सोऽकामयत

विष्णोः स्वातन्त्र्यज्ञापनाय सृष्टिं सृष्टेषु प्रवेशं च निरूपयति

तैत्तिरीयोपनिषत्

सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदग्ं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानु प्राविशत् । तदनु प्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत् सत्यमित्याचक्षते ॥ १४ ॥

भाष्यम्

'अज्ञो नैव तदाप्नोति ज्ञान्येवैतदवाप्नुते । इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु ॥ आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः । प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः । अग्न्यादयोऽपि किमुत तदन्ये मुक्तिदस्ततः । स एवैकस्स विज्ञेयः पूर्णैश्वर्यादिरूपवान् ॥ इति तस्य महैश्वर्यमुच्यते .....

पदार्थदीपिका

ननु तर्हि 'सोऽकामयत' इत्यादिना 'तत्सृष्ट्वा तदेवानुप्राविशत्' इत्यादिना च ग्रन्थेन सृष्टिः सृष्टपदार्थप्रवेशादिकं च किमसङ्गतमेवोच्यत इत्यतस्तस्य सङ्गतिमाह- अज्ञो नैवेत्यादिना ॥ इतीममर्थं 'यदा ह्येवैष एतस्मिन्' इत्यादौ ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय स्वातन्त्र्यादिरूपमाहात्म्यज्ञापनाय सृष्टिं सृष्टपदार्थप्रवेशं चाहेत्यन्वयः । ननु 'ज्ञान्येवैतदवाप्नुते' इत्युक्तायां ज्ञानिनो ब्रह्मप्राप्तौ विष्णोः स्वातन्त्र्यादिरूपमाहात्म्यज्ञानस्य कथमुपयोगः । येन तज्ञापनाय सृष्ट्याद्युक्तिः सङ्गतेति चेन्न । ब्रह्मप्राप्तिरूपो मोक्षस्तावत् प्रसादादेव भवति ।यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण' इत्यादि श्रुतेः । प्रसादश्च गुणोत्कर्षज्ञानसाध्यः । लोके तथा दर्शनात् । तथा च 'तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते' इति वचनादधिकारिणः प्रति भगवत्प्रसादोत्पादनद्वारा मोक्षं साधयितुं प्रवृत्तानां वेदानां तद्गुणोत्कर्षज्ञापन एव महातात्पर्यं वक्तव्यम् । अतः स्वातन्त्र्याख्यमहैश्वर्यज्ञापनाय सृष्ट्यादिकं कथ्यत इति नासङ्गतिरित्याह - माहात्म्यज्ञानत इत्यादिना || तुशब्द एवार्थे । माहात्म्यज्ञानत एवेति सम्बध्यते । 'राजाहम्' इति वदन्तं राजानो घातयन्ति हीति द्रष्टव्यम् । यतो महान्तो लोके माहात्म्यज्ञानतः प्रीतिं यान्तीति दृष्टमिति हेतोस्तस्य विष्णोर्महैश्वर्यं भक्तानां तत्प्रीत्युत्पादनाय ज्ञातव्यतयोच्यत इत्यन्वयः ।तत्त्वेव भयं विदुषो मन्वानस्य' ‘भीषास्माद्वातःइत्यादेरपि प्रकृतोपयोगं दर्शयति तद्वशा एवेति ॥ ईश्वराः पचनादि- व्यापारसमर्थाः अग्न्यादयोऽपि तद्वशाः विष्णुवशा एव किमु तदन्ये । ततो हेतोः स एवैको मुक्तिद इत्यन्वयः । किमु तदन्य इत्यनेन 'भीषास्माद्वात' इत्यादिकमुपलक्षणमित्युक्तं भवति । मुक्तिदो विज्ञेय इत्यनेन 'अथ सोऽभयं गतो भवति' इत्यस्य तात्पर्यमुक्तं ज्ञातव्यम् । 'सो कामयत' इत्यादिना सृष्ट्युक्तेः सङ्गत्यन्तरमाह- स्त्रष्टृत्वादिपूर्णैश्वर्यादिरूपवान् स हरिर्विज्ञेय इति ।ज्ञान्यैवैतदाप्नुतइत्युक्तम् । तत्र ब्रह्मज्ञानं कीदृशं विवक्षितमित्याशङ्कायां जगत् स्रष्टृत्वादिना रूपेण ज्ञानमेव ब्रह्मज्ञानं विवक्षितमित्यभिप्रेत्य सृष्ट्यादिकमुच्यत इति नासङ्गतिरिति भावः । महैश्वर्यं जगत्स्रष्टृत्वादि- रूपम् । उच्यतेसोकामयत' इत्यादिनेति शेषः ।।

Load More