नित्या वेदाः
नित्यान्यचेतनानि
टीका
क्रमेण त्रयं दर्शयिष्यन्नित्यं तावद्दर्शयति ।। नित्या इति ।।
तत्वसङ्ख्यानम्
नित्या वेदाः....... ....... ....... ।
अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां ‘नित्या वेदाः समस्ताश्च’ इत्यादि प्रमाणसिद्धम् । अत्र वेदा इत्युपलक्षणम् । पञ्चाशद्वर्णानामव्याकृताकाशस्य च तथा भावात् ।
भाववर्णनम्
नित्यत्वं क्रमाद्यन्तशून्यत्वं, अत्र हेतुः ।। कूटस्थतयेति ।। अपरिणामितयेत्यर्थः ।
तत्वसङ्ख्यानटीकाभावदीपः
।। कूटस्थतयाऽऽद्यन्तशून्यत्वमिति ।। कूटवत् आकाशवत् निर्विकारतया स्थिततयेत्यर्थः । यद्यप्यानुपूर्व्याः कृत्रिमत्वेन सजातीयानुपूर्वीकत्वमात्रेण प्रवाहतोऽनादित्वमेव । न कूटस्थत्वम् । तथैव तत्वनिर्णयटीकोक्तेः । तथाप्यध्यापकाद्युच्चरितवेदस्य तथात्वेऽपि ईश्वरबुद्धिस्थक्रमापेक्षयैतदुक्तिः । उक्तं हि तत्वनिर्णये ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इति । तथा तत्वनिर्णयोक्तप्रमाणशेषे ‘‘नित्या वेदास्समस्ताश्च शाश्वता विष्णुबुद्धिगाः ।’’ इति विष्णुबुद्धिगतत्वमुक्तम् ।
तत्वसङ्ख्यानटीकाटिप्पणी
नित्यस्य लक्षणमाह– अत्रेति ।। नित्यानित्येऽतिव्याप्तिवारणायाह– कूटस्थतयेति ।। निर्विकारत्वे सतीत्यर्थः । अन्त्यावयविन्यतिव्याप्तिवारणायोत्तरभाग इति प्रतिभाति । आद्यन्तशून्यत्वे कूटस्थत्वं हेतुतयैवोपात्तम् । न तु लक्षणान्तर्गतमित्यप्याहुः । ननु तत्तद्बुद्धवुपाधिकक्रमविशेषविशिष्टवर्णानां वेदत्वात्तेषां च जन्यत्वात्कथं नित्यत्वेन निर्देश इत्यत आह– अत्र वेदा इतीति ।। तथा चाजहल्लक्षणया वर्णा अव्याकृताकाशश्च वेदपदेन गृह्यन्त इति भावः । नन्वेवं ‘नित्या वेदा’ इत्युदाहृतप्रमाणासङ्गतिः । न हि तत्र वर्णानां कूटस्थताघटितं नित्यत्वमुक्तम् । अपि तु वेदानां सर्वदैकप्रकार(क)त्वरूपमेव नित्यत्वमुक्तम् । ‘न हि वयं वेदस्य कूटस्थनियतां ब्रूमः । किन्तु शब्दतोऽर्थतश्च सर्वदैकप्रकारतामेव’ इति विष्णुतत्त्वनिर्णयटीकायां व्याख्यातत्वादिति चेन्मैवम् । तत्रैव ‘न च वर्णपदादीनां अनित्यत्वं वक्तुं युक्तम्’ इति (वाक्य) व्याख्यानावसरे ‘न केवलं वर्णमात्रं नापि पदादिमात्रं किन्तु यथायोगं समस्ताश्च शाखता’ इति प्रकारान्तरेणाप्यस्य व्याख्यातत्वेन वर्णानां कूटस्थनित्यत्वस्याप्येतत्प्रमाणार्थत्वेन विवक्षितत्वात् । न ह्येतद्व्याख्यानमभिप्रेत्यात्रोक्तप्रमाणोदाहारणे काप्यसङ्गतिरस्तीति ।।
तत्वसङ्ख्यानविवरणम्
नित्यस्य लक्षणमाह ।। अत्र नित्यत्वं नामेति । नित्यानित्येति व्याप्तिपरिहारायाह ।। कूटस्थतयेति । कूटमव्याकृताकाशः । ‘‘कूटं खं विदलं व्योम सन्धिराकाश उच्यत’’ इत्यभिधानात् । तद्वत् स्थितं कूटस्थम् । तत्सादृश्यं निर्विकारत्वेन विवक्षितम् । तथा च कूटस्थतयेत्यस्य निर्विकारतयेत्यर्थो द्रष्टव्यः । सहितमिति शेषः । तथा च कूटस्थत्वे सत्याद्यन्तशून्यत्वं लक्षणम् । अन्त्यावयविन्यतिव्याप्तिपरिहारायोत्तरभागः । अव्यक्तेऽतिव्याप्तिवारणाय विशेषणभागः । विकारो व्यक्तजन्म हीति वचनेन तस्य विकारावगमादिति द्रष्टव्यम् । अन्ये तु आद्यन्तशून्यत्वे कूटस्थत्वं हेतुतयैवोपात्तम् । न तु लक्षणान्तर्गतमित्यप्याहुः ।
ननु तत्तद्बुद्ध्युपाधिकक्रमविशिष्टवर्णानां वेदत्वात्तेषां च जन्मवत्त्वात्कथं नित्यत्वेन निर्देश इत्यत आह ।। अत्र वेदा इति ।। तथा भावादिति । कूटस्थतया आद्यन्तशून्यत्वादित्यर्थः । तथा च जहल्लक्षणया पञ्चाशद्वर्णाः अव्याकृताकाशश्च वेदपदेन गृह्यन्त इति भावः । ननु पञ्चाशद्वर्णानामिति कथम् । अकाराद्याः षोडशस्वराः । कादयो मावसानास्स्पर्शाः पञ्चविंशतिः। यादिक्षान्ता दशेत्येकपञ्चाशद्वर्णाः । अत एवोक्तम् । एकपञ्चाशद्वर्णानां चतुर्विंशतिमूर्तय इति चेत् । सत्यम् । कषयोर्योगे क्षेति जातत्वेन तस्य पृथग्वर्णत्वाभावमभिप्रेत्य पञ्चाशद्वर्णानामित्युक्तत्वात् । एतदभिप्रायेणैवोक्तम् । तत्र वर्णाभिमानिभिरजेशमुखैस्सहैव ‘‘पञ्चाशता प्रतिगिरन्तमशेषविद्या’’ इति ।
ननु वेदशब्देन पञ्चाशद्वर्णादयो जहत्स्वार्थलक्षणया गृह्यंते न हि जहत्स्वार्थलक्षणायां चोपलक्षणप्रयोगो दृष्टः । गङ्गापदेन तीरं लक्ष्यत इत्येवार्थो न तूपलक्ष्यत इति । उपलक्षणशब्दप्रयोगश्चाजहत्स्वार्थ लक्षणायामेव । काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदं दध्युपघातकद्रव्यस्योपलक्षकमिति व्यवहारादिति चेत्सत्यम् । जहत्स्वार्थलक्षणायामपि उपलक्षणशब्दप्रयोगस्य ग्रन्थेषु बहुलमुपलम्भात् । तथाहि । नन्वेवं सति नित्या वेदा इत्युदाहृतप्रमाणासङ्गतिः । न हि वर्णानां कूटस्थघटितनित्यत्वमुक्तम् । अपि तु वेदानां सर्वदैकप्रकारत्वरूपमेव नित्यत्वम् । न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः । किन्तु शब्दतोऽर्थतश्च सर्वदा एकप्रकारतामेवेतितत्वनिर्णयटीकायां व्याख्यातत्वादिति चेत् । उच्यते । तत्रैव न च वर्णपदादीनामनित्यत्वं वक्तुं युक्तमिति वाक्यव्याख्यानावसरे न केवलं वर्णमात्रं नापि पदादिमात्रं किन्तु यथायोगं शाश्वता इत्यस्य वाक्यस्य प्रकारान्तरेण व्याख्यातत्वेन वर्णानां कूटस्थत्वस्याप्ये तत्प्रमाणार्थत्वेन विवक्षितत्वात् । न ह्येतद्व्याख्यानमभिप्रेत्य अत्र नित्या वेदा इति प्रमाणोदाहरणे काप्यसङ्गतिरिति ।।
तत्वसङ्ख्यानटिप्पणम्
तर्ह्येतदनुसारेण नित्यानित्यस्वरूपनिरूपणं प्राक्कार्यम् । नित्यस्वरूपनिरूपणं तु कुत इत्यत आह ।। क्रमेणेति ।। प्राधान्यक्रमेणेत्यर्थः । त्रयं नित्यं नित्यानित्यमनित्यमिति त्रयम् । ननु ‘‘नित्या वेदा’’ इत्यत्र नित्यत्वं नाम यद्यविनाशित्वं तर्हि नित्यानित्य पुराणादीनां नित्यत्वस्यापिसत्वात्तत्रातिव्याप्तिः । न च तेषां लक्ष्यत्वान्नानुपपत्तिरिति वाच्यम् । नित्यरूपप्रथमप्रकाराक्रान्तत्वे ‘‘पुराणाद्या’’ इति द्वितीयप्रकारविशिष्टत्वेन कथनविरोधापत्तेरित्यत आह । अत्रेति ।। अस्मिन्वाक्ये वेदानामुक्तं नित्यत्वं नाम कूटस्थतया निर्विकारतया । आद्यन्तशून्यत्वं उत्पत्तिनाशरहितत्वम् । कूटवत्तिष्ठतीति कूटस्थम् । कूटं खं विदलं व्योमेत्याद्यभिधानादाकाशवाचिकूटशब्द उपपदे तिष्ठतेः ‘‘सुपिस्थ’’ इत्यतो योगविभागात्कप्रत्यये रूपम् । आकाशवत्स्थित्युक्तया निर्विकारत्वं लभ्यते । एवं चोक्तस्थले नातिव्याप्तिः । पुराणादीनामनीदृशत्वात् । एतेनैवोक्तविरोधोऽपि निरस्त इति ज्ञेयम् ।
ध्वंसप्रागभावयोरनतिव्याप्तये आद्यन्तशून्यत्वमिति क्रमाद्विशेषणे । तावत्युक्ते कालप्रवाहे प्रकृत्यां चातिप्रसक्तिः । तत्परिहाराय कूटस्थतयेति पदम् । एवं च कालप्रवाहप्रकृत्योः क्षणलवाद्यंशैर्महदाद्यात्मना विकारदर्शनात्सदैकप्रकारत्वरूपकूटस्थत्वाभावान्न दोषः । असम्भवशङ्कां वारयति ।। तच्चेति ।। कूटस्थतयाऽऽद्यन्तशून्यत्वम् । आदिपदेन ‘‘शाश्वता विष्णुबुद्धिगाः । सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च । अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा । अनादिनित्या सा तच्च विना तां न स गम्यत’’ इत्यादीनां सङ्ग्रहः । ननु नित्यानां वर्णाव्याकृताकाशादीनां सत्त्वात्कथं वेदमात्रग्रहणमित्यत आह ।। अत्रेति ।। अजहत्स्वार्थलक्षणारूपमित्यर्थः । ततश्च नानुक्तिदोषः । भूतव्यावृत्तयेऽव्याकृतपदम् । तथा भावादित्यनेनोपलक्षणाकरणेऽतिव्याप्तिः स्यात्तत्रेति सूचयति ।
न च ‘‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः । किं तु शब्दतोऽर्थतश्चैकप्रकारतामेवे’’त्यादितत्वनिर्णयटीकाविरोध इति वाच्यम् । क्रमस्तु द्विविधः । ईशबुद्धिस्थोऽस्मद्बुद्धिस्थश्चेति । तत्राद्यमवलम्ब्येयं टीका प्रवृत्ता । ईश्वरबुद्धेरुपरमाभावेन तदुपहितक्रमस्यापि नित्यत्वेनोक्तलक्षण सम्भवात् । द्वितीयमवलम्ब्य तु तत्वनिर्णयटीका प्रवृत्ता । अस्मद्बुद्धीनां क्रमवत्त्वात्तदुपहितक्रमविशिष्टवर्णात्मकवेदस्यापि तथोक्तिसम्भवात् । एवमेव नित्यत्वानित्यत्वावेदकप्रमाणान्यप्युभयथा योज्यानीत्यविरोधसम्भवात् ।
यथोक्तं गायत्र्यधिकरणचन्द्रिकायां ‘‘गायत्रीरूपवेदस्यानादिनित्यत्वात् । ननु कृतकक्रमविशिष्टवर्णात्मकस्य वेदस्य नानादित्वम् । उक्तं हि तत्वनिर्णयटीकायाम् । ‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूम’ इति । ‘क्रमस्य कृतकत्वेऽपी’ति चेति चेन्मैवम् । तत्वसंख्यानटीकायां ‘नित्यत्वं नाम कूटस्थतयाऽऽद्यन्तशून्यत्वम् । तच्च वेदानां नित्या वेदाः समस्ताश्चेत्यादिप्रमाणसिद्ध’मित्युक्तत्वात् । युक्तं चैतत् । क्रमस्य सदेश्वरबुद्धिस्थत्वात् । अत एवोक्तं तत्वनिर्णये ‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वा’दिति । तट्टीकायां कौटस्थ्यनिषेधस्त्वस्मदादीन्प्रति प्रमापकत्वोपयुक्तस्यास्मदादिबुद्धिस्थस्य क्रमस्योच्चारणाद्यधीनत्वेन कृतकत्वात् । कृत्वाचिन्तया वाऽनादित्वोक्तिः । क्रमस्यानन्याधीनत्वात् । इयं च ‘नित्यत्वादेव शब्दानां तत्स्वभावः कथं हरे’रित्यनुव्याख्याने प्रदर्शिते’’ति ।
तर्कताण्डवे पौरुषेयत्वानुमानभङ्गे ‘‘ननु कथं वेदस्यापौरुषेयत्व’’मित्यारभ्य ‘‘न चेश्वरस्य तथाविधबुध्द्युपरमो युज्यते । तस्य सर्वदा सर्वज्ञत्वात् । पुराणादीनामप्यन्यथारचनमेवानित्यत्व’’मित्यन्तेनायमर्थ एवोक्तः । सत्तत्वरत्नमालायामचेतनप्रकरणे
(नित्यास्तु वेदा वर्णाश्च परमाकाश एव च ।)
नित्या वेदास्तथाकाशो दिङ्नामापि य एव हि ।
वेदः सर्वोऽपि नित्यश्च स्वर(वर्ण)क्रमपदात्मकः ।
पञ्चाशत्संख्यवर्णानां क्रमाद्योगैः परस्परम् ।
अनन्तानां च वेदानां स्थितिरित्यतिकौतुकम् ।
ईश्वराचिन्त्यशक्तयैव घटना केवलं भवेत् ।।
इत्यारभ्य ‘‘व्यक्तिरुच्चारणाद्भवेत्’’ । ‘‘नित्या अनित्याश्च ततस्तदधीनाः सदैव ही’’त्यन्तेन सव्याख्यानेन निपुणतरमयमेवार्थः प्रपञ्चितः । तथा हि गीताभाष्ये ‘‘तदुत्पत्तिवचनान्यभिव्यक्त्यर्थानी’’त्यादौ । तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य त्विति तत्वनिर्णये । तत्वसंख्यानटीकादौ तु कौटस्थ्यस्य स्पष्टमुक्तत्वाच्च । कौटस्थ्याभाववचनं त्वभ्युपगमवादेन वा व्यक्तिलक्षणविशेषाभिप्रायेण वा सावकाशम् । अन्यथा शब्दतोऽर्थतश्चैकप्रकारतामेवेति तदुत्तरग्रन्थे शब्दत एकप्रकारत्वाख्यकूटस्थत्वोक्तिविरोधात् वियदधिकरणीयसुधायां वेदस्य नियतानुपूर्वीकत्वेनार्थावबोधनं शक्तयाविर्भावो व्यक्तिरित्युक्तेस्तद्विरोधाच्चेति तद्विरोधमुक्त्वा न चेत्यादिना पुनः शङ्काः प्रापय्य तन्निषेधपूर्वकं तदेवेदं वचनमित्यादिविरोधादिति यद्वर्णक्रमाद्युपेतमेवेदं श्रूयमाणं वाक्यमिति प्रत्यभिज्ञानादित्युक्तेरिति । तथा द्वादशस्तोत्रेऽपि वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यत इत्युक्तेश्चेति ।
तत्वनिर्णयटीकान्यायावल्यां च । नित्यमपि प्रधानं विक्रियते । न तथा विकारिणो वेदा इति दर्शयितुं शाश्वता इति शाश्वतपदकृत्यमभिधाय तथैव तद्विक्रियते तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथेति ये पूर्वकल्पे वेदाः स्थिताः ये च संहितापदादिषूदात्तादिस्वराः स्थिताः ये च तत्र वर्णाः स्थिताः यश्च तत्र क्रमः स्थितस्त एवैतत्कल्पादौ विष्णुनोदीर्यन्ते । न तु वह्निमील इति वर्णविपर्ययेण । न च पुरोहितमील इति क्रमविपर्ययेणेत्युक्तं भवतीत्यारभ्य यथा वेदजनिवचनस्यार्थो वेदाभिव्यक्तिरित्यन्तेन निपुणतरमयमेव प्रकार उदञ्चितः ।
यद्वा जहत्स्वार्थलक्षणया क्रमविशिष्टवेदं परित्यज्य पञ्चाशद्वर्णाव्याकृताकाशा एव ग्राह्याः । उपलक्षणशब्दस्तु ‘‘उपलक्षणा च गौणी च तिस्रश्शब्दस्य वृत्तय’’ इत्यनुव्याख्यानोक्तेर्लक्षणासामान्यपरः । ईशशेमुषीजातोऽपि क्रमस्तद्बुद्ध्युपरमाभावेनैव न नश्यतीति चोपपद्यते । उपपद्यते च ‘‘तत्क्रमेणे’’त्यादितन्नित्यतावेदको वेदवादः । पुराणस्य वेदस्य चोपपद्यत उत्पत्तिमत्क्रमकत्वेऽपि विलक्षणानुपूर्वीकत्वतदभावरूपवैलक्षण्यम् । स्पष्टं चात्र ‘‘न हि वय’’मित्याद्यनेकस्थलगतटीकाकृद्वाक्यमिति । तथा चोक्तमेतद्व्याख्याने पाण्डुरङ्गीये ‘‘ननु क्रमविशिष्टवर्णा एव वेदाः । नाव्याकृताकाशवदर्थान्तरम् । वर्णाश्च नित्यत्वात्सर्वगतत्वाच्च स्वतः क्रमशून्या इत्यतः क्रमो बुद्धिनिमित्त एवास्थेयः । उक्तं हि
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ।। इति ।
तत्कथं कृतकक्रमविशिष्टवर्णात्मकस्य नित्यत्वमुच्यते । अत एवोक्तं तत्वनिर्णयटीकायां ‘‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूम’’ इति । ‘‘क्रमस्य कृतकत्वेऽपी’’ति च । तत्कथमेतदिति चेत् ।
अत्र वदन्ति । एतट्टीकानुरोधेन ‘‘न हि वयं वेदस्ये’’त्यादि तत्वनिर्णयटीकाग्रन्थो व्याख्येयः । अत्र ‘‘नित्या वेदा’’ इति प्रमाणोपन्यासेनैतद्ग्रन्थस्य प्राबल्यात् । युक्तं चैतत् । क्रमस्य सदेश्वरबुद्धिस्थत्वात् । अत एवोक्तं तत्वनिर्णये ‘‘सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वा’’दिति । न चैवं टीकायां तन्निषेधानुपपत्तिः । अस्मदादीन्प्रत्यस्मदादिबुद्धिस्थस्य क्रमस्योच्चारणाद्यधीनत्वेन कृतकत्वादित्यभिप्रायेण तस्योपपन्नत्वादिति ।
वयं तु ब्रूमः । न क्रमस्यानादिनित्यत्वमङ्गीकारार्हम् । तथा सति वर्णधर्मस्य क्रमस्य यावद्द्रव्यभावित्वेन वर्णयोरत्यन्ताभेदप्रसङ्गेन वर्णानां परस्परमत्यन्ताभेदप्रसङ्गात् । अत एव चन्द्रिकायामिमामेवानुपपत्तिं मनसि निधाय ‘‘कृत्वा चिन्तया वाऽनादित्वोक्ति’’रित्युक्तम् । ततश्च कृतकमविशिष्टवर्णात्मकस्य वेदस्य नित्यत्वासम्भवात्कथं तन्नित्यत्वोक्तिः । कथं वा कृतकस्य कूटस्थतया प्रमितत्वम् । नित्यानित्यादिभावेन निर्दिष्टस्य नित्यत्वेन निर्देश इत्यत आह । अत्र वेदा इत्युपलक्षणमिति । अत्रोपलक्षणपदेन लक्षणासामान्यमित्युच्यते । न त्वजहत्स्वार्थलक्षणा । उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तय इत्यादौ लक्षणासामान्येऽपि तत्प्रयोगदर्शनात् । तथा च वर्णानामव्याकृतस्यैव कूटस्थनित्यत्वेनाभिप्रेतत्वान्न सङ्ग्राह्यासङ्ग्रहोऽसङ्ग्राह्यसङ्ग्रहोऽपीति भावः ।
यत्तु चतुर्वेदानामेव श्रुतिगृहीतत्वेन नित्यत्वेन प्रदर्शनमनुपपन्नम् । अव्याकृतादेश्च तथाभूतत्वादित्याशङ्क्य, जहत्स्वार्थलक्षणया वेदपदेन वर्णादेरपि सङ्गृहीतत्वाददोष इत्येवंपरत्वेनात्रेति ग्रन्थावतरणं तत्तु प्रोक्तानुपपत्तिग्रस्तमिति दिगित्युक्तम् ।
आचार्या अपि तथा च जहल्लक्षणया वर्णा अव्याकृताकाशश्च वेदपदेन गृह्यन्त इति भावः । नन्वेवं नित्या वेदा इत्युदाहृतप्रमाणासङ्गतिः । न हि तत्र वर्णानां कूटस्थताघटितं नित्यत्वमुक्तम् । अपि तु वेदानां सर्वदैकप्रकारत्वरूपमेव नित्यत्वम् । ‘‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः । किन्तु शब्दतोऽर्थतश्चैकप्रकारतामेवे’’ति तत्वनिर्णयटीकायां व्याख्यातत्वादिति चेन्मैवम् । तत्रैव न च वर्णपदादीनामनित्यत्वं वक्तुं युक्तमिति वाक्यव्याख्यावसरे न केवलं वर्णमात्रम् । नापि पदादिमात्रम् । किन्तु समस्ताश्च यथायोगं शाश्वता इति प्रकारान्तरेणास्य वाक्यस्य व्याख्यातत्वाद्वर्णानां कूटस्थत्वस्यापि तत्प्रमाणार्थत्वेन विवक्षितत्वात् । न ह्येतद्व्याख्यानमभिप्रेत्यात्रोक्तप्रमाणोदाहरणे काऽप्यसङ्गतिरिति व्याख्यातवन्तः । तदनन्तरा आचार्या अपीमामेव रीतिमेतद्वाक्यव्याख्यानावसरे प्रतिपादितवन्तः ।
रोट्टीयेऽपि व्याख्याने ‘‘ननु क्रमविशेषविशिष्टवर्णा एव वेदो न त्वव्याकृताकाशवदर्थान्तर’’मित्यारभ्य ‘‘ज्ञेय’’मित्यन्तेनेममेव प्रकारं प्रदर्शयामासुः ।
तर्कताण्डवे स्थलान्तरे क्रमस्य कृतकत्वेऽप्याधुनिकेनाध्यापकेन स्वबुद्धिस्थपूर्वपूर्वदिवसीयक्रमानुसारेणोत्तरोत्तरदिवसेष्विवेश्वरेणापि स्वबुद्धिस्थप्रवाहानादिपूर्वकल्पीयप्रमाणानुसारेणैवोत्तरोत्तरकल्पेष्वपि वेदस्योच्चरितत्वेन स्वातन्त्र्याभावे नियतानुपूर्वीकत्वादिरूपोक्तविधापौरुषेयत्वे बाधाद्यभावात् । उक्तं च सुधायाम् । नियतैकप्रकारत्वमपौरुषेयत्वम् । एतदप्युक्तं गौरवदोषेणेति । क्रमाकृतकत्वस्याप्यपौरुषेयत्वप्रवेशे गौरवदोषेणेत्यर्थ इत्याद्युक्तेः । चन्द्रिकाविवृतौ श्रीसत्यानंदतीर्थश्रीचरणा अपीत्थमेव व्याख्यासिषुः । तथाऽहि । तत्वनिर्णय–तत्वसंख्यानटीकयोर्विरोधं परिहर्तुं शङ्कते । नन्विति । अत्र क्रमो नाम क्रमिकबुद्धिविषयत्वम् । ईश्वरबुद्धेः सर्वविषयसमूहालम्बनत्वेऽपि वेदस्य प्रमापकत्वसिद्धयेऽभिव्यक्तिविशेषक्रमस्याप्यावश्यकत्वम् । वर्णमात्रे प्रयोगप्रत्यययोरयोगात्क्रमस्य च सर्वगतनित्यवर्णानां स्वतो देशतः कालतश्चायोगादिति भावः । अत एवोक्तं तत्वनिर्णये । वर्णादयस्तत्क्रमात्मको वेदश्च नित्य एवेति सिद्धमिति । मैवमिति । न च तत्वसंख्याने वर्णमात्रग्रहणमुदाहृतप्रमाणविरोधात् । पौराणवर्णानामप्यविशिष्टत्वेन पृथङ्नित्यानित्यकोटौ निवेशायोगाच्च । पुराणपदेन तद्वाक्यात्मकग्रन्थस्यैवोक्तावृगादिपदवाच्यग्रन्थस्यैव प्राधान्येन तदादित्वेन ग्रहणस्यौचित्याच्च । वाचा विरूप नित्ययेत्यादिविशेषवाक्यविरोधाच्च । नित्या वर्णाः समस्तशः । तथा, वेदाः समस्ताश्च तथाऽव्याकृतमम्बरमिति तत्वसङ्ख्यानटीकार्थनियामकवायुपुराणप्रमाण विरोधाच्चेति ज्ञेयम् ।
टीकावाक्यत्वाविशेषाद्विरोधशङ्कायां विष्णुतत्वनिर्णयटीकानुरोधेन तत्वसङ्ख्यानटीकैव कुतो न व्याख्येयेत्यतः प्रमाणमुक्त्वा युक्तोऽयुक्तश्च यद्यर्थ आगमस्येत्यनुव्याख्यानोक्तं न्यायं चाह । युक्तं चैतदिति । न चेश्वरबुद्धिस्थत्वाविशेषेण पुराणानामप्यपौरुषेयत्वापत्तिः । कल्पभेदेन क्रमव्यत्यासाभावमात्रेणापौरुषेयत्वाभावस्य पुराणानि तदर्थानीत्यादौ समर्थितत्वात् । तर्ह्याप्तवाक्यस्याप्रामाण्यमेव प्राप्तमत आह । तट्टीकायामिति । ननु तर्हि सर्गे सर्गेऽमुनैवैत इति पुराणवाक्योक्तप्रत्यभिज्ञापरामर्शकस्य प्रत्यभिज्ञाविरोधस्योक्तत्वादित्यादिवाक्यस्य व्याख्यावसरे न च सादृश्यादेत एवेत्युक्तम् । तथा सत्यपौरुषेयत्वसिद्धेर्दुर्वारत्वादित्युत्तरटीकायां कथमीश्वरीयक्रमस्यैव कृतकत्वाभ्युपगम इत्यत आह । कृत्वाचिन्तयेति । अनादिभूतस्यापीशबुद्धिविषयीभूतवेदक्रमस्योत्पत्त्यङ्गीकारेऽपि पुराणादिव्यावृत्तमपौरुषेयत्वमक्षतमित्यभ्युपगमवादेनेत्यर्थः । अत एवोक्तमुपलक्षणं चैतत् । जन्मादिवाक्यगतिकथनविरोधाच्चेत्यपि द्रष्टव्यमिति ।
तर्हि कृत्वाचिन्तापक्षेऽत्र पूर्वपक्षेऽनादित्वोक्तययोगादाकाशाधिकरणादभ्यधिकाशंकोत्थानायोगादेतदधिकरणवैयर्थ्यमित्यत आह । अनादित्वोक्तिरिति । कृतकस्यापि पूर्वतनक्रमव्यत्यासेन क्रमान्तरस्य केनाप्यकरणात्तदधीनत्वम् । तावतापि पूर्वपक्षोदयसम्भवात् । एवं तत्वसङ्ख्यानटीकाया निरवकाशत्वेन तदनुसारेण तत्वनिर्णयटीकाया व्याख्येयत्वान्न तत्वनिर्णयटीकानुसारेण वेदस्य कृतकत्वसिद्धिः । तथा च वेदस्यानादित्वात्तत्स्वभावस्य गानत्राणकर्तृत्वादिरूपस्य प्रवृत्तिनिमित्तस्य नेशाधीनत्वमित्युपपादितम् ।
इदानीं तु मा भूत्तस्यानादित्वम् । न चैवमनादित्वोक्तयनुपपत्तिरिति वाच्यम् । अनादित्वाभावेऽप्यनादित्वाभ्युपगमेन कृत्वाचिन्तयाऽनादित्वोक्तिसम्भवात् । न च कृत्वाचिन्तया नानादित्वोक्तिः सम्भवति । प्रयोजनाभावेन कृत्वा चिन्ताया एवानुपपत्तेरिति वाच्यम् । अनादिस्वभावनियामकत्वरूपमहागुणसिद्ध्यर्थमनादिस्वभावनिमित्तकशब्दान्तरसमन्वयन्यायः फलिष्यतीति प्रदर्शनार्थत्वेन तस्यावश्यकत्वात् । यथाऽऽकाशाधिकरणेऽवकाशप्रदत्वस्याचेतनस्वभावत्वाभावेऽपि सिद्धान्ते तस्येशतन्त्रत्वसमर्थनं स्वभावनियामकत्वरूपमहागुणसिद्ध्यर्थं स्वभावनिमित्तकशब्दान्तरसमन्वयन्यायः फलिष्यतीति कृत्वा चिन्तया तथेदमपीति मनसि निधाय वा पक्षान्तरमाह । कृत्वाचिन्तयेति । कृत्वाचिन्तयाऽनादित्वोक्तिरित्येकं वाक्यम् । अनादित्वाभावे तथा व्यपदेशे नियामकमाह ।। अनन्याधीनत्वादितीति ।
वस्तुतस्तु मूलपूर्वटीकातत्वनिर्णयटीकादिषु व्यामिश्रोक्तिरेव दर्शनभेदं व्यशिश्रणत् । न चैवमीश्वरबुद्ध्युपहितानां क्रमविशिष्टवर्णानां नित्यत्वाङ्गीकारे यद्यदभिन्नाभिन्नं तत्तेनाभिन्नमिति न्यायेन वर्णानां परस्परं तादात्म्यापत्तिरिति वाच्यम् । क्रमस्य व्यासज्ज्यवृत्तित्वानङ्गीकारात् । न चैवं सति वर्णेऽप्येकैकस्मिन्नपि क्रमप्रत्ययापत्तिरिति वाच्यम् । एकैकवर्तिनोऽपि क्रमस्य परस्परमुभयनिरूप्यत्वेनैकस्मिंस्तज्ज्ञानापादनस्य संयोगादिस्थल इव निराकरणसम्भवात् ।
उदाहृतपाण्डुरङ्गीयादिटिप्पणीनां तु क्रमस्य व्यासज्यवृत्तित्वमभ्युपेत्य प्रवृत्तत्वेनोपलक्षणया अस्यापि पक्षस्य संमतत्वेन तद्विरोधाभावात् । एतच्च द्वित्वादिसङ्ख्याव्यतिरिक्तानां ‘‘संयोगश्च विभागश्चे’’त्यादिनैकैक वृत्तितासमर्थनेनैव ज्ञापितमिति नात्र मूलान्वेषणे प्रयतितव्यम् । यद्यप्यत्र बहुवक्तव्यमस्ति तथापि ग्रन्थविस्तरभयादुपरम्यते ।
भावचन्द्रिका
स्वरूपेण आद्यन्तशून्यत्वस्य प्रकृतौ अपि सद्भावात् कथमनेन नित्यानित्यव्यावृत्तिः इत्यतः तद्व्याख्यानं कूटस्थतयेति । निर्विकारत्वमित्यर्थः । ततश्च न प्रकृत्यादौ नित्यानित्ये अतिप्रसङ्गः । नापि विशेष्ये वैयर्थ्यमिति भावः ।
केचित् तु ‘अन्त्यावयविनि अतिव्याप्तिवारणाय विशेष्यभागः’ इति आहुः । आद्यन्तशून्यत्वमेव नित्यत्वं, कूटस्थत्वं च तत्र हेतुतया उपात्तमित्यपि आहुः ।।
ननु क्रमविशिष्टवर्णाः एव वेदः न तु अव्याकृताकाशवत् अर्थान्तरम्, वर्णाश्च नित्यत्वात् सर्वगतत्वाच्च स्वतःक्रमशून्याः इत्यतः क्रमः बुद्धिनिमित्त एव स्थेयः । उक्तं हि–
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ।। इति ।
तत् कथं कृतकक्रमविशिष्टवर्णात्मकस्य वेदस्य नित्यत्वमुच्यते? अत एव उक्तं तत्त्वनिर्णयटीकायाम् ‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः’ इति, ‘क्रमस्य कृतकत्वेऽपि’ इति च । तत् कथम् एतत्? इति चेत् । अत्र वदन्ति एतट्टीकाऽनुसारेण ‘न हि वयं वेदस्य’ इत्यादितत्त्वनिर्णयटीकाग्रन्थः व्याख्येयः । अत्र ‘नित्या वेदाः’ इति प्रमाणोपन्यासेन एतद्ग्रन्थस्य प्राबल्यात् । युक्तञ्च एतत् । क्रमस्य सदा एव ईश्वरबुद्धिस्थत्वात् । अत एव उक्तं तत्त्वनिर्णयेऽपि ‘सर्वज्ञत्वेन ईश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्’ इति । न च एवं टीकायां तन्निषेधानुपपत्तिः । अस्मदादीन् प्रति प्रमापकत्वोपयुक्तस्य अस्मदादिबुद्धिस्थस्य क्रमस्य उच्चारणाद्यधीनत्वेन कृतकत्वात्’ इत्यभिप्रायेण तस्य उपपन्नत्वादिति ।
वयं तु ब्रूमः– न क्रमस्य अनादिनित्यत्वमङ्गीकारार्हम् । तथा सति वर्णधर्मस्य क्रमस्य यावद्द्रव्यभावित्वेन वर्णैः अत्यन्ताभेदप्रसङ्गेन, वर्णानां परस्परभेदवतामत्यन्ताभेदप्रसङ्गात् । अत एव चन्द्रिकायामपि इमामेव अनुपपत्तिं मनसि निधाय ‘कृत्वा चिन्तया वा अनादिनित्यत्वोक्तिः’ इति उक्तम् । ततश्च ‘कृतकक्रमविशिष्टवर्णात्मकस्य वेदस्य नित्यत्वासम्भवात्, कथं तन्नित्यत्वोक्तिः? कथञ्च अव्याकृताकाशस्य कूटस्थतया प्रमितत्वात् नित्यानित्यादिभावेन अनिर्दिष्टस्य नित्यत्वेन निर्देशः?’ इत्यत आह । अत्र वेदा इत्युपलक्षणमिति । अत्र उपलक्षणपदेन लक्षणासामान्यमुच्यते, न तु अजहत्स्वार्थलक्षणा । उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः । इत्यादौ लक्षणासामान्येऽपि तत्प्रयोगदर्शनात् । तथा च वर्णानाम् अव्याकृताकाशस्यैव च कूटस्थनित्यत्वेन अभिप्रेतत्वात् न सङ्ग्राह्यस्य असङ्ग्रहः, असङ्ग्राह्यस्य च सङ्ग्रहः इति भावः ।
यत्तु ‘वेदानांशृृङ्गिग्राहकतया नित्यत्वप्रदर्शनमनुपपन्नम् । अव्याकृताकाशादेः अपि तथाभूतत्वात्’ इत्याशङ्क्य ‘अजहत्स्वार्थलक्षणया ‘वेद’पदेन वर्णादेः अपि सङ्गृहीतत्वाददोषः’ इत्येवंपरत्वेन ‘अत्र’ इति ग्रन्थावतरणम्; तत्तु उक्तानुपपत्तिग्रस्तमिति दिक् ।
लक्षणीयं दर्शयति पञ्चाशदिति । एवञ्च; तच्च वेदानाम्, ‘नित्या वेदाः’ इत्यादिपूर्ववाक्योक्तमपि कूटस्थत्वम्, वर्णानां ‘नित्या वेदाः समस्ताश्च’ इत्यादिप्रमाणे । ‘क्रमेणैव तैर्वर्णैः’ इति यदुत्तरवाक्यम्, तेन सिद्धमित्यर्थः । अत एव ‘इत्यादि’ इति आदिपदप्रयोगः इति ध्येयम् ।
(वें.टि.) नित्यत्वं नित्यानित्यव्यावृत्तं यथा भवति तथा व्याचष्टे ।। अत्र नित्यत्वं नामेति ।।
काशी टिप्पणी
।। क्रमेण त्रयं दर्शयिष्यन्निति ।। प्राधान्यक्रमेण नित्यप्रदर्शनोत्तरं नित्यानित्यं प्रदर्श्य अनित्यं दर्शयिष्यन्नित्यर्थः । ननु वेदानामेव नित्यत्वोक्तिरयुक्ता प्रकृत्यादीनामपि नित्यत्वादित्यतस्तद्व्यावृत्तं नित्यत्वं निर्वक्ति ।। अत्रेति ।। अस्मिन् ग्रन्थे । विवक्षितमिति शेषः । तेन तत्वविवेकादौ प्रकृत्यादेर्नित्यत्वोक्तावपि न विरोधः । तत्रान्यविधनित्यत्वस्य विवक्षितत्वादिति सूचितम् । अत्र नित्यत्वं नामाऽद्यन्तशून्यत्वम् । तत्र हेतुः ।। कूटस्थतयेति ।। अपरिणामितयेत्यर्थ इति प्राञ्चः । आद्यन्तशून्यत्वस्य प्रकृत्यादावतिव्याप्तिरित्यतस्तद्व्याख्यानम् ।। कूटस्थतयेति ।। निर्विकारित्वमित्यर्थ इति केचित् । उक्तातिव्याप्तिवारणाय कूटस्थत्वे सतीति विशेषणान्तरोपादानमित्यन्ये । तेषामयमाशयः । आद्यमते तावदाद्यन्तशून्यत्वमाद्यन्तवदत्यन्तभिन्नत्वम् । तच्च नाऽद्यन्तवद्विकाराभिन्नप्रकृत्यादावतिव्याप्तं अतः कूटस्थत्वं न लक्षणघटकमिति । द्वितीयमते यथाश्रुतस्याऽद्यन्ताभाववत्त्वस्य प्रकृत्यादिसाधारणत्वात्कूटस्थत्वं विवक्षितम् । तच्च विकारसामान्यशून्यत्वम् । ध्वंसप्रागभावादेरपि जन्मादिविकारवत्त्वेनैव व्यावृत्तेर्नाऽद्यन्तशून्यत्वं पृथगुपादेयमिति ।। तृतीयमते चापरिणामित्वरूपकूटस्थत्वस्यैव विवक्षितत्वात् ध्वंसाद्यव्यावर्तकत्वेन आद्यन्ताभाववत्त्वसार्थक्यमिति ।
अथ मतत्रयेऽप्यसम्भवः । नित्यानामपि द्वित्वादिगुणात्मना परिणामित्वात् । तेन भेदाभेदाङ्गीकाराच्चेति चेदत्राहुः । कूटस्थत्वं नाम द्रव्यरूपेणापरिणामित्वं द्रव्यानारम्भकत्वमिति यावत् । नित्यानां च द्रव्यानारम्भकत्वान्नोक्तदोषः । न च नित्यानामप्येतद्देशकालादिविशिष्टरूपद्रव्यारम्भकत्वमस्तीति शङ्क्यम् । विशिष्टस्याद्रव्यत्वादिति । एतच्च तृतीयमत एव सङ्गच्छते । न पूर्वमतयोः । आद्यन्तवदद्रव्यभिन्नत्वस्य द्रव्यविकारवैधुर्यस्य वा विवक्षायां प्रागभावादावतिव्याप्तितादवस्थात् । तस्मादाद्ये स्वनिष्ठगुणादिभिन्नत्वेनाऽद्यन्तवद्विशेषणीयम् । द्वितीये च विकारः । तेन वेदादेः सङ्ग्रहः, प्रागभावादेर्व्यावृत्तिश्चेति । ननु शब्दस्यैवानित्यत्वात्कथं वेदानामुक्तविधं नित्यत्वमत आह ।। तच्चेति ।।
नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः ।
सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च ।
तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा ।।
इत्यादिप्रमाणविरोधादेव वर्णात्मकशब्दानित्यत्वव्याप्यसिद्धमेवेत्याशयः ।
ननु क्रमविशेषविशिष्टवर्णा एव वेदो न त्वाकाशादिवदर्थान्तरम् । क्रमश्च नित्यानां न साक्षात्पौर्वापर्यरूपः सम्भवतीति पूर्वापरीभावापन्नबुद्धिविषयत्वरूपो वक्तव्यः । तथा च तादृशबुद्धीनामनित्यत्वात्कथं तद्घटितविशिष्टरूपस्य वेदस्य नित्यत्वमिति चेत् ।
अत्रैके साम्प्रदायिकाः । स्वाभाविक एव वैदिकवर्णक्रमः । न च नित्यानां क्रमायोगः ईश्वरशक्तया तदुपपत्तेः । न च गकारादेः स्वत एवाकारोत्तरत्वे तस्य तत्पूर्वत्वं क्वापि न स्यात् विरोधादिति वाच्यम् । वैदिकवर्णानामानन्त्येनैकस्योत्तरत्वेऽप्यन्यस्य पूर्वत्वोपपत्तेः । न च वर्णानां पञ्चाशत्वविरोधः पञ्चाशज्जातीयत्वमात्रोपगमात् । न च–
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ।।
इति तन्त्रसारविरोध इति वाच्यम् । तत्र देशकालकृतक्रममात्रनिषेधेन स्वाभाविकक्रमाविरोधात् । व्यक्तिक्रमकथनस्य च प्रणवादीनामुत्पत्तिक्रमस्वरूपनिरूपणपरत्वात् । न चैवं ‘‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः’’ इति तत्वनिर्णयटीकाविरोध इति वाच्यम् । तस्या अभ्युपगमवादेन प्रवृत्तत्वात् । अन्यथैतट्टीकाविरोधात् । सप्रमाणत्वेनैतस्याः प्राबल्यात् । न चैवं पुराणादीनामपि नित्यत्वापत्तिः । लौकिकवर्णानां स्वाभाविकक्रमानङ्गीकारात् । एवं च वेदनित्यत्वे न कश्चिद्विरोध इत्याहुः ।
केचित्तु पञ्चाशद्वर्णैरेव सकललौकिकवैदिकव्यवहारोपपत्तेः प्रमाणाभावाच्च न पूर्वोक्तबहुकल्पना युक्ता । नापि क्रमस्य स्वाभाविकत्वमङ्गीकारार्हम् । तथा सति वर्णधर्मस्य क्रमस्य यावद्द्रव्यभावित्वेन वर्णैरत्यन्ताभिन्नतया वर्णानां परस्पराभेदप्रसङ्गात् । तथा च क्रमस्य कृतकत्वान्न तद्विशिष्टवर्णात्मकस्य वेदस्य नित्यत्वम् । न चैवं मूलविरोधः । तत्र वेदपदेन पञ्चाशद्वर्णानामेव ग्रहणात् । उपलक्षणमिति टीकायाश्च जहत्स्वार्थलक्षणया वर्णाकाशपरमित्यर्थसम्भवात् । न च ‘नित्या वेदाः समस्ताश्च’ इति प्रमाणविरोधः । तत्र वर्णानां पृथग्ग्रहणेन तदुपलक्षणायोगादिति वाच्यम् । ‘‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः । किं तु शब्दतोऽर्थतश्च सदैकप्रकारतां’’ इति टीकानुसारेण तद्व्याख्यानात् । न चैवमत्र तदुदाहरणासङ्गतिः । ‘तैर्वर्णैः’ इति वर्णानां कूटस्थनित्यत्वोक्तेः । अत एव टीकायामित्यादीत्यादिपदप्रयोग इति वर्णयन्ति ।
अन्ये तु वैदिकवर्णक्रमो यदि नित्य एव तदा तत्वनिर्णयटीकाविरोधः । यदि चानित्य एव तदा तत्क्रमेणेत्युदाहृतप्रमाणविरोध इत्यर्थापत्त्या द्विविध एवाङ्गीकार्यः । ईश्वरबुद्धिघटितो नित्योऽस्मदादिबुद्धिघटितस्त्वनित्य इति । ततश्च तद्विशिष्टरूपस्य वेदस्यापि द्वैविध्यमेव । तथा च वेदनित्यत्वप्रतिपादकानामीश्वरबुद्धिघटितक्रमविशिष्टपरत्वात् तदनित्यत्वप्रतिपादकानामस्मदादिबुद्धिघटितक्रमविशिष्टपरत्वान्न विरोध इत्याचक्षते ।
अपरे तु न वेदद्वैविध्यं युक्तं प्रमाणाभावात् । तथात्वे चास्मदादिपठ्यमानस्याज्ञप्रणीतत्वेनाप्रामाण्यप्रसङ्गात् अभ्युदयसाधनत्वाभावप्रसङ्गाच्च । ‘ऋग्वेद एवाग्नेरजायत’ इत्यादेरभिव्यक्तयर्थतया व्याख्यानवैयर्थ्याच्च । वेदस्य बुद्धिघटितत्वासम्भवाच्च । अन्यथा बुद्धेरश्रावणत्वेन वेदस्याश्रवणत्वप्रसङ्गात् । तस्मात्साङ्कल्पिकक्रमविशिष्टवर्णानामेव वेदत्वम् । यथा हि यजमानसङ्कल्पाद्विप्राणां पूजादौ क्रमस्तथा नित्यानामपि तदुपपत्तेः । न च सङ्कल्पस्याश्रावणत्वेन वेदस्याश्रावणत्वप्रसङ्गः । सङ्कल्पाधीनः सङ्कल्पाघटितो वर्णधर्मः क्रमोऽस्तीत्यङ्गीकारात् । एवं चेश्वरसङ्कल्पाधीनस्य वैदिकवर्णक्रमस्य नित्यत्वाद्वेदस्य नित्यत्वं सिद्धम् । न चैवमुक्तक्रमेण वर्णानामभेदप्रसङ्गः । अन्योन्याभाववद्भेदकवर्णप्रतियोगिकक्रमस्यापरवर्णनिष्ठत्वेनानेकधर्मत्वाभावात् । एवं कालिदासादिवाक्येष्वपि तत्तत्सङ्कल्पाधीनक्रम उत्पद्यत इति वदन्ति ।
उपाध्यायस्त्वेवमाह, साङ्कल्पिकक्रमः किं पौर्वापर्यमुतान्यः । नाद्यः । नित्यानां पौर्वापर्यस्य व्याहतत्वात् । नान्त्यः प्रमाणाभावात् । विप्रेष्वपि क्रमिकपूजाविषयत्वातिरिक्तक्रमविशेषस्यासिद्धेः । एवं तत्तद्वक्तृसङ्कल्पादेव तत्र तत्र क्रमविशेषाङ्गीकारे पदार्थमात्रेष्वपि तथाविधक्रमाङ्गीकारप्रसङ्गः । तस्मान्नित्यानां स्वाभाविकक्रमायोगाद्व्यक्तिक्रम एव वक्तव्यः । तदुक्तं–
वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ।। इति ।
तथा च क्रमेण भासमाना वर्णा वेदा इति फलितम् । यद्यपि क्रमेण भासमानत्वमेकवर्णभानोत्तरभानविशिष्टापरवर्णत्वरूपं न यावद्वर्णसाधारणः तथापि तादृशवर्णत्वरूपवाक्यानुपूर्वीघटकभानविशिष्टवर्णत्वरूपं बोध्यम् । एवं च तादृशभानस्येश्वरीयस्य नित्यत्वाद्वेदनित्यत्वम् । न च नित्यत्वे क्रमायोगः । उत्पत्यभावेऽपि व्यक्तिविशेषात्तदुपपत्तेः । न च क्रमिकव्यक्तयङ्गीकारे
वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ।
इत्याचार्योक्तिविरोधः । अनन्तमुखैर्युगपदखिलवेदोच्चारणेऽप्येकैकमुखेन क्रमिकव्यक्तयविरोधात् । न चास्मदादिबुद्धिक्रमस्यानित्यत्वाद्वेदानित्यत्वप्रसङ्गः । सामान्यतः क्रमिकभानविशिष्टवर्णानामेव वेदत्वात् । तादृशविशिष्टस्य च सर्वदैव सत्त्वात् । तदुक्तं तत्त्वनिर्णयटीकायां ‘‘क्रमविशिष्टवर्णा एव वेदः । क्रमश्च बुद्धिनिमित्त एव । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभृतबुद्ध्युपरम एव वेदे विनाशो वक्तव्यः । न चेश्वरस्य तथाविधबुद्ध्युपरमो युज्यते’’ इति ।
एतेन क्रमस्य कालघटितत्वात्कालस्यानित्यत्वान्न वेदनित्यत्वमित्यपास्तम् । सामान्यरूपेण नित्यत्वाविरोधात् । अत एव नोक्ताप्रामाण्यादिप्रसङ्गः । सामान्यतो वेदस्य प्रामाण्यद्यवधारणात् । विशेषस्य च सामान्यानतिरेकात् । नाप्यश्रावणत्वप्रसङ्गः । साक्ष्युपनीतक्रमविशिष्टवर्णानां श्रावणत्वोपपत्तेः । अन्यथोक्तटीकाविरोधात् । न चैवं पुराणादीनामपि नित्यत्वप्रसङ्गः । तत्रापीश्वरबुद्धिक्रमस्य ध्वंसप्रागभावाप्रतियोगित्वेन नित्यत्वादिति वाच्यम् । यस्य यद्रुपेणाऽद्यन्तशून्यत्वं कृत्स्नकालवृत्तित्वमिति यावत्, तस्य तद्रूपेण नित्यत्वमित्यङ्गीकारात् । पुराणादीनां च यः क्रमस्तद्विशिष्टरूपेण कृत्स्नकालावृत्तित्वान्न तद्रूपेण नित्यत्वम् । सामान्यतो बुद्धिविषयत्वविशिष्टवर्णादिरूपेण तु नित्यत्वमिष्यत एव । न चैवं कालस्यापि कालत्वादिरूपेण कृत्स्नकालवृत्तित्वान्नित्यत्वापत्तिः । धर्मिरूपेण कूटस्थत्वस्य विवक्षितत्वात्कालस्य च क्षणादिरूपस्य निर्विकारत्वरूपकूटस्थत्वाभावात् । न चैवं तत एव ध्वंसप्रागभावव्यावृत्तेराद्यन्तशून्यत्वं व्यर्थमिति वाच्यम् । यत्किञ्चिद्ध्वंसप्रागभावविशिष्टाकारादावतिव्याप्तिवारकतया तत्सार्थक्यात् ।
एतेन ‘‘वेदस्य कूटस्थत्वाङ्गीकारे ‘न हि वयं’ इत्यादि तत्वनिर्णयटीकाविरोधः । न चासावभ्युपगमवादः । ‘नित्या वेदाः’ इति प्रमाणोक्तनित्यत्वव्याख्यानप्रसङ्गात् । ‘अखिलैरप्येकप्रकारेणैव पठ्यन्ते । एतदेवानादि नित्यत्वं’ इति टीकाविरोधाच्च । अत आकाशगुणैश्शब्दैर्व्यज्यमनवर्णादयस्तत्क्रमात्मको वेदश्च नित्य एवेति मूले ‘‘वेदनित्यत्वस्य पृथग्विधानात्पृथगुपसंहार’’ इति टीकाविरोधाच्च । ‘न हि वयं वेदं कूटस्थनित्यं ब्रूमः’ इति सुधाविरोधाच्चे’’त्यादिकमपास्तम् । तत्र साक्षात्कूटस्थत्वस्य विवक्षितत्वादत्र पुनर्वर्णरूपेण कूटस्थत्वस्याभिप्रेतत्वेन विरोधाभावात् । इत्थं च ‘नित्या वेदा’ इति मूले ‘तच्च वेदानां’ इति टीकायां ‘श्रुतिर्वेदः इति तत्वविवेकटीकायां च वेदग्रहणं सङ्गच्छते । अचेतनत्रैविध्यं चोपपद्यते । अन्यथा वेदस्य नित्यानन्तर्भावे तच्चातुर्विध्यप्रसङ्गादित्यन्यत्र विस्तरः ।
ननु तथाप्याकाशादीनां नित्यत्वानुक्तया मूलस्य न्यूनतेत्यत आह ।। अत्रेति ।। उपलक्षणं अजहत्स्वार्थलक्षणया यावन्नित्यपरमित्यर्थः ।