ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ
ब्रह्मवल्ली
(शान्तिमन्त्राः)
यस्या विद्यायाः पूर्वं कर्तव्या विद्या उक्ता तामेव वक्तुं विघ्नविघातिनीं शान्तिं पठति - सह नाविति ॥
तैत्तिरीयोपनिषत्
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
खण्डार्थ:
(खं.) नौ गुरुशिष्यौ अवतु, 'अव रक्षणगतिकान्तिप्रवेशेत्यादिधातुपाठात् प्रविशतु, आवयोः सन्निधीयतामित्यर्थः । नौ सहैव भुनक्तु पालयतु, ‘भुज परिपालनाभ्यवहारयोः' इति धातोः । व्याख्यानविषये वीर्यं सामर्थ्यं सह करवावहै । तेजस्विनौ भवावेति योज्यम् । अधीतं फलप्रदमस्तु । नौ आवाभ्यामधीतं तेजस्व्यस्त्विति वा । मा विद्विषावहै विद्याग्रहणनिमित्तं शिष्यस्य गुरोर्वा प्रमादकृतापराधात् प्राप्तं विद्वेषं नैव करवाव इत्यर्थः । त्रि:शान्तिपाठस्य बीजमुक्तमेव ध्येयम् ॥ १ ॥
प्रधानब्रह्मविद्यामाह - ब्रह्मविदिति ॥
तैत्तिरीयोपनिषत्
ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान्त्सह । ब्रह्मणा विपश्चितेति ॥ २ ॥
खण्डार्थ:
(स्व.) ब्रह्मवित् परब्रह्मज्ञानी ( परं ब्रह्मेत्यन्वेति ) परंब्रह्म प्राप्नोति । एतेन परब्रह्मप्राप्तिकामः परं ब्रह्म विद्यादित्युक्तं भवति । तत्र किंलक्षणकं ब्रह्म ? कथं च तद्वेदनम् ? न हि ब्रह्मपदेन प्रतीतस्यापरिच्छिन्नस्य साक्षात्कारो युक्तः । कीदृशी च तत्प्राप्तिः ? या ज्ञानसाध्या सर्वगतत्वेन नित्यप्राप्त- त्वादित्युत्पन्नशङ्कात्रयस्य क्रमेण परिहारार्थं प्रस्ताव्यमन्त्रमुदाहरत्युपनिषत्- तदेषाऽभ्युक्तेत्यादिना ॥ तदभि, तदाशङ्कात्र्यं प्रति तत्समाध्यर्थमिति यावत्, एषा ऋक् उक्ता उच्यत इत्यर्थः । सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणशङ्काया उत्तरम् । प्रत्येकं लक्षणत्वात् त्रीणि लक्षणान्यवश्यं ज्ञातव्यत्वादुक्तानि । सत्यत्वं नाम जगत्स्रष्टृत्वं जगज्जीवनप्रदत्वं जगच्चेष्टकत्वं जगत्संहर्तृत्वं चेति ज्ञातव्यम् । सदिति सद्भावः जन्मेति यावत्, सत्वं जीवनं प्रवर्तनं च, सत्वं विशरणं नाशमिति यावत्, ‘षद्ऌ विशरण' इति धातोः, यापयतीति व्युत्पत्त्या सत्यशब्देनार्थचतुष्टयस्यापि प्रतीतेः । ज्ञानत्वं तु स्वपरगताशेषसामान्य- विशेषविषयकज्ञानरूपत्वम्, अनन्तत्वं च देशकालगुणापरिच्छिन्नत्वम् । द्वितीयशङ्कोत्तरम् - यो वेदेति । अपरिच्छन्नपरिमाणस्यापि स्वशक्त्या भक्तानुकम्पयाऽल्पपरिमाणम् अक्षरनयोक्तदिशा विद्यमानमेव प्रकटयत्सर्व- जीवोपकारि कार्यकारणप्रेरकतया तद्धृदयगुहावस्थितं यो वेदेत्यर्थः । तृतीयशङ्कोत्तरम् - सोऽश्रुत इति ।। न संयोगादिमात्रं तत्प्राप्तिः । येन ज्ञानसाध्या न स्यात् । किं तु विपश्चिता सर्वज्ञेन ब्रह्मणा स्थलविशेषे अभिव्यक्ततया स्थितेन परब्रह्मणा, विरिञ्श्वेन वा सह सर्वान् स्वयोग्यान् कामान् भुङ्क्ते इति तेन सह तदधीनतया सुखभोग एव तत्प्राप्तिरिति तदभिप्रायः । इति शब्दस्य इत्येषाऽभ्युक्तेति पूर्वेणान्वयः ॥ २ ॥
सत्यमित्यत्र सच्छब्दः ‘सद्भावे साधुभावे च' (भ.गी. १७.२६) इति गीतोक्तेः ‘सद्भावशब्देन प्रजननं सूचितम्' इति गीताभाष्योक्तेश्च प्रजनन- रूपसद्भाववाचीत्युपेत्य सद्भावं जन्म यापयतीति । यातेरन्तर्णीतण्यर्थस्य ' धातोऽनुपसर्गे कः' इति कप्रत्यये 'आतो लोप इटि च' इत्याकारलोपे 'अयस्मयादीनि' इति भसंज्ञायाम् अपदत्वेन जश्त्वाभावे सत्यमिति रूपमुपेत्य जगत्स्रष्टृत्वं सत्यपदेनोच्यत इत्ययुक्तं पञ्चमहाभूतानामेव जगत्कारणत्वादित्यतस्तेषामपि ब्रह्मैव कारणं, तदन्तर्गतं तत्सत्तादिप्रदं चेति भावेन सत्यपदोक्तं जगत्कारणत्वं विवृणोति तस्मादित्यादिना ॥
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥ ३ ॥
खण्डार्थ:
(खं.) तस्माद् 'ब्रह्मविदानेति परम्' इति परब्रह्मप्राप्तिकामेन ज्ञातव्यतयोक्तादेतस्मात् सत्यत्वादिना लक्षिताद् आत्मन आकाशः सम्भूतः जात: । अत्र प्रकरणे आकाशादिशब्दैः भूतं भूताभिमानी तद्देहस्तत्रितयान्तर्गतो हरिश्चेति चत्वारो ग्राह्याः । हरेस्तत्रितयान्तर्गतिश्च तत्सत्ताशक्त्यादिप्रदत्वेनेति ज्ञेयम् । सम्भूतपदोक्तं जन्म च यथासम्भवं हरेरभिव्यक्तिरभिमानिनोऽभिमानः तद्देहस्य भूतस्य च परिणाम इति ज्ञेयम् । आकाशाच्चतुर्विधाच्चतुर्विधो वायुः सम्भूतः । चतुर्विधाद्वायोश्चतुर्विधोऽग्निः सम्भूतः । चतुर्विधादग्नेः चतुविधा आपः सम्भूताः । चतुर्विधाभ्योऽद्भ्यः चतुर्विधा पृथिवी सम्भूता । चतुर्विधायाः पृथिव्याः चतुर्विधा ओषधयः सम्भूताः । चतुर्विधौषधीभ्यश्चतुर्विधमन्नं सम्भू-
तम् । चतुर्विधान्नात्पुरुषशब्दितो देहस्तदभिमानी जीवः तदुभयान्तर्गतो हरिश्चेति त्रितयं सम्भूतमिति ज्ञेयम् । तदाह सूत्रकार:- 'कारणत्वेन चाऽकाशादिषु यथा व्यपदिष्टोक्तेः' (१-४-१५) इति 'तेजोऽतस्तथा ह्याह' (२-३ - १०) इति च । तत्राऽद्यनये आकाशाद्वायुरित्यादेः 'कल्पनोपदेशाच्च मध्वादिवदविरोधः' (१.४.२२) इति न्यायेन मुख्यवृत्त्या भूतोत्पत्तिपरत्वम् अभिमानिनयन्यायेन अभिमानिपरत्वं चोपेत्य समाकर्षन्यायेन परममुख्यवृत्त्या आकाशादिपुरुषान्तशब्दानां ब्रह्मपरत्वं च द्युभ्वादिनयन्यायेन प्रादुर्भावं जनिं चोपेत्य कार्यत्वे सति कारणत्वरूपावान्तरकारणत्वसमर्थनात्, तेजो ये तेज:पदोपलक्षिताशेषभूत-तदभिमानिनामुपादानशक्तिकर्तृत्वशक्त्यादेः
ईशायत्तत्वोक्तेः ।। ३ ।।
एवं सत्यपदोक्तं जगज्जन्महेतुत्वम् आत्मन इत्यादिप्रकरणेन समर्थ्य 'अस्ति चैत्र' इत्युक्ते जीवतीति प्रतीते:, अस्तेः शत्रन्तस्य सदिति रूपमुपेत्य सत्त्वं जीवनं यापयतीति षद्ऌ विशरणगतीति धातोर्भावे किबन्तत्वमुपेत्य सद्गतिं विशीर्णत्वं यापयतीति च व्युत्पत्त्याश्रयेण उक्तमन्यदर्थत्रयं ज्ञानत्वानन्तत्व- रूपलक्षणद्वयं च विवरितुं पुरुषपदेन परममुख्यवृत्त्योक्तस्य जीवदेहस्थस्य हरे: जीवदेहे पञ्चरूपतया स्थितिं वक्तुं प्रकरणान्तरमारभते - स वा एष पुरुष इति ॥
तैत्तिरीयोपनिषत्
स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा ॥ ४ ॥
खण्डार्थ:
(खं.) स 'अत्मान' इति सर्वभूतमूलकारणत्वेनोक्तः, वै प्रसिद्धः, एष आकाशादिपदैर्मुख्यवाच्यतया प्रकृतः पुरुषः जीवदेहस्थ: पुरुषनामा हरि: अन्नरसमय:, मयट् प्राचुर्यार्थः, ' तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा' इत्युक्तेः । अन्नशब्दोऽत्र अद्यतेऽत्ति चेति वाक्यशेषात् ‘अद भक्षणे’ इत्यतः कर्मणि कर्तरि वा निष्ठाप्रत्यये ' रदाभ्यां निष्ठातो नः' इति निष्ठातकारस्य नत्वे अन्नमिति सिद्ध्या भूतोपजीव्यत्वरूपाद्यत्वभूतातृत्वरूपसंहर्तृत्वपरः । रसशब्दः सारवाची। ‘रस: सारो वरश्चेति शब्दाः पर्यायवाचकाः' इत्युक्तेः । तथा चानेषु अन्नशब्दार्थेषु रस: सारोऽन्नरसः तत्प्रचुरोऽन्नरसमयः । सर्वभूतोपजीव्यत्वेन सर्वभूतसंहर्तृत्वेन च निमित्तेनान्नरसमयशब्दवाच्यः, प्राकृतान्नविकारदेहस्थोऽनिरुद्ध इत्यर्थः । अन्नपदस्य प्राकृतान्नपरत्वनिवृत्त्यर्थम् अन्नमय इत्यनुक्त्वा अन्नरसमय इत्युक्तम् । एतेन स वा एष पुरुष: सर्वाद्यत्वसर्वात्तृत्वरूपसर्वोपजीव्यत्वसर्वसंहर्तृत्वाभ्यां निमित्ताभ्याम् अन्नरसमय इति कथनेन सत्यपदस्य सर्वजीवनहेतुत्वसर्व संहर्तृत्वरूपार्थद्वयमपि विवृतं ध्येयम् । अन्नमयकोशस्थस्यानिरुद्धस्यान्नरसमयशब्दवाच्यस्य शिरः - प्रभृत्यवयवानां कोशशिरःप्रभृत्यवयवा एव स्थानानीत्याह- 'तस्येदमेव शिरः ' इति ।। प्राकृतान्नविकारशरीरशिर एव तस्य शिर इत्यर्थः । दृश्यमान- जीवदेहशिरान्तस्थत्वेन तदावृततया स्थितत्वाद्धरेः शिरसो वस्त्रप्रावृतजानुनि इदं जान्विति निर्देशवदुपचारेणायं निर्देशः । एवमग्रेऽपि ज्ञेयम् । अयं दृश्यमानान्नविकारदेहसम्बन्धी दक्षिण: पक्ष: दक्षिणबाहुः, अन्नरस - मयस्यानिरुद्धस्य दक्षिणबाहुः तदन्तरस्तीत्यर्थः । अयमुत्तरः पक्षः परिदृश्य- मानदेहसम्बन्ध्युत्तरः पक्षो वामबाहुः अन्नरसमयस्यानिरुद्धस्य बामबाहुः तदन्तर्वर्तत इत्यर्थः । अयमात्मा मध्यदेहः जीवदेहमध्यदेहः तस्य मध्य- देहः । इदं पुच्छं, तस्य विवरणं प्रतिष्ठेति ॥ प्रतितिष्ठत्याभ्यामिति प्रतिष्ठा पादौ, 'सुपां सुलुक्' इत्यादिना द्विवचनस्याऽकारादेशः, जीवदेहपादयोरस्य पादौ वर्तेते इत्यर्थः । अन्नविकारदेहः तदवयवाश्चानिरुद्धाधीना इति भाव:
।। ४ ।।
सत्यपदस्य जगज्जन्मस्थितिलयगतिहेतुत्वमर्थमुपेत्य जन्महेतुत्वमात्मन आकाश इत्यादिना अन्यदर्थद्वयं स वा एष इत्यादिना च व्याख्यातम् । तस्मिन्नर्थंत्रये श्लोकमुदाहरत्युपनिषत् तदप्येष श्लोक इत्यादिना ||
तैत्तिरीयोपनिषत्
तदप्येष श्लोको भवति । अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीग्ग् श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते । अन्नग्ं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ॥ ५ ॥
खण्डार्थ:
(खं.) तत् तत्र उक्तेऽर्थे एष श्लोकोऽपि भवति । तमेवोदाहरति - अन्नाद्वा इत्यादिना ॥ नामैकदेशे नामग्रहणम्, अन्नरसमयाद्वा इत्यर्थः । भौतिकान्नविकारदेहस्थादन्नरसमयनामकादनिरुद्धात् प्रजा: देहयोगेन जायन्ते, वै प्रसिद्धमेतत् । या: काश्च पृथिवीं श्रिताः ताः प्रजा इत्यर्थः । अथो जाताश्च प्रजाः अन्नरसमयेन जीवन्ति प्राणान् बिभ्रति । अथ पश्चादन्ततः प्रलयकाले एनत् अन्नरसमयाख्यमनिरुद्धम् अपियन्ति । इतराज्ञेयतया तदुदरं प्रविशन्तीत्यर्थः । अन्नं हि 'अन्नमयनामानिरुद्धो हि भूतानां ज्येष्ठं भूतेभ्यो ज्यायः हि यस्मात् तस्मात् सर्वौषधमुच्यते । 'उष दाहे' इत्यतः कर्मणि घञि पुगन्तेति गुणे ओषा : संसारे दह्यमानाः सर्वे च ते ओषाश्च सर्वौषा: धीयन्ते अस्मिन्निति सर्वौषधम्, संसारदग्धानामाश्रयम् । भवभयनिवर्तकमुच्यत इत्यर्थः । अन्नमयस्य ब्रह्मत्वं जानत: फलमाह - 'सर्वं वा' इति । येऽधि- कारिणः अन्नम् अन्नरसमयाख्यमनिरुद्धं ब्रह्म गुणपरिपूर्णमुपासते । ते वै त
एव सर्वं पूर्णम् अन्नरसमयं हरिं प्राप्नुवन्तीति । उपसंहरति- अन्नं हि भूतानां ज्येष्ठमिति । हि यतोऽन्नरसमयो भूतेभ्यो ज्यायान् तस्मात् सर्वौषधमुच्यते । तात्पर्यार्थं वा अन्नं हीत्यादि पुनर्वचनम् । अन्नशब्देनात्र न प्रसिद्धान- मुच्यते । किन्तु अलौकिकं वस्त्विति भावेन तन्निर्वक्ति- अद्यतेऽत्ति चेति ॥ भूतैरिति विपरिणामेन अनुषङ्गः । अद्यते उपजीव्यते भूतान्यन्ति च संहरति । संहारस्योर्णनाभिवददनरूपत्वादत्तीत्युक्तम् । तस्मादद्यात्तृत्वरूपत्वात् तद्रूपमन्नमुच्यत इत्यर्थः । इति शब्दस्य इत्येष श्लोक इति पूर्वेणान्वयः ||५||
|| इत्यन्नमयप्रकरणम् ॥
सत्यं ज्ञानमिति लक्षणवाक्यस्थसत्यपदेन जगत्स्रष्टृत्वं जगज्जीवनदत्वं जगत्प्रवृत्तिरूपगतिहेतुत्वं संहर्तृत्वं चेति विवक्षितार्थचतुष्टयमध्ये स्रष्टृत्वं जीवनदत्वं संहर्तृत्वं चेति त्रयम् आकाशाद्युत्पत्तिप्रकरणे अन्नमयप्रकरणे च विवृतम् । जगत्प्रवर्तकत्वरूपगतिहेतुत्वरूपमर्थं प्राग्विवृतजीवनदत्वं च स्फुटं विवरितुं देहस्थप्रद्युम्नाख्यरूपप्रतिपादनपरं प्रकरणान्तरमारभते तस्माद्वा एतस्मादित्यादिना ॥
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा ॥ ६ ॥
खण्डार्थ:
(खं.) तस्मात् सत्यत्वेन लक्षितात् एतस्मात् प्रकरणद्वयेन प्रतिपादितात् अन्नरसमयात्, प्राकृतान्नविकारदेहे नियन्तृतया स्थितात् अन्नरसमयनामकात्, अनिरुद्धात् अन्यः अन्तर: तदन्तस्थ: आत्मा नियामकः प्राणमयः वायुविकारप्राणमयकोशस्थः । 'प्राणं देवा अनुप्राणन्ति' इति वाक्यशेषोक्तदिशा प्राणन्ति प्रवर्तन्ते जीवन्ति वा बाहुल्येन भूतान्यनेनेति व्युत्पत्त्या प्राणमयशब्दवाच्यः प्रद्युम्नाख्यस्तिष्ठतीत्यर्थः । तेन प्राणमयेन प्राणमयकोशस्थेन प्रद्युम्नेन एष अन्नमयकोशस्थोऽन्नरसमयोऽनिरुद्धः निश्छिद्रतया पूर्णः । स वा एष पुरुषविधः । प्राणमयकोशस्थो प्राणमयनामा प्रद्युम्नः पुरुषविध एव पुरुषाकार एव । तस्य प्राणमयस्योक्तरूपप्रद्युम्नस्य पुरुषविधतामनु पुरुषा- कारतानुसारेण अयम् अन्नमयकोशस्थः तन्नामाऽनिरुद्ध; पुरुषाकारः । तस्माद् भूत इत्युपलक्षणतया ग्राह्यम् । प्राणमयशब्दित (स्य) प्रद्युम्नस्यावयवानां स्थानान्याह- तस्य प्राण एव शिर इत्यादिना ॥ प्राणस्थं प्रणेतृत्त्वेन प्राणनामकं शिर इत्यर्थः । एवं ब्यानस्थो विशेषेण अनतीति व्युत्पत्त्या व्यानाख्यो दक्षिणबाहुरित्यर्थः । अपानतीति व्युत्पत्त्याऽपानाख्योऽपानस्थः सव्यबाहुः। आकाशपृथिवीशब्दाभ्याम् उदानसमानौ ग्राह्यौ तस्य प्राणमयाख्यप्रद्युम्नस्य मध्यदेहः उदाननामोदानस्थः पुच्छमिवान्तिमतया स्थितौ । प्रतिष्ठा प्रतिष्ठ पादौ समाननामको समानस्थौ । प्राणमयकोशप्राणादयः प्रद्युम्नाधीना इति भावः || ६ ||
जगद्गतिजीवनयोर्हेतुत्वनिमित्तेन प्राणमयनामकः तन्नामकोशस्थ इत्युक्तेऽर्थे लोकमुदाहरति- तदप्येष श्लोको भवतीत्यादिना ॥
तैत्तिरीयोपनिषत्
तदप्येष श्लोको भवति । प्राणं दे॒वा अनुप्राणा॑न्ति । मनु॒ष्या॑ प॒शव॑श्च ये । प्रा॒णो हि भूताना॒मायुः॑ । तस्मा॑त् सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒णं ब्रह्म॒पास॑ते । प्रा॒णो हि भूता॑नामा॒युः । तस्मात् सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । य॑ः पूर्वस्य ॥ ७ ॥
खण्डार्थ:
(स्व.) तदपि तत्रापि उक्तेऽर्थे इत्यर्थः । ये मनुष्याः पशवो देवाश्च प्राणं प्राणमयमनुप्राणन्ति प्राणमयप्रेरणया प्राणन्ति चेष्टन्ते हिताहितप्राप्तिपरिहारार्थं प्रवृत्तिमन्तो भवन्ति जीवन्ति चेत्यर्थः । प्राणो हि प्राणमयो हि भूतानामायुः जीवनहेतुः । तस्माद्भूतानां जीवनहेतुत्वात् सर्वायुषमुच्यते। प्राणमयः सर्वायुषः उच्यत इति विपरिणाम: । प्राणमयज्ञानिनः फलमाह - सर्वमिति ॥ येऽधिकारिणः प्राणमयकोशस्थं प्रागुक्तनिमित्तेन प्राणमयशब्दवाच्यं प्रद्युम्नं ब्रह्म देशकालगुणापरिच्छिन्नतया ब्रह्मपदवाच्यम् उपासते जानन्ति च । ते सर्वमेव आयुर्मोक्षं यान्ति । उपसंहरति - प्राणो हीति ॥ तात्पर्यार्थमभ्यासो वा । यद्वा सर्वायुःप्रदत्वे हेतुकथनाय पुनर्वचनम् । इतिशब्द: इत्येष श्लोक इत्यन्वेति । प्राणमयप्रकरणसमाप्तौ वा । यद्वा इतिशब्देन श्लोकं समाप्य प्राणमयस्य धर्मान्तरमाहोपनिषत् - तस्येति ॥ तस्यान्नमयकोशस्थस्य तन्नामकानिरुद्धस्य एष प्राणमयकोशस्थ : तन्नामा प्रद्युम्नः । शारीर आत्मा देहिरूपात्मा । अन्नमयाख्यकोशस्थमनिरुद्धं देहवत्कृत्वा तदन्तस्थप्राणमय- कोशस्थः प्रद्युम्नो देहिवद् वर्तत इत्यर्थः । रूपयोरभेदेऽपि देहदेहिभावान्य- त्वान्तरत्वादिकमधिष्ठानभूतकोशयोः तथात्वात्तनिष्ठरूपयोरपि तथात्वम् उपचरितं वा । भेदप्रतिनिधिविशेषेणैश्वर्यबलेन च मुख्यमेवेति वा ज्ञेयम् । एवमग्रेऽपि । तस्यैष इत्यत्र तच्छब्दार्थं व्यनक्ति - यः पूर्वस्येति ॥ पूर्वस्यान्न- विकारकोशस्य । य: अनिरुद्धः शारीरात्मतया वर्तते अन्नविकारदेहं शरीर- वत्कृत्वाऽन्तर्वर्तते तस्यैवेति ॥ ७ ॥
|| इति प्राणमयप्रकरणम् ॥
एवं लक्षणवाक्यस्थसत्यपदार्थं प्रकरणत्रयेण विवृत्येदानीम् अखिलवस्तुगताखिलसामान्यविषयकत्वरूपं ज्ञानत्वलक्षणं वृ तस्मादित्यादिना ॥
-
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग् दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ॥ ८ ॥
खण्डार्थ:
(खं.) तस्मान्मन्त्रवर्णलक्षितात् । एतस्मात्प्राणमयप्रकरणेन व्याख्यातात् प्राणमयकोशस्थात् तन्नामकात्प्रद्युम्नात् अन्योऽन्तरोऽन्तस्स्थ: आत्मा व्याप्तः मनोमयः । ‘मन अवबोधने' इत्यतोऽसुन्प्रत्यये मनसा ज्ञानेन प्रचुरो मनोमय इति व्युत्पत्त्या अशेषवस्तुगतसामान्याकारगोचरज्ञानप्राचुर्यवत्त्वनिमित्तेन मनोमयनामको मनोमयाख्यकोशस्थः सङ्कर्षणस्तिष्ठतीत्यर्थः । तेन मनोमयेनोक्तरूपेण सङ्कर्षणाख्येन एष प्राणमयकोशस्थः तन्नामा प्रद्युम्नः निश्छिद्रतया पूर्णः । स वा एष मनोमयः सङ्कर्षणः पुरुषाकार एव । तस्य पुरुषाकारताम् अनुसृत्य अयं प्राणमयः पुरुषाकारः तत उद्भूत इत्यपि ध्येयम्। मनोमयस्थस्य तन्नाम्नः सङ्कर्षणस्य शिरआद्यवयवानाम् स्थानान्याह- तस्येत्यादिना ।। तस्य मनोमयकोशस्थस्य संकर्षणस्य शिरः यजुः यज्ञहरणनिमित्तेन यजुर्नामकं यजुस्संस्थितम् । एवशब्दो यजुश्शब्दस्य मुख्यत्वार्थः । अर्चनस्वीकारहेतुना ऋङ्नामकः ऋक्स्थः दक्षिणबाहुः । दोषात्सम्यक् करणहेतुना सामनामा सामस्थ: उत्तरबाहुः । शतकोटि- तयाऽतिविस्तृतत्वहेतुना उपदेशत्वरूपहेतुना च आदेशाव्य आदेश- शब्दितपञ्चरात्रस्थो मध्यदेहः । अधरत्वाङ्गिरसत्वहेतुभ्याम् अथर्वाङ्गिरस- नामकौ अथर्वाङ्गिरसस्थौ पुच्छं पुच्छमिवान्त्यतया स्थितौ । प्रतिष्ठा प्रतिष्ठ पादौ । यजुरादिकं तस्य शिरः प्रभृत्येकैकावयवप्रतिपादकं न साकल्येन तत्स्वरूपप्रतिपादनक्षममिति तात्पर्यार्थः ।। ८ ।
यजुरादिभिः साकल्येनाप्रतिपाद्यत्वरूपोक्तार्थे श्लोकं संवादयन् तज्ज्ञानिनः फलं चाऽह - तदप्येष इति ॥
तैत्तिरीयोपनिषत्
तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ॥ तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ९ ॥
खण्डार्थ:
(खं) तदपि तत्रापि पूर्वोक्तार्थेऽपीत्यर्थ: । ब्रह्मण: मनोमयकोशस्थस्य संकर्षणरूपब्रह्मणः : आनन्दम् । भेदप्रतिनिधिविशेषात् ब्रह्मण इति षष्ठी - प्रयोगः । आनन्दरूपं ब्रह्म विद्वान् न कदाचन बिभेति मुक्तो भवति । कथं विद्वान् भयहीनो भवतीत्यतो मनोवाचामगोचरत्वेनापरिच्छिन्नत्वेनेति भावेनोक्तम्- यतो वाच इत्यादि ॥ इतिशब्दस्य इत्येष श्लोक इति पूर्वेणान्वयः । मनोमयस्थितिप्रकारमाह - तस्येति । प्राणमयस्य प्रद्युम्नस्य एष मनोमयः संकर्षणः शारीर आत्मा देहिवत्तिष्ठतीत्यर्थः । पूर्वस्यान्नरसमयाख्यस्यानि- रुद्धस्य । य: प्राणमय: प्रद्युम्नः शारीर आत्माऽभवत् । तस्य प्रद्युम्नस्येत्यर्थः॥९॥ ।। इति मनोमयप्रकरणम् ||
स्वपरगताशेषविशेषविषयकत्वरूपविज्ञानत्वमपि लक्षणवाक्यस्थज्ञानपद- स्यार्थ इति भावेन तद्विवृणोति तस्माद्वा एतस्मादित्यादिना ।
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मात् मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ॥ १० ॥
खण्डार्थ:
(खं.) प्राग्वद्द्व्याख्या ध्येया । विशेषज्ञानप्राचुर्येण निमित्तेन विज्ञानमय- शब्दाभिधेयो विज्ञानमयकोशस्थो वासुदेवः तेन विज्ञानमयाख्येन वासुदेवेन एष मनोमयो निश्छिद्रत्वेन पूर्ण: । स वा इत्यादि प्राग्वत् । अन्वयं पुरुषविध इत्यनन्तरं तत उद्भूत इत्यपि ग्राह्यम् । तस्यावयवस्थानान्याह - तस्य श्रद्धैवेति ।। तस्य विज्ञानमयस्य वासुदेवस्य शिरः श्रुतिधर्तृत्वयोगेन श्रद्धानामकं श्रद्धास्थम् | एवकारार्थः प्राग्वत् । ज्ञानदातृत्वयोगेन ऋतनामकः ऋतस्थो दक्षिणबाहुः । सतां नियामकत्वहेतुना सत्यनामकः सत्यस्थः सव्यबाहुः । 'सर्वलोकयुक्तत्वहेतुना योगनामको योगस्थो मध्यदेहः । महनीयत्वतो महर्नामकौ पुच्छमिवान्तिमौ प्रतिष्ठा प्रतिष्ठौ पादाविति । श्रद्धा ऋतमित्यादि विज्ञानमयाख्यवासुदेवाधीनमिति तात्पर्यार्थः || १० ॥
तदेव श्लोकेन व्यनक्ति - विज्ञानमिति ॥
तैत्तिरीयोपनिषत्
तदप्येष श्लोको भवति । विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ११ ॥
खण्डार्थ:
(खं.) विज्ञानमयकोशगतः तन्नामा वासुदेव: यज्ञं समुदायाभिप्रायं, यजमानऋत्विगादिषु सर्वत्र स्थित्वा यज्ञान् तदङ्गकर्माण्यपि च तनुत इत्यर्थः । विज्ञानं विज्ञानमयं बासुदेवं ब्रह्म गुणपूर्णं चेद् वेद वेद चेत् साक्षात्करोति चेदित्यर्थः । तस्माज्ज्ञानात् न प्रमाद्यति न विस्मरति च इत्यर्थः । शिष्टं स्पष्टम् । तस्यैष इत्यादि प्राग्वत् ॥ ११ ॥
।। इति विज्ञानमयप्रकरणम् ।
देशकालगुणापरिच्छिन्नत्वरूपानन्तत्वं लक्षणवाक्यस्थानन्तपदस्यार्थ इत्युक्तम्। तत्कुतः प्रमाणात्प्रतिपत्तव्यमित्यतः पूर्णानन्दत्वहेतुनेति भावेनाऽह- तस्माद्वा इत्यादिना ॥
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योऽन्तर आत्माऽऽ नन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥
तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ १२ ॥
खण्डार्थ:
(खं.) प्राग्वद् व्याख्या । आनन्दप्राचुर्यहेतुना आनन्दमयनामकः आनन्दमयकोशस्थः नारायणस्तिष्ठतीत्यर्थः । तेनैष पूर्ण इत्यादि प्राग्वत् । तदुद्भूत इत्यपि ग्राह्यम् । तस्याऽनन्दमयनाम्नो नारायणस्य शिरः प्रियमेव परैः प्राप्यत्वहेतुना प्रियनामकम् । उपकारजप्रियशब्दितसुखे स्थितम् । मोद इति व्युत्पत्त्या मोदनामको दक्षिणबाहुः । विषयजमोदनामके सुखे तिष्ठती- त्यर्थः। प्रकर्षेण मोदत इति व्युत्पत्त्या प्रमोदनामा सव्यबाहुः । प्रकृष्टविषय प्रमोदनामके सुखे तिष्ठतीत्यर्थः । आतत्वहेतुना आत्मा मध्यदेहः स्वरूपानन्देऽस्तीत्यर्थः । सृष्ट्या जगद्वहंणहेतुना ब्रह्मनामको पुच्छमि स्थितौ प्रतिष्ठा प्रतिष्ठौ पादौ । ब्रह्माख्यप्रधानवायौ तिष्ठत इत्यर्थः । आनन्दमयकोशः प्रियमोदादिसुखविशेषा वायुश्चेत्येते सर्वे आनन्द- मयस्थनारायणाधीना इति तात्पर्यम् । सूत्रभाष्ये तु आनन्दमयाख्यो नारायणः पुनः नारायणादिरूपेण पञ्चधा भिन्नः शिरः प्रभृत्यात्मना तिष्ठतीत्युक्तम् ।
देशकालगुणापरिच्छिन्नत्वरूपानन्तत्वं लक्षणवाक्यस्थानन्तपदस्यार्थ इत्युक्तम् । तत्कुत: प्रमाणात्प्रतिपत्तव्यमित्यतः पूर्णानन्दत्वहेतुनेति भावेनाऽह- तस्माद्वा इत्यादिना ॥
तैत्तिरीयोपनिषत्
तस्माद्वा एतस्मात् विज्ञानमयात् । अन्योऽन्तर आत्माऽऽ नन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥
तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ १२ ॥
खण्डार्थ:
(खं.) प्राग्वद् व्याख्या । आनन्दप्राचुर्यहेतुना आनन्दमयनामकः आनन्दमयकोशस्थः नारायणस्तिष्ठतीत्यर्थः । तेनैष पूर्ण इत्यादि प्राग्वत् । तदुद्भूत इत्यपि ग्राह्यम् । तस्याऽनन्दमयनाम्नो नारायणस्य शिरः प्रियमेव परैः प्राप्यत्वहेतुना प्रियनामकम् । उपकारजप्रियशब्दितसुखे स्थितम् । मोद इति व्युत्पत्त्या मोदनामको दक्षिणबाहुः । विषयजमोदनामके सुखे तिष्ठती- त्यर्थः। प्रकर्षेण मोदत इति व्युत्पत्त्या प्रमोदनामा सव्यबाहुः । प्रकृष्टविषय प्रमोदनामके सुखे तिष्ठतीत्यर्थः । आतत्वहेतुना आत्मा मध्यदेहः स्वरूपानन्देऽस्तीत्यर्थः । सृष्ट्या जगद्वहंणहेतुना ब्रह्मनामकौ पुच्छमि स्थितौ प्रतिष्ठा प्रतिष्ठौ पादौ । ब्रह्माख्यप्रधानवायौ तिष्ठत इत्यर्थः । आनन्दमयकोशः प्रियमोदादिसुखविशेषा वायुश्चेत्येते सर्वे आनन्द- मयस्थनारायणाधीना इति तात्पर्यम् । सूत्रभाष्ये तु आनन्दमयाख्यो नारायणः पुनः नारायणादिरूपेण पञ्चधा भिन्नः शिरः प्रभृत्यात्मना तिष्ठतीत्युक्तम् ।
ननु लक्षणवाक्योक्तसत्यत्वादिलक्षणानाम् अनेकरूपस्थतया एकत्रैवाभावात् कथं तेषां लक्षणत्वमिति चेत् । रूपाणामभेदात्सर्वरूपाणां प्रत्येकं सत्यत्वादि- लक्षणवत्त्वेऽपि भेदप्रतिनिधिविशेषबलेन अदनप्राणनादितत्तद्गुणदातृत्वस्य व्यवस्थया प्रकाशनान्नामभेदः पञ्चरूपत्वसंख्यादिकं च युक्तमिति ज्ञेयम् । ‘स वा एष पुरुषः' इत्युपक्रम्य रूपपञ्चकनिरूपणेन सत्यत्वादिलक्षणानि विवृत्येदानीं पञ्चरूपमपि ब्रह्म न जीवाद्भिन्नमिति जानतां भिन्नमिति जानतां चोभयेषां फलभेदोक्त्या जीवान्यब्रह्मत्वं पञ्चानां श्लोकेन स्थापयति - तदप्येष “इति ।। पञ्चरूपं ब्रह्म जीवान्यदित्यत्रार्थेऽपि श्लोकोऽप्यस्तीत्यर्थः । ब्रह्म जीवव्यतिरेकेणासत् नास्तीति वेद चेत् । सोऽसन्नेव दुःख्येव भवतीत्यर्थः । जीवादन्यद् ब्रह्मास्तीति वेद चेत् एनं सन्तं सुखिनं मुक्तियोग्यं विदुरित्येष श्लोक इतीति शब्दस्यान्वयः । सूत्रभाष्यादौ तु आनन्दमयमात्रपरः श्लोको व्याख्यातः । तस्यैष एवेत्यादि प्राग्वत् ॥ १२ ॥
।। इत्यानन्दमयप्रकरणम् ॥
'ब्रह्मविदाप्नोति परम्' इत्युक्तौ उत्पन्नशङ्कात्र्यं मन्त्रोदाहरणपूर्वक- मन्त्रोक्तलक्षणप्रपञ्चनेन निरस्य जीवान्यत्वेन तदनन्यत्वेन च ज्ञानिनो मुक्ति- तमोरूपफलोक्तौ अवसरप्राप्तं प्रष्टव्यमर्थं पृष्टवान् वरुणो ब्रह्माणमित्याह- अथातोऽनुप्रश्ना इति ॥
तैत्तिरीयोपनिषत्
अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित् समश्नुता३ उ ॥ १३ ॥
खण्डार्थ:
(खं.) अथ अवसरप्राप्ता: अत: प्रश्नबीजवत्त्वात् गुरुभूतब्रह्मोक्त्यनुसारिप्रश्नाः बरुणेन कृता इत्यर्थः। तदाह - उतेति । उताविद्वान् अविद्वानपि यः कश्चन प्रेत्यामुं लोकं गच्छति । आहो विद्वान् प्रेत्यामुं लोकं गच्छतीत्यनुकर्षः । अयमेकः प्रश्नः । विद्वानित्यत्रापि किं सर्वोऽपि गच्छति कश्विदेवेति द्वितीय: प्रश्न: । सर्वोऽपीत्यत्रापि किं सर्वोऽपि सम्यक् अश्नुते प्राप्नोति ब्रह्मेति शेषः । उत कश्चिदेव समश्नुते न सर्वोऽपीति तृतीयः प्रश्नः । इति प्रश्नत्रयं ध्येयम् । प्रश्ना इति बहुवचनानुरोधात् । समाधिमाह ब्रह्मा - उ इति ॥ अभ्युपगमवाची अयमुकारः । सर्वोऽपि ज्ञानी सम्यगश्नुते कश्चिदेव वा सम्यगश्रुतइति चरमप्रश्नानन्तरम् उ इत्युक्त्या कश्चिदेव ज्ञानी विरिञ्चपदयोग्यः समश्नुत इति पक्षस्याङ्गीकारप्रतीत्या अज्ञानी नैव ब्रह्माप्नोति । ज्ञानिनोऽखिलाः प्राप्नुवन्तीत्यर्थस्य लाभात् । अन्यथा ज्ञानी कश्चिदिति समिति च विशेषणवैयर्थ्यापातात् ।। १३ ।।
एवं वरुणकृतचरमप्रश्नस्य सङ्क्षेपेण उ इत्यभ्युपगमरूपेण सङ्क्षिप्योत्त- रोक्त्या प्रश्नान्तरोत्तरमपि लब्धमिहेत्यभिप्रेत्य भगवन्महिमज्ञान्येव मुच्यते । नाज्ञानी । तत्रापि हि सम्यक्कश्चिदिति संक्षेपेणोक्तमर्थं 'रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति' इत्यादौ विस्तरेण वक्तुं विष्णोः स्वातन्त्र्यादि- महिमज्ञापनाय सृष्टिं सृष्टेषु प्रवेशं चाऽह - सोऽकामयतेत्यादिना ॥
तैत्तिरीयोपनिषत्
सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदग्ं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानु प्राविशत् । तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत् सत्यमित्याचक्षते ॥ १४ ॥
खण्डार्थ:
स आत्मा प्रजायेय अन्तर्णीतण्यर्थोऽयम् । जगत्प्रजनयेय जगत्- सृजानि । तन्नियामकतया चाहं बहु स्यां बहुरूपः स्यां भवेयमिति अकामयत ऐच्छदित्यर्थः । यद्वा प्रजायेय प्रादुर्भवानीत्यर्थः । स तप: आलोचनम् अतप्यताकरोत् । जगत्सृष्ट्वा तन्नियामकतया बहुरूपो भवानीति व्यचिन्तयदित्यर्थः । स तप: तप्त्वा पर्यालोच्य यदिदं किञ्च जगदस्ति तत्सर्वमसृजत । स्वोदरस्थं जगत् बहिर्निर्यापयामासेत्यर्थः । स्वोदराद्वहिर्निष्क्र- मणरूपत्वात्सृष्टेः । तज्जगत्सृष्ट्वा तदेवानु तत्सृष्टमन्वेव प्राविशत् । प्रविश्य किमभवदित्यतः सत्त्वादिगुणयोगेन सदादिपदवाच्यः सन् स्वसम्बन्धेन जगतोऽपि सदादिशब्दवाच्यतासम्पादकोऽभवदित्याह - सच्चेत्यादिना || सीदत्यवसादयतीति सत् । सन्नामा सन् सन्नामकजगद्गतोऽभवदित्यर्थः । एवमग्रेऽपि । षद्ऌ विशरणगत्यवसादनेष्वित्यतोऽन्तर्णीतण्यर्थात्किम् । (तनोति नि) ततो नियामकश्चेति त्यत् त्यन्नामा सन् त्यन्नामकजगद्गतोऽ- भवत् । ‘तनु विस्तारे' इत्यतो डिवच्प्रत्ययः कर्तरि । ' या प्रापणे' इत्यतो डत्प्रत्ययः । कर्मधारयः । जगतो निरुक्तत्वप्रदत्वान्निरुक्तनामा सन् निरुक्तवस्तुगतोऽभवत् । 'अनन्तत्वाद्धेतोः साकल्येन निर्वक्तुमशक्यत्व- तोर्वाऽनिरुक्तनामा सन् अनिरुक्तजगद्गतोऽभवत् । सर्वाधारत्वान्निलयननामा सन् निलयनजगद्गतोऽभवत् । श्रीब्रह्मप्राणेभ्योऽन्यजगतो साधुताप्रद- त्वादनिलयननामा सन् तन्नामक (जगद्गतो) वस्तुगतोऽभवत् । सर्वं जानातीति विज्ञाननामा सन् विज्ञानाख्यजगद्गतो विज्ञाननामकवस्तुगतोऽभवत् । जगतः अविज्ञप्तिदातृत्वादविज्ञाननामा ( सन्) अविज्ञानाख्य (जगद्गतो) वस्तुगतोऽभवत् । साधुस्वरूपत्वात्सत्यनामा ( सत्याख्यवस्तुगतो) सन् तन्नामकजगद्गतोऽभवत् । जगतो दौर्बल्यदातृत्वहेतुना अनृतनामा अनृताव्यवस्तुगतोऽभवदित्यर्थः । अत्र त्यच्चानिरुक्तं निलयनं विज्ञानमिति महान् ब्रह्मोच्यते । सत्यमिति श्रीप्राणरूपं जगत् । सन्निरुक्तानिलयना-- विज्ञानानृतशब्दैस्तु प्रकृतिप्राणमहद्भ्योऽन्यज्जगदिति ज्ञेयम् । तत् सर्वत्रानुप्रविष्टं रूपं तद्दोषेण लिप्यते किम् ? नेत्याह- तत्सत्यमभवत् ॥ साधुस्वरूपं निर्दोषस्वरूपं सत् सत्यनामाऽभवदित्यर्थः । प्रकृत्यधिकरणानुव्याख्याने तु- ‘सत्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः । आश्रयत्वात्स्वाश्रयत्वाज्ज्ञान- त्वाद्दुर्विदत्वतः । सत्ततेर्यातनाचैव ह्यप्राप्यत्वाच्च दुर्जनैः । नित्यसाधुगुण- व्याप्तियन्तृरूपत्वतः सदा' (ब्र.सू. अनु. १.४,२४. श्लो. ७६-७७) इति प्रकारान्तरेणार्थ उक्तः । ननूक्तरीत्याऽवसादनादिनिमित्तेन सन्निरुक्ता - निलयनाविज्ञानानृतशब्दवाच्यत्वे अवसादनान्तवत्त्वाज्ञानादिदोषिता स्यादित्यत आह - यदिदं किश्चेति ।। यदिदं किञ्च सन्निरुक्तादिशब्दार्थत्वमुक्तं तत्सर्वं सत्यं साध्वेवेत्याचक्षते वृद्धा इत्यर्थः । तदधीनत्वादिति न्यायेन अन्यगतावसादनादिकं प्रति स्वातन्त्र्यहेतुना तच्छब्दवाच्यत्वोक्तौ दोषाभावादिति भावः १४ ।।
बहुः स्यामित्यात्मनो बहुरूपात्मुना भवनमुक्त्वा प्रद्युम्नरूपेण जगत्सृष्टिमुक्त्वा सृष्टस्य सत्ताशक्त्यादिप्रेरणाय रूपान्तरेण प्रवेशं चोक्त्वा इदानीं स्वरूपबहुभवनं श्लोकोक्त्या व्यनक्ति तदप्येष श्लोक इति ॥
तैत्तिरीयोपनिषत्
तदप्येष श्लोको भवति । असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानग्ग् स्वयमकुरुत । तस्मात् तत् सुकृतमुच्यत इति ॥ यद्वै तत् सुकृतम् । रसो वै सः । रसग्ग् ह्येवायं लब्ध्वाऽऽनन्दीभवति । को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति ॥ १५ ॥
खण्डार्थ:
(खं.) स्वरूपबहुभवनरूपेऽर्थेऽपीत्यर्थः । इदम अस्य जनतोऽग्रे पूर्वम् । असत् नञ्पूर्वस्य गत्यर्थस्य सीदते रूपम् । तथा चानासाद्यत्वरूपाप्राप्यत्व- हेतुना असन्नामा नारायणो मूलरूपी आसीत् । वै प्रसिद्धम् । ततो नारायणात्
मुमुक्षुणा आसाद्यत्वरूपप्राप्यत्वहेतुना सत्रामा वासुदेवोऽजायत प्रादुर- भवत् । तद्वासुदेवाख्यं रूपमात्मानं स्वयं संकर्षणप्रद्युम्नादिरूपेणाकुरुत । तस्मात्स्वात्मानं रूपान्तरात्मत्वेन अकुरुतेति हेतोः तद्वासुदेवाख्यं रूपं सुकृतमुच्यत इत्यर्थः । इतिशब्दस्य इत्येष श्लोक इत्यन्वयः ।।
Į
सन्नाम्नो मुमुक्षुसाध्यत्वं हेतूक्त्या व्यनक्ति यद्वै तत्सुकृतं रसो वैस इति ।। यदेतत्सुकृतं स वासुदेवः 'रसो वै' आनन्दरूपो वै । हितौ । तत एव अयं ज्ञान्येव रसमेव लब्ध्वाऽऽनन्दीभवति नान्यथेत्यर्थः । तावता कथमस्याऽनन्दरूपत्वमित्यतो जगचेष्टकत्वयुक्त्या साधयति को हीति ॥ यत् यदि एष आकाशः आदीप्तत्वहेतुना आकाशनामा (भगवान्) आनन्दो न स्यात् सुख (स्व) रूपो न स्यात् । तर्हि जगन्न चेष्टयेदिति शेषः ।
चेष्टारूपप्रवृत्तिहेतूनां रागद्वेषदु: खोद्रेकसुखोद्रेकरूपाणां चतुर्णां मध्ये ‘निरनिष्टो निरवद्यः’ इत्यादिश्रुत्या आद्यत्रयस्याभावनिश्चयेन सुखोद्रेकस्या- प्यभावे जगत्प्रवृत्तिनिर्हेतुका नोत्पद्येत । उत्पद्यते च । अतो भवति जगत्प्रवर्तक आनन्दरूप इति ।। माऽस्त्वयं जगत्प्रवतर्क इत्यत आह- को हीति । अयं चेन्न चेष्टयेत्तर्हि इति शेषः । को ह्येवान्यात् । अन चेष्टायां चेष्टयेत् । कः प्राण्यात् । प्रकृष्टचेष्टां यज्ञदानादिप्रेरणां कुर्यात् । न कोऽपि । अतो जगन्निश्चेष्ट मापद्येतेति । कार्यानुसारात् कारणस्य महाप्रवृत्त्या महानन्दरूपोऽयमिति भावः । परेषां सुखहेतुत्वाच्चायं सुखोद्रिक्त इत्याह - एप ह्येवानन्द यातीति ॥ अखिलमानन्दयति हि यतोऽतश्चाऽऽन्दरूप इति ॥ १५ ॥
ज्ञान्येव मुच्यते न त्वज्ञ इत्युपसंहरन् प्रतिष्ठितमेव ज्ञानं मुक्तिहेतुरित्याह- यदा ह्येवैष इति ॥
तैत्तिरीयोपनिषत्
यदा ह्येवैष एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति । भीषास्माद् वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ॥ १६ ॥
खण्डार्थ:
(खं.) तस्मादित्यादौ योज्यम् । हेत्वर्थो वा हिशब्दः । रसं लब्ध्वैवाऽऽनन्दी- भवति तल्लब्धिश्च तन्महिमज्ञानादेव यस्माद्भवति तस्मात् । अदृश्ये साकल्येन ज्ञानागोचरे । अनात्म्ये आत्मनो जीवस्येमे गुणा आत्म्या: तद्रहिते जीवगुण- हीने | आत्मैवात्म्यं स्वामी तद्रहिते वा । अनिरुक्ते साकल्येन निर्बचना- गोचरे । अनिलयने अनन्याश्रये एतस्मिन् हरौ अभयं यथा भवति तथा ध्यानरूपां प्रतिष्ठां विन्दते लभते । अथानन्तरं स उपासकः अभयं भगवन्तं गतः प्राप्तो भवति नाज्ञ इत्यर्थः । न केवलं सम्यज्ज्ञानाभावे परप्राप्त्यभावः । विपरीतज्ञानेनानर्थप्राप्तिश्चेत्याह - यदा ह्येवैष इति ॥ उदरम् उत् उत्कृष्टः अः अकारवाच्यो विष्णुः येभ्यो जीवेभ्यः ते उदा: जीवा विष्णुतो नीचा इत्यर्थः । मयूरव्यंसकादयश्चेति समासः । तेषु जीवेषु रमत इत्युदरं जीवेषु परस्परं विद्यमानम् अन्तरं भेदमेतस्मिन्विष्णौ एष: ज्ञान्यज्ञो वा कुरुते मन्यते भगवद्रूपाणामन्योन्यं मूलरूपस्य च भेदं जानीते । अथानन्तरमेव तस्य भयं भवति । कुत एवमेतावन्मात्रेण भयमित्यतो भगवतः सामर्थ्यमाह - तत्त्वे - वेति । तदेव तु ब्रह्म विदुषः ज्ञानिनः अमन्वानस्याज्ञानिनश्चेति सर्वस्य भयं भयंकरं भवति । एतावान्विशेषः - विदुषो यावन्मुक्ति किञ्चिद्भयकृत् पश्चादभयकृत् । अज्ञस्य संसारभयकृत् । विपरीतज्ञस्य तु महाभयकृदिति । विदुषोऽपि भयकृदित्युक्तेऽर्थे श्लोकं प्रमाणयति - तदपीति || तत्रोक्तार्थे एष श्लोकोऽपि भवतीत्यर्थः । अस्मात् अस्य ब्रह्मणः भीषा भयेन वातः पवते भीषोदेतीत्यत्राप्यस्मादित्यन्वेति । अग्निः पचनादिव्यापारं करोति । इन्द्रः त्रैलोक्यपालनवर्षणादिव्यापारं करोतीति च योज्यम् । पञ्चमो 'मृत्युः यमोऽपि स्वव्यापारकरणाय धावति । भीषाऽस्मादित्यनुषङ्गः । एतच्चोपलक्षणम् । सर्वेऽपि देवादयः अस्य भयेनैव स्वस्वव्यापारान्कुर्वन्तीत्यपि ध्येयम् । इत्येष श्लोक इति इतिपदस्यान्वयः ।। १६ ।।
पूर्वं ज्ञानिनः सर्वेऽपि मुच्यन्ते तत्रापि कश्चिदेव सम्यगिति उकारेण संक्षिप्योत्तरमुक्तम् । तदिदानीं विदुषामुक्तं भयकर्तृत्वम् आमुक्त्येवेति ज्ञापयितुं 'विवृणोति सैषाऽऽनन्दस्य मीमांसा भवतीत्यादिना ॥
तैत्तिरीयोपनिषत्
सैषानन्दस्य मीमाग्ं सा भवति । युवा स्यात् साधु युवाऽध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ १७ ॥
खण्डार्थ:
(खं.) यद्वा ब्रह्मणो यज्जगचेष्टकत्वादिना पूर्णानन्दत्वमुक्तम्, तज्ज्ञानिनां मुक्तानां च सुखतारतम्योक्तिपूर्वं विवृणोति - सैषेति ॥ एष वाऽनन्द यातीत्यानन्दयितृत्वमुक्तम् । तन्मुक्तावेव मुख्यमिति तत्र सर्वेषां किमेकधा नैकधेति विचारो भवति । एवं विचारे अनेकधेत्युच्यते । तत्र मानुषोत्तममारभ्य विरिञ्चिपर्यन्तम् आनन्दतारतम्यं वक्तुं मनुष्योत्तमचक्रवर्त्यानन्दं पूर्वावधिभूतं वक्तुं मुक्तचक्रवर्तिनो विशेषणान्याह - युवा स्यादित्यादिना || युवा 'यु मिश्रणे' कर्मणि क्विप् । वातेः कनिन् । युश्चासौ वा च युवा विष्णुना सह गच्छतीति युवा । ‘प्राज्ञेनाऽत्मनाऽन्वारूढ उत्सर्जद्याति' इति श्रुतेः । साधुभिः गुणैर्युक्तत्वात् साधुयुवा । साधुपदोपपदाद् 'यु मिश्रण' इत्यतो वा युजेर्वा क्वनिप् । जलोपः छान्दसः । अनुव्याख्याने तु 'युवा नित्यतरुणः । साधुना विष्णुना युतः साधुयुवा' इत्युक्तम् । आध्यायकः आङध्युपसर्गद्वयपूर्वकात् | ‘इङ् अध्ययने’ इत्यतो ण्वुल्प्रत्यये अकादेशे वृद्ध्यायादेशयोः निष्पत्तेः । सम्यगध्ययनकर्तेत्यर्थः । सम्यक्त्वं च मुक्त्यारख्याध्ययनफलवत्त्वम् । आ समन्तात् शमस्येत्याशः । अतिशयेन आश: आशिष्ठः नित्यपूर्ण - सुखवानित्यर्थः । अतिशयेन दृढो दृढिष्ठ: ' र ऋतो हलादेर्लघोः' इति रभावाभाव: छान्दसः । अतिशयेन बली बलिष्ठः । युवा स्यादित्यादेः यदि मुक्तः स्यादित्यर्थः । तस्यैवंरूपविशेषणयुक्तस्य मुक्तचक्रवर्तिनः त्रेतायुगे संसारदशायामियं सर्वा पृथिवी वित्तस्य वित्तेन पूर्णा स्यात् । तदा तस्य यत्सुखं स एको मानुष आनन्दः । मनुष्यमुक्तचक्रवर्तिसम्बन्धी एक आनन्द इत्यर्थः । ते प्रसिद्धाः ये शतं मानुषा मनुष्यमुक्तचक्रवर्तिसम्बन्धिनः आनन्दाः स एको मनुष्यगन्धर्वाणां मुक्तानामानन्द इत्यर्थः || १७ ।। मुक्तत्वज्ञापनाय विशेषणद्वयमाह - श्रोत्रियस्येति ॥
तैत्तिरीयोपनिषत्
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य
ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य
ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य
ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानामानन्दः ॥ ॥ १८ ॥
खण्डार्थ:
(खं.) श्रोत्रियाणामकामहतानां चेति वचनव्यत्ययेन योज्यम् । एवमग्रेऽपि सर्वत्र विशेषणद्वयस्य वचनव्यत्ययेन पूर्वोक्तसामानाधिकरण्यं ध्येयम् । यद्यप्येकवचन-चशब्दयोः स्वारस्यानुरोधेन पूर्वोक्तबहुवचनान्तवाक्यं
संसारिपरम् उत्तरमेकवचनान्तोपेतवाक्यं मुक्तपरमिति भिन्नविषयं वाक्यद्वयमिति व्याख्यानं स्वरसम् । तथैव ज्ञानपादे सुधानुव्याख्यानयोः बृहद्भाष्ये चामुक्तादमुक्तस्य मुक्तान्मुक्तस्य तारतम्यमाहेत्युक्तम् । तथाऽपि परैस्सर्वममुक्तविषयतयैव व्याख्यातमिति तद्व्युदासायैकविषयत्वेऽपि मुक्तपरत्वमेव युक्तम् । तल्लिङ्गानां श्रोत्रियत्वाकामहतत्वादीनां श्रवणादित्यभ्युपेत्यवादेनेति सुधायामेवोक्तमस्य तात्पर्यम् । ये साक्षाद्देवप्रेष्याः ते देवगन्धर्वाः तेषां मनुष्यगन्धर्वापेक्षया शतगुणोत्कृष्ट आनन्द इत्यर्थः । • एवमग्रेऽपि पूर्वपूर्वेभ्य उत्तरोत्तरं शतगुणोत्कर्षो ध्येयः । चिरलोकेति ॥ चिरकालीनो लोकः स एव लोको येषां ते चिरलोकलोकाः तेषां पितॄणामि - त्यर्थः । देवेष्वनाख्याता अकथिता या देवता: देवकुले जाताः ते आजानजदेवाः तेषामित्यर्थः ॥ १८ ॥
के ते कर्मदेवाः कुतश्च कर्मदेवत्वं तेषामित्यत उक्तम् - ये कर्मणेत्यादि ॥
तैत्तिरीयोपनिषत्
ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ॥
ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ॥
ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य ॥
ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ॥
ते ये शतं बृहस्पतेरानन्दाः ॥ ॥ १९ ॥
खण्डार्थ:
(खं.) ये बल्यादयः । कर्मणा मध्ये देवान् देवत्वम् अपियन्ति प्राप्नुवन्ति ते कर्मदेवा इत्यर्थः- देवानामिति ॥ सृष्ट्यादौ देवत्वं प्राप्तानां तत्त्वाभिमानि- देवानामित्यर्थः । इन्द्रस्येति ॥ इन्दुं राव व्युत्पत्त्या 'दक्षप्रजेश्वरस्ये- त्यर्थः । बृहस्पतेरिति ॥ महेन्द्रत्वहेतुना बृहंश्चासौ पतिश्चेति बृहस्पति- शब्दितपुरन्दरस्येत्यर्थः ॥ १९ ॥
तैत्तिरीयोपनिषत्
स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ॥
ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ २० ॥
खण्डार्थ:
(खं.) प्रजापतेरिति ॥ प्रजननेशितृत्वहेतुना प्रजापतिनाम्नो रुद्रस्येत्यर्थः । ब्रह्मण इति ॥ चतुर्मुखस्येत्यर्थः । अत्र आनन्दनीचोच्चतोक्तिरुपलक्षणं ज्ञानभक्तिबलादावपि ध्येयम् || २० ||
एवं लक्षणवाक्यस्थसत्यादिपदत्रयार्थम् ' आत्मन आकाशः ' इत्यादिप्रकरणषट्केन विवृत्य 'यो वेद निहितं गुहायाम्' इत्युक्तवेदनं कथमित्यतो न जीवैक्येन किन्तु ततो भेदेनेति 'असद् ब्रह्मेति' श्लोकेनोक्त्वा 'अथातोऽनुप्रश्नाः' इत्यादिना 'सोऽश्रुते' इत्युक्तो ज्ञानिनः सर्वकामभोग: सर्वज्ञानिनां समान उत कस्यचिदेव सम्यगिति कृतप्रश्नस्य ‘सैषाऽऽनन्दस्य’ इत्यादिनोत्तरमुक्त्वा अथेदानीं ब्रह्मज्ञानं न तद्रूपादौ भेदेन' इत्युदरमन्तरं कुरुत' इत्यादिनाऽभिहिते कथं तत्यतः सर्वत्र स्थितभगवद्रूपाणामभेदेनैव जीवादिभ्यो भेदेनैव च ज्ञानं पुमर्थहेतुर्नान्यथेति भावेनाऽऽह - स यश्चाय- मिति ॥
तैत्तिरीयोपनिषत्
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति ॥ २१ ॥
खण्डार्थ:
(खं.) 'रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति' इत्यत्र यत्प्रसादात् स्वरूपानन्दावाप्तिः ब्रह्मादीनामुक्ता स प्रसिद्धः योऽयं पुरुषे सर्वजीवसमूहे यश्चासौ आदित्यपदोपलक्षितदेवेषु स्थितः स एव । सर्वैः स्वातन्त्र्यादिगुणैः विशिष्टः योऽधिकारी एवंवित् जानन् । जीवांश्च तारतम्येन च वित् । स अस्माल्लोकात् भौतिकदेहात् प्रेत्य तं देहं त्यक्त्वा निर्गत्य । एतमन्नमयात्मानम् अनिरुद्धमुपसङ्क्रामति प्राप्नोति । एवं प्रद्युम्नादीनि प्राणमयादिशब्दितान्यपि रूपाणि प्राप्नोतीत्यर्थः ॥ २१ ॥
पूर्णानन्दत्वेनापि तज्ज्ञानमावश्यकमानन्दमयप्राप्ताविति भावेनाऽऽह् - तदप्येष इति ॥
तैत्तिरीयोपनिषत्
तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति ॥ एतग्ं ह वाव न तपति । किमहग्ं साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानग्ग् स्पृणुते । उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद । इत्युपनिषत् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ इति ब्रह्मवल्ली ॥२२॥
इति द्वितीया वल्ली सम्पूर्णा ॥ २ ॥
खण्डार्थ:
(खं.) पूर्णानन्दत्वज्ञानिन एव तत्प्राप्तिरित्यर्थे श्लोकोऽप्यस्तीत्यर्थः । यतो यस्मात् ब्रह्मानन्दतो वाचो वचनानि मनसा सह निवर्तन्ते । अप्राप्य साक- ल्येनाविषयीकृत्य ब्रह्मण आनन्त्यहेतुना वामनसागोचरमानन्दं विद्वान् । कुतश्चन न बिभेति मुक्तो भवतीत्यर्थः । ज्ञानिनोऽपि पूर्वार्जितपुण्यपाप- रूपकर्मसत्वात् कथं ब्रह्मप्राप्तिरित्यत आह- एतह वाव न तपतीति ॥ अहं किं साधु पुण्यं नाकरवं न कृतवान् । पापं वा किमकरवमित्येवंरूपेण पश्चात्तापेन । एतं ज्ञानिनं कर्म न तपति तापकरं न भवतीत्यर्थः । वावेत्यवधारणे नैवेति । अत एवोक्तं पूर्वश्लोके - 'कुतश्चन न बिभेति' इति । कुतो नेत्यत आह- स य इति ॥ य आत्मानम् परमात्मानम् एवमुक्तरीत्या विद्वान् जानन्नास्ते । स एते पुण्यपापे स्पृणुते जहाति । प्रियाप्रियेषु नृष्विति शेषः । ‘सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इत्यादेः । तदेव पुनराह - उभे इति ।। य आत्मानम् एवमपरिच्छिन्नानन्दादिस्वरूपत्वेन वेद एष ज्ञानी उभे एते पुण्यपापे स्पृणुते जहाति हि यतोऽतस्तस्य कर्मकृततापो नेति । यद्वा य एवं वेद ज्ञानिनः पुण्यपापत्यागात्तत्कृततापो नास्तीति वेद एषोऽपि पुण्यपापे आत्मानम् आत्मन: स्पृणुते जहातीति । उपसंहरति- इत्युपनिषत् रहस्यमुक्तमिति ॥ यथा शान्त्या ब्रह्मविद्योपक्रम्य समापिता तामन्तेऽपि प्रचयसिद्ध्यर्थं पठति - सह नाविति ।। २२ ।।
|| इति ब्रह्मवल्यर्थसङ्ग्रहः ||