बौद्धजैनागमौ पूर्वपक्षौ सर्वागमस्य हि

उपोद्घातः । दुस्समयनिरासः

युक्तिमल्लिका

बौद्धजैनागमौ पूर्वपक्षौ सर्वागमस्य हि ।

ततः परस्ताज्जातेषु मतेषु च यथाक्रमम् ।

पूर्वः पूर्वः पूर्वपक्षो यावन्मध्वमतोदयः ।। ८ ।।

सुरोत्तमटीका

ननु मतान्तरं परित्यज्य मध्वमतावलम्बनेन युक्तिमल्लिकाख्यग्रन्थकरणे किं निमित्तमित्यतस्तद्वक्तुमुपोद्धातमाह ।। बौद्धजैनागमाविति ।। ८ ।।

युक्तिमल्लिका

अन्ते सिद्धस्तु सिद्धान्तो मध्वस्यागम एव हि ।

निर्णेतुं शक्यते युक्तायुक्तपक्षविमर्शिभिः ।। ९ ।।

सुरोत्तमटीका

पूर्वः पूर्वागमः । पूर्वश्चासौ पक्षश्चेति पूर्वपक्षः । अनेन तेषां पूर्वपक्षता शब्दलभ्येति ध्वनयति । पूर्वपूर्वमतस्यैव सामीचीन्ये उत्तरोत्तर-मतप्रवृत्तेरेवायोगादर्थदोषवत्त्वाच्च पूर्वः पूर्वः पूर्वपक्ष इति ग्रन्थकृतो हृदयम् । अन्ते सर्वागमप्रवृत्तेरवसाने सिद्धस्साधकप्रमाणत्रयसहिततया निष्पन्नः । अनेनैतद्ग्रन्थादप्युपरितनपरिहासकभाष्यकारवाक्यप्रबन्धस्याऽऽभिमानिकप्रामाण्यक-वाक्यप्रबन्धस्य च सिद्धान्तत्वं निवारयति । मध्वस्यागम एव सिद्धान्त इति निर्णेतुं शक्यत इति सम्बन्धः । आहिताग्निरित्यादिवदुत्तरपदस्य पूर्वनिपातेन अन्ते सिद्धस्सिद्धान्त इति व्युत्पत्त्या निष्पन्नसिद्धान्तपदार्थस्य मध्वमत एव युक्तियुक्तत्वात् । अत एव युक्तायुक्तपक्षविमर्शिभिरित्युक्तम् । यद्यपि सिद्धान्तलक्षणमन्यथापि वर्णयन्ति । तथापि तस्याभासानाभाससाधारणतया सङ्केतितस्यामुख्यत्वात् । अन्ते सिद्धस्सिद्धान्त इति पदयोगलभ्यत्वेनास्यैव मुख्यत्वमिति ज्ञातव्यम् ।। ९ ।।

युक्तिमल्लिका

अ(त)स्मादुत्तरपक्षोऽन्यो यस्मान्नाद्यापि दृश्यते ।

तस्मात्स एव सिद्धान्त इति निश्चित्य चेतसा ।। १० ।।

सुरोत्तमटीका

अस्मान्मध्वागमात् । उत्तरपक्षः ब्रह्मसूत्रभाष्यात्मक-मतान्तरम् । सकलागमानामुपरि कृतमध्वभाष्यादनन्तरमद्यापि भाष्यान्तरा-प्रवृत्तेरिति भावः । यदर्थमुपोद्घातस्तदिदानीमाह ।। तस्मादिति ।। तस्मा-त्सर्वागमान्ते सिद्धत्वात् ।। १० ।।

युक्तिमल्लिका

अवलम्ब्य मतं सर्वोन्नतं श्रुतिपुरस्कृतम् ।

मयेत्थं युक्तिरुचिना क्रियते युक्तिमल्लिका ।। ११ ।।

सुरोत्तमटीका

इत्थं पूर्वोक्तप्रकारेण युक्तिरुचिना मयेति सम्बन्धः । अनेन यस्य ग्रन्थकृतः मतान्तरं विहायैकमतावलम्बनेऽपि युक्त्यनुसरणं किमु तस्य स्वग्रन्थे तत्र तत्र वक्ष्यमाणप्रमेयेषु तदनुसरणमिति सूचितम् । अत एव युक्तिमल्लिका क्रियत इत्युक्तम् ।। ११ ।।

सत्यप्रमोदटीका

मध्वस्यागमादितरे जैनाद्याः सर्वेऽपि प्रमाणबहिष्कृताः अत एव दूष्याः पूर्वपक्षाः । साधकप्रमाणत्रयसहिततया निष्पन्नत्वेन अन्ते सिद्ध एव योगरूढ््या सिद्धान्तपदवाच्यः । तादृशश्च मध्वागम एव । न हि प्रमितस्य कालत्रयेऽपि तस्य दूषणं सम्भवति । इतरेषु तु सिद्धान्तशब्दः पारिभाषिकः । तस्मात् मध्वागममवलम्ब्यैवैतद्ग्रन्थस्य प्रवृत्तिरित्याह चतुर्भिः बौद्धेत्यादिना ।। ८-११ ।।

युक्तिमल्लिका

त्वं चण्डालः पशुर्म्लेञ्लश्चोरो जारः खरः कपिः ।

कुण्डो गोलक इत्याद्या या निन्दा लोकसंमताः ।

तास्सर्वास्सर्वजीवैक्यवादे स्युर्हि परात्मनि ।। १२ ।।

सुरोत्तमटीका

अधुना मायावादिमतानवलम्बने असाधारणं प्रबलं दोषान्तरं चाह ।। त्वं चण्डाल इत्यादिना ।। १२,१३ ।।

सत्यप्रमोदटीका

परप्रमेये मायावादस्य भगवन्निन्दात्मकत्वं द्योतयति त्वं चण्डाल इति ।। ‘‘परदारेषु जायेते तौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यात् मृते भर्तरि गोलकः’’ ।। मनु० ।। १२ ।।

युक्तिमल्लिका

ब्रह्मैव हीनयोनीस्ताः प्राप्य स्वेनैव पाप्मना ।

संसरेच्चेदियं सर्वा गाली कस्य गले वद ।। १३ ।।

सत्यप्रमोदटीका

ननु चिदैक्यवादे कथमिदं दूषणमित्यत आह ब्रह्मैवेति ।। चिदैक्यस्य नित्यसिद्धत्वेन न तच्छास्त्रसिद्धान्तः सम्भवति । नापि निर्विशेषतया ज्ञातृज्ञेयरहितस्य ब्रह्मणस्तन्मते ज्ञानरूपचिदात्मकता घटते । अतो जीवैक्यमेव ब्रह्मणः परेण शास्त्रार्थतया एष्टव्यम् । तेनोक्ता सर्वा गाली ब्रह्मणः स्यादेवेति भावः ।। १३ ।।

युक्तिमल्लिका

अन्धश्च बधिरो मूकः पङ्गुः पण्डो विनासिकः ।

इत्याद्या व्यङ्गताहेतोर्या निन्दा लोकसंमताः ।

तास्सर्वाश्च निराकारवादे किं न स्युरीश्वरे ।। १४ ।।

सुरोत्तमटीका

ब्रह्मणो जीवैक्यवादात्प्राप्तां गालीमुक्त्वा निराकार-त्वोक्त्या लब्धां तामाह ।। अन्धश्चेति ।। निराकारेत्युपलक्षणम् । साकारत्वेऽपि छिन्नकर्णनासादीनां चोराणां जात्यंधबधिरादीनां च ब्रह्मरूपत्वेन तत्रैव गालीनां पर्यवसानात् । एतेनैव व्यावहारिकदेहवत्त्वान्न गालीत्यपि निरस्तम् । पारमार्थिकदशायां युगपदेवापाताच्च ।। १४ ।।

युक्तिमल्लिका

विद्याविनयहीनस्त्वं निर्दयो निर्व्रतोऽशुचिः ।

औदार्यधैर्यशौर्याद्यैर्हीन इत्यादिकाश्च याः ।। १५ ।।

सद्गुणाभावतो निन्दास्तास्तु नैर्गुण्यवादिनाम् ।

मते स्युर्ब्रह्मणि परे सर्वास्सर्वस्य सम्मताः ।। १६ ।।

सुरोत्तमटीका

निर्गुणत्वोक्त्या लब्धां तामाह ।। विद्येति ।। उपलक्षण-मेतत् । गुणहीननानापुरुषरूपत्वोक्त्याचोक्तदोषापत्तिरिति ज्ञेयम् ।। १५,१६ ।।

सत्यप्रमोदटीका

परप्रमेयस्य निराकारत्वनिर्गुणत्वोक्त्या प्राप्तां भगव-न्निन्दामाह त्रिभिः ।। अन्धश्चेत्यादिना ।। १४-१६ ।।

युक्तिमल्लिका

या च ग्रामतटाकादेरारामादेः कृतस्य हि ।

मिथ्यात्वकथनान्निन्दा मत्सरग्रस्तचेतसाम् ।

सा सर्वा सर्वमिथ्यात्ववादे स्यादेव माधवे ।। १७ ।।

सुरोत्तमटीका

जगन्मिथ्यात्वोक्तिलब्धां गालीमाह ।। याचेति ।। १७ ।।

सत्यप्रमोदटीका

अपरप्रमेयेऽपि भगवन्निन्दाऽऽत्मकत्वं मायिमतस्य व्यनक्ति या चेति ।। मत्सरेति । सत्यजगत्स्रष्टृत्वेन प्राप्तस्योत्कर्षस्या-सहनेत्यर्थः । तथोक्तं सङ्ग्रहरामायणे ‘य मद्वशोसाविति चित्ततोदं मात्सर्यमार्या समुदाहरन्ति’ इति । एतेन मायावादे कृतघ्नताऽऽख्यो महादोषो व्युत्पादितो भवति ।। १७ ।।

युक्तिमल्लिका

अज्ञोऽसीति तु या निन्दा सा मायाश्रयतोक्तितः ।

भगवत्युच्यते कर्मबद्धत्वोक्त्या च पापिता ।। १८ ।।

सुरोत्तमटीका

मायाश्रयतोक्तितः अज्ञानाश्रयत्वोक्तेः अज्ञोऽसीति तु या निन्दा सा भगवत्युच्यत इति सम्बन्धः । ब्रह्मैवाज्ञानवशात्संसरतीत्युक्त-त्वात् ब्रह्मण एव कर्मबद्धत्वोक्तिरिति ज्ञातव्यम् ।। १८ ।।

सत्यप्रमोदटीका

एकजीववादे प्राप्तां भगवन्निन्दामाह अज्ञोऽसीति

।। १८ ।।

युक्तिमल्लिका

इत्थं विचार्यमाणेऽभूद्यस्मान्मायाविनां मतम् ।

सर्वं च लोकसंमत्या भगवन्निन्दनात्मकम् ।। १९ ।।

सुरोत्तमटीका

मायाविनां सर्वं, मायावादशास्त्रोक्तपरापरप्रमेयम् ।।१९।।

सत्यप्रमोदटीका

लोकसंमत्येति । लोके पामरः स्वयं गुणदरिद्रोऽपि केनचित् त्वं गुणहीन इत्युक्ते स्वस्य निन्दां कृतां मन्यते । एवं दुर्लक्षणा-ङ्गोऽपि सन् त्वं व्यङ्ग इति वचने ।। एवंस्थिते, अनन्तकल्याणगुणाकरस्य भगवतो निर्गुणत्वोक्तिः, चिदानन्दात्मकमङ्गलविग्रहवतो निरवयवत्वोक्तिः इत्यादिकं कथमेव तन्निन्दा न स्यादिति भावः ।। १९ ।।

युक्तिमल्लिका

अतो मायावादमतान्नाम्नैवातिजुगुप्सितात् ।

भीतोऽहमभजं तत्ववादिनामेव पद्धतिम् ।। २० ।।

सुरोत्तमटीका

उपसंहरन्दोषान्तरमाह ।। अत इति ।। नाम्ना मायावाद इति प्रसिद्धनाम्ना भीतः निन्दां भगवतः शृृण्वंस्तत्परस्य जनस्य वा । ततो नापैति य स्सोऽपि यात्यधस्सुकृताच्च्युत इत्यादिवचनार्थपर्यालोचनया भीतः ।।

सत्यप्रमोदटीका

अत इति । दुःशास्त्रश्रवणमात्रस्यापि पातित्यहेतुत्वात् सच्छास्त्राभ्यासस्य पुमर्थसाधनत्वाच्चेत्यर्थः । क्रमेण भीतः, अभजम् इत्युभय-त्रान्वयः । तदुक्तं पद्मपुराणे,

मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते’ । इति,

शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।

 येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपी’ति च ।

ज्ञानिनोऽपि मदादयः अशुभाद्बिभ्यति शुभं च कामयन्ते । तदुक्तं अनु-व्याख्याने (तृ.च.६ अधिकरणे) ‘बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा’ इति । किमुत जिज्ञासवः इति भावः ।। २० ।।

युक्तिमल्लिका

परस्मात्पूर्वदौर्बल्ये निषेधाद्विधिबाधने ।

यतो महाऽऽग्रहस्तेषां सर्वेषां विदुषामपि ।। २१ ।।

तत्पूर्वसर्वराद्धान्तसिद्धार्थानां निषेद्धरि ।

परे च तत्ववादेऽस्मिन्गरीयसि भरो मम ।। २२ ।।

सुरोत्तमटीका

रीत्यन्तरेण मध्वमतस्योत्तमत्वं साधयति ।। परस्मा-दिति ।। परस्माद्विकृत्यादेः पूर्वस्य प्रकृत्यादेर्दौर्बल्य इत्यर्थः । पौर्वापर्ये पूर्व-दौर्बल्यं प्रकृतिविकृतिवत् सूत्रात् । निषेधान्निषेधरूपनिर्गुणवाक्यात् विधिबाधने विधायकसगुणश्रुतिबाधने तेषां मायिनां सर्वेषां विदुषां भट्टादीनामित्यर्थः ।। वादिद्वयरीत्या प्राप्तं मध्वमतोत्तमत्वं सङ्कलय्याह ।। तत्पूर्वेति ।। तत्तस्मात् । परे पश्चात्तने ।। २१, २२ ।।

सत्यप्रमोदटीका

परस्मादिति ।। ‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’ इति सूत्रम् । अस्यार्थो भाट्टसङ्ग्रहे– निमित्तद्वयस्य पौर्वापर्ये पूर्वस्य दौर्बल्यमुत्तरेण बाधः । प्रकृतिवत् यथा प्रकृतावाम्नातानां कुशादीनां ‘शरमयं बहिर्भवति’ इति विशेषवचनैः शरादिभिर्बाधस्तथेति । अत्र परस्मात्पूर्वबाधो भाट्टादिभि-रङ्गीकृतः । निर्गुणवाक्यात्सगुणश्रुतिबाधं वदता मायावादिना निषेधाद्विधि-बाधोऽङ्गीकृतः । इमौ च न्यायौ पररीत्यैव । एवमपि तत्त्ववादस्योत्तमत्वं सेत्स्यतीत्यभ्युपेत्योदाहृतौ । पूर्वन्यायस्य प्रमोत्तरभ्रमादौ, उत्तरस्य च वैधीहिंसादौ व्यभिचारः स्फुट एव । उक्तश्च न्यायामृते । वस्तुतस्तु, ‘द्विविधं बलवत्त्वं चे’त्यादिब्रह्मतर्कोक्तरीत्या प्राबल्यं अवसेयम् ।। २१,२२ ।।

युक्तिमल्लिका

तत्परत्वान्निषेद्धृत्वादन्ते सिद्धेः प्रभुस्तुतेः ।

नाम्ना चात्युल्लसन्त्यासीद्वल्ली ते युक्तिमल्लिके ।। २३ ।।

सुरोत्तमटीका

अधुना मध्वमतस्योत्तमत्वे बौद्धजैनागमावित्यादिनोक्तं हेतुपञ्चकं सङ्गृह्णाति ।। तदिति ।। तत्तस्मात् परत्वात् सर्वराद्धान्तपश्चात्त-नत्वात् । निषेद्धृत्वात् सर्वराद्धान्तनिषेद्धृत्वात् । अन्ते सिद्धेरित्यनेन अन्ते-सिद्धस्सिद्धान्त इति सिद्धान्तपदलभ्यार्थवत्तां मध्वमते दर्शयति । प्रभुस्तुतेः प्रभोर्नारायणस्य सगुणत्वादिवर्णनेन स्तुतिरूपत्वादित्यर्थः । नाम्ना च, तत्ववाद इति प्रसिद्धनाम्ना च । युक्तिमल्लिकायाः पुष्पत्वेन तदुत्पत्तिहेतुभूता मध्वमताख्यवल्लीत्यर्थः । हे युक्तिमल्लिके ते वल्ली परत्वादेर्हेतुपञ्चकादत्युल्ल सन्त्यासीदिति युक्तिमल्लिकाख्य ग्रन्थं प्रति ग्रन्थकर्तुर्वचनम् । तच्च स्थाना-दस्मात्सरसनिचुलादुत्पतोदङ्मुखः खमिति काव्यकारशैलीमनुसृत्येति ज्ञातव्यम् । कालिदासेन कृतमेघसन्देशाख्यग्रन्थं प्रति वचनपरतयाऽपि तट्टीकायां व्याख्यानात् ।। २३ ।।

सत्यप्रमोदटीका

तत्परत्वादित्यत्र तदितिभिन्नं पदम् । तस्मादित्यर्थः । पञ्चभिर्हेतुभिः सम्बध्यते ।। २३ ।।

युक्तिमल्लिका

न स्नेहान्न च विस्नेहाद्युक्त्याकृष्टेन केवलम् ।

यतः कृताऽसि तत्तर्करसिकानां मुदे भव ।। २४ ।।

सुरोत्तमटीका

स्नेहात्स्वमतस्नेहात्, विस्नेहात्परमतद्वेषादित्यर्थः । युक्त्या कृष्टेन मयेति शेषः । केवलं यतः कृताऽसि तत् तत इति सम्बन्धः ।। २४ ।।

सत्यप्रमोदटीका

न स्नेहादिति । यद्यपि स्वमते स्नेहातिशयः परमतेषु च तद्विरुद्धः प्रद्वेषाख्यो विस्नेहश्च वर्तेते एव, तत्पूर्वकमेव च ग्रन्थप्रणयनं, तथापि ब्रह्ममीमांसोक्तयुक्त्यनुगृहीतत्वाननुगृहीतत्वनिमित्ताभ्यामेव तौ, न केवलं रागद्वेषप्रयुक्तौ । ग्रन्थकृतिश्च तद्युक्त्याकृष्टतयैवेत्याशयः ।। २४ ।।

युक्तिमल्लिका

हृद्यपद्यरसस्निग्धां सद्यो हृद्रोचनोद्यताम् ।

विद्यामद्यानवद्यां मे को द्वेष्ट्युद्धतपद्धतिः ।। २५ ।।

सुरोत्तमटीका

हृद्यपद्यरसस्निग्धामित्यनेन न केवलं युक्तियुक्तत्वमस्य ग्रन्थस्य । अपि तु काव्यवद्वर्णानुप्रासादिरसयुक्तत्वमप्यस्तीत्याह ।। २५ ।।

सत्यप्रमोदटीका

को द्वेष्टीति प्रश्नः । उद्धतपद्धतिरित्युत्तरम् । द्वेष्ट्येव स केवलम् । कथमपि दूषणेऽसमर्थ एव । तदुक्तं ‘कटाक्षेणापि वीक्षितुम् । न क्षमन्ते विमतयः’ इति ।। २५ ।।

युक्तिमल्लिका

अधुना विधुना रुद्धं मधु नासीन्मधुव्रत ।

उदिते मुदितेऽब्जे स्याददितेर्विदिते सुते ।। २६ ।।

सुरोत्तमटीका

स्वग्रन्थस्य युक्तियुक्तत्वेऽपि मत्सरग्रस्तैराधुनिक-विद्वद्भिरपरिग्रहे प्रचयो न स्यादित्यतोऽन्यापदेशेन परिहरति ।। अधुनेति ।। विधुस्थानीयो मत्सरग्रस्तविद्वान् । विधोः कलंकित्वात् । मधुस्थानीयमे-तद्ग्रन्थार्थज्ञानम् । मधुव्रतस्थानीय एतद्ग्रन्थं श्रोतुकामः । अदितेर्विदिते सुते, आदित्य इति नाम्ना प्रसिद्धे सूर्ये । निर्मत्सररसग्राहिविद्वत्स्थानीयोऽयम् । अब्जे मुदितेसति, स्यान्मध्विति पूर्वावृत्त्या योज्यम् । यद्यपि रात्रौ विधुना विकसनरोधात् पद्मरसाभाववदिदानींतनमत्सरग्रस्तविद्वद्भिरपरिग्रहादर्थ-बोधाभावः । तथापि सूर्यवत्कस्मिंश्चिद्विदुषि अर्थप्रदर्शके सति बोधः स्यादिति भावः ।। २६ ।।

सत्यप्रमोदटीका

एतद्ग्रन्थनलिने निगूढं मकरन्दरसं पिपासूनां अपि अज्ञानावरुद्धतयाऽसमर्थानां मधुव्रतायितानां सतां उत्कण्ठां, सूर्यवदर्थ-प्रकाशनपरा ज्ञानिनः यथाकालं पूरयेयुरिति अर्थान्तरन्यासमुखेनाशास्ते अधुनेति ।। २६ ।।

युक्तिमल्लिका

तार्णे वौकसि पार्णे वा तापसो भूप सोऽवसत् ।

तिथौ ते तिथिरेतद्वद्विद्वान्क्वागण्यपुण्यदः ।। २७ ।।

सुरोत्तमटीका

जैनाद्यागमदुराग्रहग्रहग्रस्तराजपीडायां सत्यां तं प्रति वक्तव्यं पद्यमाह ।। तार्ण इति ।। तार्णे तृणमये पार्णे पर्णमये ओकसि गृहे तापसः एतद्ग्रन्थस्य कर्ता श्रोताच । भूपेति दुराग्रहग्रस्तं राजानं प्रति सम्बुद्धिः । अवसदावासमकरोत् । तथा च तत्पीडया नकाचित्तस्य क्षतिरिति भावः । किंतु तवैवैतादृशस्तापसो दुर्लभ इत्याह ।। तिथाविति ।। तिथौ पुण्यतिथौ । एतद्वदगण्यपुण्यदो विद्वानतिथिः क्वेति सम्बन्धः । तथा च तवैव तदपेक्षेति भावः

।। २७ ।।

सत्यप्रमोदटीका

विपक्षे बाधकोक्त्या श्रोतॄनुन्मुखीकरोति तार्णे इति ।। तापसः प्रवचनाख्यतपोनिरतः । तार्णे पार्णे वा ओकसि अवसत् । स्वेन करिष्यमाणस्योपदेशस्य प्रतिफलं धनादिकं नापेक्षते इत्यर्थः । शुश्रूषूणा-मगण्यपुण्यदः एवम्भूतो गुरुः स्वयं अतिथिवत् पूर्वपुण्यात् गृहद्वारमुपनतो यदा तदाऽपि चेद्राजवदैश्वर्यमदेन यः श्रवणविमुख उदास्ते स मन्दभाग्यः शोच्य इति भावः । तदुक्तं ‘न चेदिहावेदीन्महती विनष्टिरि’ति ।। २७ ।।

युक्तिमल्लिका

तुलया मलयाद्य्रुत्थचन्दनेनेन्धनं खलः ।

समं समन्तात्कुरुताद्ग्रन्थौ गन्धं करोति कः ।। २८ ।।

सुरोत्तमटीका

आभासविद्वत्कृताभासग्रन्थसाम्यं स्वग्रन्थस्य परिहर्तु-मन्यापदेशमाह ।। तुलयेति ।। मलयाद्य्रुत्थचन्दनेन मलयजेन चन्दनेनेत्यर्थः । तेन सह यः कश्चित्खलः इन्धनं तुलाभागयोर्निक्षिप्य समंतात्समं कुरुतान्नाम तथापि चन्दनग्रन्थाविव ग्रन्थौ इन्धनग्रन्थौ गन्धं कः करोति नकोऽपीत्यनेन चन्दनेन्धनयोस्समत्वाभाववन्निर्युक्तिकयोर्ग्रन्थयोर्न साम्यमिति भावः ।। २८ ।।

सत्यप्रमोदटीका

तुलयेति ।। अत्र मलयाद्रिः सदागमाः । चन्दनं मध्वशास्त्रम् । ग्रन्थिः महातात्पर्यम् । गन्धः सर्वोत्तमो विष्णुः । सद्देहस्सुख-गन्धश्चेत्युक्तेः । इन्धनं, सदागमबहिष्कृतं विष्णौ तात्पर्यशून्यं मायावादादि-कम् । खलः कुसमयी । तथा च विष्णुपूजाङ्गं परमपुमर्थहेतुः चन्दनायितं मध्वशास्त्रम् । अतादृशं इन्धनायितं दुर्गन्धोपेतं समयान्तरम् । तयोः साम्यमाशासानः खल एवेति हृदयम् ।। २८ ।।

युक्तिमल्लिका

सूक्तिरत्नस्वभावाभा पूज्या त्याज्या न कोविदैः ।

गुणे मणेर्हि मात्सर्यं कार्यं नार्यैः कदाचन ।। २९ ।।

सुरोत्तमटीका

तथा च सयुक्तिकत्वाद्युक्तिमल्लिका विदुषां ग्राह्येत्याह ।। सूक्तीति ।। सूक्तय एव रत्नानि तेषां स्वभावाभा स्वाभाविककान्तिरित्यनेन बलात्कारयुक्तिर्नास्तीति सूचयति । पूज्या, कोविदैर्न त्याज्येत्यत्रार्थान्तरन्यासं करोति ।। गुण इति ।। मणेर्गुणे प्रकाश इत्यर्थः । कदाचन कदाऽपि ।।२९।।

सत्यप्रमोदटीका

मणेः उत्तमस्य हरेः । ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेदि’त्यभिधानम् । गुणे मात्सर्यं मिथ्यात्वकथनेन अपलापः ।। २९ ।।

युक्तिमल्लिका

विदुषोऽविदुषोपीष्टा कं जनं रञ्जयेन्नगीः ।

भ्रमरैरमरैश्चार्थ्यं कुसुमं, कोऽसुमांस्त्यजेत् ।। ३० ।।

सुरोत्तमटीका

युक्तिसाहित्येन रससाहित्येन च मान्येयं विद्येत्याह ।। विदुष इति ।। युक्तिसाहित्याद्विदुषः रससाहित्यादविदुषोऽपीष्टेत्यर्थः । कं जनं न रञ्जयेत् सर्वमपि जनं रञ्जयेदेव । अस्मिन्नर्थेऽर्थान्तरन्यासः ।। भ्रमरैरिति ।। अविद्वत्स्थानीया भ्रमराः विद्वत्स्थानीया अमराः कुसुमस्थानीयाविद्येति ज्ञातव्यम् ।। ३० ।।

सत्यप्रमोदटीका

गीः मध्वशास्त्रम् । अविदुषोऽपि रञ्जयेत् बाल-सङ्घमपि बोधनेन आनन्दयेत् । कुसुमं अनुव्याख्याननलिनम् । भ्रमरैः चञ्चरीकचित्तैः । अमरैः जयतीर्थार्यैः । चः अप्यर्थः । अर्थ्यं प्रगुणभावनया सेवितम् । कोऽसुमान् त्यजेत् इत्याक्षेपः । यस्त्यजेत्स गतासुतुल्यः इति ध्वनिः । ‘जीवञ्छवो यस्तु न वेद गन्धं’ इति भागवतोक्तेः । इदं श्लोकत्रयं मध्वमतवल्ल्यां युक्तिमल्लिकायामपि यथायथमन्वेति ।। ३० ।।

युक्तिमल्लिका

विद्याऽविद्याविभागज्ञः किमज्ञः प्राज्ञवद्भवेत् ।

अन्धस्येन्दूदयेप्यान्ध्यमन्धकारोदयेपि हि ।। ३१ ।।

सुरोत्तमटीका

अधुना विद्वदविद्वत्परिग्रहयोर्विद्वत्परिग्रह एव ज्यायान् विदुष एव मान्यत्वादिति भावेनाह ।। विद्येति ।। विद्या सद्विद्या अविद्या तद्विरोधिनी । एतद्विभागं जानातीति स तथोक्तः । अज्ञः प्राज्ञवद्विद्या-विद्याविभागज्ञो भवेत्किमिति सम्बन्धः । तत्रार्थान्तरं न्यस्यति ।। अन्धस्येति ।। यथान्धस्येन्दूदयेऽपि पदार्थादर्शनलक्षणमांध्यं तथाऽन्धकारो-दयेऽप्यान्ध्यं दृष्टं हि । तद्वदज्ञस्सर्वदाऽज्ञ एवेति भावः ।। ३१ ।।

सत्यप्रमोदटीका

विद्येति । विद्या परापरविषयिणी प्रमा । अविद्या भ्रमः । एतयोः विभागं विवेकम् । प्राज्ञवत् श्रीमध्ववत् । अज्ञः पञ्चा-ख्यातिवादिजनः । नैव जानातीति भावः । अन्धस्य एवंविधमिथ्याज्ञानिनः । तत एव अन्धस्य अन्धे तमसि निमग्नस्य । इन्दूदये, उपलक्षणम्, स्थिति-काले । अन्धकारोदयेऽपि महाप्रलये च । आन्ध्यमेव न कदाऽपि प्रकाश-दर्शनम् । नित्यदुःखमेवेति हृदयम् । ज्ञानमात्रं प्रमैवेति वा भ्रम एवेति वा मन्वानानां तयोर्विभागमपलपतां तम एव परायणमिति ।। ३१ ।।

युक्तिमल्लिका

गृहीतमर्थं यः पश्चान्न जहाति स वै महान् ।

तृणग्राहीमणिर्मान्यः पौर्णमासीविधुश्शशी ।। ३२ ।।

सुरोत्तमटीका

इदानीं युक्तिपारवश्येन सकृदेतद्ग्रन्थार्थपरिग्रहेऽपि पश्चाद्विस्मरतो दोषमाह ।। गृहीतमिति ।। यो गृहीतमर्थं पश्चान्न जहाति न विस्मरति समहान्वा इत्यत्रार्थान्तरन्यासः ।। तृणग्राहीति ।। पौर्णमासी-विधुश्शशीत्यनेन गृहीतशशापरित्यागं विधोस्सूचयति । तथा च गृहीतार्था-विस्मर्तैव मान्य इति भावः ।। ३२ ।।

सत्यप्रमोदटीका

 गृहीतं वृषभरूपेणाधिगतं अर्थं सर्वमूलप्रमेयम् । पश्चात् जन्मान्तरेऽपि । न जहाति किन्तु टीकाप्रणयनेन बोधयति । स जयतीर्थार्यः महान्वै । तदुक्तं ‘स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रही जनः’ इति । यद्वा गृहीतम् उपनतम् । अर्थं अप्रमेयमतेः मध्वस्य शास्त्रप्रमेयम् । पश्चात् जहाति, विफलधीः त्यजति, स न वै महान् नीच एव । तदुक्तं सुमध्वविजये ‘चूर्णकृद्विविधेत्यादिना सदृशोऽस्ति नीचधी-रि’त्यन्तेन ।। अधिगतशास्त्रार्थविस्मरणं महादोष इति भावः ।। ३२ ।।