अग्नीनाम् आधानम् । अग्निहोत्रम् अग्निहोत्रानुष्ठानम् । अतिथयः अतिथिपूजनम्, मानुषं मनुष्यस्येदं मानुषम्, देवादेरुत्तमस्य मनुष्यत्वे प्राप्ते ज्ञानाद्यतिशये सत्यपि तदप्रकाशेन मनुष्यसम्बन्धिधर्मप्रदर्शनं मानुषमित्यर्थः । प्रजा सुतोत्पत्तिः, प्रजननं तद्रक्षणम्, प्रजाति: पित्रा पुत्रस्य द्विजत्वसंस्कारेण प्रकृष्टजातिकरणम्, सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यताज्ञापनार्थं सर्वत्रानुषङ्गः || २० ||
सत्यादीनां श्रेयस्साधनत्वं सममुतैकस्याधिकमित्यपेक्षायां मुनिमतोक्तिपूर्वं कस्यचित् तदाह- सत्यमित्यादिना ||
तैत्तिरीयोपनिषत्
सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ २१ ॥
खण्डार्थ:
(खं.) सत्यवचाः सत्यवचनो राथीतरो नाम मुनिः सत्यं यथार्थज्ञानपूर्वकं वचनं करणं च श्रेय इत्याह - तप इति ॥ तपोनित्यः तपसि नित्यः तपः परः । पौरुशिष्टिर्नाम ऋषिः ध्यानादिरूपं तपः श्रेय इत्याह । नाको मौद्गल्यः । मुद्गलपुत्रो मौद्गल्यः नाको नाम मुनिः स्वाध्यायप्रवचने एव श्रेयसी इत्याहेत्यर्थः। तत्राऽऽद्ययोस्समत्वेऽपि तृतीयं मतमतिशयितमित्याह - तद्धि तपस्तद्धि तप इति ।। ऋतादेः सर्वस्यानयोरेवान्तर्भावादेतयोरेवानुष्ठाने सर्वं तेन कृतं भवत्येवेति भावः । तदुक्तम् - 'सम्यक् ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत वा । न तस्य किञ्चिदकृतं कर्तव्यं मुच्यते च सः' (तै.भा.) इति ।। २१ ।।
स्वाध्यायप्रवचनयोराधिक्यमित्युक्तेऽर्थे आख्यायिकामाह- अहमिति ।।
तैत्तिरीयोपनिषत्
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणग्ं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ २२ ॥
खण्डार्थ:
(खं.) वृक्षस्य संसारवृक्षस्य रेरिवा छेत्ता, 'रर् च्छेदने' इत्यतो लिटि 'लिटः क्वसुः' इति क्वस्वादेशे द्विर्वचने एत्वाभ्यासलोपयोः स्वाद्युत्पत्तौ उगित्वानुमि 'अत्त्वसंतस्येति दीर्घे रेरिवेति सिद्धेः । कीर्तिः मत्कीर्तिः, गिरेः पृष्ठमिव विस्तीर्णा | संसारनिवर्तनादिकं न मत्सामर्थ्यात् किन्त्वीश- प्रसादादिति भावेनोक्तम् - ऊर्ध्वेत्यादि । ऊर्ध्वेन उत्कृष्टेन ह्रिणा पवित्र: पावितोऽस्मि यतोऽत इति योज्यम् । किं च वाजिनीवस्वमृतमस्मि । वाजी चासौ अश्वरूपश्वासौ नीश्च नेता च वाजिनी:, नयते: क्किपू, वाजिन्यां सूर्ये वासतीति वाजिनीवसुः, वसते रु:, सूर्यस्थो विष्णु:, तेन वाजिनीवसुना अमृतम् अमृतोऽस्मि । प्रारब्धकर्मनिर्मुक्तोऽस्मि । कथम् ? सुवर्चसं शोभनकान्तियुक्तं द्रविणं स्वर्णमिव जातोऽस्मि । नित्यानन्दस्वरूपत्वादिति भावः । व्याख्यातैषा श्रुतिः गीताभाष्यटीकायां पञ्चदशेऽध्याये । सुमेधा अस्मि । अमृतोक्षितः अमृतेन हरिणा उक्षित:, उक्ष सेचने, सिक्त: अमृतेन व्याप्तोऽस्मीति यावत् । इति एवं त्रिशङ्कोर्मानवस्य नृपस्य वेदानुवचनं वेदव्याख्यानफलम् ।। २२।।
वेदश्रवणानन्तरभाविनो यमनियमानाह वेदमनूच्येत्यादिना ॥
तैत्तिरीयोपनिषत्
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकग्ं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि । ये के चास्मच्छ्रेयाग्ंसो ब्राह्मणाः । तेषां त्वयासने न प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥ २३ ॥
खण्डार्थ:
(खं.) अनूच्य व्याख्याय, आचार्यः शिष्यमनुशास्ति शिक्षयति । अनुशासनप्रकारमेवाऽऽह - सत्यं वदेत्यादिना || स्वाध्यायान्मा प्रमदः । प्रमादं मा कार्षीः । स्वाध्यायं मा विस्मार्षीरित्यर्थः । आचार्यायेष्टं धनमाहृत्य आनीय गुरुदक्षिणां दत्वा तदनुज्ञातोऽनुरूपदारानुद्वाह्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः । प्रजासन्ततेरविच्छित्तिः कार्या । आवश्यकत्वज्ञापनाय ‘सत्यात्' इत्यादि पुनर्वचनम् । कुशलात् श्रेोहेतुव्यापारात्, भूत्यै भूत्यर्थम् ऐश्वर्यार्थम्, न्यायोपायेन द्रव्यार्जनं कार्यमित्यर्थः । स्वाध्यायेत्यादि व्यक्तम् । मातृदेव इत्यादेः माता पूज्या यस्यासौ मातृदेव इत्यादिरर्थो ज्ञेयः । अनवद्यानि अनिन्दितानि, इतराणि सावधानि नो न कार्याणि । अस्मच्छ्रेयांसः मत्तोऽपि श्रेष्ठाः, तेषां त्वयाऽसनेन आसनादिना आसनाद्युपचारेण प्रश्वसितव्यम्, प्रश्वासः श्रमापनोदः । महात्मनामागमने तच्छ्रमापनोदो यथा तथा कर्तव्यमित्यर्थः । अश्रद्धया देयमिति । अश्रद्धयाऽपि देयमेव ।गुणभूतश्रद्धाभावेन प्रधानदानलोपो न कार्य इति भावः । केचिददेयमिति पदं छिन्दन्ति । श्रिया देयमिति । प्रसन्नेन मनसेत्यर्थः ॥ २३ ॥
तैत्तिरीयोपनिषत्
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ताः अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ २४ ॥
॥ इति प्रथमवल्ली सम्पूर्णा ||
खण्डार्थ:
(खं.) अथेत्यर्थान्तरे । मां विहाय देशान्तरं गतस्य ते यदि कर्मविचिकित्सा यज्ञादिभगवदाराधनकर्मविषये सन्देहः, वृत्तविचिकित्सा कर्माङ्गाचारविषये सन्देहः, स्यात् भवेत् तदेति शेष: 1 संमर्शिनो विमर्शकारिणः, युक्ता योगयुक्ताः, आयुक्ताः, स्वधर्मानुष्ठानाग्रहयुक्ताः, अलूक्षा: अरूक्षा: प्रश्ने कृते कोपरहिताः, धर्मकामा अदृष्टार्थिनः, ते महात्मानः तत्र विचिकित्सितकर्मणि वृत्ते वा यथा वर्तेरन्, तथा त्वमपि वर्तेथाः । अथेत्यर्थान्तरे, अभ्याख्यातेषु निन्दितेषु विचिकित्सा स्यादिति वर्तते । ये तत्रेत्यादि प्राग्वत् । एष आदेशः इयमाज्ञा, हरेः । न केवलमाज्ञा, किन्तु एष उपदेश: नायं यादृशतादृश उपदेशः अपि तु एषा वेदोपनिषत्, वेदरहस्यमेतत् । एतदनुशासनं शिक्षे- त्यर्थः । प्रागुक्तं सत्यत्वादिकं अवश्यमुपास्यमिति द्विरुक्त्याऽवधारयति - एवमिति ।। उपासितव्यं प्रागुक्तसत्यवचनादिकमवश्यानुष्ठेयमित्यर्थः । यथा शान्त्या विद्योपक्रम्य समापिता तामेव विघ्ननिवृत्तौ शक्तेति भावेनान्तेऽपि पठति - शं नो मित्र इति । अत्र वायो त्वामेव प्रत्यक्षं ब्रह्मावादिषमित्युक्तेः बीजं उपक्रम एवोक्तम् ।। २४ ॥
|| इति प्रथमावल्ली सम्पूर्णा ॥