दैत्यरक्षःपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः
तमोयोग्यचेतनविभागः
टीका
तमोयोग्यानां प्रभेदमाह ।। दैत्येति ।।
तत्वसङ्ख्यानम्
.... ..... .............दैत्यरक्षःपिशाचकाः ।
मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः ।। ६ ।।
मर्त्याधमा इत्यतः परमितिशब्दोऽध्याहार्यः । अप्रसिद्धत्वादस्य भेदस्याश्रद्धेयत्वं निवारयितुमेवशब्दः । प्रकीर्तिता इति अत्राऽगमसम्मतिमाचष्टे । स चान्यत्रोदाहृतो द्रष्टव्यः ।
तत्वसङ्ख्यानटीकाभावदीपः
।। स चान्यत्रोदाहृत इति ।। प्रजा ह तिस्त्रो अत्यायमीयुरित्यैतरेयभाष्ये । तथा तृतीयस्कन्धे एकादशतात्पर्ये च ।
जाताऽतिकृष्णा तद्देहाद्दैत्यरक्षःपिशाचकः ।
इत्युदाहृत इत्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
दैत्यादिषु प्रत्येकचातुर्विध्यान्वयभ्रमं वारयितुमाह – इतिशब्दोऽध्याहार्य इति ।।
तत्वसङ्ख्यानविवरणम्
दैत्यादिषु प्रत्येकं चातुर्विध्यान्वयभ्रमं वारयितुमाह ।। इतिशब्दोऽध्याहार्य इति । तथा च तमोयोग्याः दैत्यरक्षःपिशाचकाः । मर्त्याधर्माश्चेति चतुर्धेत्युक्तया दैत्यादीनां प्रत्येकं चतुर्विधत्वभ्रमो निरस्त इति ज्ञातव्यम् ।। एवशब्द इति । अवधारणेनाश्रद्धेयत्वं निवारितमिति ज्ञातव्यम् । अप्रसिद्धत्वपरिहाराय प्रकीर्तिता इत्युक्तं तदभिप्रायमाह ।। प्रकीर्तिता इति । अत्र तमोयोग्यानामेवं चातुर्विध्ये ।
तत्वसङ्ख्यानटिप्पणम्
यथाश्रुतग्रन्थे मर्त्याधमानां चातुर्विध्यं प्रतीयते । न चेष्टन्तत् । उत्तरत्र तद्विभागाकथनात् । दैत्यरक्षःपिशाचका इत्यादीनामन्वयाभावा च्चेत्यतोऽपेक्षितं पूरयति ।। मर्त्याधमा इति ।। इतिशब्द इति । इतीतिशब्द इतिशब्दः । तस्य च मर्त्याधमा इत्यनेनान्वयो भवतीति मर्त्याधमचतुष्ट्वभ्रमभ्रंश इति ज्ञेयम् । एवकारव्यावर्त्यमाह ।। अप्रसिद्धत्वादिति ।। ईषत्प्रसिद्धत्वादित्यर्थः । नञभावेऽनिषेधे च स्वरूपार्थेऽप्यतिक्रमे । ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोरिति विश्वः । तदन्यत्वं तदल्पतेत्यादिश्च । प्रयोगास्तु ‘‘गङ्गामतोयाम्, अनुदरा कन्ये’’त्यादयो ज्ञेयाः । यद्वा ‘‘अप्रसिद्धत्वादस्ये’’त्यस्य शङ्काग्रन्थत्वात्सामान्यतः प्रसिध्द्याक्षेपो बोध्यः। कथमेवशब्देन तद्वारणमित्यतोऽस्यागमप्रसिद्धत्वादित्याहेत्याह ।। प्रकीर्तिता इत्यनेनेति ।। सम्मतिं संवादम् । तर्हि स किं नोदाहृत इत्यतोऽन्यत्रोक्तत्वादत्र पुनस्तद्वचने गौरवं स्यादित्युपरम्यत इत्याह ।। स चेति ।। स चेति तच्छब्देन ‘‘आगमसम्मति’’मित्यत्र समासे गुणभूतमागमं परामृशति । सात्विका इत्याद्यारभ्य
मर्त्याधमास्तामसास्तु दैत्यरक्षःपिशाचकाः ।
स्वरूपभूतविद्वेषाद्धरौ गच्छन्ति ते तमः ।।
इत्यादिबृहत्संहितारूपोऽन्यत्र बृहद्भाष्यादावाचार्योदाहृतो द्रष्टव्यः । तामसास्तु मर्त्याधमा दैत्यरक्षःपिशाचका इति सम्मतिप्रमाणेऽन्वयः ।
भावचन्द्रिका
दैत्य इत्यादिमूले दैत्य इत्यादीनां प्रत्येकं चातुर्विध्यमुच्यते इति भाति, तच्च तमोगानां भेदोक्तेः प्रक्रान्तत्वात् अयुक्तमित्यत आह मर्त्याधमा इत्यतः परमिति । यद्वा मर्त्याधमानां चातुर्विध्यमुच्यते इति भाति । तच्च तमोगानां भेदोक्तेः प्रक्रान्तत्वादयुक्तमित्यत आह मर्त्याधमा इत्यतः परमिति । यद्वा मर्त्याधमानां चातुर्विध्यान्वयभ्रान्तिं वारयति मर्त्याधमा इत्यतः परमिति ।। अप्रसिद्धत्वादिति । प्रसिद्धत्वाभावादित्यर्थः ।। अत एव उक्तार्थे ‘प्रकीर्तिताः’ इति आगमप्रसिद्धिः उक्ता इत्याह प्रकीर्तिता इति । अन्यत्र=तत्त्वविवेके ।
काशी टिप्पणी
दैत्यादीनां प्रत्येकं चातुर्विध्यमुच्यत इति भ्रमनिरासायाह ।। तमोयोग्यानामिति ।। तमोयोग्याश्चतुर्धेत्यन्वयो न तु प्रत्येकमिति भावः । नन्वेवं दैत्यादेरनन्वय इत्यत आह ।। मर्त्याधमा इति ।। अप्रसिद्धत्वादिति ।। तन्त्रान्तरासिद्धत्वादित्यर्थः । अस्य तमोयोग्याश्रितस्य । अश्रद्धेयत्वमनिश्चितप्रामाण्यकत्वमप्रामाणिकत्वशङ्कामिति यावत् । नन्वेतावतैव कथं तन्निवारणमत आह ।। प्रकीर्तिता इति ।। अत्र मुक्त्ययोग्यप्रभेदविषये । प्रकीर्तिता इत्यस्य पूर्वत्रोत्तरत्र च सम्बन्धेन सर्वत्रैवाप्रामाणिकत्वशङ्कानिरास इति भावः । स चागमः
शृृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनानीयमानः ।
एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ।।
सात्विका राजसाश्चैव तामसास्त्रिविधा जनाः ।
सात्विकास्तत्र देवाद्या राजसाः सृष्टिगास्तथा ।।
मर्त्याधमास्तामसास्तु दैत्यरक्षःपिशाचकाः ।
स्वरूपभूतविद्वेषा अधो गच्छन्ति ते तमः ।।
इत्यादिर्भाष्यादावुदाहृत इत्यर्थः । वीरोऽध्यवसायान्तगामी परमेश्वरः सर्वानुग्रान्दैत्यादीन्दमयन् तद्विरुद्धान्देवादीन् संसारमतिक्रम्य स्वपदं नयन् वेदादिषु श्रूयते । स एव मुक्तामुक्तनियामको मध्यममनुष्यप्रजाः संसार एवावर्तयति । न तु साधनानुष्ठानेऽपि मोचयति । यतः स्वायोग्यप्रयत्नादेधमानान्द्वेष्टीति श्रुत्यर्थः । अत्र दैत्यादीनामयोग्यतातिशयानुसारेणोद्देश इत्युक्तप्रायम् । मर्त्याधमेभ्यो दैत्यादीनां कुत्सार्थककप्रत्ययेन बहुतरायोग्यत्वं सूचितम् । अत एव तेषां पृथगुक्तिरिति ज्ञेयम् ।