असंसृष्टं महानहम् । बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च
असंसृष्टविभागः
टीका
तत्रासंसृष्टं निर्दिशति ।। असंसृष्टमिति ।।
तत्वसङ्ख्यानम्
..... ...... ..... असंसृष्टं महानहम् ।
बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च ।। ९ ।।
संसृष्टविभागः
संसृष्टं निर्दिशति ।। संसृष्टमिति ।।
तत्वसङ्ख्यानम्
संसृष्टमण्डं तद्गं च समस्तं संप्रकीर्तितम् ।
संसृष्टासंसृष्टविभागपरीक्षा
नन्वेषां चतुर्विंशतितत्वानामसंसृष्टत्वं नाम यद्येकदेशेनोत्पत्तिस्तर्ह्य नुत्पन्नस्यासत्त्वादुत्पन्नमेव तत्वम् । तच्च संसृष्टमेवेति न द्वैविध्यं न च प्रकारान्तरमस्तीति । मैवम् । सूक्ष्मरूपेण नित्यानां महदादीनां प्रकृत्याद्यंशैरुपचयमात्रं क्रियत इति तान्यसंसृष्टानि । न चैवं ब्रह्माण्डं तदन्तर्गतानीति संसृष्टानि । एषामपि मूलरूपं नित्यमिति चेन्न । साक्षान्मूलरूपस्य विवक्षितत्वात् । एवं सति महदादीनां नित्यानित्यत्वं कथं न स्यादिति चेत्स्यादेवं यदि सूक्ष्मरूपे महदादिव्यवहारः स्यात् किं तु प्रकृतिरेव सोच्यते ।
तत्वसङ्ख्यानटीकाभावदीपः
।। साक्षान्मूलरूपस्येति ।। तस्यैवोपचितत्वादिति भावः ।
तत्वसङ्ख्यानटीकाटिप्पणी
संसृष्टभिन्नमसंसृष्टं किञ्चिद्वस्तु नास्त्येवेति कथं द्वैविध्यमित्याशङ्कते– नन्विति । अयम्भावः । असंसृष्टत्वं नाम किञ्चित्संसृष्टं किञ्चिदसंसृष्टमित्येवरूपैकदेशोपत्तिर्वा प्रकारान्तरं वा । नाद्यः । तथासति सर्वेषामुत्पन्नत्वस्य प्राप्तत्वेन संसृष्टत्वमेव स्यात् । उत्पन्नस्यैव संसृष्टशब्दार्थत्वात् । न चैकदेशस्योत्पत्तावपि एकदेशिनोऽनुत्पत्तेरुत्पन्नरूपत्वेनासंसृष्टत्वमिति वाच्यम् । एकदेशस्यैकदेश्यभिन्नत्वेन तदुत्पत्तौ तदुत्पत्तेरावश्यकत्वात् । तथाचानुत्पन्नांश्यभावेन सर्वं तत्त्वं सम्यक् सृष्टमेवेति किञ्चित्संसृष्टं किञ्चिदसंसृष्टमित्येवंरूपासंसृष्टं नाम न किञ्चिदस्तीति न द्वैविध्यमिति । न द्वितीयः । प्रकारान्तरस्यानिर्वचनादिति । येषां नित्यानि सूक्ष्मरूपाण्येव साक्षादुपादानानि तान्यसंसृष्टानि । येषान्तु विकृतान्युपादानानि तानि संसृष्टानीति द्वैविध्योपपत्तिरित्याशयेन समाधत्ते– सूक्ष्मरूपेणेत्यादिना ।। मूलरूपं उपादानरूपम् । विवक्षितत्वादिति ।। नित्यत्वेनेति शेषः । संसृष्टेतु नैवम् । तत्र साक्षादुपादानस्यानित्यत्वादिति भावः । व्यवहारः स्यादिति ।। तथा च महत्पदाभिधेये न नित्यत्वमिति भावः । तर्हि तत्केन शब्देन वाच्यमिति पृच्छति– किन्त्विति ।। उत्तरयति– प्रकृतिरेवेति ।।
तत्वसङ्ख्यानविवरणम्
मूले मीयन्त इति मात्राः शब्दाद्याः विषया इत्यर्थः । संसृष्टभिन्नमसंसृष्टं किञ्चिद्वस्तु नास्त्येवेति न द्वैविध्यमित्याशङ्कते ।। नन्वेषामिति ।। अनुत्पन्नस्यासत्त्वादिति । अनुत्पन्नस्यैकदेशिनोऽभावादित्यर्थः । अयं भावः । असंसृष्टत्वं नाम किञ्चिदसृष्टमिति एकदेशोत्पत्तिर्वा प्रकारान्तरं वा । नाद्यः । तथा सति सर्वेषां महदादीनां उत्पन्नत्वस्यैव प्राप्तत्वेन संसृष्टत्वमेव स्यात् । उत्पन्नस्यैव संसृष्टशब्दार्थत्वात् । न चैकदेशोत्पत्तावपि एकदेशिनोऽनुत्पत्तेरुत्पन्नानुत्पन्नरूपत्वेनासंसृष्टत्वमिति वाच्यम् । एकदेशस्य एकदेश्यभिन्नत्वेन तदुत्पत्तौ तस्याप्युत्पत्तेः । तथा च अनुत्पन्नैकदेश्यभावेन सर्वं तत्वं सम्यक्सृष्टमेवेति किञ्चिदसृष्टमित्येवंरूपासंसृष्टं नाम न किञ्चिदस्तीति न द्वैविध्यम् । न द्वितीयः । प्रकारान्तरस्या निर्वचनादिति । येषां नित्यानि सूक्ष्मरूपाण्येव साक्षादुपादानानि तान्यसंसृष्टानि । येषान्तु विकृतान्येवोपादानानि तानि संसृष्टानीति द्वैविध्योपपत्तिरित्याशयेन समाधत्ते ।। सूक्ष्मरूपेणेत्यादिना ।।
प्रकृत्याद्यंशैरिति । महत्तत्वसूक्ष्मरूपाणां प्रकृत्यंशैस्सत्वादिगुणैरुपचयः। आदिपदेनाहंकारसूक्ष्मरूपाणां महत्तत्वाद्यंशैरुपचय इत्यर्थः ।। न चैवमिति । सूक्ष्मरूपेण नित्यानां ब्रह्माण्डादीनामन्यांशैरुपचय इत्येवं न हीत्यर्थः । किं नाम प्रकृत्याद्यंशोपचितमहदाद्युपादानकान्येवेति भावः । ननु ब्रह्माण्डादीनामपि यत्परंपरामूलरूपं तस्य नित्यत्वादन्यांशैस्तस्योपचयमात्रमेवाङ्गीकृत्यासंसृष्टत्वमेव स्वीक्रियतां न संसृष्टत्वमित्याशयेन शङ्कते ।। तेषामपीति । मूलरूपं उपादानरूपम् ।। विवक्षितत्वादिति । नित्यत्वेनेति शेषः । ब्रह्माण्डादौ तु नैवम् । तत्र साक्षादुपादानभूतस्य विकृतस्य महदादेरनित्यत्वादिति भावः ।। एवं सतीति । महदादीनां सूक्ष्मरूपेण नित्यत्वादुपचितरूपेणानित्यत्वान्नित्यानित्यत्वमेव स्यान्न त्वनित्यप्रभेदरूपत्वमित्यर्थः ।। व्यवहारः स्यादिति । तथा च महत्पदाभिधेये न नित्यत्वमिति भावः । तर्हि तत्केनशब्देन वाच्यमिति पृच्छति ।। किं त्विति । उत्तरमाह ।। प्रकृतिरेवेति ।
तत्वसङ्ख्यानटिप्पणम्
तत्र तदुभयमध्ये । महान् महत्तत्वम् । अहम् अहङ्कारतत्वम् । बुद्धिः बुद्धितत्वम् । मनः मनस्तत्वम् । खानि इन्द्रियाणि दश । खमिन्द्रियम् । इन्द्रियेऽपि खमिति विश्वामरौ । पञ्चेति मात्रापदेन भूतपदेन चान्वेति । ते च शब्दस्पर्शरूपरसगन्धाः । भूतानि चाकाशवायुतेजोजलपृथिवीरूपाणि । एकान्वयभ्रमनिरासायाह ।। संसृष्टमिति ।। अण्डं ब्रह्माण्डम् । तद्गं ब्रह्माण्डान्तर्गतं भौतिकम् । मूले अण्डं समस्तं, तद्गं च भौतिकं च संसृष्टं प्रकीर्तितमित्यन्वयः । नन्विदमसंसृष्टत्वं नामैकदेशेनोत्पत्तिर्न भवति । किं तु धर्मान्तरमेवेत्यत आह ।। न चेति ।। टीकायां चतुर्विंशतितत्वानामिति विशेषणसमासः ।
न च ‘‘विशेषणं विशेष्येणे’’ति समासोऽङ्गीकर्तुं न शक्यते । ‘‘दिक्संख्ये संज्ञाया’’मिति संज्ञायामेव तस्य नियमितत्वात् । चतुर्विंशतितत्वशब्दस्य चासंज्ञात्वादिति वाच्यम् । षोडशपदार्थादिपदवद्विशिष्टस्य शब्दस्य सामयिकसंज्ञात्वाङ्गीकारात् । विशेषस्तु ‘‘पञ्चस्कन्धेभ्य’’ इति तत्वनिर्णयटीकाव्याख्यातोऽवगन्तव्यः । तेन द्विगुसमासे चतुर्विंशतितत्व्या इति भाव्यमिति शङ्कानवकाशः । इतिशब्दः शङ्कासमाप्तौ । परिहरति ।। मैवमिति ।। सूक्ष्मरूपेण अनुपचितरूपेण । प्राकृताद्यंशैः प्रकृतेरमी प्राकृताः प्रकृतिसम्बन्धिनोंऽशाः । आदिना महत्तत्वादि सम्बन्धिनश्च ग्राह्याः । तैरुपचयमात्रं स्थूलतामात्रम् । न तु सामस्त्येनोत्पत्तिः । इति इतिहेतोः । तानि महदादीनि । प्रकृत्यंशैर्महतो महदंशैरहंकारस्योपचय इत्यादि क्रमेण ज्ञेयम् । ब्रह्माण्डान्तर्गतानामप्येवंविधत्वेनानित्यत्वस्य द्वैविध्यं न सम्भवतीत्यत आह ।। न चैवमिति ।। एवं महदादिवत् । स्वरूपेणानुत्पन्नत्वे सति चोपचितरूपेणोत्पत्तिमन्ति चेति हेतोः संसृष्टानीत्यर्थः । तेषामपि तादृशत्वान्न च नैवमित्युक्तिर्युक्तेति वक्ति ।। तेषामिति ।। तेषां ब्रह्माण्डान्तर्गतानां घटादीनाम् । मूलरूपं आदिकारणरूपम् । परिहरति ।। नेति ।। महदादिचतुर्विंशतितत्वानां साक्षान्मूलरूपस्य नित्यत्वेन विवक्षितत्वादभिप्रेतत्वादित्यर्थः । नित्यतयेति शेषः । ब्रह्माण्डतदन्तर्गतानां महदादिकार्यद्रव्याणां साक्षान्मूलस्य महदादेर्वैकृतस्यानित्यत्वादिति भावः । एवं सति सूक्ष्मोपचितभागैर्नित्यानित्यत्वे । परिहरति ।। स्यादेवमिति ।। तर्हि तन्मूलं किंपदाभिधेयमित्यत आह ।। किं त्विति ।।
काशी टिप्पणी
उक्तद्वैविध्यानुपपत्तिमाशङ्कते ।। नन्विति ।। अत्र यद्यपि तत्वविवेकाद्युक्तगुणत्रयादितत्वान्तरमपि सङ्ग्राह्यमेव तथाऽपि महानहमित्यादेः सामानाधिकरण्यभ्रमेण न्यूनसङ्ख्याप्रतीतिव्यवच्छेदार्थमेव चतुर्विंशतिग्रहणमिति मन्तव्यम् ।। एकदेशेनेति ।। एकदेशेनैवेत्यर्थः । स्वरूपेणोत्पत्तिशून्यत्वे सति एकदेशेनोत्पत्तिमत्त्वमिति यावत् । अनुत्पन्नस्य स्वरूपेणोत्पत्तिशून्यस्य । असत्त्वात् एकदेशेनोत्पत्त्यसत्त्वात् तददर्शनादिति यावत् । अस्तु तर्हि सम्यक्तवमतिशयविशेषः । तथा चातिशयेनोत्पन्नं संसृष्टं, अतथाभूतमसंसृष्टमिति द्वैविध्योपपत्तिरित्यत आह ।। न चेति ।। अतिशयविशेषे मानाभावादिति भावः । सूक्ष्मेति स्वरूपकथनम् । उपादानरूपेणेत्यर्थः ।
प्राकृताद्यंशैः प्रकृतिगुणत्रयांशैः । उपचयः स्थूलरूपनिष्पत्तिः । न तूपादानरूपेणाप्यनित्यानामेवोत्पत्तिरिति मात्रार्थः । तथा च नित्योपादानकत्वमसंसृष्टत्वं अतथाभूतत्वं संसृष्टत्वमिति भावः । एवं सति ब्रह्माण्डादीनामप्यसंसृष्टत्वमेव स्यादित्याशङ्कते ।। एषामिति ।। मूलमुपादानम् । कार्यमात्रस्य साक्षात् परम्परया वा प्रकृत्युपादानकत्वादिति भावः ।। विवक्षितत्वादिति ।। सूक्ष्मशब्देनेत्यादिः । तथा च साक्षान्नित्योपादनकत्वम संसृष्टत्वं अतथाभूतत्वमेव च संसृष्टत्वमिति भावः । साक्षान्नित्योपादानकत्वं च महदादीनाम् । अनित्यांशैरप्युपचयाद् ब्रह्माण्डादीनां च मूलभूतं नित्यं तदुपादानोपादानभूतमेवेति नातिप्रसङ्गः । महदादिसूक्ष्मस्य महदादित्वं मन्वानः शङ्कते ।। एवं सतीति ।। महदादीनां सूक्ष्मरूपेण नित्यत्वे महदादिसूक्ष्माणां महदादिरूपेण नित्यानित्यत्वं स्यात् । तद्रूपेण पूर्वोक्तनित्यानित्यत्वयोरभावादिति भावः ।। स्यादेवमिति ।। तथा च महदादिसूक्ष्मस्य महदादिरूपत्वाभावादेव नोक्तदोष इति भावः । नन्वेवं महदादिसूक्ष्मस्य यथोक्तनित्यानित्यानित्यानन्तर्गतस्याधिक्यापत्तिरित्याशङ्क्याह ।। किं त्विति ।। तथा च तस्य प्रकृतिरूपेण नित्यानित्यत्वमेवेति भावः ।