न कं चन वसतौ प्रत्याचक्षीत
विद्यार्थे वसतीच्छयाऽगतं स्वागतीकुर्यात्
तैत्तिरीयोपनिषत्
न कं चन वसतौ प्रत्याचक्षीत । तद् व्रतम् । तस्माद् यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोन्नग्ं राद्धम् । मुखतोऽस्मा अन्नग्ं राध्यते । एतद्वै मध्यतोऽन्नग्ं राद्धम् । मध्यतोऽस्मा अन्नग्ं राध्यते । एतद्वा अन्ततोन्नग्ं राद्धम् । अन्ततोऽस्मा अन्नग्ं राध्यते । य एवं वेद ॥ ११ ॥
भाष्यम्
....... . विद्यर्थे वसतीच्छया ।
आगतं नेति न ब्रूयात् तदेतद्विदुषो व्रतम् ॥ स विष्णुः पृथिवीनामा पृथुत्वात् प्राणनामकः । प्रकृष्टानन्दबलत आकाशः सर्ववेतृतः ॥ शराख्यदेहिनश्चैव शरीरं प्रेरणात् स्मृतः । एतैश्चतुर्भिर्भगवान् रूपैश्च चतुरात्मभिः ॥ भोग्यभोक्तृस्वरूपेण तिष्ठति क्रीडया स्वयम् । न च भोग्यत्वमात्रेण हीनत्वं तस्य कुत्रचित् ॥ न हि भार्योपभोग्यस्तु भर्ता हीनत्वमाप्नुयात् । एवं स भगवान् विष्णुरविशेषोऽखिलेष्वपि ॥ रूपेषु क्रीडते नित्यं भोक्ता भोग्य इतीच्छया । अन्नाख्यं तं नैव निन्द्याद् बहु मन्येत तं सदा ॥ इति व्रतद्वयं ह्येतद् भाव्यं यदि सुखे स्पृहा । येन केनापि विधिना बह्नित्येव जनार्दनम् ॥ मत्वैव प्राप्नुयान्नित्यं मनोवाक्कायवृत्तिभिः ।
पदार्थदीपिका
'न कञ्चन वसतौ प्रत्याचक्षीत' इति वाक्यं ' अन्नादीच्छाया वसत्यर्थं प्राप्तं न प्रत्याचक्षीत' इति केचित् व्याचक्षते । वसत्यत्रेति वसतिर्गृहं तदिच्छया तल्लाभेच्छ्या प्राप्तं न प्रत्याचक्षीत' इत्यन्ये । तदुभयमप्यसदिति भावेन
प्रमाणेनैव विशेषमाह - विद्यार्थ इति ॥ विद्याभ्यासार्थे | वसतावित्यस्यार्थो वसतीच्छयेति । विद्याभ्यासार्थं गुरुकुलवासेच्छया आगतमित्यर्थः । न प्रत्याचक्षीतेत्यस्यार्थो नेति न ब्रूयादिति । तद्व्रतमित्युक्तं व्रतं नाविदुषो युक्तमित्यत उक्तं विदुष इति । 'अन्नं बहुकुर्वीत' इति प्रकरणस्थौ पृथिव्याकाशशब्दौ 'अन्नं न निन्द्यात्' इति प्रकारणस्थौ प्राणशरीरशब्दौ च तदभेदेन तच्छब्दवाच्यत्वप्रतीतिनिरासाय क्रममविवक्षित्वा व्याचष्टे - स विष्णुरित्यादिना । पृथुत्वात् पृथु विस्तारे विस्तृत्वाद्व्याप्तत्वादित्यर्थः । प्राङोरर्थः प्रकृष्टेति । णश्च निर्वृतिवाचकः । 'णकारो बलम्' इति वाक्यं च हृदि निधाय णकारार्थः उक्त:- आनन्दबलत इति । काशू दीप्तौ दीप्तिरिह ज्ञानम् । तस्य आडुपसर्गोक्तं सम्यक्त्वं च सर्वविषयकत्वमित्यभिप्रेत्योक्तम्- सर्ववेत्तृत इति । वेत्तृत्वत इत्यर्थः । शराः देहिनः । शू हिंसायां शीर्यते देहनाशेन नश्यतीति व्युत्पत्त्या शरशब्दवाच्यस्य जीवस्य प्रेरणादेव विष्णुः शरीरमिति स्मृतो न तु प्रसिद्धशरीराभेदेनेत्यर्थः । अयं चैवशब्दः पृथुत्वात् प्रकृष्टानन्दबलतः सर्ववेत्तृत इत्येतैरपि सम्बध्यते । तेन तदभेदेन तच्छब्दवाच्यत्वशङ्कापरि- हारः । चतुर्भिः रूपैः पृथिव्यादिस्थितैः रूपैः । चतुरात्मभिः चतुरात्मनामभिः पृथिवीत्यादिभिः । भोग्यभोक्त्रिति अन्नान्नादशब्दार्थकथनम् । ननु प्राणश- रीरशब्दवाच्ययोः भगवद्रूपयोः परस्परात्यन्ताभेदात्कथं भोक्तृभोग्यभावः तस्य भेदव्याप्तत्वात् । एवं अब्ज्योतिरादिशब्दवाच्यरूपादावपीत्यत उक्तम्- क्रीडयेति ॥ स्वयं स्वतन्त्रः । स्वेच्छयेति यावत् । अत एव वक्ष्यति इच्छ- येति । ननु तथापि भोग्यभोक्तृभावे हीनो भावः स्यादित्यत आह - न चेति । तस्य प्राणादिशब्दवाच्यविष्णुरूपस्य । शरीरादिशब्दवाच्यस्य विष्णुरूपस्य भोक्तृत्वमात्रेणोच्चत्वं चेत्यपि द्रष्टव्यम् । कुतो ? न चेत्यतो भोग्यत्वेऽपि न हीनत्वमित्यत्र लौकिकं दृष्टान्तमाह - न हीति || उपभोग्यः आलिङ्गनचुम्बनोपरिसुरतादिना । एवं भार्या उच्चत्वं नाप्नुयादित्यपि द्रष्ट-
व्यम् । एवं विष्णोर्भोग्यत्वादिमात्रेण हीनोच्च भावो नास्तीति प्रतिज्ञातं दृष्टान्तमुखेनोपपाद्योपसंहरति- एवमिति ।। अविशेषो हीनोच्चत्वविशेष- शून्यः। ‘अन्नं न निन्द्यात्तद्व्रतं, अन्नं बहुकुर्वीत तद्व्रतम्' इत्यत्र प्रसिद्धमन्नं 'न निन्द्यात् भुक्तिसमये भुञ्जीतान्नमकुत्सयन्' इति स्मृतेः । तथा अन्नं बहु पकं कुर्वीत अतिथ्यभ्यागतभोजनार्थमित्यपव्याख्याननिरासाय तद्वाक्यद्वयं व्याचष्टे - अन्नाख्यं तं विष्णुमिति । तं भगवन्तं बहु मन्येत बहुगुणवत्त्वेन बहुकर्मवत्त्वेन मन्येत । तं भगवन्तं प्रतिपादयेदित्यर्थः । यदि सुखे मोक्षसुखे स्पृहा इच्छेति उपनिषदि शेषपूरणम् । अन्यथा नरकादिदुःखं भविष्यतीति भावः । ‘तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्' इति वाक्यं यया कया च विधया येन केनापि प्रकारेण न्यायेनाsन्यायेन वा प्राणात्ययकाले बह्वन्नं प्राप्नुयात् । यथोक्तम्- ‘सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्' इति व्याख्या- तम् । तदसदिति भावेनाह - येन केनापि विधिनेति ॥ येन केनापि विहितप्रकारेणगुरुसेवादिरूपातियत्नेनेति यावदित्यर्थः । यद्वा बहुभ्यः श्रोतव्यं बहुधा श्रोतव्यम् । ‘न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम् । ब्रह्मैतदद्वितीयं हि गीयते बहुधर्षिभिः' इति वचनात् । अनेकगुरुमुखैरनेक- प्रकारेण श्रवणरूपातियत्नेनेत्यर्थः । मननद्वारेति पूरणीयम् । बह्नित्येव पूर्ण- मित्येव। ‘भूम्नः क्रतुवज्जयायस्त्वम्’ ‘भूमैव देवः परमो ह्युपास्यः' इति स्मृति- श्रुतिभ्यां पूर्णत्वोपासनस्यावश्यकत्वावगमादिति भावः । मत्वेति उपासनां कृत्वेत्यर्थः । ‘य एवं समुपासीत' इत्युत्तरत्रानुवादात् । इदं च श्रुतौ शेष- पूरणम्।