दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम्

चेतनविभागः तल्लक्षणं च

टीका

यथोद्देशं चेतनविभागमाह ।। दुःखस्पृष्टमिति ।।

तत्वसङ्ख्यानम्

दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् ।

कदाचिद्दुःखसम्बद्धमेव दुःखस्पृष्टम् । कदापि दुःखासम्बद्धं तदस्पृष्टम् ।

मूलगतैवकारकृत्यम्

कल्पितत्वाद्दुःखादीनां न किञ्चिद्दुःखस्पृष्टमित्येके । ईश्वरातिरिक्तं सर्वमपि दुःखस्पृष्टमेवेत्यन्ये । तदुभयनिरासायैवकारः । आद्यस्य प्रत्यक्षविरुद्धत्वाद् द्वितीयस्यागमविरुद्धत्वात् । परमेश्वरस्य दुःखास्पृष्टत्वं स्वातन्त्र्येणैव सिद्धम् ।

तत्वसङ्ख्यानटीकाभावदीपः

।। आगमेति ।। तत्वविवेकरूपागमेत्यर्थः ।

नित्यानन्दज्ञानबला देवा नैवं तु दानवाः ।

इत्याद्यगमेति वार्थः । यद्वा ‘द्वौ वा व सृत्यनुपक्रमौ प्रकृतिश्च परमश्च । द्वावेतौ नित्यमुक्तौ’ इत्याद्यागमेत्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

उद्देशेनैव लक्षणं लब्धमित्याशयेनाह– कदाचिदिति ।। मुक्तेष्वव्याप्तिपरिहारायाह– कदाचिदिति ।। तेष्वेवातिव्याप्तिपरिहारायाह– कदापीति ।। केचित्तु सर्वदा दुःखसम्बन्धस्यासम्भवात्कदाचिदिति । संसारिणि सुषुप्तावतिव्याप्तिपरिहाराय कदापीत्युक्तमित्याहुः । तन्न । दुःखशब्देन चेतनप्रकृति(सं)बन्धरूपायास्संसृतेर्विवक्षितत्वेनाव्याप्त्यति- व्याप्त्योरभावात् । अत एव तत्त्वविवेके ‘सृतियुगि’ति व्यवहृतम् । श्रीरूपास्वतन्त्रचेतनस्यादुःखस्पृष्टत्वलाभेऽपि ईश्वरस्य दुःखास्पृष्टत्वं न लब्धमित्यपेक्षायामाह– परमेश्वरस्येति ।। स्वातन्त्र्येणैवेति ।। दुःखित्वविरुद्धस्वातन्त्र्येणोद्देशादित्यर्थः ।

तत्वसङ्ख्यानविवरणम्

न्यूनतापरिहारायोद्देशेनैव तयोर्लक्षणं लब्धमित्याह ।। कदाचिदिति । मुक्तेष्वव्याप्तिपरिहाराय कदाचिदित्युक्तम् । तेषां पूर्वं दुःखसम्बन्धसद्भावान्नाव्याप्तिः ।। कदापीति । मुक्तेष्वतिव्याप्तिपरिहारायोक्तं कदापीति । दुःखसम्बन्धात्यन्ताभाववदित्यर्थः । तथा च नातिव्याप्तिरिति भावः । केचित्तु दुःखस्पृष्टलक्षणे सर्वदा दुःखसम्बन्धस्याभावात्तत्परिहाराय कदाचिदित्युक्तमित्याहुः । तन्न । दुःखसम्बन्धवदित्येवोक्ते कदाचिद्दुःखसम्बन्धमादाय लक्ष्ये लक्षणसत्वेनासम्भवशङ्कानवकाशात् । सर्वथा लक्षणस्य लक्ष्यावृत्तित्वे ह्यसम्भवः । दुःखशब्देन दुःखयतीति व्युत्पत्त्या प्रकृतिसम्बन्धरूपायास्संसृतेर्विवक्षितत्वेन संसारिणि सुषुप्त्यवस्थायां तत्सद्भावेनातिव्याप्तेरप्यसम्भवाच्च । अत एव तत्वविवेके सृतियुगिति व्यवहृतमिति द्रष्टव्यम् ।।

सर्वमपीति । तथा च रमाया अपि दुःखस्पृष्टत्वमेवेति तेषामभिप्रायः ।। आद्यस्येति । दुःखादीनां कल्पितत्वस्य तत्सत्यताग्राहिप्रत्यक्षादिप्रमाणविरुद्धत्वादित्यर्थः ।। द्वितीयस्येति । रमाया अपि दुःखस्पृष्टत्वाभिप्रायेण ईश्वरातिरिक्तस्य सर्वस्यापि दुःखस्पृष्टत्वमिति पक्षस्य तत्वविवेकाख्यागमविरुद्धत्वादित्यर्थः । यथोक्तं तत्वविवेके ।। श्रीर्नित्यमुक्तेति । ननु रमायाः अस्वतन्त्रचेतनस्य दुःखास्पृष्टत्वलाभेऽपि ईश्वरस्य दुःखास्पृष्टत्वमलब्धमित्यपेक्षायामाह ।। परमेश्वरस्येति । स्वतन्त्रमस्वतन्त्रं चेति आदौ स्वातन्त्र्येण उद्देशादेव दुःखास्पृष्टत्वं सिद्धमित्यर्थः । स्वातन्त्र्यस्य दुःखाभावोपपादकत्वादिति भावः । तथा चायं प्रयोगः । ईश्वरो न दुःखवान् । तज्जिहासुत्वे सति स्वतन्त्रत्वात् । यो यज्जिहासुत्वे सति स्वतन्त्रः सः तदभाववान् । यथा संमत इति । उक्तं चानुव्याख्याने ।

यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।

गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः ।। इति ।

अत्र दुःखस्यापि दोषकार्यत्वाद्दोषशब्देन दुःखस्यापि ग्रहणमिति ज्ञातव्यम् ।

तत्वसङ्ख्यानटिप्पणम्

उद्देशक्रमेण चेतनविभागमाहेत्याह ।। यथोद्देशमिति ।। ननु मुक्ताः किं दुःखस्पृष्टा न वा । नाद्यः । मोक्षस्य संसारसदृशताप्रसङ्गात् । नान्त्यः । उत्तरवाक्यानानुकूल्यापत्तेः । अतः कथमित्यतस्तेष्वपि यथा न लक्षणस्यातिव्याप्तिः स्यात्तथा किञ्चित्कदाचिदित्यध्याहृत्य स्पृष्टपदार्थं स्पष्टमाह ।। कदाचिदिति ।। तेषामपि पूर्वं दुःखस्पृष्टत्वादव्याप्तिवारणमिव द्वितीयलक्षणातिव्याप्तिवारणञ्च ज्ञेयम् । अत्र दुःखपदं तत्वविवेकाद्युक्तदिशा संसृतिपरम् । ततोऽव्याप्त्यतिव्याप्त्योरभाव इति मन्तव्यम् । कश्चिद्दुःखादीनां सर्वेषामाविद्यकत्वेन कल्पितत्वेन न किमपि दुःखस्पृष्टमिति नैवं विभागः सम्भवतीति समुदाजहार । अवादीदपरो वादीश्वरातिरिक्तं सर्वं दुःखस्पृष्टमेवेति । तदुभयमपाकर्तुं ‘‘एव’’ इत्याहेत्याह ।। कल्पितत्वाद्दुःखादीनामित्यादिना एवकार इत्यन्तेन ।। यथाश्रुतैवकारान्वये विशेषणसङ्गतत्वप्राप्त्या चेतने तदन्यस्मिन्नचेतने दुःखस्पृष्टत्वायोगतत्स्पृष्टत्वयोः प्राप्तेरचेतने तत्स्पृष्टत्वस्य सर्ववाद्यसंमतेः कथमिति चेन्न । व्युत्क्रमेणैवकारान्वये भवत्येवान्ययोगव्यवच्छेदक इत्युपपत्तेः ।

ननु रमा दुःखास्पृष्टेति वचनं किं तस्याः स्वातन्त्र्यमङ्गीकृत्य न वा । नाद्योऽनवद्यो विष्णुसर्वोत्तमतावादिनाम् । नान्त्यः । परतन्त्रत्वदुःखास्पृष्टत्वयोः सामानाधिकरण्यायोगादिति पूर्वपक्ष्याशयः ।। तदुभयेति ।। दुःखाद्याविद्यकं सर्वमीश्वरातिरिक्तं दुःखस्पृष्टमित्युभयस्य । एवकारः द्विधैवेत्यत्रत्यः । निरासप्रकारं दर्शयति ।। आद्यस्येति ।। प्रत्यक्षविरुद्धत्वात् अहं दुःखीत्याद्यबाधितसाक्षिप्रत्यक्षविरुद्धत्वादित्यर्थः । द्वितीयस्य ईशातिरिक्तस्य सर्वस्य दुःखस्पृष्टत्वमिति नैयायिकमतस्य । समना चासृत्युपक्रमादमृतत्वञ्चानुपोष्येत्येतत्सूत्रसंवादि ‘‘द्वौ वाव सृत्यनुपक्रमौ । प्रकृतिश्च परमश्च । जीवा एव तु दुःखिनः । श्रीर्नित्यमुक्ते’’त्याद्यागमविरुद्धत्वादित्यर्थः । तर्हि रमारमारमणौ विभिन्नावुताभिन्नौ । नाद्यः । भिन्ना च न खिन्ना चेत्स्वतन्त्रतत्वद्वैरूप्यं स्यात् । न द्वितीयः । तथात्वे विभागायोग इत्याशंक्याद्यं पक्षमभ्युपेत्य परमेश्वरस्य यद्दुःखास्पृष्टत्वं तदन्यनिरपेक्षम् । रमायास्तु भगवत्तन्त्रमिति प्रमाणप्रमितत्वान्नोक्तदोष इति समाधत्ते ।। परमेश्वरस्येत्यादिना ।। स्वातन्त्र्येणेति वदन् ‘‘स्वतन्त्रो हरिरेकरा’’डित्याद्यागमानुगृहीतं हरिर्न दुःखस्पृष्टचेतनः स्वतन्त्रत्वादिति व्यतिरेक्यनुमानं मानमत्रेति सूचयति । परमेश्वर इति वदन्नवदंश्च विष्ण्विति परा च सा मा च परमा तस्या ईश्वरः स्वामी पतिर्वा । ततश्च नियतपतिपत्नीभाववतां पत्युरुत्तमत्वमिव वध्वा अधमत्वं नियतमिति रमापेक्षयौत्तम्ये हेत्वन्तरञ्चोदितं भवतीति भावमाविश्चकारेति ज्ञेयम् ।

भावचन्द्रिका

ननु मुक्तानां दुःखित्वे संसारित्वप्रसङ्गेन दुःखातीततया दुःखस्पृष्टत्वाभावात्, दुःखस्पृष्टावान्तरभेदत्वं वक्ष्यमाणमनुपपन्नमेव । दुःखास्पृष्टत्वेन सङ्ग्रहश्च स्यात् । न च इष्टापत्तिः । ‘अन्ये तु समस्तशः’ इति वक्ष्यमाणविरोधादित्यतः ‘व्याप्त्यादिपदमपहाय स्पृष्टपदप्रयोगेण लब्धमर्थमाह कदाचिदिति । मुक्तेषु अतिव्याप्तिनिवृत्यर्थं विशेषणद्वयम् ।

न च एवं मुक्त्यनन्तरं कदाचिदपि दुःखसम्बन्धाभावात् मुक्तेषु अव्याप्तिः । तेषु तत एव दुःखास्पृष्टत्वम् । ‘दुःखसंसर्गात्यन्ताभावाधिकरणत्वञ्च दुःखास्पृष्टत्वम्’ इत्यत्र तात्पर्यात् ।

यत्तु सर्वदा दुःखसम्बन्धस्य असम्भवात्, कदाचित् इत्युक्तं आद्यलक्षणे । संसारिणि सुषुप्त्यादौ अतिव्याप्तिवारणाय द्वितीयलक्षणे च कदापि इत्युक्तम् इति । तन्न । दुःखशब्देन प्रविबन्धरूपायाः संसृतेः विवक्षितत्वेन उक्तदोषानवकाशात् । अत एव तत्त्वविवेके ‘सृतियुक्’ इति व्यवहारः इति द्रष्टव्यम् ।। ‘इति द्वेधैव चेतनम्’ इति विशेषणसङ्गतैवकारस्य अयोगव्यवच्छेदनपरत्वं प्रकटयितुं दुःखस्पृष्टतदस्पृष्टत्वरूपप्रकारद्वयस्य अयोगप्रापकं मतद्वयमुपन्यस्यति कल्पितत्वादित्यादिना ।

निर्दुःखब्रह्माभिन्नत्वात् जीवस्य दुःखित्वव्याघातेनैव कल्पितदुःखादेः असम्भवात्, दुःखस्पृष्टं चेतनमेव नास्ति इत्याशयः ।

ईश्वरेति । ‘ईश्वरातिरिक्तं लक्ष्म्यादिकमपि दुःखास्पृष्टम्’ इति वदन् प्रष्टव्यः– ‘तत् स्वतन्त्रम्? परतन्त्रं वा?’ इति । आद्ये स्वतन्त्रद्वयविरोधः । द्वितीये पारतन्त्र्यदुःखयोः अविनाभावस्य लोकदर्शनेन सिद्धत्वात्, ‘परतन्त्रं दुःखास्पृष्टम्’ इति कथं न व्याघातः इत्याशयः । तदुभयेति । तदुभयप्राप्तः यः योगः, तद्व्यवच्छेदपरत्वेन एवकारस्य सप्रयोजनत्वमिति भावः ।। तन्निरासप्रकारं दर्शयति आद्यस्येति ।

निरासः इति शेषः । निर्बाधसाक्ष्यादिसिद्धसत्ताकदुःखादिप्रपञ्च मिथ्यात्वसाधकश्रुतियुक्त्यादेः साक्ष्यादिविरुद्धतया तन्मिथ्यात्वासाधकत्वादित्यर्थः ।

द्वितीयस्येति ।। निरासः इति शेषः । कुतः? इत्यत आह आगमस्येति । ईश्वरातिरिक्तस्यापि परतन्त्रस्यापि श्रीतत्त्वस्य ‘द्वौ वा व सृत्यनुपक्रमौ प्रकृतिश्च परमश्च’ इत्यादिश्रुत्या, ‘समना चासृत्युपक्रमादमृतत्वं चानुपोष्य’ इति सूत्रेण च सर्वदुःखास्पृष्टत्वस्य सिद्धत्वेन, ‘सर्वं दुःखस्पृष्टमेव’ इत्यस्य तद्विरुद्धत्वादित्यर्थः ।। ननु एवं परमेश्वरस्य दुःखास्पृष्टत्वसिद्धिः न स्यात् । दुःखास्पृष्टत्वादेः परतन्त्रचेतनविभागत्वेन उक्तत्वादित्यत आह परमेश्वरस्येति । अयं भावः– कदाऽपि दुःखासम्बद्धं तदस्पृष्टम् । न च उक्तदोषः । भवेत् एवं कथञ्चित् यदि ‘परतन्त्रचेतनमेव द्विविधम्’ इत्येवंपरः विभागः स्यात् । न च एतदस्ति । परतन्त्रचेतनं दुःखस्पृष्टतदस्पृष्टतया द्विविधमेव, न पुनः एकविधम्, नापि त्रिविधम्’ इत्येवंपरत्वात् विभागस्य । न च एवं अतिप्रसङ्गः । साधकभावाभावाभ्यां विशेषात् । न हि परमेश्वरस्य दुःखास्पृष्टत्वसाधकस्वातन्त्र्यवदन्यस्यापि तत्साधनं किञ्चित् अस्ति । इति । यद्वा ननु परमेश्वरस्य दुःखास्पृष्टत्वसिध्द्यर्थम्, अयं विभागः आदौ एव कार्यः इत्यत आह परमेश्वरस्येति । दुःखित्वविरुद्धस्वातन्त्र्येण उद्देशेन एव तत्सिद्धिः इति भावः ।।

काशी टिप्पणी

।। यथोद्देशमिति ।। उद्देशानुसारेणेत्यर्थः । तदपवादकप्राधान्यादेश्चाचेतनेऽभावादिति भावः । उद्देशेनैव लक्षणलाभान्न न्यूनतेत्याशयेनोद्देशलब्धलक्षणे दर्शयति ।। कदाचिदिति ।। सर्वदा दुःखसम्बन्धविवक्षायामसम्भवः स्यादतः कदाचिदित्युक्तम् । दुःखस्यान्तःकरणधर्मत्वात्सम्बन्धपदम् । दुःखानुभवोपलक्षितमित्यर्थः । मुक्तजीवानामपि पूर्वतनदुःखानुभवोपलक्षितत्वान्नासङ्ग्रहः ।

ये तु तत्सङ्ग्रहानुरोधेन दुःखसंसर्गात्यन्ताभावानधिकरणत्वं दुःखस्पृष्टत्वमिति वर्णयन्ति । तेषां अभावस्य भावनिरूप्यत्वाद्दुःखस्पृष्टस्य प्रथममुद्देशः इत्युत्तरटीका न सङ्गच्छते । निरुक्तदुःखस्पृष्ठत्वस्यापि प्रतियोगिनिरूप्यत्वात् । कथं तर्हि संसारसंसर्गात्यन्ताभावानधिकरणत्वमिति तत्वविवेकटीकामन्दारमञ्जरी सङ्गच्छत इति चेन्न । तत्वविवेके नित्यमुक्तस्यैव प्रथममुद्देशेन तदुपपत्तेः । इह तद्रीत्या व्याख्यानं तु टीकाया यथाश्रुतदुःखस्पृष्टपरतयैव सङ्गमनीयम् ।

दुःखस्पृष्टत्वं यदि दुःखासम्बन्धमात्रं तदा संसारिणि सुषुप्त्यादावतिव्याप्तेराह ।। कदापीति ।। तथा च दुःखसम्बन्धात्यन्ताभाववत्वं विवक्षितमिति प्राञ्चः । न च नित्यमुक्तश्च सृतियुगिति तत्वविवेकानुसारेण दुःखपदस्य प्रकृतिसम्बन्धलक्षणसंसारपरतया न सुषुप्त्यादावतिव्याप्त्यवकाश इति वाच्यम् । तथा सति गरुडादीनां दुःखास्पृष्टत्वनिरासानुपपत्तेः । न हि तेषामसंसारित्वरूपदुःखास्पृष्टत्वमन्यैः स्वीकृतम् । समष्टित्वाङ्गीकारविरोधात् । प्राप्ततमसां दुःखस्पृष्टावान्तरदुःखसंस्थप्रभेदानुपपत्तेश्च । कथं तर्हि तत्वविवेकटीकायाममुक्तप्रभेदत्वेन प्राप्ततमसां परिगणनमिति चेन्न । तत्र स्वरूपसुखाविर्भावरूपमुक्तत्वस्य विवक्षितत्वेन प्राप्ततमसां तदभावेनामुक्तत्वसम्भवात् । न चैवं संसारध्वंसाधिकरणत्वं मुक्तत्वं वर्तमानसंसारत्वममुक्तत्वमिति मन्दारमञ्जरीविरोध इति वाच्यम् । स्वरूपसुखाविर्भावस्य सुप्तादिसाधारण्यान्मुक्तत्वशरीरे संसारध्वंसवत्वं, तादृशमुक्तयभावस्य नित्यमुक्तसाधारण्यादमुक्तत्वशरीरे संसारित्वं च निवेश्यमित्याशयेन तथाऽभिधानात् । अन्यथा प्राप्ततमसां मुक्तेष्वेव परि गणनापत्तेः । स्वरूपाविर्भाव एव मुक्तिरिति टीकाविरोधाच्च । अत्र तु विमुक्ता दुःखादिति स्वाख्यानान्निर्दुःखत्वरूपमुक्तत्वस्य विवक्षिततया तस्य च निःसंसाररूपत्वे प्राप्ततमसां मुक्तान्तर्भावध्रौव्यात् । न च तदर्थमत्रापि स्वरूपसुखाविर्भावो निवेश्यः । दुःखपदस्य मुख्यार्थत्वेनैवोपपत्तावर्थान्तरं गृहीत्वा विशेषणान्तरदानस्यायुक्तत्वात् । न चैवं तत्वविवेकाननुसारित्वम् । सृतियुक्तत्वनित्यमुक्तत्वाभ्यां दुःखस्पृष्टत्वतदस्पृष्टत्वयोरेव सिद्धेः । शिष्यव्युत्पादनाय फलितोक्तेरमुक्तविभागादाविव सम्भवात् ।

भावचन्द्रिकारीत्या तु मुक्तेष्वतिव्याप्तिवारकतया कदापीत्यस्य सार्थक्यसम्भवाद्दुःखपदं संसारपरमेव । न च प्राप्ततमसां मुक्तान्तर्भावापत्तिः । दुःखपदस्य दुःखतत्साधनसाधारणानिष्टमात्रपरत्वात् । तत्वविवेके सृतिपदस्याप्येतदर्थत्वान्न तद्विरोधोऽपीति ।

तत्वसङ्ख्यानस्य व्याख्यानरूपत्वादेतदनुसारेण सृतिपदमेव दुःखार्थकमित्यप्याहुः ।

स्यादेतत्, दुःखसम्बन्धात्यन्ताभाववत्वं दुःखास्पृष्टत्वमित्ययुक्तम् । दुःखसम्बन्धस्य प्रतियोगित्वेनात्यन्ताभावविशेषणत्वायोगात् । सतस्तत्प्रतियोगित्वाभावत् । असतश्च व्यावर्तकत्वानुपपत्तेः । न च प्रतियोग्यसत्वेऽपि प्रतियोगित्वस्य निरूपकतया व्यावर्तकत्वसम्भवः । प्रतियोगित्वसामान्यस्य भावान्तरसाधारणत्वात् । तद्विशेषस्य चानुल्लेखात् । किं च प्रतियोगित्वं प्रतियोग्यभावयोः सम्बन्धः । न च सम्बन्ध्यसत्त्वे सम्बन्धस्य सत्वं सम्भवत्यतिप्रसङ्गात् ।

यद्यपि तदस्पृष्टमिति मूलस्य दुःखासम्बद्धमिति टीकायाश्च दुःखसम्बन्धवदन्योन्याभावार्थकतयोपपत्तेर्नोक्तविकल्पदोषः । सत एव तत्प्रतियोगित्वात् । तथापि नित्यादुःखेत्युत्तरमूलानुसारादत्यन्ताभावघटितमपि लक्षणमभिप्रेतम् । अत एव त्रैकालिकदुःखनिषेधवदिति व्याख्यानमुपपद्यते । भावचन्द्रिकायां च दुःखसंसर्गात्यन्ताभावाधिकरणत्वं दुःखास्पृष्टत्वमित्युक्तम् ।

किं च नित्यमुक्त इति तत्वविवेके, यस्य न कदापि संसारसम्बन्धोऽसौ नित्यमुक्त इति टीकायां च संसारसंसर्गात्यन्ताभाववत्त्वं लक्षणमुक्तम् । तत्र चोक्तानुपपत्तिः कथं परिहरणीयेति । अत्राहुः, असत एव दुःखादिसम्बन्धस्य प्रतियोगित्वविशेषेणात्यन्ताभावविशेषणत्वम् । सदसतोः सम्बन्धान्तराभावेऽपि विषयत्वप्रतियोगित्वादिसम्बन्धस्वीकारात् । अत एव तस्य व्यावर्तकत्वमपि । सम्बन्धविधया प्रतियोगित्वविशेषानुल्लेखस्त्वसिद्ध एवेति ।

अन्ये तु सत एव दुःखसंसर्गस्य प्रधानप्रतियोग्यनुगतनिरूपकत्वेनाभावविशेषणत्वम् । अत एवैतद्दुःखसंसर्गाभावस्तत्रेति प्रतीतिरुपपद्यते । न चैवमसतस्तत्प्रतियोगित्वे मानाभावः । भ्रमबाधोत्तरं ‘असन्नेव दुःखसंसर्गः प्रत्यभात्’ इति प्रतीतेरेव मानत्वात् । असत्वस्यात्यन्ताभावप्रति योगित्वरूपत्वादित्याहुः । अधिकमन्यत्रानुसन्धेयम् ।

मायावाद्युपगतचेतनैक्यस्य तार्किकाद्युपगतपरतन्त्रचेतनैकविध्यस्य च निरासाय द्वेधैवेत्यवधारणमित्याह ।। कल्पितत्वादिति ।। दुःखादीनामारोपितत्वात्परमार्थतो न किञ्चिद्दुःखस्पृष्टमित्यर्थः । यद्यपि चेतनाचेतनत्वेन परतन्त्रविभागादेव स्वतन्त्रचेतनान्तरसिध्द्या चेतनैक्यनिरासः सम्भवति । न च स्वतन्त्रस्य चेतनत्वानुक्तेर्नैवमिति वाच्यम् । स्वातन्त्र्येणैव चेतनत्वसिद्धेः। तथापि पारतन्त्र्यादीनामप्यारोपितत्वादुक्तविभागानुपपत्तिशङ्काया अपि निवर्तकोऽयमेवकार इति भावः । अत एव दुःखादीनामित्यादिपदम् ।

।। प्रत्यक्षविरुद्धत्वादिति ।। दुःखी परतन्त्रोऽहमित्यादिसाक्षिप्रत्यक्षविरुद्धत्वादित्यर्थः । न चेदमप्रमाणम् । बाधकाभावात् । न च नेह नानाऽस्तीत्यागमो बाधकः । तस्य ब्रह्मणि भिन्नगुणक्रियादिनिषेध परत्वात् । अन्यथोक्तप्रत्यक्षविरोधात् । अत एव सत्यपि प्रमाणत्रयविरोधे प्रबलत्वात् प्रत्यक्षविरोध एव कण्ठत उक्तः ।। आगमविरुद्धत्वादिति ।। ‘‘द्वावेतौ नित्यमुक्तौ, निर्दुःखो हि हरिर्नित्यं श्रीश्चान्ये दुःखभागिन’’ इत्याद्यागमविरुद्धत्वादित्यर्थः । तद्बलेनैव समनाधिकरणे श्रियो नित्यमुक्तत्वस्य समर्थितत्वादिति भावः ।

नन्वीश्वरस्य दुःखास्पृष्टत्वमवश्यं प्रतिपत्तव्यम् । तत्कुतो नोक्तमत आह ।। परमेश्वरस्येति ।। स्वातन्त्र्योक्तावर्थसिद्धत्वान्नोक्तमिति भावः । यद्वा ननु दुःखस्पृष्टत्वतदस्पृष्टत्वाभ्यां तत्वविभाग एव कर्तव्यो न तु परतन्त्रचेतनविभागः । स्वतन्त्रस्य दुःखास्पृष्टत्वालाभादित्यत आह ।। परमेश्वरस्येति ।। तस्मादयमेव विभागो युक्त इति भावः । यद्वा नन्वत्र परतन्त्रचेतनमेवैवंविधमित्यवधारणं विवक्षितं न वा । आद्ये स्वतन्त्रस्य दुःखास्पृष्टत्वं न स्यात् । अन्त्ये दुःखस्पृष्टत्वं किं न स्यादित्यत आह ।। परमेश्वरस्येति ।। स्वातन्त्र्येण दुःखास्पृष्टत्वमेव सिद्धमतो नान्त्यपक्षे दोष इति भावः । यद्वा ननु रमाया दुःखास्पृष्टत्वे स्वातन्त्र्यापत्त्या परमेश्वरसाम्यापत्तिरत आह ।। परमेश्वरस्येति ।। परानपेक्षया दुःखास्पृष्टत्वं परमेश्वरस्यैव सिद्धमतो न तत्साम्यापत्तिरिति भावः । यद्वा परतन्त्रस्य दुःखास्पृष्टत्वमनुपपन्नमत आह ।। परमेश्वरस्येति ।। परमेश्वरस्य स्वातन्त्र्येणैव परतन्त्रस्यापि दुःखास्पृष्टत्वं सिद्धम् । तस्य यथेष्टकर्तृत्वादिति भावः ।