ॐ शान्तिः शान्तिः शान्तिः ॐ
॥ अथ भृगुवल्ली ॥
ब्रह्मवल्युक्तार्थे संवादितया काञ्चनाऽख्यायिकां प्रागुक्तशान्तिपठनपूर्वक- माह - सह नावित्यादिना ॥
तैत्तिरीयोपनिषत्
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तग्ं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ॥ १ ॥
खण्डार्थ:
(खं.) वारुणि: वरुणस्यापत्यं भूगुः वरुणं पितरमुपससार उपसादितवान् । किमिति ? अधीहि अध्यापय । भगवः भगवन् । 'मतुवसो रुः सम्बुद्धौ छन्दसि' इति भगव इति साधु । ब्रह्मोपदिशेत्युपसत्तिमगादित्यर्थः । तस्मै भृगवे वरुण एतत् वक्ष्यमाणं रूपाष्टकं प्रोवाच । तदाह - अन्नमिति ॥ अन्नमयं प्राणमयं चक्षुर्मयं श्रोत्रमयं मनोमयं वाङ्मयं विज्ञानमयम् आनन्दमयं चेत्येवं नामैकदेशे नामग्रहणन्यायेनायं निर्देशो ध्येयः । विज्ञानमयानन्द- मयावप्युपलक्ष्यौ । एतेन ब्रह्मवल्यां पञ्चरूपोक्तिरुपलक्षणम् । चक्षुर्मय- श्रोत्रमयवाङ्मया अपि ग्राह्या इत्युक्तं भवति । तथा ह्युक्तं बाधूलशाखायां ‘तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा वाङ्मयः । तस्माद्वा एतस्माद्वाङ्क्षयात् अन्योऽन्तर आत्मा चक्षुर्मयः । तस्माद्वा एतस्मा- च्चक्षुर्मयात् । अन्योऽन्तर आत्मा श्रोत्रमयः । तस्मात्प्राणमयः । तस्मान्मनो- मयः । तस्माद्विज्ञानमयः तस्मादानन्दमय:' इति । भगवत्यन्नमयादेर्निरुक्तिः प्राग्वज्ज्ञेया । चक्षुर्मयत्वादेस्तु 'पूर्णदर्शनशक्तित्वाच्चक्षुर्मय इतीरितः ' इत्यैतरेयभाष्योक्तरीत्या पूर्णदर्शनशक्तित्वपूर्ण श्रवणशक्तित्व- पूर्णवक्तृत्वशक्तिकत्वरूपा वा । 'चक्षुः स चष्टे यद्विष्णुः' इत्येतद्भाष्योक्त दिशा वा निरुक्तिया । कुत एतद्रूपाष्टकस्य ब्रह्मत्वमित्यतो ब्रह्मप्रश्नोत्तरत्वेनैव सिद्धेऽपि ब्रह्मत्वे ब्रह्मलक्षणमप्येष्वस्तीत्याह - त होवाच यतो वा इति ॥ यत्प्रयन्ति प्रलये । यदभि स्वेच्छया संविशति मुक्तौ । तद्विजिज्ञासस्व । तद्विषयकश्रवणमनननिदिध्यासनरूपजिज्ञासां कुरु । कुत: ? तद् ब्रह्म अत (तद्विजिज्ञासस्व) इत्युवाचेति पूर्वेणान्वयः || १ ||
ततः किं जातमित्यत आह - स तप इति ॥
तैत्तिरीयोपनिषत्
स तपोऽतप्यत । स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥ २ ॥
खण्डार्थ:
(खं.) एवमुपदिष्टो भृगुः । तप आलोचनम् अतप्यत अकरोत् । स तपस्तप्त्वा आलोचनं कृत्वा । अन्नम् अन्नमयमनिरुद्धं ब्रह्मेति व्यजानात् । साक्षात्कृतवान् कथमित्यतो जगज्जन्मादिकर्तृत्वरूपगुरूपदिष्ट लक्षणवत्त्वेनेत्याह - अन्नाद्ध्येवेति ।। अन्नमयादेव हीति । पुनः किमकरोदित्यतो द्वितीयरूपमपि साक्षात्कर्तुं गुर्वनुज्ञार्थं पुनर्गुरुमुपसाद्यानुज्ञामादाय तपः शब्दितमालोचनं कृत्वा प्राणमयाख्यं द्वितीयं प्रद्युम्नरूपमपरोक्षीकृतवानित्याह-तद्विज्ञायेत्यादिना ॥ अधीहीति ।। अनुज्ञां देहीत्यर्थः । अनुजानीहीत्येव वाच्ये अन्तर्णीतण्यर्थतया अधीहीत्युक्तिः विनयप्रदर्शनाय । भगवः भगवन् ब्रह्म प्राणमयाख्यं रूपं ध्यानेन साक्षात्कर्तुमिति शेषः । तपसा ज्ञातानुसन्धानरूपालोचनेन ||२||
तैत्तिरीयोपनिषत्
स तपोऽतप्यत । स तपस्तप्त्वा । प्राणं ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥
स तपोऽतप्यत । स तपस्तप्त्वा । मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥
स तपोऽतप्यत । स तपस्तप्त्वा । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तग्ं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ॥
स तपोऽतप्यत । स तपस्तप्त्वा । आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ॥ ३ ॥
खण्डार्थ:
(खं.) तपो ब्रह्मेति । ज्ञानरूपं ब्रह्मेत्यर्थः ' तपसो ब्रह्मज्ञानहेतुत्वात् तपो ब्रह्मेत्यभेदोपचारः' इति ग्रन्थान्तरे । अत्र प्राणं प्रयन्ति प्राणमभिसंविशन्ती- त्यर्थः । एवमन्नप्राणप्रकरणद्वयानन्तरं 'तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति । तं होवाच तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा चक्षुर्ब्रह्मेति व्यजानात् । चक्षुषो ह्येव खल्विमानि भूतानि जायन्ते' इत्यादिरूपेण चक्षुर्मयश्रोत्रमयवाङ्मय- प्रकरणानि यथोद्देशं ध्येयानि । त्रीणि रूपाणि कानीत्याकांक्षायां प्राज्ञैरुपदेष्टव्यानि मनः प्रभृतिशब्दितसङ्कर्षणादिरूपत्रयपरतया प्रकरणत्रयमपि व्याख्येयम् ।। ३ ।।
अत्रान्नादौ सर्वत्राब्रह्मणि ब्रह्मत्वमुपास्त्यर्थमुक्तमिति भ्रमनिरासायाऽऽह- सैषेति ॥
तैत्तिरीयोपनिषत्
सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ७ ॥
खण्डार्थ:
(खं.) भार्गवी भूगुणाऽनुशिष्टा । वारुणी वरुणेनोपदिष्टा । 'सैषा अन्नं प्राणम्' इत्यादिनोक्ता विद्या परमे व्योमन् व्योम्नि अच्छेद्यत्वादिना व्योमनिभे हरौ प्रतिष्ठिता तत्परेति यावत् । ब्रह्मप्रश्नोत्त(रत्वात्) रात् । ‘ब्रह्मलक्षणात्’
‘ब्रह्मशब्दाभ्यासात्’ ‘तपसाऽपरोक्षीकृतत्वलिङ्गाच' इति भाव: । 'सुपां सुलुक्' इत्यादिना सप्तम्या लुकि 'न ङि सम्बुध्यो:' इति नलोपाभावे व्योमन्निति साधु | अन्नादिरूपाष्टकस्य ब्रह्मत्वज्ञानिनः फलमाह - य एवं वेदेत्यादिना ।। योऽधिकारी एवमुक्तरूपाष्टकं जगज्जन्मादिहेतुत्वलक्षणयुक्तं ब्रह्मत्वेन वेद स इति शेषः । प्रतितिष्ठति मुक्तस्सन् हरौ प्रतिष्ठितो भवति । अन्नवान् रक्षकत्वेनान्ननामकविष्णुमान् तद्रक्ष्य इति यावत् । अन्नादः अन्ननामकं हरिम् अत्ति उपजीवतीत्यन्नादः । प्रजया शिष्यप्रजया पशुभिः ब्रह्मवर्चसेन च महान् भवति । कीर्त्या च महान् भवतीत्यर्थः ॥ ४ ॥
अन्नवानन्नाद इति प्रकृतान्नाख्यभगवन्निष्ठा: बह्वी: विद्या: व्रतपूर्वमाह- अन्नमित्यादिना ।।
तैत्तिरीयोपनिषत्
अन्नं न निन्द्यात् । तद् व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ५ ॥
खण्डार्थ:
(खं.) अन्नं भगवन्तं न निन्द्यात् । तद् व्रतं ज्ञानिनः सुखेप्सोः व्रतमित्यर्थः । प्राण: देहस्थप्राणगतः प्राणनामा हरिः । अन्नं वै अन्ननामको वै । शरीरं शरो जीवः तम् ईरयति प्रेरयतीति शरीरं जीवप्रेरकं जीवस्थं रूपम् अन्नादम् अन्नाख्यरूपानुभवितृ । शरीरम् अन्नं प्राणोऽनाद इत्यपि योज्यम् । द्वयोरप्यन्नत्वमन्नादत्वं च व्यनक्ति - प्राण इति ॥ प्राणे प्राणस्थे प्राणाख्यरूपे शरीरं शरीराख्यं जीवनियन्तृरूपं प्रतिष्ठितम् । शरीरे शरीराख्ये रूपे प्राण : प्राणाख्यो हरिः प्रतिष्ठितः । अन्योन्यान्नत्वमन्योन्यप्रतिष्ठितत्वम् । उक्त-मुंपसंहरति - तदेतदन्नमन्ने प्रतिष्ठितमिति ॥ तदेतद्रूपद्वयम् अन्योन्यमन्नमन्ने प्रतिष्ठितं चेति । अन्योन्यभोग्यभोक्तृत्वशब्दितमन्योन्यप्रतिष्ठितत्वं लीलया हरेर्युक्तमिति भावः । तात्पर्यद्योतनाय तज्ज्ञानिनः फलमाह - स य इति ॥ स इत्यस्य प्रतितिष्ठतीत्यादावन्वयः । व्याख्यानं प्राग्वत् । अन्नं न परि- चक्षीत । अन्नाख्यभगवत्परिवर्जनं न कार्यम् । तद्व्रतम् । वक्ष्यमाणब्रह्मज्ञानिन इत्यर्थः ॥ ५ ॥
तैत्तिरीयोपनिषत्
अन्नं न परिचक्षीत । तद् व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ९ ॥
अन्नं बहु कुर्वीत । तद् व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ ६ ॥
खण्डार्थ:
(खं.) 'आपो वाऽन्नम्' इत्यादेः प्राग्वद्योजनाध्याहारः । अप्स्वित्यादेः अन्नत्वादिविवृतिपरत्वम् अबादिपदानां तन्निष्ठभगवद्रूपपरत्वं च प्राग्वद्व्याख्येयम् । एवमत्रेऽपि । अन्नं बहु कुर्वीतेति । मदिति तत्र बहुमानबुद्धिः कार्या । तद्गुणान् तत्कर्माणि वा बहु कर्वीतेति । बहुगुणकर्मवत्त्वेन अन्ननामकं प्रतिपादयेदिति यावत् || ६ ॥
तैत्तिरीयोपनिषत्
न कं चन वसतौ प्रत्याचक्षीत । तद् व्रतम् । तस्माद् यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोन्नग्ं राद्धम् । मुखतोऽस्मा अन्नग्ं राध्यते । एतद्वै मध्यतोऽन्नग्ं राद्धम् । मध्यतोऽस्मा अन्नग्ं राध्यते । एतद्वा अन्ततोन्नग्ं राद्धम् । अन्ततोऽस्मा अन्नग्ं राध्यते । य एवं वेद ॥ ११ ॥
खण्डार्थ:
(खं.) न कञ्चन वसताविति । विद्यार्थित्वेन आगतस्य वसतौ वासविषये कञ्चन कमपि न प्रत्याचक्षीत प्रत्याख्यानं न कार्यमित्यर्थः । तस्माज्ज्ञात- स्यान्नस्य प्रतिष्ठाहेतुत्वात् । यया कया च विधया येन केनापि विधिना अन्नं बहु बहुत्वेन मत्वा प्राप्नुयादन्नमित्यर्थः । अतिप्रयत्नेनापि विहितप्रकारेण बहुतरां भगवद्विद्यां प्राप्नुयादिति यावत् । अन्नाख्यरूपं बहुमन्यमानस्यान्नं प्रसीदत्येवेत्याह - अराधीति । अस्मै अन्नं बह्विति मन्यमानस्य । ‘अन्नम्’ अन्नाख्यं भगवद्रूपम् । अराधि 'राध साध संसिद्धौ' सिद्धं भवतीति विद्वांस आचक्षते प्राहुरित्यर्थः । भगवदुपासने प्रयत्नः सदा कार्य इति फल- भेदोक्तिपूर्वकमाह - एतद्वा इति ॥ मुखत उपक्रमात् ल्यब्लोपनिमित्ता पञ्चमी । बाल्यमारभ्य बाल्यवयसीति यावत् । एतदन्नाख्यं रूपम् । राद्धं सिद्धं तीव्रोपासनया विज्ञातं चेत् तदाऽस्मै उपासकाय मुखतः पादमारभ्य अन्नाख्यं रूपं राध्यते सिध्यति । पादावारभ्य शिरः पर्यन्तं सर्वावयवोपेतं रूपं दृश्यते । अतो बाल्य एव प्रथम एव वयसि प्रयत्नः कार्य इत्यर्थः । मध्यतः मध्ये वयसि अन्नं राद्धम् उपासनया येन ज्ञातम् अस्मै मध्यावयवो हरेरुपलभ्यते । अन्यदङ्गजातं तेजोमण्डलवदेव दृश्यते न सम्यक् । एतदन्नम् चरमवयसि येन राद्धम् उपासनया ज्ञातम् । अस्मै अन्ततः पादावेव राध्येते सिध्यतः पादावेवोपलभ्येते अन्यत्सर्वं तेजोमण्डलवदेव दृश्यते । न तु सम्यगित्यर्थः । एतज्ज्ञानिनोऽप्यन्नाख्यरूपसिद्धि: फलमित्याह - य एवं वेदेति । एवं प्रथमादिवयस्येव प्रयतमानस्योक्तरूपभगवद्दृष्टिप्रकारम् । योऽधिकारी वेद सोऽपि भगवदुपासनया तद्दृष्टिं लभत इति योज्यम् ॥७॥ भगवदुपास्त्यन्तराण्याह - क्षेम इति ॥
तैत्तिरीयोपनिषत्
क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ॥ ८ ॥
खण्डार्थ:
(खं.) वाचि वागिन्द्रिये क्षेमकृत्त्वहेतुना क्षेमनामको हरिरस्तीत्युपासीतेति सर्वत्र योज्यम् । काम्ययोजकत्वहेतुना योगनामा देहगतप्राणे । क्षेमकृत्त्वेन क्षेमनामाऽपाने । कर्मकृत्त्वेन कर्मनामा हस्तयोः । गतिदत्वेन गतिनामा पादयोः । विसर्गकृत्त्वेन विमुक्त्याख्यः पायौ अस्तीत्युपासीतेत्यर्थः । इति मानुषीः मनुष्यदेहसम्बन्धिन्यः समाज्ञाः उपास्तय उक्ता इत्यर्थः । अथे- त्यर्थान्तरे । दैवी: दैव्यः समाज्ञा इत्यनुषङ्गः उच्यन्त इति शेषः । तृप्तिप्रदत्वेन तृप्तिनामा हरिः वृष्टौ वृष्ट्यभिमानिनि पर्जन्येऽस्तीति उपासीतेति शेषः । एवमग्रेऽपि । बलदत्वेन बलनामा विद्युति विद्युदभिमानिनि वायौ । यशः यश: प्रदत्वहेतुना यशोनामा पशुषु । यज्ञपश्वाभिमानिनि दक्षप्रजापतौ । ज्योतिःप्रदत्वेन ज्योतिराख्यः नक्षत्रेषु । प्रजातिः पुत्रः । अमृतं सन्तति- परम्परा। आनन्दः सुखं प्रजासन्तत्यानन्दानां दातृत्वात्प्रजातिरित्यादिनामकः सन् उपस्थे उपस्थाभिमानिनि शिवे अस्तीत्यर्थः । सर्वदत्वेन सर्वनामा सन्नाकाशे प्रकृतावस्तीत्यर्थः ॥ ८ ॥
प्रकृतौ स्थितस्य गुणानाह - तत्प्रतिष्ठेति ॥
तैत्तिरीयोपनिषत्
तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति । तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः ॥ १३ ॥
खण्डार्थ:
(खं.) तत् स्थापकत्वेन हेतुना प्रतिष्ठा इत्युपासीत । प्रतिष्ठावान् भवति स्थितिमान् भवति । तत् महः महत्त्वगुणयुक्तत्वात् मह इत्युपासीत । ज्ञानादिना महान् भवति । तत् मान्यत्वहेतुना मन इत्युपासीत । मानवान् भवति पूज्यो भवतीत्यर्थः । तत् नम्यत्व हेतुना नम इत्युपासीत । कामा: काम्यमाना अर्थाः अस्मै नम्यन्ते । नमन्ति आयान्तीत्यर्थः । तत् आकाशे स्थितं ब्रह्मेति पूर्णमित्युपासीत । ब्रह्मवान् रक्षकत्वेन तद्वान् वा स्वयोग्यपूर्तिमान् वा भवतीत्यर्थः । तत् आकाशस्थं ब्रह्मणो विरिञ्चस्य परिमरो मारक इत्युपासीत । एनं परि परितः स्थिताः द्विषन्तः सपत्ना: बाह्यशत्रवः म्रियन्ते प्राणान् जहति । ये अप्रिया भ्रातृव्या: देहस्थितशत्रवः कामक्रोधाद्याः तेऽपि म्रियन्ते ॥ ९ ॥
(वागादौ वृष्ट्यादौ च.स्थित्तरूपाणां न भेदः)
वागादौ वृष्ट्यादौ स्थितरूपाणां भेदो न मन्तव्य इत्याह - स यश्चेति ॥
तैत्तिरीयोपनिषत्
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमाल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत् साम गायन्नास्ते । हा३वु हा३वु हा३वु । अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः । अहग्ग् श्लोककृदहग्ग्लोककृदहग्ग्श्लोककृत् ।। १०॥
खण्डार्थ:
(खं.) व्याख्यातमेतद् ब्रह्मवल्याम् । अन्नमयादिभगवद्रूपज्ञानिनस्तत्प्राप्ति- रुक्ता । तामनूद्य तदनन्तरस्थितिमाह - स य एवंविदित्यादिना ॥ एवंवित् उक्तरीत्या अन्नमयादिरूपज्ञानी विरिञ्चादिः लोकाद्देहात्प्रेत्य निर्गत्य । पञ्चरूपाप्तिरुपलक्षणम् । वाङ्मयादिरूपत्रयप्राप्तिरपि ध्येया । कामान्नी काम- भोगवान् कामरूपी इच्छाधीनरूपवान् इमान् लोकान् अनुसञ्चरन् । एतद्वक्ष्य- माणं सामगायन्नास्ते वर्तते । किं तत्सामेत्यत आह - हा३वु इत्यादिना ॥ भोग्यत्वहेतुना अहमन्नम् । अहमन्त्रादो यथेष्टान्न भोक्ता | श्लोककृत् हरेः कीर्तिप्रकाशकृत् । हा३वु इत्यादौ त्रिस्त्रिरुक्तिः सामत्वात् । सुखातिशयास्वादनाद्वेति ध्येयम् ॥ १० ॥
ऋतस्य ज्ञानरूपस्य विष्णोः प्रथमजोऽहमस्मि । किं मनुष्येभ्यः पूर्वं जात इत्यत आह - पूर्वमिति ॥
तैत्तिरीयोपनिषत्
अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३भाइ । यो मा ददाति स इदेव मा३वाः । अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवाम् । सुवर्णज्योतीः । य एवं वेद । इत्युपनिषत् ॥ १५ ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति तृतीया वल्ली सम्पूर्णा ||
खण्डार्थ:
(खं.) देवेभ्यः पूर्वं जातोऽस्मीत्याह मुख्योऽधिकारी विरिञ्च: अमृतस्य मुक्तवर्गस्य नाभिः आश्रयः । योऽधिकारी माः प्रमा: विष्णुमहिमप्रतिपादक- प्रमाणानि ददाति भक्तेभ्य उपदिशति । स इदेव इत्थमेव जीवन्मुक्तदशायां मा माम् । अवाः आगच्छति । 'कार्यं बादरिरस्य गत्युपपत्तेः' (ब्र.सू. ४.३.७) इति सूत्रात् । ‘वा गतिगन्धनयो:' इत्यस्येदं रूपं अवा इति । अह्मन्नं हरेरिति योज्यम् । मुक्तस्यावरोपजीव्यत्वाद्वा । अदन्तं जीवजातम् अहमद्मि । ममान्नं सर्वजीवा इत्यर्थः । अहं विश्वं भुवनं सर्वं जगत् । सर्वैर्गुणैः अभ्यभवम् अभिभूतवानस्मि श्रेष्ठोऽस्मीत्यर्थः । तर्हि किं स्वतन्त्रः नेत्याह- सुवर्णज्योतीरिति । सुवर्ण: शोभनोत्तमानन्दरूपः स्वर्णकान्तिश्च हरिः ज्योतिः प्रेरकः अस्येति स तथोक्तः । य एवं वेद । सम्यक् जानाति विरिश्वः । स एव मुख्यज्ञानी । एवं साम गायन्नास्त इति पूर्वेणान्वयः । यद्वा वेदेत्युत्तमपुरुषैकवचनम् । योऽहमेवं वेद सोऽहं सुवर्णज्योतीरिति योजना । इत्येवं प्रकारेण उपनिषत् रहस्यमुक्तमित्युपसंहारः ॥ ११ ॥
‘तैत्तिरीयोपनिषदो भाष्याद्युक्तार्थसङ्ग्रहः ।
राघवेन्द्रेण यतिना कृतः सज्जनसंविदे ।'
।। इति श्रीराघवेन्द्रयतिविरचितः श्रीतैत्तिरीयोपनिषत्खण्डार्थः सम्पूर्णः ॥ || श्री कृष्णार्पणमस्तु ||