यदि चैकमेव तत्वं तदा भेदोपलम्भविरोधः

तत्वैकत्ववादनिरासः

टीका

यदि चैकमेव तत्वं तदा भेदोपलम्भविरोधः । तद्भ्रान्तितायां च बाधकं वाच्यं । तच्च अन्यत्र निरस्तम् ।

सर्वस्वातन्त्र्यवादनिरासः

यदि वा सर्वमेव स्वतन्त्रं स्यात्तदा पारतन्त्र्यादिप्रतीतिविरोधः । नित्यसुखादिप्रसङ्गाच्च ।

सर्वपारतन्त्र्यवादनिरासः

यदि वा परतन्त्रमेव तत्वं भवेत्तदा अनवस्थितेरसम्भवाच्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च ।

तत्वसङ्ख्यानटीकाभावदीपः

नन्वस्तु नाम तत्वम् । तच्च ब्रह्मरूपं शून्यरूपं वा स्वरसभङ्गुरं विज्ञानरूपं वा एकमेव । न द्विविधमिति । अत आह ।। यदि चेति ।। भेदोपलम्भेति ।। नाहं चैत्रः, अपि तु मैत्रः इत्यादिरूपेण जीवानामन्योन्यं जडाच्च जडानामन्योन्यं च भेदोपलम्भविरोध इत्यर्थः । तच्चान्यत्रेति । दृश्यत्वाद्यनुमानादिरूपबाधकम् । ‘वैधर्म्याच्च न स्वप्नादिवत्’ इत्यादिसूत्रभाष्यादौ तत्वनिर्णयादिप्रकरणेषु च निरस्तमित्यर्थः ।। पारतन्त्र्यादीति ।। आरब्धकार्यप्रतिहत्या अनभिलषितानिष्टप्राप्त्या च पारतन्त्र्यानुभवात् । आदिपदेन हिताकरणाहितकरणकृत्स्नप्रसक्त्यादिग्रहः ।। नित्यसुखादीति ।।

यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत्’ ।

इत्युक्तेरिति भावः । आदिपदेन दुःखनिवृत्तिः ।। अनवस्थितेरिति ।। पराधीनत्वाविशेषात् अस्यायं नियामकः तस्यान्यः तस्याप्यपरः इत्यपर्यवसितानन्तव्यक्तिपरंपरापत्त्या पूर्वपूर्वनियमनासिद्ध्योत्तरोत्तर-नियमनासिद्धेर्मूलक्षयकरी अनवस्थादोषादित्यर्थः । अभ्युपेत्येदमुदितम् । वस्तुतस्तु परतन्त्रत्वाविशेषादन्येनान्यस्य नियमनमेवासम्भवीत्याह ।। असम्भवादिति ।। एकेनान्यस्य नियमनासम्भवान्न कस्यापि सत्ता प्रतीतिः प्रवृत्तिश्च स्यादित्यर्थः । तदाह सूत्रकारः ‘अनवस्थितेरसम्भवाच्च नेतरः’ इति ।। आगमेति ।। ‘‘पृथिवीमन्तरो यमयति आत्मानमन्तरो यमयति’’ इत्याद्यागमविरोध इत्यर्थः ।

सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ।

इत्युक्तेरिति भावः ।

तत्वसङ्ख्यानटीकाटिप्पणी

किं भेदो भेदिन्यो भिन्नोऽभिन्नो वा भिन्नाभिन्नो वा । नाद्यः । सोऽपि भेदो भिन्न इत्यनवस्थानात् । न द्वितीयः । तच्छब्दयोः पर्यायताऽऽपत्त्या घटो भिन्न इति सहप्रयोगाभावापत्तेः । न तृतीयः । विरोधात् । अतो बाधकाद्भेद आपातरमणीय विज्ञाविलसित एवेति तत्प्रतीतिर्भ्रमतयैवेत्यत आह– तच्चेति ।। भेदस्य धर्मिस्वरूपत्वेऽपि तच्छब्दयोर्विशेषबलेनापर्यायत्वम् । अन्यथैतया युक्त्याऽभेदोप्यविद्याकल्पितः स्यादित्येवं निराकृतमित्यर्थः ।। ‘यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ।’ इति भगवत्पादीयं वचनं मनसि निधायाह– नित्यसुखादिप्रसङ्गश्चेति ।। आदिपदेन सूत्रोक्तहिताहितक्रियादिप्रसक्तिदोषो ग्राह्यः । अनवस्थितेरसम्भवाच्चेति ।। सर्वस्यापि पारतन्त्र्ये परस्यापि पारतन्त्र्यमेवमन्यस्यापीत्यनवस्थितेरित्यर्थः । अभ्युपगम्य चेदमुदितम् । नियामकजीवस्यापि प्रेर्येण जीवत्वसाम्यात् प्रेरणासम्भवाच्चेत्यर्थः । ननु भवताऽप्यनु(प्यु)त्तमजीवानां अधमजीवनियामकताऽङ्गीकृतैव । तत्रापि सुममिदं दूषणमिति चेन्न । यथा सति राज्ञि मण्डलेशे प्रजानां तच्छक्त्या नियम्यनियामकभावः सम्भवति, न त्वराजके लोके । तथाऽस्मत्पक्षे जीवानां स्वतन्त्रेश्वरशक्त्या जीवान्तरनियामकत्वमुपपद्यते । न परपक्षे, स्वतन्त्रवस्वनङ्गीकारादिति भावः । सत्तादिकमित्यत्रादिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् । साङ्ख्यादय इत्यत्रादिपदेन पाशुपताद्याः ग्राह्याः । प्रधानादिकमित्यत्रादिपदेन शिवशक्त्यादिकं ज्ञातव्यम् ।।

तत्वसङ्ख्यानविवरणम्

भावेऽपि तस्यैकत्वेनानेकप्रकारत्वाभावाद्द्वैविध्यं नाङ्गीक्रियत इति द्वितीयमनूद्य दूषयति ।। यदि चेति ।। भेदोपलम्भेति । घटपटादिभेदावगाहिप्रत्यक्षोपलम्भविरोध इत्यर्थः । भेदोपलम्भस्य भ्रान्तित्वमाशङ्क्य निराकरोति ।। तद्भ्रान्तितायां चेति । तस्य भेदोपलम्भस्य भ्रान्तितायामित्यर्थः ।। वाच्यमिति । न च तदस्तीति वाक्यशेषः । ननु कथं नास्ति बाधकं भेदः किं भेदिभ्यां भिन्नो वाऽभिन्नो वा भिन्नाभिन्नो वा । नाद्यः । सोऽपि भेदो भिन्न इत्यनवस्थानात् । न द्वितीयः । तत्तच्छब्दयोः पर्यायत्वापत्त्या घटोऽभिन्न इति सहप्रयोगाभावापत्तेः । न तृतीयः । विरोधात् । अतो बाधकात् भेदः आपातरमणीयाविद्याविलसित एवेति तत्प्रतीतिर्भ्रमरूपैवेत्यत आह ।। तच्चेति । भेदस्य धर्मिस्वरूपत्वेऽपि तत्तच्छब्दयोर्विशेषबलेनापर्यायत्वम् । अन्यथा अनयैव युक्त्याऽभेदोऽप्यविद्याकल्पितस्स्यादित्येवं निराकृतमित्यर्थः ।

तत्वस्यानेकप्रकारत्वेऽपि स्वतन्त्रत्वेनास्वतन्त्रत्वेन वा सर्वस्य एकविधत्वेन द्वैविध्याभावाद्वेति तृतीयमनूद्य दूषयति ।। यदि चेत्यादिना ।। पारतन्त्र्येति । भृत्यादेः स्वाम्यधीनतायाः, पुत्रादेः पित्राद्यधीनतायाः स्वप्रत्यक्षसिद्धत्वेन तद्विरोध इत्यर्थः ।

यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ।’

इति भगवत्पादीयं वचनं मनसि निधाय दूषणान्तरमाह ।। नित्यसुखादीति ।। आदिपदेनेतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरिति सूत्रोक्तहिताक्रियादिप्रसक्तदोषोऽपि ग्राह्यः । तथा च सर्वस्यापि स्वतन्त्रत्वे नित्यसुखं स्यात् । स्वतन्त्रकर्तुरपि हिताक्रियादिदोषप्रसङ्गाच्चेत्यर्थः । सर्वस्यापि पारतन्त्र्ये पराधीनत्वाविशेषात् अस्यायं नियामकस्तस्यान्यस्तस्याप्यपर इत्यपर्यवसितानन्तव्यक्तिपरंपरया उत्तरोत्तरनियमनासिद्ध्या पूर्वपूर्वनियमनासिद्धमूलक्षयकरानवस्थादोषादित्यर्थः । अभ्युपेत्यैतदुक्तम् । वस्तुतस्तु पारतन्त्र्याविशेषादन्येनान्यनियमनमेवासम्भवीत्याह ।। असम्भवादिति ।। एकेनान्यस्य नियमनासम्भवात् । न कस्यापि सत्ता प्रतीतिः प्रवृत्तिश्च स्यादिति राघवेन्द्रीये ।। अनवस्थितेरसम्भवाच्च ।। सर्वस्यापि पारतन्त्र्ये परस्यापि पारतन्त्र्यं एवमन्यस्यापीत्यनवस्थितेरित्यर्थः । अभ्युपगम्य चेदमुदितम् । नियामकजीवस्यापि प्रेर्येण जीवत्वसाम्यात्प्रेरणासम्भवाच्च इत्यर्थः ।

ननु भवद्भिरप्युत्तमजीवानामधमजीवनियामकताऽङ्गीकृतैव । अतस्तत्रापि सममिदं दूषणमिति चेन्न । यथा सति राज्ञि मण्डलेशे प्रजानां तच्छक्त्या नियम्यनियामकभावः सम्भवति । न त्वराजके लोके । तथाऽस्मत्पक्षे जीवानां स्वतन्त्रेश्वरशक्त्या जीवान्तरनियामकत्वमुच्यते । न परपक्षे । स्वतन्त्रवस्त्वनङ्गीकारादिति भावः । यथोक्तं सूत्रकृता । अनवस्थितेरसम्भवाच्च नेतर इति । व्याख्यातं चैतद्भाष्ये । जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमे प्रमाणाभावात् अनीश्वरापेक्षत्वाच्च । सत्तादिकं स्यादित्यत्रादिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् ।। आगमविरोधश्चेति । सर्वस्याधिपतिः सर्वस्येशानः सर्वस्य वशीत्यादि स्वतन्त्रेश्वरप्रतिपादकागमविरोधः ।

तत्वसङ्ख्यानटिप्पणम्

एकमेव तत्वमिति पक्षं प्रतिक्षिपति ।। यदीति ।। भेदेति ।। घटपटादिभेदग्राहकप्रत्यक्षादिविरोध इत्यर्थः । नन्वत्र भेदस्यावास्तवत्वेन तदुपलंभस्य भ्रमत्वसम्भवात्तद्विरोधोऽकिंचित्कर इत्यत आह ।। तदिति ।। तस्य भेदोपलंभस्य भ्रान्तितायां वक्तव्यायां बाधकं वाच्यम् । नोक्तं बाधकम् । अतो नायं भ्रमरूप इत्यर्थः । ननु ‘नास्ति नासीन्न भविष्यति’ ‘भेदो मिथ्या भेदत्वा’ ‘नेह नानाऽस्ति किञ्चन,’ ‘विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । सापेक्षत्वात्सावधेश्च तत्वेऽद्वैतप्रसङ्गतः । एकाभावादसन्देहान्न रूपं वस्तुनो भिदा’ इत्यादीनां बाधकानां विद्यमानत्वात्तदेव बाधकजातमत्राप्युच्यत इत्यत आह ।। तच्चेति ।। तत् बाधकं अन्यत्र तत्वनिर्णयटीकादौ निरस्तमित्यर्थः । मतान्तरमाशंक्य परिहरति ।। यदि वेति ।।

सुखदुःखात्साजिहासावतस्तदुपादानहानयोः शक्तिमत्त्वस्यैव स्वातन्त्र्यरूपतया सर्वेषां स्वातन्त्र्ये निरन्तरं दुःखासम्भन्नसुखानुभवप्रसङ्ग इति भावः । इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः, ‘यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत्’ इत्यादिभगवत्पादाचार्योक्तेः । तत्वमङ्गीकरोमि बहुविधम् । परं तु तत्परतन्त्रमेव । न तु स्वतन्त्रमिति स्वविभागविरोधिपक्षान्तरं प्रतिक्षिपति ।। यदि वेति ।। यदि परतन्त्रमेकमेव तत्वं भवेत्तदा सर्वस्यापि परशब्दितजीवान्तरतन्त्रत्वस्य वक्तव्यतया तस्यापि जीवत्वेन जीवान्तरमेव तन्नियामकं वाच्यम् । तदप्येवं तदप्येवमित्यनवस्थितेः । न च वाच्यं बीजाङ्कुराद्यनवस्थावदस्याप्यनवसितपरंपरारूपाया अनवस्थायाः सिद्धविषयत्वेन न दूषणत्वमिति । पूर्वपूर्वजीवनियामकत्वसिद्ध्यधीनत्वादुत्तरोत्तरजीवनियामकत्वस्य तदसिद्धौ तदसिद्धेर्मूलक्षयापत्तेस्तस्या दूषणत्वसम्भवात् । यथाऽऽहुः ‘‘मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम्’’ इति । जीवान्तरस्यापि जीवत्वसाम्यान्नियामकत्वासम्भवाच्च न कस्यापि सत्ताशब्दिता प्रवृत्तिः स्यादित्यर्थः । अनवस्थितेरसम्भवाच्च नेतर इति भगवत्स्मरणादिति सूचयितुं सौत्रपदानुकरणम् । न चाक्षिपच्छून्यतया स्वतः पृथक्प्रवृत्तिविकलयोरप्यन्धपङ्ग्वो इतरेतरसाहित्येनेव स्याज्जागती प्रवृत्तिरिति वाच्यम् । मेलकस्यापि कस्यचिदपेक्षणीयत्वादित्यत्र तात्पर्यात् । दूषणान्तरमप्याह ।। आगमविरोधश्चेति ।। चः पूर्वहेतुभ्यां सह समुच्चये । आगमाश्च ‘आनीदवातं स्वधया तदेकं तस्माद्धान्यन्नपरः किञ्चनास,’ ‘नाहङ्कञ्चिदुपाश्रितः,’ ‘सर्वस्याधिपतिः सर्वस्येशान’ इत्याद्या भगवत्स्वातन्त्र्यप्रतिपादका द्रष्टव्याः ।

भावचन्द्रिका

अस्तु तर्हि तत्त्वस्य ऐकविध्यात् भवदुक्तद्वैविध्यानङ्गीकारः इति द्वितीयः निरवद्यत्वात् इत्यत आह यदि चेति । घटपटौ भिन्नौ इत्यादिभेदप्रत्यक्षोपलम्भबाधः इत्यर्थः । बाधकं वाच्यमिति । न च तत् वक्तुं शक्यम् । ततश्च बाधकाभावात् न भेदोपलम्भस्य भ्रान्तित्वमिति भावः। ननु विमतो भेदः मिथ्या भेदत्वात् चन्द्रभेदवत् इत्यनुमानस्यैव बाधकत्वात् कथं बाधकाभावः ? इत्यतः अनुव्याख्यानादौ

......साध्यधर्मोऽयं सन्नसन्वा न वोभयम् ।

यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।।

इत्यादिना अनुमानस्य निरस्तत्वात् न तदपि बाधकमित्याह तच्चान्यत्रेति । ननु च न व्यक्त्यैक्यं ब्रूमः । येन उक्तभेदोपलम्भबाधकप्रसङ्गः किन्नाम स्वतन्त्रत्वादिना सर्वस्यापि ऐकविध्यमेव इति तृतीयं निराकरोति यदीति । नित्यसुखादीति । दुःखाभावादिकम् आदिशब्दार्थः ।

सर्वस्य अस्वातन्त्र्ये ‘‘अनवस्थितेरसम्भवाच्च नेतरः’’ इति सूत्रखण्डोक्तन्यायेन न कस्यापि प्रवृत्तिः इत्याह यदि वेति । जीवस्य जीवान्तरनियामकत्वेन अनवस्थितेः । तस्यापि जीवत्वेन अस्वतन्त्रतया अन्यापेक्षत्वात् । जीवत्वेन अन्यनियामकत्वासम्भवाच्च । जीवत्वेऽपि अस्य अन्यानपेक्षत्वे अन्यनियामकत्वे च पूर्वस्यैव तदस्तु इत्यर्थः ।। सत्तादिकमिति आदिपदेन प्रवृत्त्यादेः सङ्ग्रहः । ननु च प्रत्येकमसमर्थाभ्यां वाह्यवाहकभावापन्नाभ्यामन्धपङ्गुभ्यां गमनक्रियानिर्वाहवत् प्रत्येकमसमर्थैः अपि मिलितैः अस्वतन्त्रैः प्रवृत्त्यादिकमुपपद्यते इति चेत् न । स्वतःशक्तिमात्रशून्ययोः इतरेतराश्रयणेन इतरेतरप्रत्यासत्तेरेव अयोगस्य अत्र अभिप्रेतत्वात् । आगमविरोधाच्चति । ‘‘सर्वस्याधिपतिः सर्वस्येशानः’’ इत्यादिभगवत्स्वातन्त्र्यप्रतिपादकागमविरोधादित्यर्थः ।

(वें.टि.) तच्चेति ।। ‘सापेक्षत्वात्सावधेश्च तत्वेऽद्वैतप्रसङ्गतः । एकाभावान्न संदेहान्न रूपं वस्तुनो भिदा ।।’ इत्यादिबाधकं तु विष्णुतत्त्वनिर्णयादौ निरस्तमित्यर्थः ।

काशी टिप्पणी

द्वितीयं दूषयति ।। यदि चेति ।। ननु घटपटादिभेदप्रतीतिर्भ्रान्तिरेव अधिष्ठानतत्वाभ्युपगमेनोक्तदोषाभावादिति । अत आह ।। तद्भ्रान्तितायामिति ।। भेदप्रतीतेर्भ्रान्तितायामङ्गीक्रियमाणायां बाधकं वाच्यं, अन्यथाऽधिष्ठानज्ञानस्यापि भ्रान्तित्वापातात् । तच्च, भेदो मिथ्या भेदत्वात् इत्याद्यनुमानरूपमुपजीव्यप्रत्यक्षादिविरोधादप्रमाणं अन्यत्र तत्वोद्योतादौ निरस्तमित्यर्थः । तृतीयं दूषयति ।। यदि वेति ।। पारतन्त्र्यादीत्यादिना दुःखादेर्नित्यसुखादीत्यादिना तदभावादेः परिग्रहः । स्वतन्त्रस्येष्टानिष्टप्राप्तिपरिहारावश्यकत्वात् । न च कथमचेतनस्य घटादेः सुखादिप्रसङ्ग इति वाच्यम् । स्वातन्त्र्यादेव चैतन्यस्यापि प्राप्तेः । सुखादेरपि स्वातन्त्र्येण कारणानपेक्षत्वाच्च । न चैवं सुखादेरन्येनानापाद्यत्वात्कथं तत्प्रसङ्ग इति वाच्यम् । ईश्वरवन्नित्यव्यक्तसुस्वरूपत्वादेरापाद्यत्वात् । चतुर्थं दूषयति ।। यदि वेति ।। अनवस्थितेरिति । यस्य यदधीनत्वं तस्य तदन्याधीनत्वमित्यव्यवस्थितेः, विनिगमकाभावेन मिथो नियामकत्वासम्भवाच्च नियामकासिद्ध्या न कस्यापि सत्ताप्रवृत्यादिकं स्यादित्यर्थः । न च सिद्धान्तेऽप्येष दोषः । सर्वनियामकेश्वरशक्तेरेव विनिगमकत्वादिति भावः ।। आगमविरोधश्चेति ।। सर्वस्याधिपतिः सर्वस्येशानः’’ इत्याद्यागमविरोध इत्यर्थः ।