ननु शुक्तिरजतादिकं कथं न तत्वम् ?

शुक्तिरजतादौ तत्वलक्षणस्य खण्डनोक्तातिव्याप्तिशङ्का तत्परिहारश्च

टीका

ननु शुक्तिरजतादिकं कथं न तत्वम् ? न हि धर्मी वा रजतत्वं वा न प्रमेयम् । नापि तयोः सम्बन्धः । शुक्तिव्यक्तौ रजतत्वस्य स नास्तीति चेन्मा भूत् । न हि गृहे देवदत्तो नास्तीत्येतावता न प्रमेय इति । स्यादिदमारोपितस्यान्यत्र सत्तामभ्युपगच्छतां दूषणम् । अत्यन्तासदेव रजतं दोषवशाच्छुक्तिकायामारोप्यत इति वादे तु नायं दोषः ।

भाववर्णनम्

सिद्धान्तिनं नैयायिकं मत्वा शङ्कते ।। नन्विति ।। शुक्तिरजतादेरपि देशान्तरे सर्वांशप्रमाविषयत्वादिति भावः । अभ्युपगच्छतां नैयायिकानामिति शेषः ।

तत्वसङ्ख्यानटीकाभावदीपः

न्यायमतावष्टम्भेन खण्डनकृदुक्तखण्डनं शङ्कित्वा सिद्धान्तदिशोत्तरमाह ।। नन्वित्यादिना नायं दोष इत्यन्तेन ।। धर्मी वेति ।। रजतं वेत्यर्थः । आपणादौ रजतस्य तत्र रजतत्वस्य चानुभवात् तस्यैव सत्यरजतस्यान्यत्रारोपादिति भावः । प्रमेयं प्रमाविषय इत्यर्थः । तादात्म्यारोपाभिप्रायेण धर्मी वेति, संसर्गारोपाभिप्रायेण रजतत्वं वेत्युक्तम् ।। तयोरिति ।। रजतरजतत्वयोस्सम्बन्धस्तादात्म्यरूपः संसर्गरूपो वा प्रमेय इत्यनुषङ्गः । सत्यरजते तस्य प्रमीयमाणत्वात् तस्यैव च शुक्तौ प्रतीत्यभ्युपगमादिति भावः । शङ्कते ।। शुक्तीति ।। स इति ।। सम्बन्धः इत्यर्थः ।। नायं दोष इति ।। आरोपितस्य प्रमेयत्वप्रसङ्गदोषो नेत्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

नन्विदं रजतमिति भ्रमरूपमिति विषयस्य सर्वस्य सत्यत्वेन व्यावृत्त्यभावात् प्रेतिपदं व्यर्थमिति भावेन शङ्कते– नन्विति ।। भ्रमविषयस्य रजतस्यात्यन्तासत्त्वाङ्गीकारात्तद्व्यावृत्यै प्रेतिपदं सार्थकमेवेत्याशयेनाह– स्यादिदमिति ।। पूर्वस्यातथात्वात् प्रमित्यविषयत्वात् ।

तत्वसङ्ख्यानविवरणम्

ननु इदं रजतमिति भ्रमविषयस्य सर्वस्य सत्वेन व्यावर्त्याभावात्प्रेतिपदं व्यर्थमिति भावेन शङ्कते ।। नन्विति । तदुपपादयति ।। नहीति । सम्बन्धः समवायरूपः । न प्रमेयमित्यनुवर्तते । आपणस्थे रजते रजतत्वादेः सत्वादिति भावः ।। सः सम्बन्धः ।। न हि गृह इति । किं त्वन्यत्र सत्वात् प्रमितिविषय एवेत्यर्थः । तद्वत्प्रकृतेऽपीति भावः । भ्रमविषयस्य रजतस्यात्यन्तासत्त्वाङ्गीकारात्तद्व्यावृत्त्यै प्रेतिपदं सार्थकमित्याशयेनाह ।। स्यादिदमिति । अभ्युपगच्छतां तार्किकाणाम् । अन्यत्र विद्यमानमेवान्यत्रारोप्यत इति तैरङ्गीकृतत्वादिति भावः ।

तत्वसङ्ख्यानटिप्पणम्

इदं रजतमित्याद्यन्यथाख्यातिविषये न्यायविदामस्माकं च समं समयं मन्वानः शङ्कते ।। नन्विति ।। कथमित्याक्षेपे । कथं न तत्त्वं न कथमपीत्यर्थः । तत्वं भवत्येवेति यावत् । तदुपपादयति ।। न हीति ।। इदं रजतमिति प्रतीतौ संसर्गारोपपक्षे धर्मी शुक्तिकादिः, प्रकारस्तु रजतत्वं, सम्बन्धः समवायः । तादात्म्यारोपपक्षे धर्मी तूक्त एव । प्रकारस्तु रजतं, तादात्म्यं सम्बन्धः । एवं च धर्मी शुक्तिकाशकलं न प्रमेयमिति न । किं तु प्रमेयमेवेत्यर्थः । तथा रजतत्वं न प्रमेयमिति न । किन्तु प्रमेयमेवेत्यर्थः । तयोः शुक्तिरजतत्वयोः । सम्बन्धः समवायलक्षणः । न प्रमेय इति विपरिणमितलिङ्गेन नञन्वेति । विशकलिततया तयोः सत्यत्वादिति भावः । विशकलिततया सत्यत्वेऽपि प्रकृतधर्मिधर्मसम्बन्धः सत्यो नास्तीति सिद्धान्तिन आशयमाशंक्य परिहरति ।। शुक्तिव्यक्ताविति ।। सः सम्बन्धः । इदमुपलक्षणम् । तादात्म्यारोपपक्षे रजततादात्म्ययोरन्यत्र सत्त्वमुपपादनीयम् । शुक्तिव्यक्तौ रजततादात्म्याभावोऽप्याशङ्कनीय इति बोध्यम् । किं तावता नास्माकं क्षतिरित्याह ।। मा भूदिति ।। रजतरजतत्वाभ्यां सम्बन्धः शुक्तौ मा भूत् । मा भूदिति च्छेदः । ‘न माङ््योग’ इत्यडागमनिषेधात् । न ह्येकत्र सम्बन्धविशेषेणासतस्तदन्यत्र तेन सम्बन्धेन नास्तीति सम्भवतीत्युपपादनीयम् । एवं च शुक्तिरूप्यस्यापि तत्वतया न लक्षणे तद्वारकविषयत्वविशेषविवक्षाऽर्थवतीति शङ्काशयः । इतिशब्दः शङ्कासमाप्तौ । न वयं तार्किकसमसमया इति नास्माकमिदं दूषणमिति भाषते ।। स्यादिदमिति ।। आरोपितस्य आरोपे प्रकारीभूय भासमानस्य । अन्यत्र अधिष्ठानात् । सत्तां स्थितिम् । इदं दूषणं विषयत्वविशेषसत्वप्रकारकत्वविवक्षानर्थक्यरूपम् । अत्यन्तासदेव सर्वदेशकालासम्बन्ध्येव रजतम् । दोषवशात् चाकचक्यादिरूपदोषवशात् । शुक्तिकायामारोप्यते सद्रजतत्वेन ज्ञायते । इति वादे एवं वदतामस्माकम् । अयं दोषः उक्तानर्थक्यरूपो नेत्यर्थः । अस्मन्मते शुक्तिरूप्यादेरत्यन्तासत्त्वेन तत्र ज्ञानासाधारणकारणसन्निकर्षाश्रयत्वसत्त्वप्रकारकप्रमाविषयत्वयोर-भावेनोक्तदोषाभावादिति भावः ।

भावचन्द्रिका

सिद्धान्तिनं नैयायिकं मत्वा शङ्कते नन्विति ।। तथा च न मितिविषयत्वमात्रमेव लक्षणम्, किन्तु प्रशब्दघटितमपीति । व्यावर्त्याभावात् इति भावः । स्यादिदमिति । तथा च नैयायिकमते उक्तरीत्या तद्वैयर्थ्यप्रसक्तावपि नास्मत्पक्षे तत्, अत्यन्तासद्रजतव्यावृत्त्यै तस्य आवश्यकत्वादिति भावः ।

यद्वा ननु तत्त्वशब्दस्य रूढ््या अनारोपितत्वार्थत्वाङ्गीकारेण, योगमाश्रित्य प्रसञ्जितश्रीहर्षोक्तदूषणानवकाशेऽपि, तत्त्वशब्दस्य रूढिपक्षं खण्डयता तेनैवोक्तम् ‘‘अथोच्येत अवयवार्थचिन्तया दूषणाभिधानमिदं त्यज्यताम्, यतोऽयं तत्त्वशब्दः स्वरूपमात्रवचनः’’ इति रूढिमाशङ्क्य, कथञ्च एवं सति निरासः ? तथा हि यो रजतम् इति प्रत्ययः, सोऽपि स्वरूपबुद्धिर्भवत्येव । न हि धर्मी वा रजतत्वं वा न स्वरूपम्; नापि तयोः प्रतिभासमानः सम्बन्धो न स्वरूपम् इति युक्तम् । समवायो हि तयोः सम्बन्धः प्रतिभाति । स तु स्वरूपमेव । शुक्तिव्यक्तौ रजतत्वस्य स नास्ति इति चेत्; तत्र नास्तित्वेऽपि स्वरूपतया अन्यत्र वृत्तेः । न हि गृहे देवदत्तो नास्ति इति स्वरूपं न स्यात् । इति । तदेतत् अर्थतः अनूक्ततुल्यन्यायतया प्रसक्तमिदं दूषणं नास्माकं किन्तु वैशेषिकादीनामेव इत्याह नन्वित्यादिना नायं दोष इत्यन्तेन ।। सम्बन्ध इति । न प्रमेयम् इति वर्तते ।

यद्वा प्रमितिविषयत्वं तत्त्वलक्षणं भवत् भ्रमविषयाद्व्यावृत्तमेव तथा भवेत् । न च तत् तथा । भ्रमविषयशुक्तिरजतादावपि प्रमेयत्वसत्त्वात् । तथा च अतिव्याप्तेः नेदं लक्षणमित्याशयेन भ्रमविषयस्य सत्त्वमुपपादयति नन्विति ।। रजतत्त्वम् इति संसर्गारोपाभिप्रायेण । तादात्म्यारोपे रजतम् इत्यपि पठनीयम् । नापि तयोः सम्बन्धः इत्युपलक्षणम्, पुरोवृत्तिरजततादात्म्यम् इत्यपि द्रष्टव्यम् । अत्यन्तासदिति । तथा च प्रमितिविषयत्वस्य भ्रमविषयादधिष्ठानात् अव्यावृत्तत्वेऽपि तस्य तत्त्वतया इष्टत्वात्, तत्त्वतया अनभिमतात् भ्रमविशेषादारोपितात् व्यावृत्तत्वेन युक्तमेव अस्य तत्त्वलक्षणत्वम् इत्याशयः । दोषवशादिति । करणदोषात् अर्थदोषा इत्यर्थः ।।

ननु यद्धि यथा भासते तत्तथैव इति औत्सर्गिकोऽयं न्यायः । अपवादस्तु बलवद्बाधकोपनिपातात् । तथा च इदम्, रजतञ्च, तत्तादात्म्यञ्च त्रितयमिह अवभासते, इदञ्च रजतत्वञ्च तत्संसर्गश्चेति । तत्र रजतरजतत्वयोः इदंकारास्पदस्य च बाधाभावात् संवादसद्भावाच्च न असत्त्वम् उपपद्यते । तत्तादात्म्यस्य तत्संसर्गस्य बाधात् विसंवादाच्च असत्त्वमेव । न च नेदं रजतम् इति बाधबोधो रजतस्यापि असत्त्वमावेदयति इति युक्तम् । तस्य तादात्म्यमात्रगोचरत्वेन उपपत्तौ रजतगोचरत्वकल्पनायां गौरवप्रसङ्गात् । रजतस्य अत्यन्तासत्त्वे प्रतीत्यनुपपत्तिश्च तत्सामग्रीविरहादिति । स्थिते चैवं सत्त्वे, बाधकसमये पुरोऽदर्शनात् देशान्तरे सत्त्वमास्थीयते; दोषसहकृतं चक्षुः शुक्तिमात्रसन्निकृष्टम् अविप्रकृष्टरजतात्मना तदा दर्शयति इति । ततश्च उक्तयुक्त्या प्रतीयमानरजतस्य अन्यत्र सत्त्वस्थितेः कथं अत्यन्तासदेव रजतं दोषवशात् शुक्तिकायामारोप्यते इति समाधानम् ? इति चेत् । मैवम् । सत्त्वे सति रजतस्य ‘असदेव रजतं प्रत्यभात्’ इत्यनुभवविरोधो दुष्परिहर एव । अत्र असत्त्वेऽपि अन्यत्र सत्त्वात् तदुपपत्तिः इति चेत्; , अत्र प्रतीतस्य देशान्तरे सत्त्वे प्रमाणाभावात् । न तावत् भ्रान्तिः तत्र मानम् । विरोधात् । अत्रैव सत्त्वावेदकत्वाच्च । नापि बाधः तत्र मानम् । तस्य इह रजतनिषेधात्मनः अन्यत्र सत्त्वासत्त्वयोः औदासीन्यात् । नापि भ्रान्त्यनुपपत्तिः तत्र मानम् । भ्रान्तेः पुरोवर्ति-इन्द्रिय-दोषादिभिर्विना अनुपपद्यमानायाः तन्मात्राक्षेपकत्वात् ।

असत्त्वे कथं प्रतीतिः ? इति चेत् सत्त्वेऽपि कथम् ? न हि अन्यत्र सत्त्वम् अत्र-प्रतीतेः उपकारि ।। इन्द्रियार्थसन्निकर्षार्थं वा तदास्थेयम्, संस्कारसिद्ध्यर्थं वा । नाद्यः । विप्रकृष्टेन सन्निकर्षाभावात् । पुरोवर्तिसन्निकर्षमात्रेणैव भ्रान्त्युत्पादाङ्गीकारात् । नान्त्यः । संस्कारो हि रजतानुभवं आक्षिपेत् । अनुभवश्च यथार्थो रजतसत्ताम्, अत्र-प्रतीतस्यैव अन्यत्र-सत्ता तु कुतः कल्प्या ? किञ्च असतः प्रतिभासासम्भवे कथं तादात्म्यं प्रतिभासेत्, तस्य कुत्राप्यभावात् ।

नापि बाधानुपपत्तिः तत्र मानम् । बाधस्य अन्यत्र सत्तया विना अनुपपत्त्यभावात् । अत्रैव रजतसत्तानिषेधान्यथाऽनुपपत्त्या अन्यत्र सत्त्वसिद्धिः इति चेत् न, तस्य अत्रैव प्राप्तत्वेन उपपत्तेः ।।

तथा च प्रतीतस्य अन्यत्र सत्तायाः विना प्रमाणमसिद्धेः नान्यत्र सत्त्वमिति युक्तमुक्तम् ।

अत्यन्तासदेव रजतं दोषवशात् शुक्तिकायाम् आरोप्यते इति सङ्क्षेपः ।।

काशी टिप्पणी

रूढिपक्षे खण्डनकारोक्तरीत्या दूषणमाशङ्कते ।। नन्विति ।। शुक्तिरजतं शुक्तौ इदं रजतं इति प्रतीयमानम् । तद्धि विशेष्यविशेषणसम्बन्धरूपं प्रत्येकं प्रमेयमेवेत्याह ।। न हीति ।। तयोः शुक्तिरजतत्वयोर्भासमानः सम्बन्धः समवायो न प्रमेय इत्यपि नेत्यर्थः । देशकालान्तरे विद्यमानस्यैवारोप्यत्वेन भ्रमविषयस्यापि तत्वत्वात् तत्वानुभूतित्वरूपप्रमालक्षणस्य भ्रम इव प्रमेयत्वरूपतत्वलक्षणस्य भ्रमविषयेऽतिव्याप्तिः । तस्यापि लक्ष्यत्वे प्रशब्दवैयर्थ्यम् । न च भ्रमविषयस्य प्रत्येकं प्रमेयत्वेऽपि विशिष्टस्यातथात्वात्तद्वारकतया तत्सार्थक्यमिति वाच्यम् । विशिष्टस्य विशेष्यविशेषणसम्बन्धानतिरिक्तत्वादिति भावः ।

ननु शुक्तिरजतत्वयोः प्रमेयत्वेऽपि तदुभयसम्बन्धस्य न तथात्वं शुक्तौ रजतत्वसम्बन्धाभावात् । तथा च तद्वारकतयैव प्रशब्दसार्थक्यमित्याशङ्क्य निषेधति ।। शुक्तिव्यक्ताविति ।। मा भूदिति ।। अन्यत्र सत एव रजतत्वसम्बन्धस्य शुक्तिव्यक्तौ भानेन देवदत्तादिवत्प्रमेयत्वोपपत्तेरिति भावः । समाधत्ते ।। स्यादिदमिति ।। इदं शुक्तिरजतादेस्तत्वत्वोपपादनम् । सत्तां सत्तानियमं अभ्युपगच्छतां तार्किकाणां मत एव दूषणं, उक्तातिव्याप्तिसम्पादकत्वात् । न तु सिद्धान्ते । आरोपितरजतादावतिव्याप्तिवारकतया प्रशब्दसार्थक्यादिति भावः ।

नन्वसतः कथं प्रतीतिः ? सन्निकर्षाभावात् । न च कथमन्यत्र सतोऽपि प्रतीतिः ? संयोगादिसन्निकर्षाभावादिति वाच्यम् । ज्ञानलक्षणसन्निकर्षस्वीकारात् । असतश्च पूर्वमनुपस्थितत्वेन तदयोगादित्याशङ्क्योक्तम् ।। दोषवशादिति ।। अयं भावः । अपूर्वसन्निकर्षकल्पनापेक्षया रजतसादृश्यादिदोषसहकृतशुक्तिसन्निकर्षस्यैव रजतावभासकत्वं युक्तम् । न च आरोपितस्यान्यत्र सत्त्वमपि कल्प्यं मानाभावात् । न चासत्त्वेऽपि किं मानमिति वाच्यम् । असदेव रजतं प्रत्यभात् इत्यनुभवस्यैव मानत्वात् । न च असत् इत्यस्य तत्र असत् इत्यर्थः । मानाभावात् । किं चोपस्थितमनुपस्थितं वा रजतमारोप्यम् । नाद्यः, आरोपितस्योपस्थितरजतवैलक्षण्यानुभवात् । नान्त्यः, अनुपस्थितस्य सन्निकर्षाभावेन भानायोगात् । किञ्च विनिगमकाभावेन बहूनां भ्रमविषयत्वकल्पनादसतस्तद्विषयत्वकल्पनमेव लघीयः । न चासतस्तज्ज्ञानजनकसन्निकर्षाश्रयत्वलक्षणविषयत्वायोगः । तदभावेऽप्युल्लेख्यत्वरूपविषयत्वोपपत्तेरिति । एवं च प्रशब्दाभावे भ्रमविषयविशिष्टेऽप्यतिव्याप्तिर्बोध्या । सिद्धान्ते विशिष्टस्याप्यतिरिक्तत्वात् । अत एव तत्वविवेकटीकायां ‘उल्लिखितं विशिष्टमतत्वमेव’’ इत्युक्तमिति दिक् ।