तद्द्विविधं स्वतन्त्रमस्वतन्त्रं चेति, इति इतिशब्दाध्याहारेण योज्यम्
मूलव्याख्यानपुरस्सरं स्वतन्त्रास्वतन्त्रतत्वलक्षणकथनम्
टीका
तद्द्विविधं स्वतन्त्रमस्वतन्त्रं चेति, इति इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रमस्वतन्त्रं च तत्वं प्रत्येकं द्विविधमिति प्रतीतिः स्यात् । स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रं । परापेक्षमस्वतन्त्रम् ।
तत्वसङ्ख्यानटीकाभावदीपः
केचित्स्वरूपमेव धर्मिणस्सत्तामाहुः । अन्ये प्रमितिम् । अपरे प्रवृत्तिम् । अतो मतत्रयानुरोधेनाह ।। स्वरूपेत्यादि ।।
तत्वसङ्ख्यानटीकाटिप्पणी
‘तदधीनाश्च सर्वदा । सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः । प्रवृत्तयश्च ताः सर्वाः नित्यं नित्यात्मना यतः ।’ इत्यनुव्याख्यानं मनसि निधाय स्वतन्त्रास्वतन्त्रतत्त्वे क्रमेण लक्षयति– स्वरूपप्रमितीत्यादिना ।। अत्र स्वरूपलक्षणसत्तायां स्वप्रमितिलक्षणसत्तायां स्वप्रवृत्तिलक्षणसत्तायां च परानपेक्षमिति लक्षणत्रयं विवक्षितमतो न वैयर्थ्यम् । केचिन्मन्यस्ते स्वरूपमेव वस्तुनः सत्त्वमिति । अपरे तु प्रमाणयोग्यत्वम् । अन्ये तु पुनरर्थक्रियावत्वम् । तदनुसारेण स्वरूपप्रमितिप्रवृत्तीनां सत्त्वव्यवहार इति ध्येयम् । परापेक्षमिति ।। सत्तात्रैविध्य इति वर्तते । तदुपपादनायेति । तत्त्वं स्वतन्त्रास्वतन्त्रभेदेन द्विविधमिति मूलोक्तस्य सर्वस्योपपादनायेत्यर्थः ।
तत्वसङ्ख्यानविवरणम्
इतिशब्दाध्याहारेण कुतो योज्यमित्यत आह ।। अन्यथेति ।। द्विविधमिति । प्रकारद्वयोपेतमित्यर्थः ।
तदधीनाश्च सर्वदा ।
सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ।।
इत्यनुव्याख्यानं मनसि निधाय स्वतन्त्रास्वतन्त्रतत्वे क्रमेण लक्षयति ।। स्वरूपप्रमितीत्यादिना । अत्र स्वरूपलक्षणसत्तायां स्वप्रमितिलक्षणसत्तायां स्वप्रवृत्तिलक्षणसत्तायां च परानपेक्षमिति लक्षणत्रयं विवक्षितम् । अतो न वैयर्थ्यशङ्का । केचिन्मन्यन्ते स्वरूपमेव वस्तुनस्सत्त्वमिति । अपरे तु प्रमाणयोग्यत्वमिति । अन्ये पुनरर्थक्रियाकारित्वमिति । तदनुसारेण स्वरूपप्रमितिप्रवृत्तीनां सत्वव्यवहार इति ध्येयम् ।। परापेक्षमिति । सत्तात्रैविध्य इति वर्तते ।।
तत्वसङ्ख्यानटिप्पणम्
तत् तत्वम् । द्विविधं द्वे विधे स्वतन्त्रत्वास्वतन्त्रत्वरूपप्रकारद्वयं यस्य तद्द्विविधम् । इतिशब्दानध्याहारे बाधकमुद्बोधयति ।। अन्यथेति ।। अन्यथा इतिशब्दानध्याहारेण यथाश्रुतयोजनायाम् । न चेष्टापत्तिरिति वाच्यम् । स्वतन्त्रतत्वद्वैविध्यस्य प्रमाणबाधितत्वात् । अस्वतन्त्रतत्वस्य स्वतोऽनेकत्वेऽपि ‘‘द्विधेतरदि’’ति तदवान्तरविभागस्य वक्ष्यमाणत्वेन पौनरुक्त्यापत्तेश्च । स्वतन्त्रमस्वतन्त्रमिति नामोच्चारणेनैवानयोर्लक्षणमपि सूचितमित्याह ।। स्वरूपेत्यादिना ।। स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्षं परानधीनं स्वतन्त्रमित्यर्थः । प्रवृत्तिस्तत्तत्कार्यानुकूलो व्यापारः । अत्र परानधीनसत्ताकत्वमेव स्वतन्त्रलक्षणम् । तद्घटकभूतसत्ताविवरणं स्वरूपेत्यादिना कृतम् । न तु लक्षणघटकम् । येन स्वरूपसत्तायां परानपेक्षं स्वतन्त्रमित्येतावतैवेष्टसिद्धेः शिष्टं व्यर्थं स्यादिति भावः । यत्स्वरूपसत्तादौ स्वाधीनं न तु परापेक्षमिति तत्वविवेकटीकायामादिपदस्य लक्षणत्रयसूचकत्वाल्लक्षणत्रयं यथा गृह्यते तथाऽत्रापि वैभवादनेकलक्षणप्रदर्शनार्थं वा स्वरूपेत्याद्युक्तमिति ज्ञेयम् । परानपेक्षमित्यस्य परानधीनत्वार्थकत्वकरणेन स्वतन्त्रतत्वलक्षणस्य परापेक्षाशून्येषु नातिव्याप्तिः । एतेनैव चास्वतन्त्रलक्षणेऽपि परापेक्षारहितेऽभिहितस्थले नाव्याप्तिरित्यपि बोध्यम् । स्वरूपादीनां सत्वव्यवहारस्तु ‘‘अन्यत्राभावाच्च न तृणादिव’’दिति समयपादीय ‘‘शक्तीस्ताः प्रेरयत्यंजस्तदधीनाश्च सर्वदा । सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः । प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यत’’ इत्यनुव्याख्यानव्याख्यानसुधायां ‘‘केचिन्मन्यन्ते वस्तुनः स्वरूपमेव सत्वमिति । अपरे तु प्रमाणयोग्यत्वमिति । अन्ये पुनरर्थक्रियाकारित्वमिति । तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीन’’मित्यनेन ग्रन्थेन स्वरूपादीनां सत्वव्यवहारादत्रापि सम्भवतीति बोध्यम् ।
अस्वतन्त्रलक्षणे परपदस्थाने ईशपदप्रक्षेपेऽतिव्याप्तिरीशे । देशकालादेर्देशादिसम्बन्धित्ववदीशस्यापीशाधीनसत्ताकत्वस्य ‘‘स्वतन्त्रः स्वेच्छाधीनप्रवृत्ति’’रिति तत्वोद्योतटीकादिषु तत्र तत्रोक्तत्वात् । अतः परेत्युक्तम् । एवं चान्यपदपर्यायपरपदेन यस्मिंलक्षणमुपपाद्यते तदन्यस्यैव ग्रहणान्नातिव्याप्तिरिति भावः ।
भावचन्द्रिका
एवमाक्षेपात् कारिकाखण्डाद्वा लब्धतत्त्वसामान्यलक्षणं व्याख्याय विभागोद्देशपरं वाक्यं व्याचष्टे द्विविधमिति । इतिशब्दानध्याहारे बाधकमाह अन्यथेति ।। ननु स्वतन्त्रपरतन्त्रयोर्लक्षणानभिधानात् न्यूनत्वमित्यतः स्वतन्त्रमित्याद्यनुवादेनैव लक्षणस्य सूचितत्वाददोषः इत्याशयेन संज्ञानिरुक्त्या लब्धं लक्षणमाह स्वरूपेति ।। सत्तात्रैविध्य इति । सत्तादित्रैविध्ये इत्यर्थः ।। अत एव तत्त्वविवेकटीकायां यत् स्वसत्तादौ इति आदिपदप्रयोगः इति ध्येयम् । अत्र स्वसत्तायां स्वाधीनम्, स्वप्रवृत्तौ स्वाधीनम् इत्याद्यनेकलक्षणसूचने तात्पर्यात् व्यावर्त्याप्रसिद्ध्या विशेषणवैयर्थ्यशङ्कानवकाशः । वस्तुतः अत्र आदिपदाभावेऽपि न दोषः । केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति; अपरे तु पुनः प्रमाणयोग्यत्वम् । अन्ये पुनः अर्थक्रियाकारित्वमिति । तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनम् इति पातञ्जलाधिकरणीय ‘‘तदधीनाश्च सर्वदा’’ इत्याक्तनुव्याख्यानसुधानुसारेण स्वरूपादीनां सत्त्वव्यवहारोपपत्तेः इति ध्येयम् । अत्र स्वतन्त्रपदस्य स्वाधीनमिति पदार्थमुक्त्वा तस्य परतन्त्रलक्ष्म्यादावतिव्याप्तत्वात् परानपेक्षमिति तात्पर्योक्तिः, विशेषे विवदमानं प्रति परानधीनत्वमेव लक्षणमस्तु इति भावेन, न तु परानधीनत्वम् एव स्वतन्त्रशब्दमुख्यार्थः । तथा सति ‘‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः’’ इत्यनुव्याख्यानेन, स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिः इति तत्त्वोद्योतटीकया बाधकाभावेन उपचाराश्रयणस्य अयुक्तत्वादेव स्वतन्त्रः इत्यस्य परतन्त्रताव्यावृत्तिः अर्थः इत्ययुक्तम् इति ‘देशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यता,’ इत्येतद्व्याख्यानटीकया च विरोधापातात् ।
न च स्वस्य स्वाधीनत्वासम्भवेन निरुक्तिलभ्यस्य लक्षणत्वानुपपत्तेः अमुख्याश्रयणमिति वाच्यम् । देशस्य देशसम्बन्धित्ववत् कालस्य कालसम्बन्धित्ववच्च विशेषबलेन ईश्वरस्यापि ईश्वराधीनत्वसम्भवेन बाधकाभावादिति भावः ।
अत्र परानधीनसत्ताकत्वतदधीनसत्ताकत्वे एव स्वतन्त्रास्वतन्त्रलक्षणतया अभिमते, इति अपेक्षायाश्चेतनधर्मत्वेन यथाश्रुते स्वतन्त्रलक्षणे अचेतने अतिव्याप्तिः, अस्वतन्त्रलक्षणे च अव्याप्तिः, इति चोक्तानवकाशः । अधीनताया एव अपेक्षापदेन विवक्षणात् । अत एव परानपेक्षतदपेक्षत्वयोरेव लक्षणत्वसम्भवात् शेषवैयर्थ्यम् इति परास्तम् । यथोक्तविशेषणविशेष्यभावे वैयर्थ्याभावात् । न च परपदवैयर्थ्यम् । भगवत्स्वरूपभूताया अपि सत्तायाः विशेषबलेन स्वाधीनतया असम्भवादिप्रसङ्गादिति ध्येयम् ।।
काशी टिप्पणी
इदानीं मूलं योजयति ।। तदिति ।। तत् तत्वम् । अन्यथा इतिशब्दानध्याहारे । स्वतन्त्रद्वैविध्यं च प्रमाणबाधितमिति भावः । स्वतन्त्रास्वतन्त्रयोरपि उद्देशलब्धं लक्षणमाह ।। स्वरूपेति ।। स्वरूपमनागन्तुकं रूपं प्रमितिः प्रमायोग्यत्वं अबाधितधर्म इति यावत् । प्रवृत्तिः कार्यजननशक्तिः । एतल्लक्षणत्रिविधसत्तासु स्वाधीनत्वं स्वतन्त्रत्वमित्युक्तौ रमादिष्वतिव्याप्तिः । अतः स्वमात्राधीनत्वं विवक्षणीयम् । तच्च न स्वान्यानधीनत्वे सति स्वाधीनत्वम् । विशेष्यवैयर्थ्यादिति भावेनोक्तम् ।। परानपेक्षमिति ।। स्वस्य स्वाधीनत्वादसम्भववारणाय परशब्दः । न च स्वरूपेत्यादिकं व्यर्थम् । परानधीनस्वरूपत्वादेरेव विवक्षितत्वेन यथासन्निवेशेनावैयर्थ्यात् । न च प्रमित्यादिकं व्यर्थम् । परानधीनप्रमितित्वादेः पृथग्लक्षणत्वात् । सत्तात्रैविध्योक्तिस्तु स्वरूपादित्रयस्य सत्ताव्यवहारविषयत्वज्ञापनार्था । न चैवं सामान्यतः परानधीनसत्ताकत्वमेव लक्षणमस्त्विति वाच्यम् । एकमते स्वरूपादित्रये सत्ताव्यवहाराभावेन विशेषलक्षण एव पर्यवसानात् । यथोक्तं सुधायाम् । केचिन्मन्यन्ते, वस्तुनः स्वरूपमेव सत्वमिति । अपरे प्रमाणयोग्यत्वमिति । अन्ये तु पुनरर्थक्रियाकारित्वमिति । तदिदं त्रयं प्रकृत्यादीनां भगवदधीनमिति । अत एव यत्स्वसत्तादौ परानपेक्षमिति तत्वविवेकटीकायामादिपदेन प्रवृत्त्यादिकमुपात्तम् । वस्तुतः परानधीनत्वमेव स्वतन्त्रत्वम् । तद्वैपरीत्यमस्वतन्त्रत्वम् । स्वरूपेत्यादिकं तु तदुपपादनमित्यवधेयम् ।
केचित्तु स्वनिष्पत्तिस्वप्रमितिस्वप्रवृत्त्यन्यतमेषु परानपेक्षं स्वतन्त्रम् । तद्विपरीतमस्वतन्त्रम् । स्वप्रमितिपदेन च स्ववृत्तियावद्धर्मप्रकारकयथार्थज्ञानं विवक्षितम् । अतः स्वतन्त्रस्य पराधीनप्रमितिविषयत्वेऽपि न दोष इति व्याचक्षते ।
यत् स्वसत्तादौ स्वाधीनं, न तु परापेक्षं तत् स्वतन्त्रं इति तत्वविवेकटीकायां यथाश्रुतं स्वाधीनत्वमपि तक्षणम् । विशेषबलात्स्वस्य स्वाधीनतानिर्वाहात् । विशेषे विप्रतिपद्यमानं प्रति परानपेक्षत्वं विवक्षितमिति व्यासतीर्थचरणैरुक्तम् । तत्राद्ये रमादावतिव्याप्तिवारणाय मुख्यतः स्वाधीनत्वं विवक्षणीयम् । तच्च परानधीनस्वनिष्ठनियामकताकत्वम् । रमादीनां च स्वनिष्ठनियामकत्वस्य पराधीनत्वान्नातिव्याप्तिः । द्वितीये च परशब्दः स्पष्टार्थ एवेत्याशयः ।