भूरिति वा अयं लोकः ..

व्याहृतिवाच्यमूर्तीनामधिष्ठाननिरूपणम्
तैत्तिरीयोपनिषत्

भूरिति वा अयं लोकः । भुवः इत्यन्तरिक्षम् । सुवरित्यसौ लोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे लोका महीयन्ते ।

भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते ।

भाष्यम्

'लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः । प्रत्येकशश्वातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ ' 'महीयते महति च स्वयं स भगवान् हरिः । पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते ॥ नामप्रवृत्तिहेतुत्वात् नाम लोकादिकं हरेः । ' 'अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः ईक्षणादन्तरिक्षं चादित्यस्थोऽदितेः सुतः । अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत् ॥ चन्द्र आह्लादरूपत्वात् ..

भाष्यप्रकाशिका

इदानीं भूरादिवाच्याऽनिरुद्धादिदेवतानां सकलजगदाधारत्वद्योतनाय चतुर्धा चतुर्धा स्थानान्याह - भूरिति वा अयं लोक इत्यादिना ॥ भूर्नामकोऽनिरुद्धः 'अयं लोको वै' एतल्लोकस्थितत्वात् 'लोकृ दर्शने' इत्यस्माद्धातोः सर्वज्ञत्वात्समीपगतत्वाच्च अयं लोकशब्दाभ्यां वाच्यो वै । 'भुव:' भुवर्नाम प्रद्युम्नस्वरूपम् अन्तरिक्षस्थितत्वादन्तरिक्षम् । सुवर्नाम सङ्कर्षणस्वरूपं प्राणे स्थितत्वात् प्रकाशरूपत्वादसौ लोकः । मह इति वासुदेवः आदित्य- स्थितत्वादादित्यः । एवं रूपचतुष्टयैर्लोकत्रयभासकमादित्यं च प्रवर्तयति । एवं ध्यात्वा त्रिलोक्यामैहिकं सुखं लब्ध्वा परलोकगमनसमये सूर्ये च सङ्गत्य स सुखी भवतीति । एवं भूरिति शब्दवाच्योऽनिरुद्धः अग्निः अग्निस्थित- त्वादङ्गभूतजगन्नेतृत्वाच्चाग्निशब्दवाच्यः । भुवः भुवश्शब्दवाच्यः प्रद्युम्नो वायुःवय गतौइति धातोर्जगत्प्रवर्तकत्वाद्वायुगतत्वाच्च वायुशब्दवाच्यः । सुवः सुवश्शब्दवाच्यः सङ्कर्षणः आदित्यः आदित्यप्रवर्तकत्वाद् अदितिसुत- त्वाच्चाऽदित्यशब्दवाच्यः । महः महश्शब्दवाच्यो वासुदेव: चन्द्रमाः। चन्द्र- गतत्वात्चदि आह्लादनेइति धातोः सुखकरत्वाच्चन्द्रमाः चन्द्रमश्शब्द- वाच्यः । एवं ध्यातुरग्निवाय्वादयस्सर्वे अनुकूला भवन्तीति भावः ।

पदार्थदीपिका

भूरादिव्याहृतिवाच्यानां अनिरुद्धादिमूर्तीनां उपास्त्यर्थमधिष्ठानान्याह- भूरिति वा अयं लोक इत्यादिना ।। तत्र भूरादिशब्दवाच्यभगवन्मूर्तीनां लोकाद्यभेद उच्यते इत्यन्यथाप्रतीतिनिरासाय तदभिप्रायमाह - लोकेति । लोकशब्देन भूम्यन्तरिक्षासौ लोकानां ग्रहणम् । 'मह इत्यादित्य' इत्युक्ता- दित्यस्यापि लोकप्रकाशकत्वात् लोकशब्देन ग्रहणमिति मन्तव्यम् । ज्योतिःशब्देनाग्निवाय्वादित्यचन्द्रमसां ग्रहणम् । प्राणवेदेत्यत्र क्रमो न विवक्षितः।

प्राणेत्यनेन प्राणापानव्यानानां सङ्ग्रहः । तदाप्यायकत्वाद् अन्यस्यापि प्राणशब्देनैव ग्रहणम् । वेदशब्देन ऋक्सामयजुषां ब्रह्मेत्युक्तवेदसमुदायस्य च ग्रहणम् । तथा चानिरुद्धादिरूपो भगवान् लोकादिषु तिष्ठतीति श्रुत्यर्थो द्रष्टव्यः ।सप्तसु प्रथमाइति सूत्रादिति भावः । ' ताबा एताश्चतस्रश्चतुर्धां' इत्यस्यार्थः- प्रत्येकश इति ॥ 'आदित्येन वाव सर्वे लोका महीयन्ते चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । अन्नेन वाव सर्वे प्राणा महीयन्ते ' इति वाक्यचतुष्टयाभिप्रायमाह महीयत इति ॥ पूज्यत इत्यर्थः । मह पूजायामिति धातोः । महति पूजयति । अत्र पूज्यपूजकभावोक्त्या भेदः प्रतीयते । अत आह- पूज्येति । अत्र भगवद्रूप- समुदाये अपिशब्दो यद्यपि तथापीत्यर्थे । तथा च यद्यपि अत्र भगवद्रूपसमुदाये पूज्यपूजकसमुदाये पूज्यपूजकभेदो नैवेष्यते । तथापि क्रीडयैव पूज्यपूजकभाव इत्यभिप्रायः । यथोक्तं -सोर्चन्नचरत्' इत्यत्र बृहद्भाष्ये । 'सोऽत्मानमर्चन्नचरत् क्रीडया तत्तदात्मकम्' इत्यादि । एवं 'भूरिति वा अयं लोक' इत्यादावयं लोक इत्यादिकं सप्तम्यन्तमित्यङ्गीकृत्य व्याख्यातम् । इदानीं तत्प्रथमान्तमङ्गीकृत्यापि व्याख्याति - नामेति । हेतुत्त्वात् हेतुमत्त्वात् लोकादिकं लोक इत्यादिकम् । तथाचार्य लोक इत्यादिनाम्नां प्रवृत्तिहेतुभूताः ये धर्मास्तद्वत्त्वात् भूरादिशब्दवाच्यस्य हरेर्लोकादिकं अयं लोक इत्यादि- शब्दजातं नाम अतोऽयं लोक इति सामानाधिकरण्यं युक्तमित्यर्थः । अयं लोकइत्यादि नामप्रवृत्तिहेतुभूतधर्मवत्त्वमेव दर्शयति- अयमित्यादिना ॥ तुशब्दश्चशब्दार्थः । तेनोत्तरत्र च लोकः प्रकाशरूपत्वादिति लोकशब्द- व्याख्यानसङ्ग्रहः । अतो न न्यूनतेति ज्ञातव्यम् । असुशब्दस्य सप्तमी असाविति न भवति किन्तु अदसूशब्दस्य प्रथमैकवचनमेव । स च स्वर्गलोकवाची ।भूरिति वा अयं लोकः' इति लोकप्रकरणात् । तथा च असावित्यनन्तरं परोक्षत्वादिति शेषः । यथोक्तं षट्प्रश्नभाष्ये विष्णुपरोक्षत्वात्' इति । स्वर्गलोकेऽपि असौशब्दप्रयोगे इदमेव निमित्तम् । ततश्च परोक्षत्वाद् हरिः असावित्युच्यत इत्यर्थः । कथं परोक्षत्वं हरेरित्यतस्तदुपपादयति प्राणे स्थितत्वत इति ॥ प्राणस्य परोक्षत्वेन तत्र स्थितस्य हरेरपि परोक्षत्वं युक्तमिति भावः । तस्यार्थः ' प्राणे स्थितत्वत' इति । तथा च प्राणे स्थितत्वादसुशब्दवाच्य इत्यर्थः । ईक्षणादित्यतः पूर्वं अन्तरिति शेषः । अन्तःस्थित्वा ईक्षणात् अन्तरिक्षमित्यर्थः । यथोक्तं छान्दोग्यभाष्ये- '
.अन्तरीक्षणयोगतः । अभावाद् व्यवधानस्य ह्यन्त- रिक्षमितीर्यते' इति - अदितेः सुत इति ।। वामनरूपेणेति भावः । `चाथशव्दावन्योन्यसमुच्चये । वयतीति ।। 'वय-श्रेष्ठत्वे' इति धातोः । यद्यस्मात् जगत्प्रतिवयति श्रेष्ठो भवति तस्मात् वायुरित्यर्थः । यद्वा वय बन्धन इति धातोः यद्यस्माज्जगद्वयति विधिनिषेधाभ्यां बध्नाति तस्मात् वायुरित्यर्थः । आह्लादरूपत्वात् सुखरूपत्वादित्यर्थः । 'चदि आह्लादने' इति धातोः ।

Load More