नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः

दुःखास्पृष्टस्पृष्टदुःखचेतनयोः क्रमेणोद्देशः

टीका

यद्यप्यनयोर्दुःखास्पृष्टं चेतनं प्रधानं तथाप्यभावस्य भावनिरूप्यत्वात् दुःखस्पृष्टस्य प्रथममुद्देशः । तथापि प्राधान्यक्रमस्य मुख्यत्वात्तदनुसारेण द्वे अपि निर्दिशति ।। नित्यादुखेति ।।

तत्वसङ्ख्यानम्

नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखाः समस्तशः ।। ३ ।।

अन्ये चेतनाः । एके तु व्यष्टिसमष्टिभेदेन जीवान्परिकल्प्य गरुडानन्त विष्वक्सेनादीन्समष्टिजीवानपि नित्यादुःखानाचक्षते । तन्निरासाय समस्तश इत्युक्तम् । अत्र चाऽगमानां प्रामाण्यम् । अत एव दुःखास्पृष्टे प्रभेदाभावाद्दुःखस्पृष्टापेक्षयैव धाप्रत्ययः पूर्वोक्तो ज्ञातव्यः ।

भाववर्णनम्

आगमानामिति ।। ‘दुःखासम्पीडनत्वात् मध्यमो वायुरुच्यते । दुःखस्य योगतो भोगात् रुद्रवीन्द्रादयोऽधमाः ।।’ इति मूलभूतागमानामित्यर्थः ।

तत्वसङ्ख्यानटीकाभावदीपः

।। अत्र चेति ।।  श्रीश्रीपतिभ्यामन्ये जीवाः स्पृष्टदुःखा इत्यत्र ‘अतोऽन्यदार्तं, जीवा एव तु दुःखिनः’ इत्याद्यागमानां प्रामाण्यं ध्येयमित्यर्थः । अत एवेत्यस्य विवरणं दुःखास्पृष्टे प्रभेदाभावादिति । सर्वस्य स्पृष्टदुःखत्वादेवेति वा अर्थः । ‘सङ्ख्याया विधार्थे धा’ इत्युक्तधाप्रत्ययस्य दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनमित्यत्रोक्तेरिति भावः ।

तत्वसङ्ख्यानटीकाटिप्पणी

तथापीति ।। नचैव प्राधान्यक्रमस्य मुख्यत्वे प्रथममुद्देशस्तथा कुतो न कृत इति वाच्यम् । प्रतियोगिज्ञानं विना प्रथमं दुःखास्पृष्टस्य ज्ञातुमशक्यत्वात् । न चैवं निर्देशोऽपि तथैव स्यादिति वाच्यम् । उद्देशेनोभयोर्ज्ञाने निर्देशे प्राधान्यक्रमस्यैवादर्तुमुचितत्वादिति भावः । व्यष्टिसमष्टिभेदेनेति ।। व्यष्टयो मुक्ताः । समष्टयस्संसारिण इत्याहुः ।

तत्वसङ्ख्यानविवरणम्

अनयोर्दुःखस्पृष्टतदस्पृष्टयोर्मध्ये ।। प्रधानमिति । तथा च तदेव प्रथममुद्देष्टव्यमिति भावः । तर्हि उद्देशानुसारेणैव निर्देशोऽपि कस्मादादौ न क्रियते इत्यत आह ।। तथापि प्राधान्यक्रमस्येति । नन्वेवं प्राधान्यक्रमस्य मुख्यत्वादेव प्रथममुद्देशोऽपि तथैव कस्मान्न कृत इति चेन्न । प्रतियोगिज्ञानं विना प्रथमं दुःखास्पृष्टस्य ज्ञातुमशक्यत्वात् । न चैवं निर्देशोऽपि तथैव स्यादिति वाच्यम् । उद्देशेनोभयोर्ज्ञाने निर्देशे प्राधान्यक्रमस्यादर्तुमुचितत्वादिति भावः ।। द्वे चेतने ।। निर्दिशतीति । शृङ्गिग्राहकया दर्शयतीत्यर्थः । चेतना रमाव्यतिरिक्ताः । एके रामानुजाः ।। व्यष्टिसमष्टिभेदेनेति । व्यष्टयो मुक्ताः । समष्टयः संसारिणः । अनन्तः शेषः ।। अत्र चेति । श्रीश्रीपतिभ्यामन्ये जीवा दुःखस्पृष्टा इत्यत्र ‘‘जीवा एव तु दुःखिन’’ इत्याद्यागमानां प्रामाण्यमिति राघवेन्द्रीये । समष्टिजीवत्वेन परपरिकल्पितानामपि गरुडादीनां दुःखस्पृष्टत्व इत्यर्थः ।। आगमानामिति । ते च अन्यत्र द्रष्टव्याः । ननु दुःखस्पृष्टं तदस्पृष्टमिति द्विधैव चेतनमिति धाप्रत्ययेन चेतनस्य प्रकारद्वयवत्त्वमुक्तम् । दुःखस्पृष्टतदस्पृष्टयोः प्रकारत्वं च तदाश्रयप्रकारिरूपव्यक्तिबाहुल्यं विना न युक्तम् । प्रकारत्वस्य स्वाश्रयव्यक्तिभेदं विनानुपपत्तेः । तथा च दुःखास्पृष्टस्यापि भेदवत्त्वं प्राप्तमत आह ।। अत एवेति । तदेव विवृणोति ।। दुःखास्पृष्ट इति ।।

तत्वसङ्ख्यानटिप्पणम्

ननु पूर्वमनुपदमेवोदितप्राधान्येन दुःखास्पृष्टं तत्स्पृष्टमित्येव विभागो न्याय्यः । प्राधान्यं बहुविधं श्रेष्ठत्वरूपं अभावप्रतियोगित्वेन तन्निरूपकतारूपं, उपजीव्यत्वरूपमित्यादि । तन्मध्ये श्रेष्ठत्वं मुख्यम् । तथैवोत्तरग्रन्थात् । एवं च ‘‘दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतन’’मित्यत्र दुःखास्पृष्टचेतनस्य रमारूपस्य श्रेष्ठत्वात्तस्यैवादौ निर्देशः कार्यः । तत्कथं दुःखस्पृष्टस्य प्रथमं निर्देश इत्याशङ्कते ।। यद्यपीति ।। प्रधानं श्रेष्ठरूपम् । भावनिरूप्यत्वात् तज्ज्ञानाधीनज्ञानत्वादित्यर्थः । एतदेवात्राचार्याणां प्राधान्यं विवक्षितमित्याशयः । अत एव टीकायां पूर्वं ‘‘अभावप्रतीतिर्भावप्रतीत्यधीना नियमेनेति प्राधान्या’’दित्याद्युक्तम् । ननु तथापि तत्क्रमेणैवशृृङ्गिग्राहकया निर्देष्टव्यम् । तत्कथं वैपरीत्यमित्यत आह ।। तथापीति ।। प्राधान्यक्रमस्य श्रेष्ठत्वरूपप्राधान्यक्रमस्य । समस्तश इत्यस्य कृत्यं वक्तुं दूषणसौकर्याय रामानुजमतमनुवदति ।। एके त्विति ।। व्यष्टयः मुक्ताः । समष्टयः संसारिणः । न हि समस्तश इत्युक्तिमात्रं दूषणमित्यत आह ।। अत्र चेति ।। अत्र च । संकर्षणादीनां नित्यादुःखत्वाभावे, दुःखस्पृष्टत्वे चेत्यर्थः । आगमेत्यादि सामान्योक्तौ आगमस्यागमयोरागमानामिति च संभवविग्रहकत्वेन तावन्मात्रप्रतीतिः स्यात् । अतः सा मा हि भूदित्येतदर्थं समासतोऽनुक्त्वाऽऽगमानां प्रामाण्यमिति व्यासेन निर्दिदेश । रमेतरविधिशेषाद्यशेषस्य दुःखस्पृष्टत्वे

निर्दुःखो हि हरिर्नित्यं श्रीश्चान्ये दुःखभोगिनः ।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

ब्रह्मा शिवः सुरेशाद्याः शरीरक्षरणात्क्षराः ।

लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ।

ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः ।

सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः ।

या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम् ।

नित्यादुःखा रमा स्त्रीषु पुरुषेषु हरिस्तथा ।

तदन्यच्चेतनं सर्वं दुःखस्पृष्टं नराधिप ।।

इति पद्मपुराणगीताश्रुतिस्कान्दपुराणगतभिन्नप्रकरणगतवाक्यद्वयं चेति क्रमादागमानां प्रामाण्यं प्रमाणत्वम् । एतद्रूपप्रमाणान्येतदर्थावेदकानि वर्तन्त इति यावत् ।

दुःखस्पृष्टचेतनस्यावान्तरप्रभेदवत्वे, दुःखास्पृष्टस्य च निर्भेदत्वे बाधकाभावेन ‘‘दुःखसंस्था इति द्विधे’’ति धाप्रत्ययो दुःखस्पृष्टमात्रप्रभेद सूचक इत्याह ।। अत एवेति ।। दुःखसंस्था इति द्विधेत्यत्र पूर्वं ‘‘दुःखस्पृष्ट’’मित्युक्तत्वेनानुवादेनानुकृततदाकारेण भवितव्यम् । तत्कथं ‘‘स्पृष्टदुःखा’’ इत्यनुवाद इत्याशङ्कायाः आहिताग्न्यादिगणनिवेशनेनास्य विशेषणविशेष्यभावस्य कामगामित्वेन स सम्भवतीति समाधिरवधेयः । यद्वा दुःखस्पृष्टाः स्पृष्टदुःखा इति निर्देशवैचित्र्येणेषदनीषद्दुःखतदात्मकत्वादिनाऽधिकारिणां वैचित्र्यमसूचयद्भगवान्भाष्यकृदिति सन्तोष्टव्यम् ।

भावचन्द्रिका

(पा.टि.)

अनयोरिति । दुःखस्पृष्टतदस्पृष्टयोः इत्यर्थः ।। अभावस्य भावनिरूप्यत्वादिति । प्रतियोगिज्ञानाधीनज्ञानत्वादित्यर्थः । तेन ‘घटाभावाभावस्य घटाभावनिरूप्यत्वेऽपि भावनिरूप्यत्वाभावात्, न इदं नियामकम् इति चोद्यानवकाशः इति ध्येयम् ।

ननु एवमुद्देशक्रमानुसारेण आदौ दुःखास्पृष्टस्य निर्देष्टव्यत्वात्, दुःखस्पृष्टस्य आदौ निर्देशः अनुपपन्नः इत्यत आह तथापीति । न च एवं प्राधान्यक्रमस्य मुख्यत्वे प्रथममुद्देशोऽपि तथा किं न कृतः । तथात्वे पूर्वोत्तरग्रन्थयोः एकप्रकारत्वलाभसम्भवात् इति वाच्यम् । निरूपकज्ञानं विना निरूप्यस्य ज्ञातुमशक्यत्वात् । न च एवं निर्देशोऽपि तथैव स्यात् इति वाच्यम् । उद्देशेन उभयोर्ज्ञाने सति निर्देशप्राधान्यक्रमस्यैव आदर्तुमुचितत्वात् इति भावः ।।

अन्ये समस्तशः इति रमाव्यतिरिक्तानां चेतनाचेतनरूपसर्वेषामपि स्पृष्टदुःखत्वमुच्यते इति प्रतीतिनिरासाय आह अन्ये चेतना इति । चेतनविभागस्य प्रकृतत्वेन, चेतनानामेव अत्र ग्रहीतुं योग्यत्वादिति भावः ।। व्यष्टिसमष्टिभेदेनेति । व्यष्टयः मुक्ताः, समष्टयः संसारिणः इति विवेकः । आगमानामिति ।

दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते ।

दुःखस्य योगतो भोगाद्रुद्रवीन्द्रादयोऽधमाः ।

इत्यादीनामित्यर्थः । अत एव इत्यस्यैव विवरणम् ‘दुःखास्पृष्टप्रभेदाभावादेव’ इति । गरुडादीनां दुःखास्पृष्टत्वे हि दुःखास्पृष्टेऽपि प्रभेदः स्यात् । न च एवम्, तस्य ‘समस्तशः’ इत्यनेन निरस्तत्वादित्यर्थः ।

धाप्रत्यय इति । ‘धा’ प्रत्ययस्य एधाचो धाल्भावः । यथा च प्रकारद्वैविध्योक्तिः सत्यपवादे तद्विषयान्ये अवान्तरभेदसूचनेनापि उपपन्ना न अपवादविषये अवान्तरभेदं सूचयति, तथा उपपादितमधस्तात् ।

काशी टिप्पणी

ननु प्राधान्यक्रमेण दुःखास्पृष्टस्यैव प्रथममुद्देशः कार्य इत्याशङ्कते ।। यद्यपीति ।। अनयोर्दुःखस्पृष्टतदस्पृष्टयोर्मध्ये । अत्र निरूपकक्रमेणोद्देश इति समाधत्ते ।। तथापीति ।। अभावस्य दुःखास्पृष्टत्वस्य दुःखस्पृष्टत्वरूपभावनिरूप्यत्वाद्भावाभावज्ञानयोः पौर्वापर्यनियमात्प्रथमं भावोद्देश इति भावः ।

ननु प्राधान्यक्रमस्य मुख्यत्वात्तदनुसारेणोद्देश एव युक्तः । न च भावज्ञानं विना कथमभावज्ञानमिति वाच्यम् । दुःखास्पृष्टपदघटकदुःखस्पृष्टपदेनैव भावज्ञानसम्भवात् । न हि दुःखास्पृष्टमित्येतदबोधकमिष्यत इति चेत्सत्यम् । तथापि दुःखस्पृष्टत्वस्य दुःखास्पृष्टत्वनिरूपकत्वं ज्ञापयितुमेव प्रथमोद्देशः कृतः । अन्यथा दुःखस्पृष्टतदस्पृष्टशब्दयोर्नदीवृध्यादिशब्दवत्संज्ञामात्रत्वशङ्का स्यात् । अत एव दुःखास्पृष्टमिति स्पष्टमनुद्दिश्य तदस्पृष्टमित्युद्देशः कृतः । अन्यथा दुःखस्पृष्टशब्दः संज्ञैव । दुःखास्पृष्टशब्दस्तु तदन्यार्थक इति शङ्कापत्तेः । यथोद्देशे तु तच्छब्दस्य दुःखपदार्थपरामर्शकत्वानुरोधेन दुःखस्पृष्टशब्दस्य यौगिकत्वलाभात् । न च प्राधान्यज्ञापनाय दुःखास्पृष्टस्यैव प्रथमोद्देशः किं न कृत इति वाच्यम् । तस्योत्तरमूलेन ज्ञापनात् । न चैवमुत्तरमूले नित्यादुःखा स्पृष्टदुःखाः इत्यर्थानुवादादेवोद्देशस्य संज्ञामात्रत्वशङ्कानिराससम्भवाद्व्यर्थं निरूपकक्रमानुसरणमिति वाच्यम् । तस्य फलितार्थानुवादकत्वेन शब्दार्थाबोधकत्वात् । फलितार्थानुवादान्यथानुपपत्त्यैव शब्दार्थकल्पने तु प्रयासगौरवमिति सार्थकं निरूपकक्रमानुसरणम् ।

प्रकान्तक्रमपरित्यागबीजं दर्शयन्नुत्तरमूलमवतारयति ।। तथापीति ।। मुख्यत्वं च क्रमान्तरादवश्यज्ञेयत्वेन ज्ञेयम् ।

जडस्य दुःखस्पृष्टत्वायोगादाह ।। चेतना इति ।। व्यष्टीति ।। मुक्तामुक्तभेदेनेत्यर्थः ।। आगमानामिति ।।

न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।

निर्दुःखो हि हरिर्नित्यं श्रीश्चान्ये दुःखभागिनः ।

दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते ।

दुःखस्य योगतो भागाद्रुद्रवीन्द्रादयोऽधमाः ।।

इत्याद्यागमानामित्यर्थः । अत एव रमातिरिक्तानां सामस्त्येन दुःखस्पृष्टत्वादेव दुःखास्पृष्टे परतन्त्रचेतने भेदाभावः । ततश्च दुःखस्पृष्टानां प्रभेदवत्वाभिप्रायेणैव द्वेधैवेति धाल्प्रत्यययोग इत्यर्थः । अन्यथा ‘द्वे चेतने’ इत्यवक्ष्यदिति भावः । अत एवेत्यस्याभावादित्यन्तं विवरणमित्यप्याहुः ।