प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते

अभावनिरूपणम्

टीका

द्विधेत्युक्त्या भावाभावयोरवान्तरभेदोऽस्तीति सूचितम् । तत्र भावनिरूपणादभावनिरूपणस्याल्पत्वात्सूचीकटाहन्यायेन पश्चादुद्दिष्टमप्यभावमादौ विभागेनोद्दिशति ।। प्रागिति ।।

तत्वसङ्ख्यानम्

प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।

प्राक्त्वेन प्रध्वंसत्वेन सदात्वेनोपलक्षितोऽभावस्त्रिविध इष्यते प्रामाणिकैरिति शेषः ।

प्रागभावप्रध्वंसाभावयोर्निरूपणम्

उत्तरैकावधिरभावः प्रागभावः । प्रतियोग्युत्पत्तेः प्रागेवाभावोऽस्ति । उत्पन्ने तु तस्मिन्नास्तीति कृत्वा । पूर्वैकावधिरभावः प्रध्वंसाभावः । प्रतियोगिप्रध्वंसानन्तरमेवाभावो न तु प्रागस्तीति ।

भाववर्णनम्

उपलक्षित इति ।। तथाच प्रागभावत्वं जन्याभावत्वं, सदातनाभावत्वञ्च त्रयं विभज्यतावच्छेदकमिति नोक्तदोष इति भावः ।

तत्वसङ्ख्यानटीकाभावदीपः

(रा.टि)

।। उपलक्षित इति ।। स्वस्वरूपानुप्रविष्टैरेवेतरस्माद्व्यावर्तित इत्यर्थः । इत्थम्भूतलक्षणे तृतीयेति भावः । घटादिव्यावृत्त्यर्थं उत्तरैकेत्येकपदम् । एवमग्रेऽपि । घटादेर्वक्ष्यमाणदिशा प्रध्वंसप्रागभावरूपत्वेऽपि उभयावधिमत्वात् । यद्वा अनित्यवस्तुस्वरूपात्मकान्योन्याभावस्य पूर्वोत्तरावधिमत्वात्तद्व्यावृत्त्यर्थमुत्तरैकेति पूर्वैकेति चैकपदम् । अनित्यवस्तुनिष्ठभेदा अनित्या इति टीकोक्तेः । घटादिसामग्य्रामनतिव्याप्तयेऽभावपदम् । एवं प्रध्वंसलक्षणेऽपि विनाशसामग्य्रुत्तरकालेनानतिव्याप्तये अभावपदम् । कुत एतदित्यतस्तत्र प्राक्पदसूचितयुक्तिमाह ।। प्रतियोगीति ।। न तु प्रागस्तीतीतिशब्दो हेत्वर्थः । एतेन मूले तृतीया हेतावित्यपि व्याख्यातं भवति ।

तत्वसङ्ख्यानटीकाटिप्पणी

अवान्तरभेद इति ।। अन्यथा भावाभावौ द्वावित्युध्येतेति भावः । प्राक्त्वेनेत्यादि ।। प्राक्त्वादिना व्यावर्तकधर्मेणोपलक्षितोऽभावस्त्रिविध इत्यर्थः । अनेन ‘प्राक्प्रध्वंससदान्वेन’ इति तृतीया न होतौ किन्त्वित्थम्भूतलक्षण इति दर्शितम् । उत्तरैकावधिरिति ।। यस्याभावस्य स्वापेक्षयोत्तरकाल एव प्रतियोग्यधिकरणकाल एवेति यावत् । अवधिरनधिकरणसमयो न पूर्वकाल इत्यर्थः । तथा च योऽभावः प्रतियोगिकालापेक्षया प्रागेवास्ति सः प्रागभाव इति फलितोऽर्थः । अत इत्थं लक्षणवाक्यार्थमभिप्रेत्य लक्ष्ये उपपादयति– प्रतियोग्युत्पत्तेरिति ।। अत्राभाव इत्यनुक्तौ घटसामग्र्यादावतिव्याप्तिः । प्रतियोगिकालापेक्षयेत्यनुक्तौ घटप्रागभावस्य मृदादिकालापेक्षयाऽनन्तरमपि सत्त्वेनासम्भवः । प्रागित्यनुक्तौ घटप्रध्वंसेऽतिव्याप्तिः । अवधारणानुक्तौ घटप्रतियोगिकान्योन्याभावरूपे पटप्रध्वंसे घटापेक्षया पूर्वमपि विद्यमानेऽतिव्याप्तिः । अतः सर्वं सार्थकम् ।ननु प्राक्त्वं प्रागभावावच्छिन्नसमयवृत्तित्वम् । अत आत्माश्रय इति चेत् । प्राक्त्वस्य स्वाभाविककालविशेषनिष्ठस्य तत्स्वभावतया घटत्वादिवदखण्डधर्मत्वाङ्गीकारात् । उक्तश्च भगवत्पादैः ‘स्वत एव काले विशेषाङ्गीकृतेश्च’ इति ।। पूर्वैकावधिरिति ।। यस्याभावस्य पूर्वकाल एवावधिरनधिकरणसमयो नोत्तरकाल इत्यर्थः । तथा च योऽभावः प्रतियोगिकालापेक्षयोत्तरकाल एवास्ति स ध्वंस इति पर्यवसित इत्यर्थः । इममेवार्थमभिप्रेत्य लक्ष्ये उपपादयति– प्रतियोगीति ।। अभाव इत्यनुक्तौ उत्तरकालेऽतिव्याप्तिः । अनन्तरेत्यनुक्तौ प्रागभावे । अवधारणानुक्तौ घटप्रतियोगिकान्योन्याभावात्मके पटप्रागभावे घटापेक्षया परतोऽपि विद्यमानेऽतिव्याप्तिः । प्रतियोगिकालापेक्षयेत्यनुक्तौ असम्भवः । अतो न किञ्चिद्व्यर्थमित्यवधेयम् ।

तत्वसङ्ख्यानविवरणम्

सूचितमिति । अन्यथा भावाभावौ द्वावित्येवोच्येतेति भावः ।। विभागेनेति । सहेति शेषः । तथा च विभागोद्देशौ करोतीत्यर्थः । प्राक्त्वेनेत्यादि । प्राक्त्वादिना व्यावर्तकधर्मेणोपलक्षितो व्यावर्तितोऽभावस्त्रिविध इत्यर्थः । अनेन प्राक्प्रध्वंससदात्वेने’’ति तृतीया न हेतौ । किं त्वित्थंभूतलक्षण इति दर्शितं भवति ।। उत्तरैकावधिरिति । यस्याभावस्य स्वापेक्षया उत्तरकाल एव प्रतियोग्यधिकरणकाल एवेति यावत् । अवधिरनधिकरणो न पूर्वकाल इत्यर्थः । तथाच योऽभावः प्रतियोग्युत्पत्तिकालापेक्षया प्रागेवास्ति स प्रागभाव इति फलितोऽर्थः ।

अत इत्थं लक्षणवाक्यार्थमभिप्रेत्य लक्ष्ये उपपादयति ।। प्रतियोग्युत्पत्तेरिति । अत्राभाव इत्यनुक्तौ प्रतियोगिभूतघटोत्पत्तिकालापेक्षया प्रागेव विद्यमाने घटसामग्य्रादावतिव्याप्तिः स्यात् । तदर्थमभावपदम् । प्रतियोगिकालापेक्षयेत्यनुक्त्वा योऽभावः प्रागेवास्तीत्येवोक्तावसम्भवः स्यात् । घटप्रागभावस्य तन्त्वाद्युत्पत्त्यनन्तरमपि सत्त्वात् । अतः प्रतियोगिकालापेक्षयेत्युक्तम् । तथा च नासम्भवः । प्राक्पदानुपादाने प्रतियोगिभूतघटकालापेक्षया पश्चाद्विद्यमाने घटध्वंसेऽतिव्याप्तिः स्यात् । तदर्थं प्रागित्युक्तम् । अवधारणाभावे घटप्रतियोगिकान्योन्याभावरूपे घटध्वंसे प्रतियोगिभूतघटकालापेक्षया पूर्वमपि विद्यमानेतिव्याप्तिः स्यात्तदर्थं प्रागेवेत्यवधारणम् । तस्य पश्चादपि विद्यमानत्वान्नातिव्याप्तिरिति सर्वं सार्थकम् । ननु प्राक्त्वं नाम प्रागभावावच्छिन्नसमयवृत्तित्वम् । अत एवात्माश्रय इति चेन्न । प्राक्त्वस्य साधारणकालविशेषनिष्ठस्य स्वभावतया घटत्वादिवदखण्डधर्मत्वाङ्गीकारात् । उक्तं च भगवत्पादैः । स्वत एव काले विशेषाङ्गीकृतेश्चेति ।। पूर्वैकावधिरिति । यस्याभावस्य पूर्वकाल एवावधिरनधिकरणसमयो नोत्तरकाल इत्यर्थः । तथा च योऽभावः प्रतियोगिकालापेक्षयोत्तरकाल एवास्ति स प्रध्वंस इति पर्यवसितोऽर्थः । इममेवार्थमभिप्रेत्य लक्ष्ये उपपादयति ।। प्रतियोगीति । अत्राभावपदानुपादाने प्रतियोगिकालापेक्षयोत्तरकाल एव विद्यमाने उत्तरकालेऽतिव्याप्तिः स्यात् । तदर्थमभावपदम् । प्रतियोगिकालापेक्षयेत्यनुक्तौ असम्भवः । पटध्वंसस्य तंत्वाद्युत्पत्तिकालात्प्रागपि सत्त्वात् । अतः प्रतियोगिकालापेक्षयेत्युक्तम् । तथा च नासम्भवः । उत्तरेत्यनुक्तौ घटप्रतियोगिकालात् प्राक्काले विद्यमाने प्रागभावेऽतिव्याप्तिः स्यात्तदर्थमुत्तरपदम् । अवधारणानुक्तौ घटप्रतियोगिकान्योन्याभावात्मके पटप्रागभावे प्रतियोगिभूतघटकालापेक्षया परतोऽपि विद्यमाने अतिव्याप्तिस्स्यात् । तदर्थमुत्तरकाल एवेत्युक्तम् । तस्य प्रागपि सत्त्वान्नातिव्याप्तिरिति न पदानां वैयर्थ्यमित्यवधेयम् । अन्ये तु उत्तरेत्यस्य विनाश्यभाव इत्यर्थः । पूर्वेत्यस्य प्रागभावप्रतियोग्यभाव इत्यर्थ इत्याहुः । तच्चिन्त्यम् । प्रागभावप्रध्वंसनिरूपणयोः परस्परसापेक्षत्वेन परस्पराश्रयप्रसङ्गादिति । उत्तरैकावधिरिति प्रागभावस्य विनाश्यभावत्वमुक्तम् । पूर्वैकावधिरिति प्रध्वंसस्य साद्यभावत्वमुक्तम् ।

तत्वसङ्ख्यानटिप्पणम्

प्राग्विधाशब्देनेवात्र धाप्रत्ययेनावान्तरभेदवन्ताविति सूचितम् ।

तत्र प्रथमोद्दिष्टत्वाद्भावविभाग एवादौ बोधनीयः । तथापि प्रथमञ्ज्यायस्त्वेन बुद्धावनारोहात्सूचीकटाहन्यायेनाभावविभागमेवादावाहेत्याह ।। द्विधेत्युक्तयेति ।। सूचीकटाहन्यायेनेत्युपलक्षणम् । परेणानङ्गीकृताभावाङ्गीकारणप्रसङ्गसंनिधापितोऽभाव इति तस्यैवादौ विभागप्रदर्शनमावश्यकमित्यपि निरूपणप्रयोजनमवधेयम् । मूले ‘‘प्राक्प्रध्वंससदात्वेने’’त्यत्र द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययः सर्वत्रान्वेतव्य इत्याह ।। प्राक्त्वेनेत्यादिना ।। प्राक्त्वादितादात्म्यमभावस्य किमित्यतः तृतीयाया विवक्षितार्थाभिधानेन समाधिमभिधत्ते ।। उपलक्षित इति ।। व्यावर्तकधर्मोपेत इत्यर्थः । इदमुक्तं भवति । प्रागिति ध्वंसात्यन्ताभावाभ्यां प्रध्वंसेति प्रागभावात्यन्ताभावाभ्यां अत्यन्तेति प्रागभाव प्रध्वंसाभ्यामिति परस्परव्यावर्तकमतिजनकप्रागादिविशेषणोपेतोऽभावस्त्रिविध इति । अभाव एव यदाङ्गीकर्तुं नोचितस्तदा दूरे तद्विभागकथेत्यतः प्रामाणिकत्वान्नागणनीय इति भणति ।। इष्यत इति ।। अनुवादोऽन्वयप्रदर्शनाय । बुद्धिमत्त्वावच्छेदेनेदं संमतमिति वक्तुं तत्रापेक्षितं पूरयति ।। प्रामाणिकैरिति शेष इति ।। अप्रामाणिकप्रतियोगिकत्वेन जघन्यत्वात् प्रामाणिकप्रतियोगिकत्वेन कैश्चिदङ्गीकृतत्वेऽपि प्रामाणिकाप्रामाणिकप्रतियोगिकत्वाद्गौरवात् ततः प्राक्केवलप्रामाणिकप्रतियोगिकौ प्रागभावध्वंसौ निरूप्यौ । तत्रापि धर्मितोऽपि पूर्वभावी तथा निरूप्य इति तथैव मूलकृन्निर्दिदेश । तमेवानुसृत्य प्राक्त्वेन प्रध्वंसत्वेन सदात्वेनेति टिटीकिरे टीकाकृत्पादा इति बोध्यम् । निर्देशानुसारात्ताल्लक्षयति ।। उत्तरैकावधिरिति ।। उत्तरः स्वाधिकरणकालापेक्षयाऽनन्तरभावी प्रतियोग्यधिकरणकालः । स एकः केवलं अवधिः मर्यादाभूतो यस्य स प्रागभाव इत्यर्थः । अभाव इत्येवोक्ते निरवधिकेऽत्यन्ताभावेऽतिव्याप्तिः । तन्निरासार्थमवधिमानित्युक्तम् । तावत्येवोदिते प्रध्वंसाभावेऽतिव्याप्तिः । तन्निराकृत्या उत्तरेति चोक्तम् । उत्तरावधित्वं प्रागभावस्य लक्षणमित्येवोक्ते घटसामग्रयामतिव्याप्तिः । तत्परिजिहीर्षुरभाषताभाव इति । घटनिष्ठान्योन्याभावपराकृत्या एकेति पदम् । इदं चानित्यगतभेदस्यानित्यत्वमिति टीकापक्षमाश्रित्येति ज्ञेयम् ।

उत्तरैकावधिरित्येवोक्ते प्रागभाववर्तिप्रमेयत्वाभिधेयत्वसत्त्वादिष्वतिव्याप्तिः स्यात्तदर्थमभावेति वर्णयाम्बभूवुः । प्रागभावनिष्ठाभिधेयत्वादेर्निष्प्रतियोगिकत्वेन भावत्वादभाव इत्यनेन तद्व्यावृत्तिः । विशिष्टस्य घटप्रागभावनिष्ठान्योन्याभावेऽतिव्याप्तिरिति चेन्न । विवक्षावशाद्धर्म्यतिरिक्ताभावस्यैवाभावपदेन ग्रहणात् । एकपदं स्वरूपकथनपरमिति ज्ञेयम् । तदेवोपपादयति ।। प्रतियोग्युत्पत्तेरिति ।। उत्पत्तेः प्राक् पूर्वम् । अभावः घटाभावः । तस्मिन् घटे । उत्पन्ने स नास्तीति कृत्वा उत्तरैकावधिरभावः प्रागभाव इत्यर्थः । क्रमागतं प्रध्वंसं लक्षयति ।। पूर्वैकावधिरिति ।। स्वाधारकालात्पूर्वभाव्येकोऽवधिर्मर्यादारूपः प्रतियोग्यधिकरणान्तिमक्षणात्मकः कालो यस्य सोऽभावः प्रध्वंसः । अत्यन्ताभावेऽतिव्याप्तितिरस्कृत्या अवधिमानिति । प्रागभावेऽतिव्यापनापनुत्यै पूर्वपदम् । घटे च तां विघटयितुमभावपदम् । पूर्ववत्पूर्वैकावधिरित्युक्ते ध्वंसगतप्रमेयत्वादौ सत्वाल्लक्षणस्यातिव्याप्तिरिति तद्व्युदासायाभावपदम् । न च विशिष्टस्य ध्वंसगतान्योन्याभावेऽतिव्याप्तिरिति वाच्यम् । अभावस्य धर्म्यतिरिक्तस्यैव पूर्ववद्विवक्षणादनतिव्याप्तेः । एकपदमेकं पूर्ववदेव स्वरूपोपष्टंभकं ज्ञेयम् । लक्ष्ये लक्षणमुपपादयति ।। प्रतियोगीति ।। प्रतियोगी घटः । तद्ध्वंसानन्तरम् । अत्र प्रतियोगी ध्वंस्यतेऽनेनेति व्युत्पत्त्या प्रध्वंसशब्दः प्रध्वंसजनकाव्यवहितपूर्ववृत्तिमुद्गरप्रहारादिरूपसामग्रीपरो बोध्यः । तेन प्रध्वंसस्योत्तरावधिशून्यत्वात्कथं प्रध्वंसानन्तरमित्युक्तिरिति परास्तम् । प्राक् प्रध्वंसात्पूर्वम् ।

भावचन्द्रिका

ननु च अभावस्य त्रैविध्यं प्रतिज्ञाय विधात्रयमुद्दिष्टं भवति । एकविधामात्रप्रदर्शनं तु अनुचितमित्यतो द्वन्द्वान्ते श्रूयमाणस्य त्वप्रत्ययस्य प्रत्येकमभिधानान्न दोषः इत्याशयेनाह प्राक्त्वेनेति ।। कर्तृत्वकारणत्वयोरसम्भवात् कथं प्राक्प्रध्वंससदात्वेनेति तृतीया ? इत्यतः इत्थंभूतलक्षणे तृतीया इत्याह उपलक्षित इति । प्राक्त्वादेः कालवृत्तित्वेन अभाववृत्तित्वाभावात् कथं तेन रूपेण अभावविभागः ? इत्यतः सदात्वोपलक्षित इति इत्यप्याहुः । तेन रूपेण अप्रामाणिकाङ्गीकारस्य स्वोक्तविभागासमर्थकत्वादाह प्रामाणिकैरिति शेष इति । लक्षणावतीकारोक्तं प्रागभावलक्षणमनुवदति उत्तरेति । उत्तरः प्रतियोग्युत्पत्तेः इति शेषः । स एव, अवधिः अविद्यमानसमयः यस्येत्यर्थः । उत्पत्तिशब्दश्च सकलकारणसमवधानार्थ एव विवक्षितो न तु असतः सत्तासम्बन्धार्थः । अतो न सत्तासम्बन्धदशायां प्रागभावासम्भवादसम्भवः ।। ततश्च प्रतियोग्युत्पादकसकलकारणसमवधानानन्तरमेव असन् अभावः प्रागभावः इति फलितोऽर्थः ।। अत्र घटसामग्रयामतिव्याप्तिपरिहारार्थमभावपदम् । अत्यन्ताभावनिवृत्त्यै असदिति । तस्य च सदातनत्वेन असत्त्वाभावान्न तत्रातिव्याप्तिः ।। असन् अभावो ध्वंसोऽपि इति तत्रातिव्याप्तिनिवृत्त्यै प्रतियोग्युत्पादकसकलकारण समवधानानन्तरमित्युक्तम् । तावत्युक्ते ध्वंसेऽतिप्रसङ्ग एव । घटलक्षणप्रतियोग्युत्पादकसकलकारणसमवधानानन्तरं घटध्वंसस्यासत्त्वात् । अत एवपदम् । ततश्च घटध्वंसस्य प्रतियोगिसत्तादशायामविद्यमानत्ववत्, तत्प्रागभावदशायामप्यविद्यमानत्वेन, प्रतियोग्युत्पादकसकलकारणसमवधानानन्तरमेव विद्यमानत्वाभावात् न तत्रातिप्रसङ्गः । प्रतियोगिवत्तत्प्रागभावस्यापि ध्वंसविरोधित्वात् । मृदाद्युत्पादकसकलकारणसमवधानान्तरमपि वर्तमानत्वात् घटप्रागभावस्य, असम्भवो मा भूदिति प्रतियोगिपदम् । उत्पत्तिपदं तु प्रागभावस्योत्पत्तिपर्यन्तमनुवृत्तिः, न तु ततः प्राक्निवृत्तिः इति दर्शयितुं, न तु लक्षणान्तर्गतम् । न हि घटात्पूर्वभावी घटोत्पत्यनन्तरमभावी घटप्रागभावादन्यः कश्चिदभावोऽस्ति । यद्व्यावृत्तये उत्पत्तिपदमावश्यकं स्यात् । अनन्तरपदाभावे तु प्रतियोग्युत्पादकसकलकारणसमवधानात्पूर्वमित्यप्यापद्येत । ततश्च ध्वंसेऽतिव्याप्तिः । तन्निवृत्यर्थमनन्तरमित्युक्तमिति सर्वं सार्थकम् ।।

मूले लक्षणानुक्त्या न्यूनत्वं परिहर्तुमुद्देशेनैव सूचितं तल्लक्षणमाह प्रतियोग्युत्पत्तेरिति । अनेन योऽभावो वस्तूत्पत्तेः प्रागेवास्ति स प्रागभावः इति लक्षणं सूचितं भवति । अत्रापि घटसामग्रयादावतिव्याप्तिवारणाय अभावपदम् । घटप्रागभावस्य मृदाद्युत्पत्त्यनन्तरमपि सत्त्वेन असम्भवो मा भूदिति प्रतियोगिपरं वस्तुपदम् । उत्पत्तिपदं तु प्राग्वन्न लक्षणान्तर्गतम् ।

प्राक्पदाभावे उत्पत्तेः इति पञ्चमीबलात् परतः इत्यप्यापद्येत । ततश्च ध्वंसेऽतिव्याप्तिस्तन्निवृत्यर्थं प्रागितिपदम् । घटप्रतियोगिकान्योन्याभावरूपे घटध्वंसे घटोत्पत्तेः पूर्वमपि विद्यमाने अतिव्याप्तिपरिहारार्थमेवेत्युक्तम् इति सकलमनवद्यम् ।।

तदुक्तमेव ध्वंसलक्षणमनुवदति पूर्वेति ।

पूर्वः प्रध्वंससामग्रीकालः, एव एकः, अवधिः अविद्यमानत्वसमयः यस्य सः अभाव प्रध्वंसाभावः इत्यर्थः । अत्र एकपदानुक्तौ घटप्रागभावे अतिप्रसङ्गः । घटप्रागभावस्य प्रध्वंससामग्रीकाले अविद्यमानत्वात् । तत्परिहारार्थमेक इति । ततश्च घटप्रागभावस्य प्रतियोगिध्वंससामग्रीकाले इव प्रतियोगिध्वंसकालेऽपि अविद्यमानत्वेन, प्रतियोगिध्वंससामग्रीसमये एव विद्यमानत्वाभावात् न अतिप्रसङ्गः । अन्यत् समानम् । प्रतियोगिप्रध्वंसानन्तरमेवेति । एतदपि पूर्ववत् लक्षणान्तरमेव ।

तत्र प्रागभावे अतिव्याप्तिपरिहारार्थं परतः इति पदम् । विनाशसामग्रयुत्तरकालादौ तत्परिहाराय अभावपदम् । पूर्ववत् असम्भवपरिहाराय वस्तुपदम् । प्रध्वंसे ‘सादिः’ इत्यनेन च विनाशसामग्री लभ्यते । तच्च विनाशकालसामग्रीसमवधानानन्तरमेव प्रध्वंसः’ इति दर्शयितुमेव लक्षणान्तर्गतमिति ध्येयम् ।।

प्राञ्चस्तु ननु उत्तरावधित्वेनैव प्रध्वंससदाभावयोः अतिव्याप्तिवारणात् एकपदवैयर्थ्यम् । न च घटादिरूपे प्रागभावप्रध्वंसे अतिव्याप्तिवारणात् एकपदमिति वाच्यम् । तथा सति घटादिरूपे प्रध्वंसप्रागभावे अव्याप्त्यापातात् । न च प्रमेयान्तरस्यैव प्रागभावस्य लक्ष्यत्वेन, घटादिरूपस्य तस्य अलक्ष्यत्वात् न अव्याप्तिः इति वाच्यम् । तथा सति प्रध्वंसप्रागभावे अविद्यादौ अतिव्याप्तेः । अभावपदेन तन्निरासाय अभावपदस्य प्रमेयान्तरभूताभावपरत्वस्य आवश्यकत्वे, घटादिरूपे प्रागभावप्रध्वंसे अतिव्याप्तिशङ्काऽनवकाशात् इत्याशङ्क्य; ‘उत्तरैकावधिः’ इत्यस्य पूर्वावधिरहितत्वे सति अवधिमत्त्वमर्थः । उत्तरपदस्य केवलार्थक एकपदसमभिव्याहृतस्य पूर्वावधिनिषेधमात्रपरत्वात् । पूर्वैकावधिः इत्यस्य च उत्तरावधिरहितत्वे सति अवधिमत्त्वमर्थः ।। ततश्च पूर्वावधिरहितत्वे सति अवधिमदभावत्वं प्रागभावत्वम् । उत्तरावधिरहितत्वे सति अवधिमदभावत्वं प्रध्वंसाभावत्वम्’ इति लक्षणं इह विवक्षितम् । तत्र आद्ये लक्षणे पूर्वावधिरहितत्वेन ध्वंसाभावस्य, अवधिमत्त्वेन सदाभावस्य, अभावपदेन च अविद्याया निरासः । द्वितीयलक्षणेऽपि, सत्यन्तेन प्रागभावस्य, अवधिमत्त्वेन सदाभावस्य, अभावपदेन च पुराणादेः व्यावृत्तिः इति न कस्यापि वैयर्थ्यम् इत्याहुः ।

उत्तरैकावधिः इत्यस्य ‘यः अभावः प्रतियोगिकालापेक्षया प्राक् एव अस्ति सः प्रागभावः’ इति फलितं लक्षणवाक्यार्थमभिप्रेत्य, लक्ष्ये उपपादयति प्रतियोग्युत्पत्तेरिति । पूर्वैकावधिः इत्यस्य ‘यः अभावः प्रतियोगिकालापेक्षया उत्तरकाले एव अस्ति सः प्रध्वंसाभावः’ इति फलितं लक्षणवाक्यार्थमभिप्रेत्य लक्ष्ये उपपादयति प्रतियोगीति । फलितोपपादकवाक्यमेव एतद्द्वयमित्यप्याहुः ।

पूर्वस्य विनाश्यभावत्वं अर्थः, उत्तरस्य प्रागभावप्रतियोग्यभावत्वम् अर्थः इत्यपि केचित् ।।

(वें.टि.) उत्तरैकावधिरिति ।। उत्तरपदस्य केवलार्थकैकपदसमभिव्याहृतस्य पूर्वावधिनिषेधमात्रपरत्वेन उत्तरैकावधिपदस्य पूर्वावधिरहितत्वे सति अवधिमत्वार्थकत्वात् । एवञ्च पूर्वावधिरहितत्वेन प्रध्वंसाभावे अवधिमत्वेन सदाभावे अभावपदेनाविद्यादौ चातिव्याप्तिनिरासान्न कस्यापि वैयर्थ्यमिति नकश्चित्क्षुद्रोपद्रवः ।

काशी टिप्पणी

उत्तरमूलमवतारयति ।। द्विधेति ।। अन्यथा द्वावित्यवक्ष्यदिति भावः । सूचितमित्यनन्तरमतो भावाभावविभागो वक्तव्य इति पूरणीयम् । तथापि क्रमोल्लङ्घनं कुत इत्यत आह ।। तत्रेति ।।  भावाभावनिरूपणयोर्मध्य इत्यर्थः । यद्वा भावाभावयोर्मध्य इत्यर्थः । अभावमित्यनेन सम्बन्धः । अल्पस्य प्राथम्यनियामकत्वे युक्तिः ।। सूचीति ।। द्वन्द्वात्परत्वप्रत्ययस्य प्रत्येकमभिसम्बन्ध इति भावेनाह ।। प्राक्त्वेनेति ।। अत्र प्राक्त्वादेरभेदेन विधान्वयसम्भवेऽपि प्राक्त्वादिविशिष्टाभावत्वस्य प्रागभावादिलक्षणत्वलाभायोपलक्षित इत्यनेनाभावेऽन्वय उक्तः । न च प्राक्सदात्वयोः कालधर्मत्वात्कथमभावविशेषणत्वमिति वाच्यम् । प्रागित्यादेः प्राक्तनादिपरत्वात् । नन्वेवं किञ्चिदपेक्षया प्राक्तनत्वस्य प्रध्वंसादिसाधारणत्वादतिव्याप्तिः । स्वप्रतियोगिप्राक्कालवृत्तित्वविवक्षायामपि प्रध्वंसादेः स्वात्मकस्वनिष्ठभेदप्रतियोगिभाविवस्तुप्राक्कालवृत्तित्वेनातिव्याप्तेः । स्वप्रतियोगिप्राक्कालवृत्तित्वविवक्षायामपि प्रध्वंसादेः स्वात्मकस्वनिष्ठभेदप्रतियोगिभाविवस्तुप्राक्कालवृत्तित्वेनातिव्याप्तेः । स्वप्रतियोगिप्राक्कालमात्रवृत्तित्वविवक्षणे च प्रागभावस्यापि स्वात्मकस्वनिष्ठभेदप्रतियोगिभूतातीतवस्तूत्तरवृत्तित्वेनासम्भवात् । यत्किञ्चित्प्रतियोगिप्राक्कालमात्रवृत्तित्वविवक्षणे च गौरवमित्यतो निष्कृष्टलक्षणमाह ।। उत्तरैकावधिरिति ।। उत्तरः काल एव अवधिर्यस्यासौ तथा । अवधित्वं च स्वाव्यवहितपूर्वोत्तरकालसाधारणः स्वनिरूपको धर्मविशेषः । न चैकपदावधिपदयोर्वैयर्थ्यं सोत्तरत्वे सति अभावत्वस्यैव सम्यक्त्वादिति वाच्यम् । पूर्वावधिशून्यत्वे सति सावधिकाभावत्वरूपलक्षणन्तरलाभाय तदुपादानात् । प्रध्वंसवारणाय सत्यन्तनिवेशः । अत्यन्ताभाववारणाय सावधित्वम् । तावन्मात्रस्य घटादावतिव्याप्त्यभावेऽपि भावरूपाज्ञानादिवारणायाभावत्वमुपात्तम् । न च पूर्वत्वस्य प्रागभावाधिकरणकालत्वरूपत्वादात्माश्रयः । एवमुत्तरत्वस्य ध्वंसाधिकरणकालत्वरूपत्वात् ध्वंसत्वस्य च पूर्वत्वघटितत्वात् अन्योन्याश्रय इति वाच्यम् । पूर्वत्वोत्तरत्वयोः कालगताखण्डोपाधिविशेषत्वात् । यथोक्तमाचार्यैः, स्वत एव काले विशेषाङ्गीकृतेश्चेति ।

एवं चोत्तरत्वनिरूपकाभावत्वं पूर्वत्वानिरूपकत्वे सति अवधित्वनिरूपकाभावत्वं वा प्रागभावत्वमिति निष्कर्षः । न च घटात्मके घटध्वंसप्रागभावे अव्याप्तिः । घटप्रागभावात्मके घटभेदेऽतिव्याप्तिश्चेति वाच्यम् । आद्यस्यालक्ष्यत्वात् द्वितीयस्य च लक्ष्यत्वात् । न चातीतकालविशिष्टात्यन्ताभावेऽतिव्याप्तिः । विशेष्यस्य निरवधिकत्वेऽपि विशिष्टस्योत्तरैकावधित्वादिति वाच्यम् । विशिष्टस्य पदार्थान्तरत्वेन भावत्वात् । अतीतकालविशिष्टात्यन्ताभावस्य वर्तमानकालविशिष्टात्यन्ताभावप्रागभावतया लक्ष्यत्वमेवेत्यप्याहुः । एतल्लक्षणस्य यथाश्रुतोद्देशलब्धलक्षणनिष्कृष्टार्थत्वं व्यञ्जयन् लक्ष्ये लक्षणसत्त्वमुपपादयति ।। प्रतियोगीति ।। पूर्वेणान्वयः । एतेन योऽभावो वस्तूत्पत्तेः प्रागेवास्ति स प्रागभावः इति  तत्वविवेकटीकाविसंवादोऽपि निरस्तः । तस्य यथाश्रुतलक्षणत्वात् । अस्य च निष्कृष्टलक्षणत्वात् । एवमग्रेऽपि ।। पूर्वैकावधिरिति ।। सपूर्वाभावत्वमुत्तरावधिशून्यत्वे सति सावधिकाभावत्वं वा प्रध्वंसत्वमित्यर्थः । व्यावृत्त्यादिकमुक्तप्रायम् ।। प्रध्वंसानन्तरमिति ।। प्रध्वंससामग्य्रुत्तरकालमित्यर्थः । प्रतियोग्युत्तरकालमिति यावत् ।

(गु.टि.) लीलावतीकारोक्तं प्रागभावलक्षणमनुवदति ।। उत्तरेति ।। उत्तरं प्रतियोग्युत्पत्तेरिति शेषः । स एवावधिरविद्यमानसमय इत्यर्थः ।