केचिन्महदादिस्वरूपमेव नाभ्युपच्छन्ति
महदादिस्वरूपसद्भावे प्रमाणसूचनम्
टीका
केचिन्महदादिस्वरूपमेव नाभ्युपच्छन्ति । दूरेणोक्तविशेषम् । तेषामतिबहुतरागमविरोधं दर्शयितुं संप्रकीर्तितमित्युक्तम् । आगमाश्चान्यत्र द्रष्टव्याः । विस्तरभिया नेहोदाह्रियन्ते ।
तत्वसङ्ख्यानटीकाभावदीपः
|। केचिदिति ।। तार्किकादयः । उक्तविशेषं असंसृष्टत्वादिकम् । उपसर्गद्वयार्थो बहुतरेति ।। अन्यत्रेति ।।
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ।।
इत्याद्यनुव्याख्यानादावित्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
सम्प्रेत्युपसर्गद्वयार्थो– अतिबहुतरेति ।। सम्यक् निश्चितप्रामाण्यकबहुतरागमैरित्यर्थः ।
तत्वसङ्ख्यानविवरणम्
संप्रेत्युपसर्गद्वयाभिप्रायं वक्तुमाह ।। केचिदिति । संप्रेत्युपसर्गद्वयार्थोऽतिबहुतरेति । संसम्यङ्निश्चितप्राबल्यकबहुतरागमैरित्यर्थः । उक्तं विशेषं असंसृष्टत्वादिरूपं दूरेण नाभ्युपगच्छन्तीति सम्बन्धः । तथा च महदादितत्वस्वरूपस्याभावेन तस्यासंसृष्टत्वादिरूपो विशेषो दूरनिरस्त इति भावः ।। आगमाश्चेति ।
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ।।
इत्याद्या महदादिस्वरूपप्रतिपादकाश्चागमा भागवतादावुदाहृता द्रष्टव्या इत्यर्थः ।। विस्तरभयादिति । ग्रन्थविस्तरभयादित्यर्थः ।।
तत्वसङ्ख्यानटिप्पणम्
सम्प्रकीर्तितमित्यत्रोपसर्गद्वयव्यावर्त्यं दर्शयति ।। केचिदिति ।। उक्तं विशेषं चतुर्विंशतितत्वानामसंसृष्टत्वं ब्रह्माण्डान्तर्गतानां संसृष्टत्वरूपमित्यर्थः । अतीति समोऽर्थः । बहुतरेति प्रार्थः । के ते बहुतरागमा इत्यत आह ।। आगमाश्चेति ।। अन्यत्र–
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः । (३.२७.१२)
सर्गो नवविधः प्रोक्त इति प्रतिज्ञाय ‘‘आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादय’’ (३.११.१४) इत्यादिना भागवतादौ । कुतोऽत्र नोदाहृता इत्यत आह ।। विस्तरेति ।। विस्तरमिति गतम् ।
भावचन्द्रिका
बह्वागमविरोधादिति । आगमबहुत्वज्ञापनाय सम्, प्र इति उपसर्गद्वयमिति भावः ।।
काशी टिप्पणी
केचित्तार्किकाद्याः । विशेषं महदादीनां संसृष्टत्वरूपं न तु संसृष्टासंसृष्टभेदमित्यर्थः । द्व्यणुकादेरसंसृष्टत्वस्य त्र्यणुकादेश्च संसृष्टत्वस्य तैरप्यङ्गीकारात् । स्वरूपमात्रकल्पनापेक्षया गौरवाधिक्यसूचनाय दूरेणेत्युक्तम् । अत्यन्तमित्यर्थः । सम्प्रेत्युपसर्गद्वयलब्धमाह ।। अतिबहुतरेति ।। निरवकाशत्वबहुत्वाभ्यां प्रबलभूतेत्यर्थः । आगमाश्चान्यत्रोदाहृताः ।
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ।।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।।
इत्यादयो द्रष्टव्या इति ।