एतेन भाविपाकरागः कुम्भः श्यामतादशायां रक्तपित्तिना ..

तत्वसामान्यलक्षणस्य खण्डनोक्तातिव्याप्तिनिरासः

टीका

एतेन भाविपाकरागः कुम्भः श्यामतादशायां रक्तपित्तिना रक्ततयोपलभ्यमानस्तत्वं स्यादित्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्यातथात्वात् (पूर्वस्य तथात्वाभावात्) । धर्मिणस्तत्वभावाङ्गीकारादिति ।

भाववर्णनम्

नन्वत्यन्तासद्रजतं न प्रतीयेत; तत्सामग्रीविरहादिति चेन्न । विशेषादर्शन भेदाग्रहशुक्तीन्द्रियसन्निकर्षादिरूपायाः दोषघटितायाः सामग्य्राः सत्वात् । न च रजतसाक्षात्कारत्वेन रजतेन्द्रियसंयोगत्वेन कार्यकारणभावावधारणात्प्रकृते च रजतसंयोगाभावात्कथं रजतसाक्षात्कारस्स्यादिति वाच्यम् । रजतजन्य एव साक्षात्कारे रजतेन्द्रियसंयोगस्य कारणत्वात् । प्रकृते च तदभावात् । अन्यथा अन्यथाख्यातिवादेप्यगतेः । तर्ह्यन्यथाख्यातिरेवास्तु, अविशेषादिति चेन्न । उक्तविशेषसामग्रीबलेन प्रमाणसिद्धरजतविलक्षणरजतस्यैव भ्रमविषयतया आवश्यकत्वेनान्यथाख्यातिवादस्य विशेषात् । अत एव ‘एतावन्तं कालं शुक्तिरेवात्यन्तासद्रजतात्मना प्रत्यभात्’ इत्युत्तरकालपरामर्शोऽप्युपपद्यते ।

तथात्वाभावात् तत्रावच्छेदेन सर्वांशप्रमाविषयत्वाभावात् ।

तत्वसङ्ख्यानटीकाभावदीपः

अन्यदपि खण्डनोक्तं निराह ।। एतेनेति ।। अत्यन्तासत एव भ्रान्तौ भानाभ्युपगमेनेत्यर्थः ।। तत्वं स्यादिति ।। तत्र रागसम्बन्धस्य सत्त्वादिति भावः ।। अतथात्वादिति ।। अत्यन्तासत्त्वेन तस्य प्रमाविषयत्वाभावादिति भावः । धर्मी घटोऽप्यप्रमेयः किं ? इति । अत आह ।। धर्मिण इति ।।

तत्वसङ्ख्यानटीकाटिप्पणी

कुत इत्यत आह– धर्मिण इति ।। तथा रक्तत्वेन । तथा च रक्तत्वस्यात्यन्तासत्त्वान्न प्रमेयत्वमिति भावः । धर्मिणस्तत्वभावाङ्गीकारादिति पाठो न स्वरस इव ।

तत्वसङ्ख्यानविवरणम्

रक्तपित्तिर्नाम कश्चिन्नेत्रदोषः । तेनेत्यर्थः ।। तत्त्वं स्यादिति । रक्तत्वप्रकारकप्रमितिविषयत्वादित्यर्थः । कथं प्रमितिविषयत्वमित्यतः तदुपपादनार्थमुक्तं भाविपाकराग इति । पाकस्तेजस्संयोगः । तथा च भावीयः पाकः तेन रागो रक्तरूपवानित्यर्थः । तथा च पाकेन रक्ततायाः उत्तरत्र जनिष्यमाणत्वेन सत्यत्वादिति भावः । भाविनः भाविपाकरागस्य कुम्भस्य । पूर्वस्य श्यामतादशायां रक्ततयोपलभ्यमानस्य । अतथात्वात् प्रमित्यविषयत्वात् । कुत इत्यत आह ।। धर्मिणस्तथाभावादिति । अत्राकारप्रश्लेषः कार्यः । तथाच रक्तत्वेनाभावादित्यर्थः । तथा च श्यामतादशायां रक्तत्वस्यात्यन्तासत्त्वान्न प्रमेयत्वमिति भावः । यद्वा श्यामतादशायां रक्तः कुम्भ इति ज्ञानस्यापि धर्म्यंशे प्रमात्वात्तदंशे प्रमाविषयत्वमस्तीत्यतिव्याप्तिरेवेति चेत्तत्राह ।। धर्मिण इति । अत्र अकारप्रश्लेषो न कार्यः । तथाभावात् । तत्वरूपतासद्भावादित्यर्थः । तथा च लक्ष्यत्वान्न तत्रातिव्याप्तिरिति भावः । अत एव क्वचिद्धर्मिणस्तत्वभावाङ्गीकारादित्यपि पाठः ।

तत्वसङ्ख्यानटिप्पणम्

कालासम्बन्धिन एवारोपितत्वाङ्गीकारेण यद्यथाभूतं प्रतीयते तत्तथा सदिति तत्वलक्षणान्तरं दूषयता खण्डनकारेण भावीत्यादिनाऽऽरोप्यमाणरक्तरूपस्य यत्कालान्तरे सत्वमङ्गीकृतं तदपि निरस्तमित्याशयेनातिदिशति । एतेनेति ।। भावी योऽयं पाकस्तेजस्संयोगलक्षणः तेन रागो रक्तिमा यस्य स भाविपाकरागो घटः श्यामतादशायां रक्तपित्तिना तन्नामकनयनपाटवापनयनपटुना दोषविशेषेण रक्ततयोपलभ्यमानः तत्वं स्यात् । यथाभूतं प्रतीयत इत्याद्युक्तेरिति भावः । एतेनेत्युक्तं विशदयति ।। भाविन इति ।। भाविनो रक्तरूपस्य प्रमेयत्वेऽपि पूर्वस्य श्यामतादशायां प्रतीतस्य । तथाभावाभावात् सत्यत्वाभावात् । न हि कालान्तरभाविन्याः सत्ताया इदानीमुपयोगोऽस्ति । अतिप्रसङ्गादिति भावः ।

किमत्र रागस्य तत्वताऽऽपाद्यत उताधिष्ठानस्य कुम्भस्य । आद्येऽपि किमारोपितस्योत भाविनः । नाद्यः । तस्यात्यन्तासत्त्वेन तत्वताऽयोगात् । द्वितीयस्त्वभ्युपगमवादपराहतः । तृतीयोऽपि तथैवेति भावेनाह ।। धर्मिण इति ।। धर्मिणः कुम्भस्य । तत्वभावस्तत्वत्वं तस्याङ्गीकारादित्यर्थः । नयनदोषापगमानन्तरं नायं रक्त इतिवन्नायं कुम्भ इति कदापि बाधबोधोदयाभावादिति भावः । धर्मिणस्तथाभावादित्यपि पाठोऽस्ति पुस्तके क्वचित् । तथाभावात् तथात्वात् । सत्यत्वादिति तदर्थः । इतिशब्दस्तत्वलक्षणस्यातिव्याप्तिशङ्कानिराससमाप्तौ ।

भावचन्द्रिका

यच्च यत् यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वम् इति प्रमाणलक्षणं खण्डयता श्रीहर्षेण उक्तम् भाविपाकरागः कुम्भः इत्यादि; तन्निराकरोति एतेनेति । परामृष्टं दर्शयति भाविन इति ।। पूर्वस्येति । पूर्वप्रतीतस्य इत्यर्थः ।

किमत्र रागस्य तत्त्वभावः आपद्येत ? धर्मिणः कुम्भस्य वा ? आद्येऽपि भाविनो वा ? पूर्वमारोपितस्य वा ? नाद्यः । तस्य इष्टत्वात् । न द्वितीयः । पूर्वारोपविषयस्य अत्यन्तासत्त्वाभ्युपगमेन तत्त्वरूपत्वापादकाभावात् ।

नान्त्यः । धर्मिणः सर्वैरपि सत्त्वाङ्गीकारेण तत्त्वभावापादकाभावात् । न हि धर्मिणः सत्यतायां कस्यापि विमतिः इति भावः ।।

यत्तु केनचित् उक्तम् धर्मिणस्तत्त्वभावाङ्गीकारात् इति पाठो न स्वरसः इति । तन्न । उक्तरीत्या धर्मिणः सत्यत्वाङ्गीकारेण तत्त्वभावापादकभावार्थत्वे स्वारस्यस्य व्युत्पादितत्वात् । अस्वारस्यबीजानुपन्यासाच्च । धर्मिणः तत्त्वभावाङ्गीकारात् इति तु पक्षान्तरनिरासकतया स्फुटप्रतीयमानस्य कुतः इत्याशङ्कानिवर्तकत्वेन हेतूक्तिपरतया व्याख्यानस्य अनुचितत्वाच्च । तद्धर्मिणस्तत्त्वभावाङ्गीकारात् इति पाठे धर्मिणस्तत्त्वरूपत्वाङ्गीकारात् इति अस्मद्रीत्यैव व्याख्यानोपपत्तौ आकारप्रश्लेषेण तदवस्थायां रक्तत्वस्य अत्यन्तासत्त्वात् न प्रमेयम् इति व्याख्यानस्य अनुचितत्वात् । इत्यास्तां तावत् ।।

काशी टिप्पणी

यत्तूक्तातिव्याप्तिवारणाय यत् यथाभूतं प्रतीतं तत् तथाभूतं तत्वं इति विवक्षणीयम् । न च इदं रजतं इति प्रतीताविदन्त्वेन भातस्येदन्त्ववत्वादतिव्याप्तिरिति शङ्क्यम् । येन रूपेण यत् प्रतीयते तद्रूपविशिष्टं तत् तेन रूपेण प्रमेयं इत्यङ्गीकारात् । शुक्तेरिदन्त्वेन प्रमेयत्वेऽपि रजतत्वेनाप्रमेयत्वादित्याशङ्क्य खण्डनकृतोक्तं रक्तपित्तवता रक्तत्वेन प्रतीतश्यामघटोऽपि तत्वं स्यात् । तस्योत्तरकाले रक्तत्ववत्वात् । न च प्रतीतिकाले यद्यथाभूतमिति विवक्षितम् । भाविरागोऽयं इति प्रतीतोऽप्यतत्वं स्यादिति । तदपि निरस्तमित्याह ।। एतेनेति ।। अत्यन्तासत एवारोप्यस्याङ्गीकारेणेत्यर्थः । कथमेतावतैवोक्तनिरासः ? इति । अत आह ।। भाविन इति ।। अयं भावः, किमस्मन्मते कुम्भस्य तत्वत्वमापाद्यते ? किं वा रक्तत्वस्य ? अन्त्येऽपि किं भाविनः ? उत पूर्वप्रतीतस्य ? आद्ययोरिष्टापत्तिः । अन्त्यस्य चात्यन्तासत्वादापादकाभाव इति ।