ननु प्रकरणादौ मङ्गलं किमपि कस्मान्नानुष्ठितम् ?
ग्रन्थादौ मङ्गलाचरणाभावशङ्का तन्निरासश्च
टीका
ननु प्रकरणादौ मङ्गलं किमपि कस्मान्नानुष्ठितम् ? न तावत्तदफलमेव प्रेक्षावद्भिरनुष्ठितत्वात् । नापि प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलं नियमेन प्रारम्भे अनुष्ठितत्वात् । उच्यते, अनुष्ठितमेव भगवता मङ्गलम् । मानसादेरपि तस्य सम्भवात् । तच्च परमास्तिकत्वादनुमीयते । यच्चायं स्वातन्त्र्यादिविशिष्टस्य विष्णोरादित एव सङ्कीर्तनं करोति किं ततोऽन्यन्मङ्गलं नाम ? अन्यपरमपि तत् भक्त्या अनुष्ठितं स्वभावात् सम्पादयत्येवाखिलमङ्गलानीति ।
भाववर्णनम्
निबद्धस्यैव नमस्कारादेर्मङ्गलत्वं मन्वानः शङ्कते ।। नन्विति ।। निबद्धस्यैव मङ्गलत्वं नेत्यभिप्रेत्य परिहरति ।। उच्यत इति ।। निबद्धस्यैव मङ्गलत्वमभिप्रेत्याह ।। यच्चायमिति ।। स्वभावात् सामर्थ्यात् ।
तत्वसङ्ख्यानटीकाभावदीपः
नैष्फल्यादिना अननुष्ठानमिति भ्रान्तिं शङ्काव्याजेन निरस्यन्न्यूनतादोषं परिहरति ।। नन्वित्यादिना ।। प्रकरणस्यादावित्यर्थः । प्रेक्षावद्भिः व्यासजैमिनिप्रभृतिभिः । ‘अथातो ब्रह्मजिज्ञासा’ इत्यादाविति भावः ।। मानसादेरिति ।। हरिस्मृतिनमउक्तिदण्डवत्प्रणामादेरित्यर्थः । परबुद्धेरप्रत्यक्षत्वादाह ।। तच्चेति ।। मानसाद्यनुष्ठानमित्यर्थः । किं च मङ्गलानुष्ठानसाधकं ग्रन्थे निवेशनमप्यस्तीत्याह ।। यच्चेति ।। किञ्चेति चार्थः । यत् करोतीत्यन्वयः । आदिपदेन भगवत्त्वग्रहः । एतेन शिष्यशिक्षार्थं निबन्धनस्याप्यावश्यकत्वान्न्यूनतेत्यपास्तम् । ननु विभागेनोद्दिश्य विशिष्य निर्देशपरमिदं कथं मङ्गलार्थं स्यात्? इति । अत आह ।। अन्यपरमपीति ।।
तत्वसङ्ख्यानटीकाटिप्पणी
ग्रन्थे निवेशनाभावाद्भगवता मङ्गलं न कृतमित्यभिप्रेत्य शङ्कते– नन्विति ।। प्रेक्षावद्भिरिति बहुवचनेन कदाचित्प्रेक्षावता कृते निष्फलजलताडनादौ व्यभिचारः परिहृतः । न ग्रन्थे निवेशनमेव मङ्गलम् । नापि तद्व्यापकम् । मानसादेरपि मङ्गलस्य सत्त्वात् । अतो न ग्रन्थनिवेशनाभावेन मङ्गलाभावानुमानं युक्तमित्याशयेनाह– उच्यत इति ।। ननु न कृतमेवेत्यवधारणं शक्यम् । मानसादेर्नमस्कारस्य सम्भावितत्वेऽपि निश्चायकप्रमाणाभावादित्यत आह– तच्चेति ।। अनुमीयते चेति सम्बन्धः । किञ्च ग्रन्थनिवेशनाभावोऽप्यसिद्ध इत्याह– यच्चायमिति ।। ननु वाक्यार्थपरस्यास्य कथं मङ्गलपरतेत्यत आह– अन्यपरमपीति ।।
तत्वसङ्ख्यानविवरणम्
मङ्गलं नानुष्ठेयं निष्फलत्वादिति वा समाप्त्यादीतरफलकत्वाद्वेति विकल्प्याद्यमनूद्य दूषयति ।। न तावत्तदिति ।। प्रेक्षावद्भिरिति । तथा च मङ्गलं सफलं प्रेक्षावद्भिरनुष्ठितत्वात्कृष्यादिवदिति अनुमानादित्यर्थः । अत्र कदाचित्केनचित्प्रेक्षावता कृते निष्फले जलताडनादौ व्यभिचारवारणाय प्रेक्षावद्भिरिति बहुवचनप्रयोग इति द्रष्टव्यम् । द्वितीयमनूद्य दूषयति ।। नापीति । समाप्त्यादीत्यादिपदेन विघ्नाभावप्रचययोर्ग्रहणम् ।। अनुष्ठितत्वादिति । समाप्तिकामैरिति शेषः । प्रेक्षावद्भिरिति वर्तते । तथा च न मङ्गलं समाप्त्यादीतरफलकं ग्रन्थादौ निर्विघ्नेन तत्परिसमाप्त्यादिकामैः प्रेक्षावद्भिर्नियमेनानुष्ठीयमानत्वात् । यत् यत्कामैः प्रेक्षावद्भिर्नियमेनानुष्ठीयते तत् तत्फलकम् । यथा तृप्तिकामैरनुष्ठीयमानं भोजनं तत्फलकमिति प्रयोगो द्रष्टव्यः ।
ननु कथं भगवता मङ्गलमनुष्ठितमित्युच्यते । ग्रन्थे निवेशनाभावस्य प्रत्यक्षसिद्धत्वादिति चेत् न । न हि ग्रन्थे निवेशनमेव मङ्गलम् । नापि मङ्गलव्यापकम् । मानसादेरनेकमङ्गलस्य सत्वात् । अतो न ग्रन्थे निवेशनाभावेन मङ्गलानुष्ठानाभावो मन्तव्य इत्याशयवानाह ।। मानसादेरपीति । मनोवाक्कायकृतस्येत्यर्थः । ननु भगवता मङ्गलं नानुष्ठितमेवेत्यवधारयितुं शक्यत एव । मानसादिनमस्काररूपमङ्गलस्य सम्भावितत्वेऽपि तन्निश्चायकप्रमाणाभावादित्यत आह ।। तच्चेति । मानसादिनमस्काररूपमङ्गलमित्यर्थः । अनुमीयते चेति सम्बन्धः । तथा च न केवलं सम्भावितं किन्तु भगवतः परमास्तिकत्वाद्धेतोर्मङ्गलं भगवता कृतमित्यनुमीयते चेत्यनुमा प्रमाणमस्तीत्यर्थः । (प्रयोगप्रकारस्तु अयं ग्रन्थः मङ्गलोपेतः परमास्तिकेन कृतत्वात् । प्रमाणलक्षणादिवदिति द्रष्टव्यः ।)
किञ्च ग्रन्थनिवेशनाभावोऽप्यसिद्ध इत्याह ।। यच्चायमिति ।। किं ततोऽन्यदिति । विष्णोस्संकीर्तनादन्यदित्यर्थः ।। मङ्गलं नामेति । पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलमिति वचनेन विष्णोः परममङ्गलत्वावगमात्तत्सङ्कीर्तनमेव परममङ्गलमित्यर्थः । ननु स्वातन्त्र्यादिविशिष्टस्य विष्णोरादितस्सङ्कीर्तनस्य सामान्यतस्तत्वविभागोद्देशपरत्वात्कथं मङ्गलपरत्वमित्यत आह ।। अन्यपरमपीति । तत् स्वातन्त्र्यादिविशिष्टस्य विष्णोरादितस्सङ्कीर्तनम् ।। अखिलमङ्गलानीति । मङ्गलकार्यसमाप्त्यादीनीत्यर्थः । यथा हिमनिवारणार्थमुत्पादितो दहनः स्वभावात्प्रकाशनमपि करोति तद्वदिति भावः ।।
तत्वसङ्ख्यानटिप्पणम्
मूले मङ्गलप्रतिपादकश्लोकाद्यभावादाचार्यैर्न कृतमेव मङ्गलमिति मतिमान् शङ्गते ।। नन्विति ।। प्रकरणादौ स्वतन्त्रमस्वतन्त्रं चेत्यादिप्रकरणादिभागे । किमपि कायिकवाचिकमानसिकान्यतममपि । आचर्यते ज्ञाप्यतेऽनेनेत्याचरणम् । मङ्गलाचरणं वन्द इत्यादितच्चिह्नम् । कस्मान्नानुष्ठितं किंहेतुकमननुष्ठानमित्यर्थः । मङ्गलस्याननुष्ठाने हेतू उत्प्रेक्षयित्वाऽऽद्यं निराह ।। न तावदिति ।। तत् मङ्गलम् । अफलं न विद्यते फलमस्य तदफलम् । निष्फलं नैवेत्यर्थः । अन्यफलकत्वस्योत्तरत्र निराकरिष्यमाणत्वात्तावच्छब्दः । कुतो न निष्फलमित्यत आह ।। प्रेक्षावद्भिरिति ।। प्रेक्षा एष्वस्ति ते तथा । तैर्ज्ञानिभिः । अनुष्ठितत्वात् कृतत्वात् । न ह्येकदैव सर्वेषां विपश्चितां निष्फले कर्मणि सचेतनः प्रवृत्तिं सम्भावयेदिति भावः । द्वितीयं निराकरोति ।। नापीति ।। प्रारब्धुमिष्टं प्रारिप्सितम् । तस्य या परिसमाप्तिः सैवादिर्येषां प्रचयमुखानां ते प्रारिप्सितपरिसमाप्त्यादयः । तेभ्यो व्यतिरिक्तमन्यत्फलं यस्य तत् प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलम् । तत्र हेतुः नियमेनेति ।।
अत्रेमौ प्रयोगौ भवतः । मङ्गलं न निष्फलम् । प्रेक्षावद्भिर्नियमेनानुष्ठीयमानत्वात् । यागादिवत् । मङ्गलं न समाप्तीतरफलकम् । ग्रन्थारम्भे नियमेनानुष्ठीयमानत्वात् । यद्यदारम्भे नियमेनानुष्ठीयते न तत्तत्समाप्त्यादीतरफलकम् । यथा विवाहोत्सवाद्यारम्भेऽनुष्ठीयमानविघ्नराजार्चनमिति । अत्राद्ये प्रयोगे ईक्षावदनुष्ठितत्वादित्येवोक्तौ बौद्धकृतचैत्यवन्दनादौ व्यभिचारः । तद्वारणाय प्रेति व्यशिंषन्नीक्षाम् । तेन चेक्षायाः प्रकृतकर्मणि प्रकृतेष्टसाधनत्वप्रकारकप्रमारूपत्वद्योतनात् । प्रेक्षावद्भिरिति बहुवचनं स्पष्टार्थम् । यदि प्रेक्षावच्छब्दोऽखण्डः तदा केनचित्प्रेक्षावतैव कृते जलताडनादौ व्यभिचारः । तत्परिहाराय प्रेक्षावद्भिरिति बहुवचनम् । अनुष्ठितत्वं कृतिविषयत्वम् । तच्च साध्यतया विवक्षितम् । तेन नोद्देश्यत्वेन कृतिविषये फले व्यभिचारः । द्वितीयप्रयोगे ग्रन्थारम्भेऽनुष्ठीयमानत्वादित्येवोक्ते तत्समय एव दैवात्कृते कण्डूयनादिके कर्मणि व्यभिचारः । तद्वारणाय नियमेनेत्युक्तम् । अत्रारम्भे नियमेनानुष्ठीयमानत्वादित्येतन्मात्रादाने दर्शारम्भे नियमेनानुष्ठीयमानायामन्वारम्भणेष्टौ व्यभिचारः । तद्वारणाय प्रारम्भे नियमेनानुष्ठीयमानत्वादिति । अस्य प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तोद्देशेनाननुष्ठीयमानत्वादित्यत्र तात्पर्यं बोध्यम् । एतेन यथा श्रुते ग्रन्थे चोक्तस्थले व्यभिचारवारणाय समाप्तिकामैरिति विशेषणे तेनैव हेतुना समाप्तिफलकत्वसिद्धेः परिशेषवैयर्थ्यमिति शङ्कानवकाशः । अनेन मङ्गलं समाप्तिफलकम् । समाप्त्यन्याफलकत्वे सति सफलत्वादिति परिशेषो बोध्यः । ग्रन्थे निवेशनस्य मङ्गलरूपत्वस्य मङ्गलव्यापकत्वस्य वाऽभावेन न मङ्गलाभावः शक्याधीकारः । मङ्गलस्यानेकविधत्वेन मानसादेरपि सम्भवादिति समाधत्ते ।। उच्यत इति ।। समाधानमिति शेषः । भगवता आचार्येण । अनेन पूर्वोक्तानुमानानां सिद्धसाधनतोक्ता भवति । तस्य मङ्गलस्य ।
नन्वनुष्ठितमेवेति कथं निश्चयः । मानसादेः सम्भावितत्वेऽपि विना प्रमाणं निष्कर्षस्य दुष्करत्वादित्यत आह ।। तच्चेति ।। तत् मङ्गलानुष्ठानम् । न केवलं सम्भावितं किं त्वनुमीयते चेत्यर्थः । अनुमानप्रकारस्तु विमतो ग्रन्थारम्भः कृतमङ्गलः । परमास्तिककृतग्रन्थत्वात् । यदेवं तदेवम् । यथा सम्प्रतिपन्नम् । यद्वा भगवान्भवति ग्रन्थारम्भे कृतमङ्गलः । कृतप्रकरणत्वे सति परमास्तिकत्वात् । मन्वादिवदिति वा । नास्तिकग्रन्थारम्भे व्यभिचारवारणायाद्यहेतौ आस्तिकेति विशेषणम् । आस्तिकानामपि केषाञ्चिदालस्यादिना मङ्गलानुष्ठानादृष्टेः परमेति । आस्तिकानामपि केषांचित्प्रकरणादिकरणादर्शनादनैकांत्यवारणाय द्वितीयानुमाने हेतौ सत्यन्तं विशेषणम् । मङ्गलानुष्ठानमनुमीयत इत्युक्तावनत्यन्तसमाहितमनस्कं पूर्वपक्षिणमिदानीं तन्मङ्गलस्य ग्रन्थे निवेशनमपि प्रात्यक्षिकमित्युक्त्या तोषयति ।। यच्चेति ।। अयं परमास्तिकः श्रीमदाचार्यः । स्वातन्त्र्यादिविशिष्टस्य स्वतन्त्रस्य भावः स्वातन्त्र्यं तदेवादिर्येषां भगवदादिशब्दार्थभूतानामैश्वर्यादीनां व्याप्त्यादीनां ते स्वातन्त्र्यादयः । यद्वा आदिशब्देन तत्वतापरिग्रहः । मूले स्वतन्त्रमिति स्वतन्त्रशब्दो गुणसर्वस्वोपलक्षक इति कृत्वा उपलक्षितानां गुणानां ग्रहणार्थमादिशब्दप्रयोग इति वा । तैर्विशिष्टस्य विष्णोः । आदितः आदौ । आद्यादित्वात्तसिः सप्तम्यर्थे । प्रथमभाग इत्यर्थः । सङ्कीर्तनं स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते । स्वतन्त्रो भगवान्विष्णुरित्येवंरूपं शब्दप्रयोगं करोतीति यत् ततः तादृशशब्दप्रयोगात् । अन्यत् अपरम् । मङ्गलं मङ्गलनिवेशनं नाम किम् । न किमपीत्यर्थः । अन्यथा तत्वस्य सामान्यतो विभागेनोद्देशस्य कर्तव्यतया तत्वं द्विविधमित्यभिधाय तच्च स्वतन्त्रमस्वतन्त्रं चेत्यभिधातव्यं स्यादिति वाक्यशेषः । उद्देश्यविधेयभावस्थल उद्देश्यप्राथम्यस्यौचित्यात् ।
यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ।। इत्युक्तेः ।
अत एव ‘वृद्धिरादैच्’ इत्यादौ चोद्देश्यप्राथम्यस्य वैहित्यात् आदैज्वृद्धिरित्यादिनिर्देश एव पाणिनिना कर्तव्यः तथापि पूर्वनिबद्धो वृद्धिशब्दः संज्ञां विदधदपि मङ्गलार्थोऽपि भवतीति मया मङ्गलमपि कृतं निबद्धं चेति सूचयितुमादौ निबबन्धेति निबन्धकाराः समादधिरे । न च वाच्यम् ‘अपृक्त एकाल्प्रत्ययः परमपरं चेति द्विविधं सामान्यम्’ इत्यादिप्रयोगदर्शनात्तस्यानित्यत्वमिति । उक्तलक्षणबलात्सर्वत्रोद्देश्यस्य प्राथम्यमावश्यकमेव । यत्पुनर्यत्र क्वापि वैपरीत्यदर्शनं तत्र विशेषप्रयोजनसूचनार्थं तदिति । यत्र च पुनर्विनापि प्रयोजनं तथोपलभ्यते तत्र स्वतन्त्रस्यर्षेः नियंतुमशक्यत्वाद्योजनायामुद्देश्यस्य प्राथम्यं सम्पाद्यमेवेति तान्त्रिकलेखायास्तत्प्राथम्यस्यानुन्मथनात् । अत एव टीकायां ‘‘आदित’’ इत्युक्तम् । तत्वविभागकथनपरस्य कथं मङ्गलपरतेत्यत आह ।। अन्यपरमपीति ।। तत् स्वातन्त्र्यादिविशिष्टस्य विष्णोः सङ्कीर्तनम् । अन्यपरमपि अन्यत् निरन्तरायपरिसमाप्त्यादिव्यतिरिक्तं परमुद्देश्यं यस्य सङ्कीर्तनस्य तत्तथेत्यर्थः । भक्त्या माहात्म्यज्ञानपूर्वकसुदृढस्नेहेन । स्वभावादेव सहजसामर्थ्यादेव । अखिलमङ्गलानि । प्रयोजनप्रापकत्वेन मङ्गलानामखिलता । खिलानि अफलपर्यवसायित्वाददृढान्युच्यन्ते तथाविधानि न भवन्तीत्यखिलानि । फलपर्यवसायीनीति यावत् । बहुवचनेन विघ्नानां बाहुविध्यात्तत्समसङ्ख्यत्वेन तदुत्पाटनपाटवं प्रकटीचकारेति ज्ञेयम् । सम्पादयति सम्यगुपार्जयति । अन्यार्थं नीयमानस्याप्यम्भःकुम्भादेरन्येषां मङ्गलसूचकत्वदर्शनादिति भावः । ‘वृद्धिरादैच्,’ ‘अथातो ब्रह्मजिज्ञासा’ ‘अथातो धर्मजिज्ञासा’ ‘अथ शब्दानुशासनं सिद्धे शब्दार्थसम्बन्ध’ इत्येवमादिबहुस्थलेषु संज्ञानन्तर्याद्यभिधायकानामपि वृद्धादिशब्दानां मङ्गलार्थताया अपि चिरन्तनव्याख्यातृभिर्व्याख्यातत्वान्नेयं व्याख्याऽदृष्टचरीति कौतुकिभिर्भाव्यमिति इतिशब्देन शङ्कापरिहारसमाप्तिसूचकेन सूचयामासेति ध्येयम् ।
भावचन्द्रिका
‘‘ननु तथापि इदं न व्याकर्तव्यम्, अनुपादेयत्वात्; न हि विषयादिमत्तामात्रेण उपादेयत्वम्, किन्नाम स्वरूपालाभेनापि । न चास्य स्वरूपालाभोऽस्ति, मङ्गलाचरणरहितत्वेन तत्साध्यनिरन्तरायपरिसमाप्त्यसम्भवेन असमाप्तत्वादिति मनसि निधाय मङ्गलसमाप्त्योः मानाभावेन साध्यसाधनभावासिद्धेः कथं मङ्गलाभावेन असमाप्तत्ववर्णनम्? इत्याशङ्कापरिहाराय, परिशेषानुमानेन मङ्गलस्य समाप्तिसाधनत्वं सिद्ध्यति इत्यभिप्रेत्य गूढाभिसन्धिः पृच्छति नन्विति ।। नानुष्ठितमिति ।। ननु च कथमवगतमेतत्, यत् आचार्येण मङ्गलं नानुष्ठितम् इति ? अनुपलब्धत्वात् इति चेत् न, तत्कालीनस्य इदानीं उपलब्धुमशक्यत्वात् इति चेन्न, ग्रन्थे निवेशनाभावस्य प्रत्यक्षत्वेन तत एव तत्सिद्धेरिति भावः ।। अननुष्ठानं किं निष्फलत्वप्रयुक्तमुत समाप्त्यन्य-फलकत्वप्रयुक्तम् ? मङ्गलं अभीष्टफलकं शिष्टाचारविषयत्वात् दर्शादिवत् इत्यनुमानेन सफलत्वसिद्धेः, नाद्य इत्याह न तावदिति ।
प्रेक्षावद्भिरिति । प्रेक्षावत्कृतिविषयत्वात् इत्यर्थः । प्रेक्षावत्त्वं च अभ्रान्तत्वमेव, न वेदप्रामाण्याभ्युपगन्तृत्वम् । वैदिककर्तृके निष्फले कर्मणि व्यभिचारात् । ननु च अभ्रान्तत्वं न सर्वथा सम्भवति, भ्रान्तेः पुरुषधर्मत्वेन असिद्धिप्रसङ्गात् । नापि यत्र क्वचित् अभ्रान्तत्वम्, बौद्धस्यापि तत्कर्तृके मण्डलीकरणादौ व्यभिचारात्; प्रकृतकर्मण्यभ्रान्तत्वोक्तौ च मङ्गलं समाप्तिस्वर्गयोः साधनम् इति स्वर्गसाधनत्वांशे भ्राम्यतः अशिष्टत्वापातात् । प्रकृतेष्टसाधनत्वांशे भ्रमराहित्यविवक्षायामपि मङ्गलघटौ समाप्तिसाधने इति घटांशे भ्राम्यतः शिष्टत्वभावप्रसङ्गात् इति चेन्न, प्रकृतकर्मणि प्रकृतेष्टसाधनत्वांशे भ्रमराहित्यस्यैव शिष्टपदार्थत्वात् ।। न च फलस्यापि शिष्टकृतिविषयत्वात् तत्र व्यभिचारः इति वाच्यम्, साध्यत्वेन कृतिविषयत्वस्यैव हेतुत्वेन विवक्षितत्वात् । फलस्य च कृतिविषयत्वेऽपि न साध्यत्वेन कृतिविषयत्वम्, किन्तु उद्देश्यतया इति न व्यभिचारः ।
तदनेन विवक्षितपरिशेषानुमाने विशेष्यासिद्धिश्च परिहृता भवति ।
विशेषणासिद्धिमुद्धरन्नेव द्वितीयं दूषयति नापीति ।। तत्र हेतुमाह नियमेनेति । प्रारम्भे प्रारम्भात्पूर्वसमये । अनेन मङ्गलं न समाप्त्यन्यफलकं प्रारम्भात्पूर्वसमये नियमेनानुष्ठीयमानत्वात् दर्शादिवत् इत्यनुमानम् उक्तं भवति । अत्र च भ्रान्तकर्मणि व्यभिचारपरिहाराय नियमेनेति । न च आरम्भणीयायां व्यभिचारः, तस्याः प्रारिप्सितपरिसमाप्तिव्यतिरिक्तस्वर्गप्रयोजनकत्वात्; दर्शारम्भे नियमेनानुष्ठीयमानस्य ‘अग्नावैष्णवमेकादशकपालं निर्वपेत् दर्शपूर्णमासावारिप्समानः’ इति श्रुतिसिद्धत्वेन विवक्षितहेतोस्तत्र सिद्धेः । प्रारिप्सितसमाप्त्युद्देशेन वा अनुष्ठानविवक्षया तत्परिहारे च तत एव समाप्तिफलकत्वसिद्धेः परिशेषवैयर्थ्यम् इति वाच्यम् । ‘प्रारिप्सितसमाप्त्यादिव्यतिरिक्तोद्देशेन अनुष्ठानात्’ इत्यत्र तात्पर्यात् । आरम्भणीयायाश्च अतथात्वात् ।।
ततश्च ‘मङ्गलम्, समाप्तिफलकम्, समाप्तीतराफलकत्वे सति सफलत्वात्, यत् यदितराफलकत्वे सति सफलम् तत् तत्फलकम्, यथा सम्प्रतिपन्नम् इति सामान्यव्याप्तिमूलकपरिशेषानुमानेन मङ्गलसमाप्त्योः साध्यसाधनभावबोधात् । असति साधने, साध्यनिष्पत्तेः असमाप्तत्वेन स्वरूपालाभात् न विषयादिमतोऽप्यस्य उपादेयत्वम् इति अव्याख्येयत्वमेव इति सङ्ग्रहार्थः ।। समङ्गलत्वेन निरन्तरायपरिसमाप्तिसम्भवेन, समाप्तस्य च प्रकरणस्य स्वरूपलाभसम्भवेन, न तदभावप्रयुक्तमपि अनुपादेयत्वमिति प्रेक्षावदुपादेयत्वात् व्याख्येयत्वमेव इत्यभिप्रेत्य समङ्गलत्वं व्यवस्थापयति उच्यते इति । अननुष्ठानासिद्धेः न उक्ताक्षेपावकाशः इति भावः । अनुपलब्धत्वादेव तत्सिद्धिः इत्यतो नानुपलम्भमात्रमभावसाधकम् किन्तु योग्यानुपलम्भ एव । ग्रन्थारम्भकालीनमाचार्यीयमङ्गलानुष्ठानञ्च इदानीमयोग्यम्; इति तत एव अनुपलम्भोपपत्तेः न तेन अननुष्ठानसिद्धिः इत्याह मानसादेरपीति ।। ग्रन्थे निवेशनातिरिक्तस्यापि मानसादिमङ्गलस्य सम्भवात् इत्यर्थः । आदिपदेन कायिकस्य परिग्रहः ।
‘‘ननु ग्रन्थे निवेशनाभावस्य प्रत्यक्षत्वात् तत एव अननुष्ठानसिद्धिरस्तु इत्यतः किं निवेशनव्यतिरेकेण अनुष्ठानस्याभावात्, निवेशनाभावस्य च प्रत्यक्षेणैव सिद्धत्वात् अनुष्ठानाभावसिद्धिः अभिप्रेता ? किं वा निवेशनस्य तद्व्यापकत्वात्, व्यापकाभावे व्याप्याभावनियमात्, प्रत्यक्षसिद्धेन निवेशनाभावेन अनुष्ठानाभावानुमानम् अभिप्रेतम् ? किं वा निवेशनस्य अनुष्ठानव्याप्तत्वात्, तदेकसमधिगम्यस्य अनुष्ठानस्य तदभावनिश्चयेन व्यतिरेकसिद्धिः ? इति विकल्पान्मनसि निधाय आद्यं दूषयति मानसादेरिति । तथा च ग्रन्थे निवेशनमेव तदनुष्ठानम् इत्यसिद्धेः न अनुष्ठानाभावस्य प्रत्यक्षेण सिद्धि इति भावः । ग्रन्थे निवेशनस्य अनुष्ठानव्यापकत्वासिद्धेः न तन्निवृत्त्या अनुष्ठानाभावानुमानमपि इत्यभिप्रेत्य द्वितीयमपि दूषयति मानसादेरिति । निवेशितस्यापि इति शेषः ।
ननु अनिवेशितस्यापि मानसादेः मङ्गलत्वेन, निवेशनस्य तद्व्यापकत्वाभावेऽपि निवेशितस्यापि नमस्कारादेः मङ्गलत्वात्, निवेशनम् अनुष्ठानव्याप्यं स्यादेव । ततश्च ग्रन्थे निवेशनस्य अनुष्ठानव्याप्यत्वात् तत्कालीने आचार्यीयमङ्गलानुष्ठानेऽपि तदेव प्रमाणं वाच्यम्, व्याप्यान्तरादर्शनेन अनुष्ठानस्य निवेशनैकप्रमाणकत्वात् ।। तथा च रूपाद्युपलब्ध्येकप्रमाणकस्य चक्षुरादेः रूपाद्युपलब्ध्यभावे व्यतिरेकनिश्चयसन्देहौ यथा, एवं ग्रन्थे निवेशनैकप्रमाणकस्य मङ्गलानुष्ठानस्य तदभावेन व्यतिरेकनिर्णयसन्देहावेव स्यातामिति कथं अनुष्ठाननिर्णयः ? इति तृतीयं पक्षं दूषयति तच्चेति । स्यादेव रूपाद्यनुपलब्ध्या चक्षुरादेरभावनिर्णयः, मानान्तराभावेन तस्य चक्षुराद्युपलब्ध्येकप्रमाणकत्वात्; न चैवम् अनुष्ठानस्य निवेशनैकप्रमाणकत्वमस्ति ग्रन्थकर्तुराचार्यस्य परमास्तिकत्वादिरूपलिङ्गान्तरेण अनुष्ठानसिद्धेः । ततश्च अनुष्ठानस्य निवेशनैकप्रमाणकत्वासिद्धेः, न निवेशनव्यतिरेकेण तदभावनिश्चय इत्यर्थः ।। अनुमीयत इति । अयं ग्रन्थारम्भः, अनुष्ठितमङ्गलकः, परमास्तिककर्तृकत्वात् भगवत्कर्तृकत्वाद्वा, सम्मतवत् इत्यनुमीयते इत्यर्थः ।। इत्यप्याहुः ।
असिद्धञ्च ग्रन्थेऽनिवेशनम्, अतोऽपि न तेन तदनुष्ठानाभावसिद्धिः इत्याह यच्चेति ।। तथा हि न तावत् मङ्गलवाचकशब्दानिवेशोऽननुष्ठानम्, मायावादखण्डनादौ स्तौमि इत्येतदनुक्त्वाऽपि नृसिंहस्तुत्यात्मकमङ्गलानुष्ठानस्य ज्ञानात् । नापि मङ्गलात्मकशब्दानिवेशः । तस्यैवासिद्धेः । सूत्रादौ अथशब्दादेरिव अत्रापि पद्ये स्वातन्त्र्यादिशब्दस्यैव तथात्वोपपत्तेः ।। स्वातन्त्र्यादि इति आदिपदेन तत्त्वतापरिग्रहः । तत्त्वतायाः तत्त्वान्तरसाधारण्यात् स्वातन्त्र्यस्य आदित्वेन ग्रहणमिति बोध्यम् ।
ननु स्वातन्त्र्यादिसङ्कीर्तनं मङ्गलम् इति नाश्रयितुम् युक्तम्, तथा सति एतस्य विघ्नविघातादिहेतुत्वेन समग्रप्रकरणाङ्गतया प्रथमपद्यावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमपद्यं न्यूनमापद्येत । विधाप्रतिपादकस्य अन्यस्य अभावात् । तत्प्रतिपादनस्य च आवश्यकत्वात् । अन्यथा के ते द्वे विधे? इत्याशङ्का न निराकृता स्यात् । तत्कथं स्वातत्र्यादिसङ्कीर्तनं मङ्गलम् ? इत्यतः न मङ्गलत्वोक्त्या प्रथमपद्यावयवत्वाभावः स्वतन्त्रपदस्य अभिप्रेयते किन्तु प्रतिज्ञातविधाप्रतिपादकत्वेन उपात्तस्य स्वतन्त्रपदस्य न तन्मात्रप्रयोजकत्वम् । किन्नाम अन्यार्थं आनीयमानपूर्णकलशदर्शनवत् प्रयोजनान्तरसाधकत्वमपि, इत्येतावदेव इति न प्रथमपद्यस्य न्यूनत्वम्, नापि मङ्गलत्वाभावः इत्याशयेनाह अन्यपरमपीति । विभाजकोपाधिप्रदर्शनपरमित्यर्थः ।।
(वें.टि.) किञ्च किमिदं ग्रन्थनिवेशनं नाम, किं मङ्गलत्ववाचकशब्दप्रयोगः? ग्रन्थादौ मङ्गलात्मकशब्दनिवेशो वा ? नाद्यः । मायावादखण्डनादौ स्तौमीत्येवमनुक्तावपि नृसिंहस्तुत्यात्मकमङ्गलानुष्ठानस्य ज्ञातत्वात् । द्वितीये तु प्रकृतेप्यस्तीत्याह ।। यच्चायमिति ।। ननु युज्यते नृसिंहस्तुत्यात्मकशब्दनिवेशस्य मङ्गलानुष्ठानत्वादिकं, स्तुतिरूपमङ्गलत्वेनैव तन्निवेशात्, स्वातन्त्र्यादिसङ्कीर्तनस्य- तु पदार्थान्वयप्रतीत्यर्थे कृतस्य कथं मङ्गलत्वमित्यत आह ।। अन्यपरमपीति ।। सूत्रादौ अथशब्दादिकमिवेत्यर्थः ।
काशी टिप्पणी
नमस्कारादिनिबन्धनमेव मङ्गलमिति मन्वानः शङ्कते ।। नन्विति ।। मङ्गलाचरणं आचारप्राप्तमङ्गलम् ।। कस्मान्नानुष्ठितमिति ।। तस्याफलत्वाद्यभिमानं विना न कस्मादपीत्यर्थः । ननु वस्तुतोऽफलत्वात् अप्रकृतफलत्वाद्वा तदननुष्ठानं किं न स्यात् इत्याशङ्क्य आद्यं निराचष्टे ।। न तावदिति ।। अनुष्ठितत्वमात्रस्य चैत्यवन्दनादावनैकान्त्यात् । प्रेक्षावद्भिरिति । अभ्रान्तैरित्यर्थः । अभ्रान्तत्वं च मङ्गलानुष्ठातॄणां महर्षीणामागमसिद्धम् । द्वितीयं निराकरोति ।। नापीति ।। समाप्त्यादिव्यतिरिक्तफलं समाप्तिप्रचयव्यतिरिक्तमात्रफलकं समाप्त्याद्यफलकमिति यावत् । तेन तत्तदन्योभयफलकस्यानुष्ठानसम्भवेऽपि नासङ्गतिः । अनुष्ठीयमानत्वमात्रस्य भोजनादौ व्यभिचरितत्वात् आरम्भ इति । अवान्तरारम्भव्यावृत्तये ग्रन्थारम्भलाभार्थः प्रशब्दः । करचेष्टादौ व्यभिचारवारणाय नियमेनेति । चैत्यवन्दनादेरपि कैश्चिन्नियमेनानुष्ठानात् प्रेक्षावद्भिरित्यनुवर्तनीयम् । तथा च मङ्गलं न समाप्त्याद्यफलकं प्रेक्षावत्कर्तृकग्रन्थारम्भनियतानुष्ठानविषयत्वात् व्यतिरेकेण यागादिवत् इत्युक्तं भवति ।
यद्वा समाप्त्याद्युद्देशेन प्रेक्षावदनुष्ठितत्वस्य हेतुत्वे तात्पर्यम् । अत्र च यत् यदुद्देशेन प्रेक्षावदनुष्ठितं तत् तदफलकं न भवति इति सामान्यव्याप्तौ स्वर्गफलयागादिकं दृष्टान्तः । एवं चात्र मङ्गलाननुष्ठानेन प्रामाणिकार्थानङ्गीकारमूलकत्वात् शिष्टाचारविरुद्धत्वात् प्रचयानर्हत्वाच्च तत्प्रकरणस्य व्याख्यानमयुक्तम् । न च मङ्गलाभावे समाप्त्यनुपपत्तिः कारणान्तरेणापि समाप्तिसम्भवादिति शङ्काभिप्रायः ।
केचित्तु, मङ्गलस्य समाप्तिहेतुतया तदभावेनासमाप्तत्वादव्याख्येयमेत त्प्रकरणमित्याशयेन शङ्कते ।। नन्विति ।। मङ्गलस्य समाप्तिहेतुत्वे किं मानं? इति चेत्, मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वात् इति परिशेषानुमानमेवेत्यभिप्रेत्य तत्र विशेष्यविशेषणासिद्धी परिहरति ।। न तावदिति ।। न च नियमेन प्रारम्भे अनुष्ठीयमानत्वात् इत्यनेन समाप्तिफलकत्वसाधनसम्भवात्परिशेषवैयर्थ्यमिति वाच्यम् । समाप्त्यादिव्यतिरिक्तोद्देशेनाननुष्ठीयमानत्वस्यैव तत्र विवक्षितत्वात् तस्य च सुखादिसाधारणस्य समाप्तिफलकत्वासाधकत्वेन परिशेषसार्थक्यात् । अत एव दर्शपूर्णमासारम्भे अनुष्ठीयमानारम्भणीयेष्ट्यादौ न व्यभिचार इति व्याचक्षते ।
प्रकरणादौ मङ्गलाननुष्ठानस्यैवासिद्धत्वादव्याख्येयत्वशङ्कनमनुपपन्नमिति भावेन समाधत्ते ।। उच्यत इति ।। इति चेत् अनुष्टितमेव मङ्गलमित्युच्यत इत्यध्याहारेणान्वयः । तर्हि उपलभ्येतेत्यत आह ।। मानसादेरपीति ।। स्यादेवं, यदि नमस्कारादिनिबन्धनमेव मङ्गलं स्यात् । न त्वेवम् । भगवदुत्कर्षविषयीकारिज्ञानकर्मशब्दात्मकतया तस्य त्रैविध्यात् । प्रकृते च अस्मदादिप्रत्यक्षायोग्यज्ञानादिरूपमङ्गलसत्वान्नोक्तदोष इति भावः । अत्र मानसस्यैव मुख्यत्वान्मुखतो ग्रहणम् ।
ननु तस्य सत्वे किं मानं? अत आह ।। तच्चेति ।। मानसादिरूपं चेत्यर्थः ।। परमास्तिकत्वात् सकलसिद्धान्ताभ्युपगन्तृत्वात् । तच्च बलित्थेत्यागमसिद्धमिति भावः । ननु आचार्यः कृतमङ्गलः परमास्तिकत्वात् इत्यनुमानं सिद्धसाधनम् । ग्रन्थान्तरे कृतमङ्गलत्वात् । एतद्ग्रन्थादौ कृतमङ्गलत्वसाधने मन्वादौ व्यभिचारः । एतद्ग्रन्थकृत्त्वे सतीति हेतुविशेषणे सपक्षाभावो विशेष्यवैयर्थ्यं चेति चेन्न । यो यद्ग्रन्थकृत्त्वे सति परमास्तिकः स तदादौ कृतमङ्गलः इति सामान्यव्याप्तौ मन्वादिस्मृतिकर्तृः सपक्षत्वात् । नास्तिकादौ व्यभिचारवारकतया विशेष्यसार्थक्याच्च ।
एतद्ग्रन्थो मङ्गलाचरणपुरःसरः परमास्तिककर्तृकत्वात् ग्रन्थान्तरवत् इत्यनुमाने तात्पर्यमित्यप्याहुः । एवं च परिशेषान्मानसादिरूपमेव मङ्गलं सिद्ध्यतीत्यभिप्रायः ।
ननु ग्रन्थादौ मङ्गलनिबन्धनस्य शिष्यशिक्षार्थत्वेन शिष्टाचारप्राप्तत्वात्तद्विरोध इति । अत आह यच्चेति ।। निबन्धनस्यैव मङ्गलत्वमभ्युपेत्याह यच्चेतीत्येके । निबन्धनाभावेन मङ्गलाभावानुमाने हेत्वसिद्धिरित्याह यच्चेतीत्यन्ये । यस्त्वाचार्यस्य परमास्तिकत्वे विप्रतिपन्नस्तं प्रत्यप्याह यच्चेतीत्यप्याहुः । अयं आचार्यः । स्वातन्त्र्यादीत्यादिना स्वतन्त्रमित्येकवचनार्थस्य सजातीयद्वितीयराहित्यरूपैकत्वस्य, अस्वातन्त्र्यघटकपरत्वस्य च परिग्रहः । आदितः आदावेव । अन्यथा तत्वं द्विविधं स्वतन्त्रमस्वतन्त्रञ्च इत्यवक्ष्यदिति भावः ।
तत्वत्वमादिपदग्राह्यमित्यन्ये । भगवत्वं तथेत्यप्याहुः । अत्र च आदितः इत्यस्यादिमश्लोक इत्यर्थो बोध्यः ।
ननु तत्वविभागादिपरस्यास्य कथमनन्तरायपरिसमाप्त्यादिसाधकत्वम्? अन्यथा चार्वाको तथात्वापत्तेरिति । अत आह ।। अन्यपरमपीति ।। अन्योद्देश्यकमपि । तत् सङ्कीर्तनं । भक्त्येति चार्वाकादिनिरासः । आचार्यस्य प्रमाणान्तरात्, आदित एव सङ्कीर्तनाच्च भक्तिरवसीयत इति भावः । स्वभावात् सामर्थ्यात् । मङ्गलानि निर्विघ्नपरिसमाप्त्यादिमङ्गलफलानि ।। सम्पादयतीति ।। भक्तिपूर्वकभगवत्कर्तनस्यैव मङ्गलत्वात् अन्यपरत्वाविशेषितस्य च समाप्त्यादिसाधनत्वादिति भावः । अनेन मङ्गलस्य पृथगनिबन्धनमन्यपरस्यापि तस्य समाप्त्यादिहेतुत्वज्ञापनायेत्युक्तं भवति । इतिशब्दः प्रकृतशङ्कानिराससमाप्त्यर्थः ।