एवं विमुक्तियोग्याश्च
मुक्तविभागस्य मुक्तियोग्येष्वतिदेशः
टीका
दुःखसंस्था मुक्तियोग्यायोग्यभेदाद्द्विधा इत्युक्तम् । तत्र मुक्तप्रभेदं योग्येष्वतिदिशति ।। एवमिति ।।
तत्वसङ्ख्यानम्
एवं विमुक्तियोग्याश्च .......।
देवर्ष्यादिभेदेन पञ्चधा इत्यस्यानुकर्षणार्थश्चकारः ।
तत्वसङ्ख्यानटीकाटिप्पणी
मुक्तप्रभेदमिति ।। मुक्तप्रभेदप्रकारमित्यर्थः ।
तत्वसङ्ख्यानविवरणम्
मुक्तप्रभेदमिति । मुक्तानां देवर्ष्यादिप्रभेदं प्रकारमित्यर्थः ।
तत्वसङ्ख्यानटिप्पणम्
इत्युक्तमिति ।। दुःखसंस्था मुक्तियोग्या अयोग्या इत्यादिना । मुक्तप्रभेदं देवर्षीत्यादिरूपम् । योग्येषु मुक्तियोग्येषु । चशब्दकृत्यमाह ।। देवर्ष्यादीति ।। अनुकर्षणार्थः । बहुव्रीहिः ।
भावचन्द्रिका
मुक्तप्रभेदं मुक्तप्रभेदप्रकारम् ।
काशी टिप्पणी
मुक्तियोग्यविभागस्याप्रकृतत्वशङ्कां वारयितुमाह ।। दुःखसंस्था इति ।। तत्र द्विधेत्युक्त्या तद्विभागोऽपि सूचित इति भावः । तत्र तयोर्मध्ये । योग्येष्विति सम्बन्धः । चशब्दस्यायोग्यसमुच्चायकत्वायोगादाह ।। देवर्ष्यादीति ।। यद्यपि एवमित्यस्यैव देवर्ष्यादिभेदेन पञ्चधेत्यर्थकत्वसम्भवः तथापि न तस्य समुच्चयार्थकत्वम् । यथा मुक्तास्तथा मुक्तियोग्या इत्युपमार्थत्वमेवाभिप्रेतम् । अन्यथा चशब्दवैयर्थ्यादिति भावेनानुकर्षः कृतः । यद्वा एवमित्यस्य देवर्ष्यादिभेदेनेति व्याख्यानम् । चशब्दात्पञ्चधेत्यनुकर्ष इति व्याख्येयमतो नान्यतरवैयर्थ्यम् । अत एव देवर्ष्यादिभेदेनेत्यर्थानुवाद एव कृतो न तु देवर्षिपितृपनरा इति शब्दानुवाद इत्यवधेयम् ।