यस्योच्चोऽथ समो वा कश्चिन्नैवास्त्यनन्तसच्छक्तेः

स्वस्वरूपनिदेशपुरस्सरं भगवन्नमनम्

भाष्यम्

यस्योच्चोऽथ समो वा कश्चिन्नैवास्त्यनन्तसच्छक्तेः ।

तं बन्दे परमेशं प्रेयांसं प्रेयसश्च मे विष्णुम् ॥

बळित्थासूक्तार्थकथनम्
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलम् । बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।। वायो राम॑वचोनयं प्रथमकं पृक्षो द्वितीयं वपुः । मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥ हनशब्दो ज्ञानवाची हनुमान् मतिशब्दितः ।

पदार्थदीपिका

एवं समापितभाष्यो भगवानाचार्यो यद्गुणविशिष्टतया भगवन्त- मेतदुपनिषदर्थत्वेन प्रतिपादितवान् यस्मिंश्वात्मनोऽतिशयेन प्रीतिस्तादृश- भगवद्वन्दनरूपमेव मङ्गलमन्तेऽप्याचरति - यस्येति । अत एव परमेशं प्रेयसः सकाशात् मे मम प्रेयांसं अतिशयेन प्रियमित्यर्थः । अथ स्वभाषितभाष्यस्याप्तिमूलकत्वसमर्थनाय श्रुतिप्रसिद्धं स्वस्य परमाप्तत्वं दर्शयन्नाह - यस्य त्रीणीति । यस्य वायोः । वेदस्य बळित्थेत्यादिवचने । दिव्यानि क्रीडादिगुणयुतानि त्रीणि रूपाणि उदितानि । तस्य यद् तृतीयकं वपुः तेनेदं भाष्यं प्रभौ प्रभुविषयतया कृतं हीत्यन्वयः । कीदृशं चास्य मूलरूपं कानि च त्रीणि रूपाणि कीदृशानि चेति तत्राह - अलमिति ॥ तस्य वायोः मूलरूपं अलं सम्यक् बट् बलात्मकं दर्शनं ज्ञानरूपं भर्गः भरणगमनकर्तृ महत् श्रेष्ठम् । तदित्थमेव रूपत्रयावताराय भगवता निहितं प्रेरितम् अवतीर्णं च । तत्र प्रथमकं हनुमदारव्यं वपुः रामवचोनयं रामवचांसि सीतां प्रति नीतवत् । रामवचसि यो नयो न्याय आज्ञारूपस्तद्युक्तं वा । रामविषयकवचांसि मूलरामायणरूपाणि शिष्येषु नीतवद्वा । द्वितीयं भीमनामकं पृक्षः कुरुपृतनाक्षयकारि । तृतीयं रूपं आनन्दरूपस्य हरेः प्रतिपादकशास्त्रनिर्मातृ मध्वाभिधमिति । अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलसुजनैरादरेणाङ्गी-कार्यमिति भावः ।। ननु बलित्थेत्यादिवचने वायोः त्रीणि रूपाण्युदितानीत्य- सत् । तस्य सूक्तस्य त्रेताग्निपरत्वादित्यतस्तद्सूक्तं वायुरूपत्रयपरतया प्रमाणेन व्याकुर्वन् 'यदीमुपह्वरते साधते मतिः' इत्युक्तमतिशब्दं तावत् व्याचष्टे - हनशब्द इति ।। हन हिंसागत्योर्भावे, अप्रत्यये सति निष्पन्नो हनशब्दो ज्ञानवाची । गत्यर्थस्यावगत्यर्थत्वादिति भावः । अत्र हन् हिंसागत्योरित्येव धातुः । न तु हन हिंसागत्योरिति । तथात्वे हनधातुर्ज्ञानवाचीति वक्तव्यम् । न तु हनशब्द इति । प्रत्ययानिष्पन्ने केवलधातौ शब्दव्यवहाराभावेन हनशब्दो ज्ञानवाचीत्यस्यायोगात् । इदमुपलक्षणम् । उशब्द उत्कृष्टत्ववाची । 'उत्कृष्टत्वमुकारार्थ:' इति बृहद्भाष्योक्तेः । ज्ञानस्योत्कृष्टत्वं च ईशादन्यत्रालोचने सर्वविषयकत्वादित्यपि द्रष्टव्यम् । तथा च हन उ इत्य निर्वचनत्वात् नकारस्थाकारलोपे हनु इति जाते तदस्यास्तीत्यर्थेतदस्यास्मिन्' इति सूत्रेण मतुप् प्रत्यये उप् इत्यस्य लोपे हनुमदिति प्रातिपदिकनिष्पत्तौ हनुमानिति भवति । तथां च हनुमान् ईशादन्यत्रालोचने सर्वविषयकत्वेनोत्कृष्टज्ञानवान् हनुमान् भतिशब्दितः मतिशब्देनोच्यते । अथवा गत्यर्थाद्धनधातोस्ताच्छील्यार्थे उन्प्रत्ययः । ' ताच्छील्यार्थादुनस्तथा' इत्यनुव्याख्यानोक्तेः । तथा च न् इत्यस्य लोपे हनु इति जाते तदस्यास्तीत्यर्थे उक्तसूत्रेण मतुप्प्रत्यये सति हनुमानिति भवति । तथा च हनुमान् अनादिकालाभिव्यक्तवैदिकेश्वरज्ञानवत्त्वेन ज्ञानस्वभाववानित्यर्थः । स च मतिशब्दितः मतिशब्देनोच्यत इत्यर्थः । ननु तर्युक्तरीत्या ) हन हिंसागत्योरिति धातोर्गत्यर्थस्य चावगत्यर्थतया हनुशब्दस्य ज्ञानवाचित्वेन मतिशब्दसमानार्थत्वात् हनुमान्मतिशब्दोनोच्यत इत्यर्थः । हनु शब्दस्य ज्ञानवाचित्वे हनुमान्मतिमच्छन्दवाच्यः स्यान्नतु मतिशब्दित इति चेन्न । ज्ञानवतो ज्ञानरूपताप्रकटनाय मतिशब्दप्रयोगात् ।

Load More