तदुपपादनायोक्तं इष्यते इति । प्रामाणिकैरिति शेषः
सामान्यतस्तत्वसद्भावसमर्थनम्
टीका
तदुपपादनायोक्तं इष्यते इति । प्रामाणिकैरिति शेषः । तथा हि, यदि तत्वमेव नास्तीति ब्रूयात्तदा प्रत्यक्षादिविरोधः । सा भ्रान्तिरिति चेन्न । बाधकाभावात् । न च निरधिष्ठाना भ्रान्तिरस्ति । नापि निरवधिको बाधः । नास्त्येव तत्वं इत्यस्यार्थस्य प्रमितत्वाप्रमितत्वयोर्व्याघातश्च ।
भाववर्णनम्
प्रामाणिकैरिति ।। अनेन प्रमाणसूचनद्वारा अर्थात् परीक्षापि कृतेति बोद्धव्यम् ।
तत्वसङ्ख्यानटीकाभावदीपः
।। तदुपपादनायेति ।। स्वातन्त्र्यपारतन्त्र्यभेदेन तत्वद्वैविध्योपपादनायेत्यर्थः ।। सा भ्रान्तिरिति ।। विधेयापेक्षया स्त्रीलिङ्गोक्तिः। घटस्सन् पटस्सन् इत्यादिप्रत्यक्षादिरित्यर्थः । भ्रान्तिबाधावङ्गीकुर्वाणेनापि आरोपाधिष्ठानत्वेन इदमेवं नेति बाधावधित्वेन वा शुक्तिरजतादाविदं रजतं नेदं रजतमित्यादाविव किञ्चित्तत्वमभ्युपेयम् । अन्यथा तावुभौ न स्यातामिति भावेनाह ।। न चेति ।। इत्यस्यार्थस्येति ।। तत्वाभावरूपार्थस्य प्रमितत्वे स एव तत्त्वमिति तत्वाभावोक्तिर्व्याहता । अप्रमितत्वे अभावरूपतत्वमेव नास्तीति तत्वाभावोक्तिर्व्याहतेत्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
इदं सर्वं प्रामाणिकैरङ्गीक्रियत इत्युक्त्या एवं ये नाङ्गीकुर्वन्ति तेषामप्रामाणिकत्वं सूचितम् । तदुपापादयति– तथा हीति ।। तथा चेष्यत इत्यनेनैव परीक्षाऽपि कृतेत्यवधेयम् । एवमुत्तरत्रापि द्रष्टव्यम् । अस्तु वा ‘अयं घट’ इत्यादि प्रतीतिभ्रान्तिस्तथापि तदन्यथाऽनुपपत्त्यैव तत्त्वसिद्धिरित्याह– न च निरधिष्ठाना भ्रान्तिरिति ।। सर्वस्या अपि प्रतीतेर्भ्रान्तित्वमन्युपगच्छताऽपि भ्रान्तेः किञ्चिदधिष्टानमङ्गीकार्यम् । न हीत्यमेवेति क्वचिद्भ्रमः । किन्विदमित्थमिति । तथा च यदेव तदधिष्टानं तदेवैकं तत्त्वमङ्गीकार्यमिति भावः । नन्वस्तु भ्रान्तेर्निरधिष्ठानत्वं भ्रमे यावत्प्रतीयते तावत्सर्वमप्यसदेवेति स्वीकारात् । अतो नेदं दूषणमत आह– नापि निरवधिको बाध इति ।। अवधिराश्रयः भ्रमप्रतीतेर्निषेधस्य तत्पर्यन्तत्वात् । सर्वप्रतीतेर्भ्रान्तित्वं बाधैकगम्यम् । बाधश्च इदमित्थं न भवतीति वा अत्रेदं नास्तीति वा किञ्चिदवधिको दृष्टः । इत्थं न भवतीति इदं नास्तीत्येवं बाधाभावात् । बाधेन च यदवधित्वेन विषयीक्रियते तदेव तत्त्वमङ्गीकार्यम् । तस्यापि भ्रान्तिसिद्धत्वे तत्रापि बाधो वाच्यः । सोऽपि सावधिक इत्यनवस्थेति भावः । अन्ये तु घटादिप्रतीतीनां भ्रमत्वस्य बाधैकगम्यतया बाधो वाच्यः ततश्च तद्विषयस्यैव तत्त्वता स्यात् । न च बाधोऽपि भ्रम एव । तस्यापि बाधे तद्विषयस्य तत्त्वतापत्या तस्यापि भ्रमत्वेऽनवस्थाप्रसङ्गात् । इष्टापत्तिरिति चेतत्राह– नापि निरवधिको बाध इति ।। निरवधिको निरवसानः । अप्रामाणिकत्वात् । प्रामाणिकत्वे च तदेव तत्त्वं स्यादिति भाव इत्याहुः ।।
तत्वसङ्ख्यानविवरणम्
तदुपपादनायेति । तत्वं स्वतन्त्रास्वतन्त्रभेदेन द्विविधमित्युक्तस्य सर्वस्योपपादनायेत्यर्थः । इदं सर्वं प्रामाणिकैरङ्गीक्रियत इत्युक्त्या एवं ये नाधीकुर्वन्ति तेषामप्रामाणिकत्वं च सूचितम् । तदुपपादयति ।। तथा हीत्यादिना । तथा च इष्यत इत्यनेन परीक्षाऽपि कृतेत्यवगन्तव्यम् । एवमुत्तरत्रापि द्रष्टव्यम् । येन स्वतन्त्रमस्वतन्त्रं चेति तत्वद्वैविध्यं नाङ्गीक्रियते स प्रष्टव्यः । किं तत्वस्यैवाभावात्तदनङ्गीकारः । भावेऽपि तस्यैकत्वेनानेकप्रकारत्वाभावाद्द्वैविध्यं नाङ्गीक्रियते । अथ तत्वस्यैवानेकप्रकारत्वेऽपि अनेकप्रकारकस्य सर्वस्यापि स्वतन्त्रत्वेन वाऽस्वतन्त्रत्वेन वा सर्वस्य एकविधत्वेन द्वैविध्यासम्भवाद्वा । प्रकारान्तरेण द्वैविध्यसम्भवाद्वेति विकल्पचतुष्टयं मनसि निधायाद्यमनूद्य दूषयति ।। यदि तत्वमेवेति ।। प्रत्यक्षादीति । घटपटपरात्मेश्वरधर्मादितत्वानामस्तितायाः प्रत्यक्षचेष्टाद्यनुमानागमसिद्धत्वेन तदनङ्गीकारे तद्विरोधः स्यादित्यर्थः ।। सेतीति । सन् घट इत्यादि(घटादि)तत्वास्तितावगाहिनी प्रत्यक्षादिप्रतीतिरित्यर्थः । अस्तु वाऽयं घट इत्यादिप्रतीतिर्भ्रान्तिस्तथापि तदन्यथानुपपत्त्यैव तत्वसिद्धिरित्याह ।। न च निरधिष्ठाना भ्रान्तिरिति । सर्वस्या अपि प्रतीतेर्भ्रान्तित्वमभ्युपगच्छताऽपि भ्रान्तेः किञ्चिदधिष्ठानमङ्गीकार्यम् । न हीत्थमेव क्वचिद्भ्रमः । किंत्विदमित्थमिति । तथा च यदेव तदधिष्ठानं तदेकं तत्वमङ्गीकार्यमिति भावः ।
ननु मास्तु भ्रान्तेर्निरधिष्ठानत्वं भ्रमे यावत्प्रतीयते तावत्सर्वमप्यसदेवेति स्वीकारात् । अतो नेदं दूषणमित्यत आह ।। नापि निरवधिको बाध इति । अवधिः आश्रयः भ्रमप्रतीतिनिषेधस्य तावत्पर्यन्तत्वात् । सर्वप्रतीतेर्भ्रान्तित्वं बाधैकगम्यम् । बाधश्च इदमित्थं न भवतीति वा अत्रेदं नास्तीति वा किञ्चिदवधिको द्रष्टव्यः । इत्थं न भवति इदं नास्तीत्येव बा(धकाभा)धाभावात् । बाधेन च यदवधित्वेन विषयीक्रियते तदेव तत्वमङ्गीकार्यम् । तस्यापि भ्रान्तिसिद्धत्वे तत्रापि बाधो वाच्यः । सोऽपि सावधिक इत्यनवस्थेत्यर्थः । अन्ये तु घटादिप्रतीतिभ्रमत्वस्य बाधैकगम्यतया बाधो वाच्यः । ततश्च तद्विषयस्यैव तत्वता स्यात् । न च बाधोऽपि भ्रम एव तस्यापि बाधे तद्विषयस्य तत्वतापत्त्या तस्यापि भ्रम(त्वेन)त्वे अनवस्थाप्रसङ्गात् । इष्टापत्तिरिति चेत्तत्राह ।। नापि निरवधिको बाध इति । निरवधिको निरवसानः । अप्रामाणिकत्वात् । प्रामाणिकत्वे च तदेव तत्वं स्यादिति भाव इत्याहुः । तत्वमेव नास्तीत्यङ्गीकारे दूषणान्तरमाह ।। नास्त्येवेति । तत्वं नास्तीत्यस्यार्थस्य प्रमितत्वे तत्वाभावरूपार्थस्यैव तत्वतापत्त्या तत्वं नास्तीत्यनेन व्याघातः । तत्वं नास्तीत्यस्यार्थस्याप्रमितत्वे तत्वास्तित्वस्यैव प्राप्त्या तत्वं नास्तीत्यनेन व्याघात इत्यर्थः ।
तत्वसङ्ख्यानटिप्पणम्
इष्यत इत्यंशस्य वैयर्थ्यं परिहरन्नवतारयति ।। तदिति ।। तस्य उक्ततत्वविभागस्य उपपादनं समर्थनं तस्मा इत्यर्थः । नन्वङ्गीक्रियत इत्येतत्समानार्थकेष्यत इत्यस्य कथमुपपादकत्वमित्यतः अपेक्षिताध्याहारेण तं प्रकारं दर्शयति ।। प्रामाणिकैरित्यादिना ।। प्रमाणानि विदन्त्यधीयते वा प्रामाणिकाः । तदधीते तद्वेदेति चोक्थादिगणे संनिवेशात् ठकि ठस्येक इतीके प्रामाणिकेति भवति । स्वतन्त्रमस्वतन्त्रं चेति तत्वं द्विविधमिति प्रामाणिकैरिष्यत इत्यनेन सूचितामितरेषामप्रामाणिकतां लेशतः स्वयमाह ।। यदीति ।। तत्वमेव नास्ति दूरे तद्विभाग इति यदि कश्चिद्वदेदित्यर्थः । प्रत्यक्षादिविरोधः घटाद्यपरोक्षप्रतीतिविरोधः । आदिपदेनानुमानपरिग्रहः । सेति ।। शैत्यं हि यत्सा प्रकृतिर्जलस्येत्यादिकेष्विव विधेयापेक्षया स्त्रीलिङ्गप्रयोगः ।। बाधकाभावादिति ।। नेदं रजतमितिवन्नायं घट इत्यादिबाधकाभावादित्यर्थः । न चासञ्जातबाधभ्रमे यो यो भ्रमः स स बाधसहित इति नियमस्य व्यापकभूतबाधसाहित्याभावेन व्यभिचार इति वाच्यम् । तदतिरिक्तभ्रमस्यैव नियमान्तर्गतत्वान्न दोषः । ननु भवद्भिर्यत्र नियमः सहोच्यते स एव च घटादिविषयो भ्रमः परेणाङ्गीक्रियत इति व्यर्थमुक्तनियमरक्षणमिति चेत् मा हि भूदुक्तविधया परपराकृतिः । बाधयोग्यतावत्त्वस्यैव बाधसाहित्यार्थतया विवक्षायां तु भवत्येवायं नियमः समीचीन इत्यनेनैव सा सेत्स्यतीति न दोषः ।
अभ्युपगतेऽपि भ्रमत्वे अशितेऽपि लशुने न शान्तो व्याधिरितिवन्न तत्वं तत्वतोऽनङ्गीकारार्हमित्याह ।। न चेति ।। प्रतीतिसामान्यस्य भ्रमत्वमधीकुर्वता अधिष्ठानं च सदृशमित्याद्युक्तेर्यदधिष्ठानतयोच्यते तदेव तत्वमापततीति भावः । केशोंड्रकादिभ्रमस्तु तेजोधिष्ठान इति नातिप्रसङ्गः । प्रकारान्तरेणापि तदधीकारयति ।। नापीति ।।
रूपान्तरमसक्तं हि सोऽवधिर्यत्र जायते ।
तं विना नेत्थमित्येव न क्वचिद्बाध ईक्ष्यते ।। इत्यादेः ।
अत्रेदं नास्तीति वा इदं तन्नेति वा यत्किञ्चिदवधिको बाधो दृष्टः । न तु नेदमिति वा नेत्थमिति वा । तथा च अत्रेतीदमिति च यदवधितयाऽनुवर्तते तदेव तत्वतयाऽऽपतितमिति भावः । तत्वमेव नास्तीति विप्रतिषिद्धं चैतदिति भावेनाह ।। नास्त्येवेति ।। नास्त्येव तत्वमित्यस्यार्थस्य प्रमितत्वे प्रमितिविषयस्यैव तत्वतया पुनश्च तत्वं नास्तीति व्याहतं स्यात् । यदि च तत्वं नास्तीत्येतदप्रमितं तर्हि तत्वमस्तीत्यस्य प्रमितत्वाद्व्याहतिः । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वादिति भावः ।
भावचन्द्रिका
तदुपपादनायेति । तत्त्वद्वैविध्योपपादनायेत्यर्थः । इष्यते इति स्वोक्तविभागस्य प्रामाणिकत्वसूचनात् परीक्षाऽपि अर्थात् कृता इति न न्यूनत्वमित्याह प्रामाणिकैरिति शेष इति । स्वातन्त्र्यपारतन्त्र्याभ्यां द्वैविध्यमनङ्गीकुर्वन् प्रष्टव्यः किं शून्यवादिरीत्या तत्त्वस्यैव अभावात् तदनङ्गीकारः ? भावेऽपि विज्ञानवादिरीत्या अनेकत्वाभावात् वा ? अनेकत्वेऽपि सर्वस्य अस्वतन्त्रत्वादिना ऐकविध्येन द्वैविध्यासम्भवात् वा ? प्रकारान्तरेणापि द्वैविध्यसम्भवात् वा । तत्र आद्यं दूषयति यदीति । यदि तत्त्वमेव न स्यात् तदा घटः इत्यादिप्रत्यक्षप्रमितिविरोधः । विषयं विना प्रमित्यनुपपत्तेः इत्यर्थः । आदिपदेन अनुमानादिपरिग्रहः । यद्वा अयं घटः तत्त्वम् इत्यादिप्रत्यक्षविरोधः इत्यर्थः । बाधकाभावादिति । अनुमानादेः प्रत्यक्षमूलकत्वेन तद्बाधकत्वासम्भवात् इति भावः ।
अस्तु भ्रान्तिः तथापि तत्त्वरूपाभावे न सम्भवति, भ्रान्तेः अधिष्ठानसापेक्षत्वात् । न हि रजतम् इत्येव भ्रान्तः किन्तु इदं रजतम् इति । तथा च तत्त्वस्यैव अभावे सैव न स्यात् इत्याह न चेति । नापि इत्यर्थः । केशोण्ड्रकादिभ्रमस्यापि तेजोधिष्ठानत्वात् न निरधिष्ठानत्वम् । अत एव अन्धकारे न तद्भ्रमः इति बोध्यम् ।
अस्तु वा बाधः सोऽपि तत्त्वभावेनापद्यते, तस्य अवधिसापेक्षत्वात् । न हि किमपि न इत्येव बाधः किन्तु इदं रजतं न इत्येव ।। तथा च तत्त्वरूपाभावेन अवधेरेवाभावात् न बाधः सम्भवति इत्याह नापीति । किञ्च नास्त्येव तत्त्वमिति ज्ञानस्य प्रमात्वे एतद्विषयस्य तत्त्वाभावस्य तत्त्वस्य सिद्धिः । अप्रमात्वे तु एतद्विषयस्य तत्त्वाभावस्य बाधेन तत्त्वसिद्धिः इति तन्निषेधे व्याहतिः इत्याह नास्त्येवेति ।
काशी टिप्पणी
न्यूनाताभङ्गाय परीक्षार्थत्वेन इष्यते इति मूलमवतारयति ।। तदुपपादनायेति ।। उक्तार्थस्योपपन्नत्वज्ञापनायेत्यर्थः । इष्यते अङ्गीक्रियते प्रामाणिकैरित्यन्येषामप्रामाणिकत्वलाभात्परपक्षप्रतिक्षेपपूर्वकस्वपक्षस्थापनरूपपरीक्षालाभ इति भावः । तत्प्रकारं दशयति ।। तथा हीत्यादिना ।। उक्तार्थस्यानुपपन्नत्वं किं तत्वस्यैवाभावात् ? भावे वा तत्वस्यैकत्वात् ? अनेकत्वेऽपि वा सर्वस्वातन्त्र्यात् ? किं वा सर्वास्वातन्त्र्यात् ? तत्राद्यं दूषयति ।। यदीति ।। प्रत्यक्षादिविरोधः घटादिविषयकप्रत्यक्षादिप्रतीतेः प्रमात्वानुपपत्तिः । विषयाभावादिति भावः । अत्रेष्टापत्तिमाशङ्कते ।। भ्रान्तिरिति ।। बाधकाभावादिति ।। प्रमात्वबाधकस्य विषयासत्वप्रत्ययस्याभावादित्यर्थः । तथा च भ्रान्तित्वे साधकाभाव इति भावः ।
ननु मा भूदस्मदादीनां बाधकप्रत्ययः । बुद्धादीनां त्वस्त्येव । स एव भ्रान्तित्वसाधको भविष्यतीत्याशङ्क्य भ्रान्तिबाधकयोर्बाधकं चाह ।। न चेति ।। यत्रारोपस्तदधिष्ठानम् । यत्र बाधः सोऽवधिः । तदविनाभूतौ भ्रान्तिबाधौ । इत्थं इत्येव भ्रान्तेः नेत्थं इत्येव बाधस्य चादर्शनात् । किन्तु ? इदमित्थं नेदमित्थं इत्येवेत्यधिष्ठानावधिभूततत्वाभावे भ्रान्तिबाधानुपपत्तिरिति भावः । न चैवं नरृध्मस्त नास्ति इत्यादिभ्रमबाधानुपपत्तिः । अपरोक्षभ्रमस्थल एव तथाङ्गीकारात् । एवं च विश्वविषयकभ्रान्तिबाधाङ्गीकर्त्राऽपि अधिष्ठानावधिभूततत्वमङ्गीकार्यमेवेति हृदयं । ननु नास्त्येव तत्वं इति निरवधिकबाधो बौद्धैरङ्गीक्रियते । अन्यथा सर्वासत्वप्रतिपादनानुपपत्तेः । ततश्च घटादिप्रत्ययस्य निरधिष्ठानकस्यैव भ्रमत्वमपीत्याशङ्क्याह ।। नास्त्येवेति ।। आद्ये तादृशबाधविषयस्य तत्वाभावस्य, द्वितीये तत्प्रतियोगिनो घटादेरेव तत्वत्वसिद्ध्यापत्त्या तत्वसामान्यनिषेधे व्याघात इत्यर्थः । भावाभावयोरेकस्याप्रमितत्वे अन्यस्य प्रमितत्वं न्यायप्राप्तमिति भावः । न च सर्वासत्त्ववादिभिस्तादृशन्यायानभ्युपगमान्न दोष इति वाच्यं तत्वसामान्यनिषेधे प्रमाणोक्तौ तद्विषयतत्वसिद्धेरावश्यकत्वात् । तदनुक्तौ वादित्वाभावेन जडवदुपेक्ष्यत्वात् । सर्वासत्त्वादिप्रतिपादनं त्वाग्रहणादिमूलमेवेति ध्येयम् ।