नचैवं प्रागभावप्रध्वंसः प्रध्वंसप्रागभाव इति प्रवाहौ प्रसज्येते
प्रागभावप्रध्वंसपरम्परया अनवस्थाशङ्का तन्निरासश्च
टीका
नचैवं प्रागभावप्रध्वंसः प्रध्वंसप्रागभाव इति प्रवाहौ प्रसज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन चाङ्गीकृतत्वात् । तर्हि घटप्रध्वंसो नाम प्रागभावनिवृत्तेर्निवृत्तिरिति प्रागभावोन्मज्जनप्रसङ्ग इति चेन्न । घटवत् घटप्रध्वंसस्यापि तद्विरोधित्वात् ।
निरवधिकोऽभावः सदाभावः । सदाऽभावोऽस्तीति कृत्वा । अथात्यन्ताभाव इति प्रसिद्धसंज्ञातिक्रमेण सदाभाव इति संज्ञान्तरकरणं किमर्थम् । लक्षणस्याप्युद्देशेनैव सूचनार्थम् । यच्चान्यैरत्यन्ताभावस्वरूपमुक्तं संसर्गप्रतियोगिकाभावोऽत्यन्ताभाव इति यथैतद्धटैतद्भूतलसंसर्गाभाव इति तदपि निराकर्तुमेतत् । तस्य निरवधिकत्वाभावात् । तर्ह्युदाहृतश्चतुर्थः स्यादिति चेन्न । तस्यापि यथासम्भवं प्रागभावादिष्वन्तभार्वात् ।
तत्वसङ्ख्यानटीकाभावदीपः
प्रागभावनाशः प्रतियोगिनोऽन्यः प्रध्वंसप्रागभावोऽपि तथेत्युपेत्य शङ्कते ।। न चैवमिति ।। प्रागभावप्रध्वंसयोर्नाशप्रागभावाङ्गीकार इत्यर्थः । कुत एतदित्यतस्तृतीयार्थमाह ।। सदाऽभावोऽस्तीति कृत्वेति ।। यथा सम्भवमिति ।। यदि घटसंसर्गो भावी तदा प्रागभावः । यदि भूतः तदा ध्वंसः । न कदापि चेत्तदात्यन्ताभाव इत्येवं यथासम्भवमित्यर्थः ।
तत्वसङ्ख्यानटीकाटिप्पणी
अन्येतु उत्तरेत्यस्य विनाश्यभाव इत्यर्थः । पूर्वेत्यस्य प्रागभाव प्रतियोग्यभाव इत्यर्थ इत्याहुः । अत्र प्रागभावप्रध्वंसाभावयोर्निरूपणयोः परस्परसापेक्षत्वेन कथं न परस्पराश्रय इति चिन्त्यम् । प्रागभावप्रतियोगिक- प्रध्वंसाभावध्वंसप्रतियोगिकप्रागभावौ प्रतियोग्यतिरिक्तौ मत्वा शङ्कते– न चैवमिति ।। प्रवाहाविति ।। प्रागभावप्रध्वंसस्यापि प्रागभावस्तस्यापि विनाश्यभावत्वेनापरप्रध्वंसः तस्य च प्रागभावप्रतियोग्यभाववत्वेनापर इत्येकः (प्रवाहः) । प्रध्वंसस्यापि प्रागभावप्रतियोग्यभावत्वेन तत्प्रागभावस्तस्यापि ध्वंसस्य प्रतियोग्यभावत्वेनापरो ध्वंसस्तस्य च प्रागभावप्रतियोगित्वेनापरः प्रागभाव इति प्रवाह इत्यर्थः ।। निरवधिक इति ।। प्रतियोगिकालाबधिकपूर्वापरत्वरहिताभाव इत्यर्थः । तथा च योऽभावः कालत्रयेऽस्ति सोऽत्यन्ताभाव इति निर्गलितोऽर्थः । अत एवमेवं लक्ष्ये उपपादयति– सदेति ।। अत्राभावपदाभावे नित्यभावे गतम् । कालत्रयेत्यनुपादाने कादाचित्काभावे प्रागभावादौ । अत उभयमुपात्तम् । लक्षणस्यापीति ।। यद्यप्यत्यन्ताभाव इत्युद्देशेऽपि अत्यन्तपदार्थविवेके तात्पर्यतः सोऽर्थो लभ्यत एवेत्यविशेषः । तथापि अविलम्बेन लक्षणोपस्थित्यर्थं तथोक्तमिति ध्येयम् । यच्चान्यैरिति ।। अत्रापि यद्यपि परमतनिराकरणं पूर्वोक्तगत्या तथोद्देशेऽपि लभ्यत एव । तथापि स्फुटतया तल्लाभार्थमेतदुक्तमिति मन्तव्यम् । संसर्गप्रतियोगिकाभावोऽत्यन्ताभाव इतीति ।। अन्योन्याभावस्य तादात्म्यप्रतियोगिकत्वेन प्रागभावप्रध्वंसाभावयोश्चैतन्मते संसर्गाभावत्वाभावेन न कुत्राप्यतिप्रसङ्ग इति भावः । तस्येति ।। संसर्गाभावोत्पत्तिविनाशप्रतीतिबलेन निरवधिकत्वाभावादित्यर्थः । यथासम्भवमिति ।। एतद्घटैतद्भूतलसंसर्गस्य भावित्वे तदभावः प्रागभावेऽतीतत्वे ध्वंसे कदाप्यसत्त्वेऽत्यन्ताभावेऽन्तर्भवतीत्यर्थः । अन्योन्याभावस्यानिषेधस्वरूपत्वात् । प्रतिषेधप्रतियोगित्वस्येवोक्त- स्वभावकल्पनात् । न च अत्यन्ताभावप्रतियोगित्वमेव स्वाश्रयसत्ताविरोधीत्यत्र किञ्चिन्नियामकम् । तत्प्रतियोगिनां शशविषाणादीनामपि सत्त्वापत्तेश्च । किञ्चेह भूतले घटो नास्तीति बुद्धेर्घटाभावविषयकत्वे न तावदयं घटप्रागभावः प्रध्वंसो वा प्रतियोगिसमानकालीनत्वादेतस्य । नाप्यत्यन्ताभावः कदाचित्तत्र घटस्य सत्त्वात् । यदि चैतत्कालावच्छेदेनात्यन्ताभावता तर्ह्यत्यन्ताभावातिरिक्तः प्रागभावादिर्न सिद्ध्येत् । संसर्गस्य भूतत्वे ध्वंसः । भावित्वे प्रागभावः । कदाप्यभावेऽत्यन्ताभाव इति न काप्यनुपपत्तिरित्युक्तम् ।
स्यादेतत् । घटप्रतियोगिक एवायमभावो न संसर्गप्रतियोगिकः । घटस्यैव प्रतियोगित्वेन व्यवहारादिति चेन्न । संसर्गवद्घटस्यापि संसर्गाभावविरोधितया भूतले घटाभाव इति व्यवहारे घटपदेनोपचारेण संसर्गस्यैव विवक्षितत्वात् । न हि घटस्य प्रतिषेध्यस्वरूपत्वरूपं प्रतियोगित्वं सम्भवति । तथाहि– भूतले घटोऽस्तीति प्रतीतौ घटसम्बन्धवत् भूतले घटो नास्तीत्यत्रापि घटसम्बन्धाभावस्य प्रतीतेः । न च तत्रोभयप्रतीतिवदत्रापि उभयाभावः प्रतीयतामिति वाच्यम् । मिषेण प्रतियोगित्वस्य स्वाश्रयसत्ता असहमानस्वभावत्वेन तत्कालविद्यमानघटावृत्तित्वात् । न च तादृशस्वभाव एव कुत इति वाच्यम् । घटसत्तादशायां तस्मिन् प्रागभावध्वंसप्रतियोगित्वादर्शनात् । अविद्यमान एव घटे तद्दर्शनाच्च । प्रतियोगित्वस्य रूपादिवद्धर्मिसत्तानपेक्षत्वात् ।
अत्र कश्चित् । घटात्यन्ताभाव एव । घटकाले त्वसम्बन्धान्न भवति । घटात्यन्ताभावस्य भूतलेन सह सम्बन्धश्च तत्संयोगध्वंसादिरित्याह । तत्तुच्छम् । अभावाधिकरणयोः सम्बन्धान्तरमन्तरेण तदुपश्लिष्ट(स्व)भावत्वरूपक्लृप्तसम्बन्धत्यागेन आवश्यकसंयोगध्वसादेरेवैतद्धीविषयत्वोपपत्तेः । अन्यथा घटस्य कपाले स्वत्यन्ताभाव एव । घटकालेत्वाश्रयाश्रयिभावध्वंसादिरूपसम्बन्धाभावान्न प्रतीतिरिति घटात्यन्ताभावः केवलान्वयी स्यादिति ।
अपरस्तु उत्पत्तिविनाशशीलोऽयमपर एव घटाभावः प्रतीयत इत्याह । तदपि मन्दम् । घटाभावनाशस्य घटस्वरूपत्वे घटाभावस्य घटसमानकालीनताऽनुपपत्तिः । नाशस्य स्वप्रतियोगिभिन्नकालीनतानियमात् । घटातिरिक्तत्वे घटप्रतियोगिताऽनुपपत्तिः । प्रतियोगित्वस्याभावविरहात्मकरूपत्वात् । तदेवं भूतले घटोऽस्तीत्यत्र घटतत्सम्बन्धभानेऽपि नास्तीत्यत्र संसर्ग एव निषिध्यते घटस्य तु तत्काले सत्त्वेन प्रतियोगित्वासम्भवेऽपि विरोधितासाधर्म्येण मुख्यत एव प्रतियोगिताव्यवहार इति उक्तमेव युक्तम् ।
नचैवं घटत्वाभावे घटत्वसमनियतं कम्बुग्रीवत्वादिकमपि विरोधितासाधर्म्येण प्रतियोगितया व्यवह्रियतामिति वाच्यम् । व्यवहारे सति निमित्तं मृग्यं न तु निमित्तमस्तीति व्यवहार इति ज्ञेयम् । तदाहोदयनोऽपि ‘इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यत’ इति । न च घटवत्संसर्गस्याप्यन्यत्र सत्त्वेनाप्रतियोगित्वमिति वाच्यम् । एतद्भूतलैतद्घटसंसर्गस्य निषेधकाले कुत्राप्यभावादित्यादि विवेचनीयं सूरिभिरित्युपरम्यते ।
तत्वसङ्ख्यानविवरणम्
तत्र प्रागभावप्रतियोगिकध्वंसो ध्वंसप्रतियोगिकप्रागभावश्च प्रतियोग्यतिरिक्त एवेति मत्वा शङ्कते ।। न चैवमिति । तथा च घटप्रागभावस्य विनाश्यभावत्वात्तस्य परः प्रागभावः । तस्यापि विनाश्यभावत्वेन परः प्रध्वंसः । तस्यापि पुनः सादित्वेन परः प्रागभाव इत्येकः प्रवाहः । तथा घटप्रध्वंसस्यापि प्रागभावप्रतियोग्यभावत्वेन परस्तत्प्रागभावः तस्यापि विनाश्यभावत्वेन परः प्रध्वंसः तस्य च प्रागभावप्रतियोगित्वेनापरः प्रागभाव इत्यपरप्रवाह इति द्वौ प्रवाहौ द्वे परंपरे प्रसज्येते इत्यर्थः । तथा च प्रवाहद्वयेऽप्यनवस्था स्यादिति भावः । कुतो न प्रसज्येते इत्यत आह ।। प्रतियोगिन एवेति । स्यादेवं घटप्रागभावध्वंसो घटातिरिक्तस्स्यात् । न चैवम् । प्रतियोगिनो घटस्यैव प्रागभावध्वंसरूपत्वात् । यथाहुराचार्याः । प्रतियोग्यापत्तेरेवाभावप्रतिपत्तित्वस्य प्रागभावे दृष्टत्वादिति । तथा च घटप्रवाहप्रयुक्ता नानवस्था । तथा घटप्रध्वंसप्रागभावोऽपि न घटातिरिक्तः प्रतियोगिनो घटस्यैव प्रध्वंसप्रागभावत्वेन द्वितीयप्रवाहप्रयुक्तानवस्थापि नास्तीत्यर्थः ।।
प्रागभावनिवृत्तेर्निवृत्तिरिति । घटप्रागभावनिवृत्तिरूपो घटस्तन्निवृत्तिरूपो घटध्वंस इत्यर्थः ।। उन्मज्जनमिति । नष्टस्य पुनरापत्तिरित्यर्थः । अभावाभावे भाववत् घटप्रागभावध्वंसनिवृत्तौ च घटप्रागभावस्यैवापत्तिस्स्यादिति भावः ।। घटवदिति । यथा घटसत्तादशायां घटप्रागभावो नास्ति । घटस्य प्रागभावविरोधित्वात् । एवं घटप्रागभावनिवृत्तेर्निवृत्तिर्नाम घटध्वंस एव तत्सत्तादशायां न प्रागभावापत्तिः । घटध्वंसस्यापि प्रागभावविरोधित्वादित्यर्थः ।। निरवधिक इति । प्रतियोगिकालावधिकपूर्वत्वापरत्वरहिताभावः । तथाच योऽभावः कालत्रयेऽस्ति सोऽत्यन्ताभाव इति निर्गलितोऽर्थः । इममेवार्थमभिप्रेत्य लक्ष्ये उपपादयति ।। सदेति । नित्ये गगनादावतिव्याप्तिपरिहारायाभावपदम् । प्रागभावध्वंसयोरतिव्याप्तिपरिहाराय कालत्रयेऽस्तीत्युक्तमित्यवगन्तव्यम् । शङ्कते ।। अथेति । उत्तरमाह ।। लक्षणस्यापीति । यद्यपि अत्यन्ताभाव इत्युद्देशेऽपि अत्यन्तपदार्थविचारे सत्ययमेवार्थो लभ्यते । कालत्रयार्थकसदाशब्दार्थतात्पर्यकत्वात्तस्यापीत्यविशेष एव । तथापि अविलम्बेन लक्षणोपस्थित्यर्थं तथोक्तमिति ध्येयम् । प्रसिद्धसंज्ञातिक्रमे निमित्तान्तरं वक्तुमाह ।। यच्चान्यैरित्यादिना ।। संसर्गप्रतियोगिकेति । अन्योन्याभावस्य तादात्म्यप्रतियोगिकत्वेन संसर्गप्रतियोगिकत्वाभावात् । प्रागभावप्रध्वंसयोश्चैतन्मते संसर्गाभावत्वाभावेन न कुत्राप्यतिव्याप्तिरिति भावः । तदुदाहरति ।। यथैतद्घटेति । इह भूतले घटो नास्तीत्येवंरूप इत्यर्थः ।। एतदिति । सदाभावपदमित्यर्थः । अत्रापि यद्यप्यत्यन्ताभाव इत्युद्देशेऽपि परमतनिराकरणं लभ्यत एव । अत्यन्तसदाशब्दयोर्विचार्यमाणे एकार्थत्वात् । तथापि स्फुटतया तल्लाभार्थमेतदुक्तमित्यवगन्तव्यम् । कथमनेन तन्निराकरणमित्यत आह ।। तस्येति । सदाभावशब्दस्य निरवधिकाभावार्थकत्वेनैतद्घटैतद्भूतलसंसर्गप्रतियोगिकाभावस्योत्पत्तिविनाशप्रतीतिबलेन प्रतियोगिकालावधिकपूर्वत्वापरत्वराहित्यरूपनिरवधिकत्वाभावेन त्रैकालिकनिषेधरूपसदाभावत्वाभावादित्यर्थः ।।
तर्हीति । इह भूतले घटो नास्तीति प्रतीतिसिद्धस्यैतद्घटैतद्भूतल संसर्गाभावस्योत्पत्तिविनाशशीलत्वेन प्रागभावादित्रितयभिन्नतया तुरीयाभावो भवद्भिरङ्गीकार्यः स्यादित्यर्थः ।। तस्यापीति । एतद्घटैतद्भूतलसंसर्गाभावस्यापीत्यर्थः ।। यथासम्भवमिति । एतद्घटैतद्भूतलसंसर्गस्य भावित्वे प्राक् तदभावः प्रागभावे, तस्यातीतत्वे पश्चात्तदभावो ध्वंसे, कदाप्यसत्त्वनिश्चये तदभावोऽत्यन्ताभावेऽन्तर्भवतीत्यर्थः ।
ननु घटप्रतियोगिक एवायमभावो न संसर्गप्रतियोगिकः । घटस्यैव प्रतियोगित्वेन व्यवहारादिति चेन्न । संसर्गवत् घटस्यापि संसर्गाभावविरोधितया भूतले घटाभाव इति व्यवहारे घटपदे उपचारेण संसर्गस्यैव विवक्षितत्वादिति । न हि घटस्य प्रतिषेध्यस्वरूपत्वरूपं प्रतियोगित्वं सम्भवति । तथाहि । भूतले घटोऽस्तीति प्रतीतौ घटसम्बन्धवद्भूतले घटो नास्तीत्यत्रापि घटसम्बन्धाभावस्य प्रतीतेः । किञ्चेह भूतले घटो नास्तीति बुद्धेर्घटाभावविषयकत्वे न तावदयं घटप्रागभावो ध्वंसो वा प्रतियोगिसमानकालीनत्वादेतस्य । नाप्यत्यन्ताभावः । कदाचित्तत्र घटस्य सत्वात् । संसर्गस्य भूतत्वे ध्वंसः भावित्वे प्रागभावः कदाप्यभावे अत्यन्ताभाव इति न काप्यनुपपत्तिरित्युक्तम् । अत्र कश्चित् घटात्यन्ताभाव एवायं घटकाले त्वसम्बन्धान्न भाति । घटात्यन्ताभावस्य भूतलेन सह सम्बन्धश्च तत्संयोगध्वंस एवेत्याह । तत्तुच्छम् । सम्बन्धान्तरमन्तरेण तदुपाश्लिष्टभावत्वरूपक्लृप्तसम्बन्धत्यागेन संयोगध्वंसस्य सम्बन्धत्वकल्पने आवश्यकसंयोगध्वंसादेरेवैतद्धीविषयत्वोपपत्तेः । अन्यथा घटस्य कपाले अत्यन्ताभाव एव । घटकाले त्वाश्रयाश्रयिभावध्वंसरूपसम्बन्धस्य वा घटसम्बन्धप्रागभावरूपध्वंसस्य वाऽभावान्न प्रतीतिरिति घटात्यन्ताभावः केवलान्वयी स्यादिति । अपरस्तु उत्पत्तिविनाशशीलोऽयमपर एव तुरीयो घटाभावः प्रतीयत इत्याह । तदपि मन्दम् । घटाभावनाशस्य घटस्वरूपतायाः प्रागुक्तत्वेन घटाभावस्य घटसमानकालीनत्वानुपपत्तिः । नाशस्य स्वप्रतियोगिभिन्नकालीनतानियमात् । तदेवं भूतले घटो नास्तीत्यत्र घटतत्सम्बन्धभानेऽपि नास्तीत्यत्र संसर्ग एव निषिध्यते । घटस्य तु तत्काले सत्वेन प्रतियोगित्वासम्भवेऽपि विरोधितासाधर्म्येण मुख्यत एव प्रतियोगिताव्यवहार इत्युक्तमेव युक्तम् । उक्तं चोदयनेनापि । इह भूतले घटो नास्तीत्यत्र संयोग एव निषिध्यते इति । न च वाच्यं घटवत्तत्संयोगस्याप्यन्यत्र सत्त्वेनाप्रतियोगित्वमिति । एतद्भूतलैतद्घटसंसर्गस्य निषेधकाले कुत्राप्यभावादिति संक्षेपः ।।
तत्वसङ्ख्यानटिप्पणम्
घटध्वंसघटप्रागभावयोः पूर्वैकावधिरुत्तरैकावधिरिति लक्षणे प्रागभावप्रतियोगिकध्वंसध्वंसप्रतियोगिकप्रागभावयोरपि प्रसक्तौ तत्प्रवाहौ स्यातामित्याशङ्क्य परिहरति ।। न चैवमिति ।। प्रतियोगिनो घटादेः प्रागभावप्रध्वंसरूपत्वेन स्वध्वंसप्रागभावत्वेन चाङ्गीकृतत्वेन प्रावाहिक्याः परंपराया अप्रसक्तेः ।। तर्हीति ।। यदि प्रतियोगिनः प्रागभावनिवृत्तिरूपत्वं तर्हीत्यर्थः ।। प्रागभावेति ।। घटप्रागभावेत्यर्थः । निवृत्तेः तद्ध्वंसस्य । तस्यैव प्रागभावसामग्रीत्वेन प्रागभावस्य पुनरुन्मज्जनं प्रत्यावृत्तिः स्यादित्यर्थः । कारणसामग्रयां सत्यां कार्यावश्यंभावनैयत्यादित्यनिष्ठापादनमित्यत्र तात्पर्यं ज्ञेयम् । यथा घटस्य प्रागभावकालान्यकालिकत्वेन स्वप्रागभावविरोधित्वं तथा घटप्रध्वंसस्यापि स्वप्रागभावकालान्यकालिकत्वेन तद्वत्प्रागभावविरोधिनि तदुन्मज्जनानापत्तेरित्युत्तरयति ।। घटवदिति ।। यथा घटसत्तादशायां घटप्रागभावो नास्ति । घटस्य प्रागभावविरोधित्वात् । एवं घटप्रागभावनिवृत्तिर्नाम घटप्रागभावध्वंसः । स घट एव । तन्निवृत्तिर्नाम घटध्वंस एव । तत्सत्तादशायां न प्रागभावापत्तिः । घटध्वंसस्यापि प्रागभाव विरोधित्वादित्यर्थ इत्याहुः । अवशिष्टमभावं लक्षयति ।। निरवधिक इति ।। उत्तरैकावधिकप्रागभावपूर्वैकावधिकप्रध्वंसाभावयोरनतिव्याप्त्यै निरवधिक इति ।
निष्क्रान्तोऽवधेरिति निरवधिक इति । अव्याकृताकाशेश्वरादिव्युदासायाभाव इति । न चाकाशादिनिष्ठान्योन्याभावेऽतिव्याप्तिरिति वाच्यम् । धर्मिभिन्नाभावेति विवक्षणात् । तन्निमित्तमुत्तंभयति ।। सदाभावोऽस्तीति कृत्वेति ।। अत्यन्ताभावो निरवधिक इति सम्बन्धः । किं लोकप्रसिद्धात्यन्ताभावसंज्ञां विहाय, विधाय च नामपूर्वं निर्दिदेश देशिकवर इति शङ्कते ।। अत्यन्ताभाव इतीति ।। उत्तरमीरयति ।। लक्षणस्येति ।। लक्षणस्य अत्यन्ताभावलक्षणस्य निरवधिकाभाववत्वस्य । ज्ञापनार्थमित्यर्थः । मतान्तरनिराकरणमपि विलक्षणलक्षणकरणफलमिति परपराकरण प्रकारव्युत्पादनं विनाऽनुवादेन न शक्यज्ञानमिति तदनुवदति ।। यच्चेति ।। उक्तं स्वग्रन्थे प्रतिपादितम् । तदेव प्रतिपादयति ।। संसर्गप्रतियोगिकाभाव इतीति ।। निदर्शयति ।। यथेति ।। एतद्घटस्यैतद्भूतलस्य च यः संसर्गस्तदभावोऽत्यन्ताभाव इति । अतिप्रसङ्गवारणायोभयत्रैतत्पदम् । तदपि तल्लक्षणमपि । एतत् विलक्षणलक्षणकरणम् । निराकरणप्रकारं दर्शयति ।। तस्येति ।। संसर्गप्रतियोगिकाभावस्य । घटोऽत्र नास्तीति प्रतीतिविषयस्य घटैतद्भूतलसंसर्गाभावस्य घटानयनापनयनयोर्नाशजन्मनोः सम्भवेन निरवधिकाभावत्वं नोपपद्यत इत्याशयः । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिकाभाव इति मतं यद्यपि पर्यवस्यति सदातनाभावत्व इति तथापि तत्र प्रामाणिकस्य घटस्य प्रतियोगित्वं प्रतियोग्यवरुद्धो विद्यमानोऽपि न स्फुरत्यभाव इति मन्वते । मन्मते त्वप्रामाणिकस्यैव प्रतियोगित्वं, प्रतियोगिना प्रामाणिकेन यथाऽभावस्य विरोधस्तथा तत्सदृशेनापि विरोध इति न घटवत्यपि घटो नास्तीत्यतिप्रसक्तयापत्तिदोष इत्यावयोर्विशेषः । विशेषस्तु ‘‘निर्दोषाशेषसद्गूण’’मिति तत्वनिर्णयटिप्पण्यादितो ज्ञेयः । तर्हि निरवधिकाभावत्वेनात्यंताभावाङ्गीकारे । उदाहृतः प्रमेयविशेषः संसर्गप्रतियोगिकाभावः । उत्तरमाह ।। तस्यापीति ।। संसर्गप्रतियोगिकाभावस्यापि ।। यथासम्भवमिति ।। प्रागभावादिषु यथासम्भवमन्तर्भावो वाच्यः । यद्भूतलं घटेन न संयुज्यते तत्र घटप्रागभाव इति तत्रान्तर्भावः । यदा वियुज्यते तदा प्रध्वंसे । यद्भूतलं कदापि घटेन न संयुज्यते तत्र संसर्गाभावस्यात्यन्ताभावेऽन्तर्भावो ज्ञेयः ।
भावचन्द्रिका
प्रागभावप्रतियोगिकध्वंसप्रतियोगिकौ ध्वंसप्रागभावौ प्रतियोग्यतिरिक्तौ इति सम्भ्रान्तः चोदयति न चैवमिति । उत्पन्ने प्रतियोगिनि प्रागभावो नास्ति इत्याद्युक्त्या, प्रतियोगिकाले प्रागभावनिवृत्तिरूपः प्रागभावप्रध्वंसः अङ्गीकृतः । तथा घटप्रागभावप्रतियोगिकप्रध्वंसस्यापि कार्यत्वेन, कार्ये प्रागभावप्रतियोगित्वस्य आवश्यकत्वात्, तत्प्रतियोगिकः प्रागभावः स्वीकृतः । पुनः उभयत्रापि एवमेव इति ‘प्रागभावप्रध्वंसः, प्रध्वंसप्रागभावः’ इति प्रवाहौ प्रसज्ज्येते इति न च इत्यर्थः । कुतो न ? इत्यत आह प्रतियोगिन एवेति । अयमाशयः । भवेदेतदेवं यदि प्रागभावप्रध्वंसः घटातिरिक्तः घटसमानकालीनः अङ्गीकृतः, घटध्वंसप्रागभावः घटातिरिक्तः घटसमानकालीनः अङ्गीकृतः । न च एतत् अस्ति । गौरवेण अभावप्रतियोगिक–अभावान्तरानभ्युपगमात् । तथा च नोक्तदोषः इति । तर्हीति । यदि प्रतियोगिनः प्रागभावनिवृत्तिरूपत्वं, तर्हि; इत्यर्थः ।। प्रागभावेति । घटप्रागभाव इत्यर्थः ।। न च इष्टापत्तिः । उत्पन्नस्यापि यथापूर्वं सामग्रीसत्त्वेन पुनः उत्पादप्रसक्तिः इत्यत्र तात्पर्यात् । न प्रागभावस्य उन्मज्जनापत्तिः । यथा हि घटस्य घटाभावान्यकालीनत्वे प्रागभावविरोधित्वम्, तथा घटध्वंसस्यापि घटप्रागभावान्यकालत्वात् घटप्रागभावविरोधित्वेन सति विरोधिनि तदुन्मज्जनानुपपत्तेः इति भावेन परिहरति घटवदिति । यथा घटस्य स्वप्रागभावेन घटसमवायिदेशवर्तिना दैशिकविरोधाभावेऽपि प्रागभावान्यकालरूपः कालिकविरोधः, तथा घटध्वंसस्यापि घटप्रागभावेन घटसमवायिदेशवर्तिना सह दैशिकविरोधाभावेऽपि घटप्रागभावान्यकालत्वरूपकालिकविरोधात्, तस्य स्वसमानकालीनप्रागभावासहत्वमित्याशयः ।
सदाभावं कक्षयति निरवधिक इति । प्रतियोगिकालावधिकपूर्वत्वापरत्वरहितः अभावः इत्यर्थः । प्रागभावस्य सेत्स्यमानप्रतियोग्यवधित्वात् । प्रध्वंसस्य उत्पन्नप्रतियोग्यवधित्वात्, युक्तं सावधित्वम् । अत्यन्ताभावस्य तु अवधिभूतप्रतियोगिन एव असत्त्वात् निरवधिकत्वमित्याशयः । प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्ववानित्यर्थः इत्यपि आहुः ।। तदुपपादयति सदेति । ननु प्राक्, प्रध्वंसः इति प्रसिध्यनुसारेण यथा संज्ञा कृता तथा तदनुसारेण अत्यन्ताभावः इत्येव संज्ञा कार्या । न च तत्त्वविवेकानुसारेण इयं संज्ञा इति वाच्यम् । तथा सति तदनुसारेण ‘पूर्वअपर’ इति प्रागभावादौ अपि तदापातात्, अविशेषात् । क्वचित् तत्त्वविवेकानुसरणस्य क्वचित् प्रसिध्यनुसरणस्य च अयुक्तत्वात् इत्याशङ्कते अथेति ।।
उत्तरमाह लक्षणस्यापीति ।। लक्षणस्यापि निरवधिकसदाभावत्वापरपर्यायस्य अप्रामाणिकप्रतियोगिकअभावत्वरूपलक्षणस्य इत्यर्थः ।। यद्यपि ‘अत्यन्ताभावः’ इति उद्देशेऽपि अत्यन्तपदार्थविवेकतात्पर्यतः सः अर्थः लभ्यते एव इति अविशेषः तथापि अविलम्बेन लक्षणोपस्थित्यर्थं तथा उक्तमिति ध्येयम् । यद्वा एतदस्वरसादेव संज्ञान्तरकरणस्य प्रयोजनान्तरमाह यच्चेति । यद्यपि अत्र परमतनिराकरणं तथा उद्देशे लभ्यते एव, तथापि स्फुटतया न लभ्यते इत्याशयः ।। यथेति । घटवति भूतले घटापसरणानन्तरं ‘इहभूतले अयं घटो नास्ति’ इति प्रतीत्या एतद्भूतले एतद्घटसंसर्गस्य अभावः एव विषयीक्रियते इति वाच्यम् । अन्यथा ‘इह भूतले’ इति अधिकरणसप्तमी न स्यात् । किञ्च न तावदयं तद्घटान्योन्याभावः । तादात्म्यानुल्लेखात् । न च तद्घटप्रागभावप्रध्वंसौ । प्रतियोगिसमानकालीनत्वात् । नापि सदातनस्थः तदत्यन्ताभावः । प्रतियोगिसमानदेशत्वात् । पुनस्तत्र घटाऽऽनयनेऽपि तस्य सत्वेन प्रतीतिप्रसङ्गाच्च । न हि तदा सः अन्यत्र गतः अमूर्तत्वात् । नापि नष्टः नित्यत्वात् । अथ सन्नपि प्रत्यासत्तिविरहात् न गृह्यते । एवं ‘समयविशेषसंसर्गिणा घटस्य संसर्गाभावेन उपपत्तौ न संसर्गप्रतियोगिकसदातनाभावकल्पनम्’ इति चेत् न, तथा सति प्रागभावप्रध्वंसयोः उच्छेदप्रसङ्गात् । पूर्वोत्तरसमयसंसर्गिणा तदत्यन्ताभावेनैव ‘भविष्यति, विनष्टः’ इति प्रतीत्योः उपपत्तेः । न च ‘उत्पादविनाशशीलः तुरीयः एव अयमभावः’ इति वाच्यम् । तादृशाभावकल्पने मानाभावात् । न च ‘एवं घटात्यन्ताभावः क्वचिदपि न सिध्येत्, इति वाच्यम् । दृष्टत्वात् । अत एव ‘संसर्गोऽत्र निषिध्द्यते’ इति संसर्गनिषिद्धत्वप्रतिपादकउदयनवचनं च उपपन्नमित्याशयः ।
एतदिति । संज्ञान्तरकरणम् । ‘सदाऽभावः’ इति संज्ञान्तरकरणस्यैव तन्मतनिराकरणं प्रयोजनमित्यर्थः । तथा च ‘ससंर्गप्रतियोगिकाभावोऽत्यन्ताभावः’ इति अनुपपन्नमित्याशयः ।। तत् कथम् ? इत्यत आह तस्येति । संसर्गाभावस्य निरवधिकत्वाभावात् । अत्यन्ताभावस्य तु उक्तरीत्या निरवधिकत्वसिद्धेः न संसर्गाभावः अत्यन्ताभावः इत्यर्थः ।
तर्हि संसर्गाभावविशेषात्यन्ताभावस्य भवदभ्युपेतअभावत्रिकान्तर्भा वासम्भवात्, तम् आदाय चातुर्विध्यप्रसङ्गः इत्याशङ्कते तर्हीति ।
कुतो न ? इत्यत आह तस्यापीति । अत्यन्ताभावत्वेन अभिमतस्य संसर्गाभावस्य इत्यर्थः । यथासम्भवमिति । यदि एतद्भूतले एतद्घटसंसर्गः उत्तरत्र भावी, तत्र ‘नास्ति’ इति प्रतीतेः संयोगप्रागभावो विषयः । यदि पूर्वं जातः तदा तद्ध्वंसः । यदि च कदाऽपि न तदा अत्यन्ताभावः इति यथासम्भवमित्यर्थः ।
काशी टिप्पणी
प्रागभावप्रध्वंसयोरतिरिक्तत्वेऽनवस्थामाशङ्क्य निराचष्टे ।। न चेति ।। एवं ध्वंसप्रागभावयोः पूवोत्तरावधिसत्वे ।। प्रवाहाविति ।। घटादेर्यः प्रागभावस्तस्य प्रध्वंसस्तस्य प्रागभाव इत्येकः । घटादेर्यः प्रध्वंसस्तस्य प्रागभावस्तस्य प्रध्वंस इत्यपरश्च प्रवाहः प्रसज्यत इत्यर्थः ।। प्रतियोगिन एवेति ।। घटस्यैव घटप्रागभावध्वंसरूपत्वात् घटध्वंसप्रागभावरूपत्वाच्च नानवस्थेति भावः । शङ्कते ।। तर्हीति ।। घटस्यैव घटप्रागभावध्वंसरूपत्व इत्यर्थः ।। प्रागभावोन्मज्जनप्रसङ्ग इति ।। नष्टस्य पुनरुत्थानं स्यादित्यर्थः । तद्विरोध्यनधिकरणकालस्य तदधिकरणत्वनियमात् । घटध्वंसकालस्य घटप्रागभावविरोधिघटात्मकध्वंसानधिकरणत्वादिति भावः । इदमुपलक्षणम् । घटध्वंसविरोधिघटात्मकप्रागभावानधिकरणे घटप्रागभावकाले घटध्वंससत्त्वप्रसङ्ग इत्यपि बोध्यम् ।। प्रध्वंसस्यापि तद्विरोधित्वादिति ।। घटध्वंसस्यापि घटप्रागभावविरोधित्वादित्यर्थः । एवं च घटप्रागभावस्य घटध्वंसविरोधित्वमपि सिद्धमेवेति नोक्तदोष इति भावः । न चैवमपि घटध्वंसकाले घटप्रागभावो नास्तीति प्रतीतिर्न स्यात् । घटप्रागभावध्वंसरूपविषयाभावादिति वाच्यम् । घटध्वंसस्यैव तदभावत्वेन तद्विषयत्वात् । न चैवं घटध्वंससमये घटप्रागभावो ध्वस्त इति प्रतीत्यापत्तिरिति वाच्यम् । प्रतियोगिन एव ध्वंसत्वेन प्रागभावप्रतियोगिकत्वाभ्युपगमात् ।। निरवधिकोऽभाव इति ।। अवधित्वानिरूपकत्वे सत्यभावत्वमत्यन्ताभावत्वमित्यर्थः । ध्वंसादेर्गगनादेश्च वारणाय सत्यन्तविशेष्ययोर्निवेशः । अथवोत्तरैकावधिरित्यादेः ध्वंसप्रतियोग्यभावत्वं प्रागभावाप्रतियोगित्वे सति अभावप्रतियोग्यभावत्वं वा प्रागभावत्वम् । प्रागभावप्रतियोग्यभावत्वं ध्वंसाप्रतियोगित्वे सति अभावप्रतियोग्यभावत्वं वा ध्वंसत्वम् । अभावाप्रतियोग्यभावत्वमत्यन्ताभावत्वमित्यर्थः । नन्वाद्ययोः प्रागभावध्वंसलक्षणयोः प्रध्वंसत्वप्रागभावत्वप्रवेशादन्योन्याश्रयः । द्वितीययोश्चात्माश्रयः । एवमत्यन्ताभावत्वे अप्रतियोगित्वं प्रतियोगित्वात्यन्ताभाव इत्यात्माश्रय इति चेदुच्यते । ध्वस्त इत्याद्यनुगतप्रतीतिनियामकं हि ध्वंसत्वादिकमखण्डोपाधिः । अन्यथा घटादेर्भावस्य ध्वंसत्वद्यानुपपत्त्या घटप्रागभावो ध्वस्त इत्यादिप्रतीत्यनुपपत्तेः । उक्तं च विजयीन्द्रतीर्थैः प्रागभावत्वादिकमखण्डोपाधिरिति ।। एवं च तादृशध्वंसत्वादेरेव निरुक्तप्रागभावादिलक्षणघटकत्वान्नोक्तदोषः । एवं नास्तीत्यनुगतप्रतीतिनियामकं यत्प्रागभावादित्रयसाधारणमभावत्वं तदेवात्यन्ताभावत्वघटकमिति न कश्चिद्दोषः । अधिकमन्यत्रानुसन्धेयम् ।
केचित्तु उत्तरैकावधिरित्यस्य प्रतियोग्युत्तरकालनिष्ठाभावप्रतियोगित्वे सति स्वप्रतियोगिप्राक्कालवृत्तित्वे च सत्यभावत्वमित्यर्थः । ध्वंसादिवारणाय सत्यन्तद्वयम् । तत्र प्रथमसत्यन्ताभावे घटादिध्वंसस्य स्वात्मकभेदप्रतियोगिभविष्यद्वस्तुप्राक्कालवृत्तित्त्वादतिव्याप्तिः । द्वितीयसत्यन्ताभावेऽपि स्वात्मकभेदप्रतियोग्यतीतवस्तूत्तरकिञ्चित्कालनिष्ठाभावप्रतियोगित्वात्तत्रैवातिव्याप्तिः। न चैवमुक्तरीत्या भूतभाविप्रतियोगिद्वयमादाय सत्यन्तद्वयस्य सत्वादुक्तातिव्याप्तिस्तदवस्थैवेति वाच्यम् । स्वस्य यत्प्रतियोग्युत्तरकालनिष्ठाभावप्रतियोगित्वं तत्प्रतियोगिप्राक्कालवृत्तित्वस्य विवक्षितत्वात् । न च स्वस्य यत्कालनिष्ठाभावप्रतियेगित्वं तत्प्राक्कालवृत्तित्वस्यैव प्रागभावलक्षणत्वं सम्भवतीति वाच्यम् । यथासन्निवेशेनास्य लक्षणान्तरत्वात् । घटादिप्राक्कालवारणायाभावत्वप्रवेशः । एवं पूर्वैकावधिरित्यस्य स्वप्रतियोगिप्राक्कालनिष्ठाभावप्रतियोगित्वे सति स्वप्रतियोग्युत्तरकालवृत्तित्वे च सत्यभावत्वमित्यर्थः । प्रागभाववारणाय सत्यन्तद्वयम् । तत्र प्रथमसत्यन्ताभावे घटप्रागभावस्य स्वात्मकभेदप्रतियोग्यतीतवस्तूत्तरकालवृत्तित्वादतिव्याप्तिः । द्वितीयसत्यन्ताभावेऽपि स्वात्मकभेदप्रतियोगिभविष्यद्वस्तुप्राक्कालनिष्ठाभावप्रतियोगित्वात्तत्रैवातिव्याप्तिः । अत्रापि स्वस्य यत्प्रतियोगिप्राक्कालनिष्ठाभावप्रतियोगित्वं तत्प्रतियोग्युत्तरकालवृत्तित्वं विवक्षणीयम् । तेन न पूर्ववद्दोषः । घटाद्युत्तरकालवारणायाभावत्वप्रवेशः । एवं निरवधिक इत्यस्य प्रतियोग्यवधिकपूर्वत्वोत्तरत्वरहिताभावत्वमित्यर्थः । प्रागभावप्रध्वंसयोर्वारणाय रहितान्तम् । नित्यसादृश्यादिवारणायाभावत्वनिवेशः । अत्यन्ताभावस्य च प्रतियोग्यसत्त्वेन सदातनत्वाल्लक्षणसमन्वय इत्याहुः ।
स्वानधिकरणकालपूर्ववृत्त्यभावत्वं प्रागभावत्वम् । स्वानधिकरणकालोत्तरवृत्त्यभावत्वं ध्वंसत्वम् । सर्वकालवृत्यभावत्वमत्यन्ताभावत्वमित्यप्याहुः ।
सदाऽऽभाव इत्यपूर्वसंज्ञाकरणे कारणं पृच्छति ।। अथेति ।। यद्यपि सदाऽऽभाव इति मूले नास्ति तथापि प्राक्कालादिना विशेषितोऽभाव इत्यर्थानुवादात्प्रागभावादि...... लक्षणस्येति ।। नन्वत्यन्ताभाव इत्युद्देशेऽप्यत्यन्तपदेन सदातनत्वविवक्षायामुक्तलक्षणं लभ्यत एवेत्याशङ्कानिरासार्थमुद्देशेनैवेत्युक्तम् ।। व्याख्यानादिनिरपेक्षोद्देशेनेत्यर्थः । अत्यन्तपदमनेकार्थत्वान्नोक्तोद्देशेनैव लक्षणप्रत्यायकमिति भावः ।
मतान्तरनिराकरणमप्युक्तसंज्ञाकरणप्रयोजनमिति वक्तुं मतान्तरमनुवदति ।। यच्चेति ।। स्वरूपमिति ।। सर्वात्यन्ताभावसाधारणरूपमित्यर्थः । लक्षणं तु निरवधिकाभावत्वमेव । तेन संसर्गध्वंसप्रागभावयोर्नातिव्याप्तिः ।। एतद्धटेति ।। यद्भूतले यद्घटस्य यदा कदाचित्संयोगोऽस्ति तत्रापि तद्घटो नास्तीति प्रतीतिविषयस्तद्घटससर्गाभावोऽप्यत्यन्ताभाव एवेत्यर्थः । न च घट एवास्तु तत्प्रतियोगी । संयोगेन घटात्यन्ताभावस्य घटसंयोगप्रतियोगिकत्वावश्यम्भावात् । अभावप्रतियोगितायाः प्रतियोगितावच्छेदकान्तर्भावेन पर्याप्त्यङ्गीकारात् ।। तस्येति ।। उक्ताभावस्येत्यर्थः । निरवधिकत्वाभावाद्धेतोर्निराकर्तुमेतत्संज्ञाकरणमिति सम्बन्धः । उक्ताभावस्य घटभूतलसंसर्गकालावधिकत्वादिति भावः ।
ननु निरवधिक एवायमभावः । न चैवं भूतले घटसत्त्वेऽपि घटो नास्तीति प्रतीतिप्रसङ्ग इति वाच्यम् । तदानीमभावसत्त्वेऽपि तत्सम्बन्धाभावात् । तत्कालान्यकालविशिष्टविशेषणताया एतत्सम्बन्धत्वात् । अन्यथा तत्रोत्पादविनाशशाल्यभावान्तरकल्पनापत्त्या अभावत्रैविध्यभङ्गादित्याशयेन शङ्कते ।। तर्हीति ।। उदाहृतः भूतभाविघटसंसर्गवति भूतले घटो नास्तीति प्रतीतिसिद्धाभावः ।। चतुर्थः स्यादिति ।। पूर्वोत्तरावधिमत्वेन प्रागभावादित्रयानन्तर्भावादिति भावः । यथासम्भवमिति ।। अत्र घटो नास्तीति प्रतीतौ यदि भावी घटसंसर्गः प्रतियोगितया भासते तदा तत्प्रागभावो विषयः । यदि भूतस्तदा तद्ध्वंसः । यदि तु वर्तमानस्तदा तदत्यन्ताभाव एव भासते । तत्र वर्तमानकाले घटसंसर्गासत्वादिति भावः । न च घटो नास्तीति साक्षाद्घटस्यैव प्रतियोगितया भानात्तस्य च देशान्तरे वर्तमानत्वान्न प्रागभावादेर्विषयत्वसम्भव इति वाच्यम् । घटसंसर्गप्रागभावादेरपि घटप्रतियोगिकत्वाभ्युपगमात् । न चैवमत्र घटप्रागभावोऽस्तीत्यादिप्रतीत्यापत्तिः। प्रागभावत्वादिना घटप्रतियोगिकत्वानभ्युपगमात् ।
स्यादेतत्, कदापि घटसंसर्गशून्ये घटो नास्तीति प्रतीयमानस्तावन्न प्रागभावादिः । ध्वंसप्रागभावयोः प्रतियोगिसमानदेशत्वनियमात् । नाप्यन्त्यन्ताभावः । तस्यासन्मात्रप्रतियोगिकत्वात् । घटादेश्च सत्त्वादिति चेदत्राहुः । तत्र घटो नास्तीत्यादौ तद्देशघटसंसर्ग एव प्रतियोगितया भासते । तस्य चासत्वात्तत्प्रतियोगिकात्यन्ताभाव एव तत्र विषय इति । यदि तु घट एव तद्देशनिष्ठात्यन्ताभावप्रतियोगितया भासते तथापि तद्देशारोपित एव तथा । न चैवं घटवत्यपि घटो नास्तीति प्रतीत्यापत्तिः । प्रतियोगिनोऽसत्त्वादिति वाच्यम् । प्रतियोगिनेव प्रतियोग्यारोपप्रधानेनाप्यभावस्य विरोधात् । घटवति च प्रतियोग्यसत्त्वेऽपि प्रधानभूतघटस्यैव सत्वात् । प्रधानत्वादेव च तस्यापि प्रतियोगित्वव्यवहार इति दिक् ।