तमोगाः सृतिसंस्थिताः इति द्विधा मुक्त्ययोग्याः

मुक्त्ययोग्यचेतनविभागः

टीका

मुक्त्ययोग्यविभागमाह ।। तमोगा इति ।।

तत्वसङ्ख्यानम्

......तमोगाः सृतिसंस्थिताः ।। ५ ।।

इति द्विधा मुक्त्ययोग्याः ...........।

तमोगास्तमोयोग्याः । न तु प्राप्ततमसः । वक्ष्यमाणविभागविरोधात् । सृतिसंस्थिताः नित्यसंसारिणः । अयोग्यतातिशयानुसारेणोद्देशः ।

तत्वसङ्ख्यानटीकाभावदीपः

।। वक्ष्यमाणेति ।। दैत्येत्यादिवक्ष्यमाणेत्यर्थः ।। अयोग्यतेति ।। मुक्तितत्साधनादावयोग्यतातिशयेत्यर्थः ।

तत्वसङ्ख्यानविवरणम्

तमोयोग्याः प्रकीर्तिता इति वक्ष्यमाणमूलानुसारेण तमोगा इत्यस्यार्थमाह ।। तमोयोग्या इति । ननु तमोगा इत्यस्य तमसि स्थिताः प्राप्ततमस इति यावदित्येवार्थः कस्मान्न स्यादित्यत आह ।। न तु प्राप्ततमस इति । कुत इत्यत आह ।। वक्ष्यमाणेति । दैत्यरक्षःपिशाचका इत्यादिना तमोयोग्यानां विभागस्य वक्ष्यमाणत्वेन तद्विरोधप्रसङ्गादित्यर्थः । सृतिसंस्थापेक्षया तमोयोग्यानामादावुद्देशे निमित्तमाह ।। अयोग्यतातिशयेति । नित्यसंसार्यपेक्षया अयोग्यताप्रयुक्तदुःखातिशयानुसारेणेत्यर्थः ।

तत्वसङ्ख्यानटिप्पणम्

क्रमप्राप्तमयोग्यविभागमाहेत्याह ।। मुक्त्ययोग्येति ।। तमोगा इत्येतदर्हार्थकबाहुलकडान्तमित्यभिप्रेत्याह ।। तमोगास्तमोयोग्या इति ।। कर्तरि डान्तोऽयं शब्दः किं न स्यादित्यतो विपक्षे बाधकमुपदर्शयंस्तन्निषेधति ।। न त्विति ।। प्राप्ततमसः प्राप्तं तमो यैस्ते ।। वक्ष्यमाणेति ।। ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधेति वक्ष्यमाणविरोधादित्यर्थः । तत्र सृतिसंस्थानां तत्प्रभेदत्वोक्तेरिति भावः । नित्यसंसारिणः मिश्रसुखदुःखात्मकफलकमिश्रज्ञानाः । विस्तरस्तु नित्यसंसारिलिङ्गभङ्गविषये नित्योपलब्धिसूत्रभाष्यटीकाटिप्पणीभ्यः, तथा

नित्योपलब्धिसूत्राच्च भाषणाट्टीकणादपि ।

नित्यसंसारिणां लिङ्गभङ्गोऽस्तीति सतां मतम् ।।

इत्यादि वदद्भिः श्रीमत्सत्यप्रियश्रीपाद, श्रीवादिराजश्रीपादादिभिः कृतग्रन्थेभ्यः, तथा अस्मत्कृतनमकचमकव्याख्यानतोऽवगन्तव्यः । अत्रापि पूर्वोद्देशेऽतिशयितमिथ्याज्ञानित्वलक्षणप्राधान्यमेव निमित्तमित्याह ।। अयोग्यतेति ।। सृतिसंस्थापेक्षयेति शेषः ।

भावचन्द्रिका

उत्तरवाक्यम् अवतारयति मुक्त्ययोग्यविभागमाहेति ।।

तमोगाः इत्यस्य ‘तमसि स्थिताः’ इत्यर्थप्रतीतिनिरासाय आह तमोयोग्याः तमसोऽर्हा इति । न तु प्राप्तं अन्धतमः यैः ते तथा– तमोयोग्या इति यावत् । वक्ष्यमाणविरोधात् दैत्यरक्षःपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्या इत्यनेन उत्तरत्र उच्यमानतमोयोग्यविभागस्य अयोगादित्यर्थः । तमोगाः इत्यनेन प्राप्ततमसः इत्यभिधाने, तमोयोग्यानामनुक्तत्वादुत्तरवाक्येन तद्विभागकथनं न युक्तमिति भावः ।

सृतिसंस्थिताः इत्यस्य ‘सृतिस्थाः’ इत्यर्थपरिहाराय ‘असाधारण्येन व्यपदेशाः भवन्ति’ इत्याशयेन सृतिसंस्थिता इति । नित्यसंसारिणः नित्यं सर्वदा, संसारवन्तः सर्वदा संसारे वर्तमानाः इति यावत् ।।

तमोयोग्यानामादौ उद्देशे किं निमित्तम् ? इति जिज्ञासायामाह अयोग्यतातिशयेनेति । मुक्त्ययोग्यानाम्, अतिशयः उत्कर्षः, तदनुसारेण, उद्देशः– तमोयोग्यानामादौ उद्देशः कृतः इत्यर्थः ।

काशी टिप्पणी

।। तमोयोग्या इति ।। तमःप्रापकदृढद्वेषादिरूपा इत्यर्थः ।। वक्ष्यमाणेति ।। दैत्येत्यादिना वक्ष्यमाणतमोयोग्यविभागस्यानुपपत्तेरित्यर्थः । न च तत्र तमोयोग्यपदस्य प्राप्ततमसपरत्वेनोपपत्तिः शङ्क्या । ते चेत्यादिविभागविरोधादिति भावः । नन्वेवं सृतिसंस्थितानामपि तमोयोग्यत्वात्पृथग्ग्रहणानुपपत्तिरत आह ।। नित्यसंसारिण इति ।। मध्यममनुष्याणां लिङ्गभङ्गानङ्गीकारे नित्यलिङ्गालिङ्गितत्वं नित्यसंसारित्वम् । तदङ्गीकारे तु सुखदुःखाभिव्यञ्जकभक्तिद्वेषादिरूपत्वमेव तत् । ‘नित्यावर्तास्तु मध्यमाः’ इत्यस्यापि नित्यमिश्रफला इत्यर्थः । प्राप्ताप्राप्तफलत्वेन तेषामविभागस्तु सर्वदा संसारसमानधर्मत्वाभिप्रायेणेति ज्ञेयम् । ननु नित्यसंसार्यपेक्षया तमोयोग्यानामधमत्वेनाप्राधान्यात्कथं प्रथमोद्देश इत्यत आह ।। अत्रेति ।। योग्येषु योग्यतातिशयेनेवायोग्येष्वयोग्यतातिशयेन तमोयोग्यानामेव प्राधान्यसम्भवात्प्रथमोद्देश इत्यर्थः । ननु योग्यत्वाभावरूपायोग्यत्वस्योभयत्र समानत्वात्कथमेकत्रातिशय इति चेन्न । स्वरूपतस्तदभावेऽपि फलतस्तद्भावात् । द्वेषादिरूपायोग्यतायां स्वरूपतोऽप्यतिशयसद्भावाच्च ।