सत्याज्ञानभवं विश्वमसत्यं केन हेतुना
अज्ञानासंभवात्परशास्त्रवैयर्थ्यम्
युक्तिमल्लिका
सत्याज्ञानभवं विश्वमसत्यं केन हेतुना ।
आम्रस्य बीजतः किं स्याद्विषवृक्षस्य सम्भवः ।। ६९ ।।
सुरोत्तमटीका
पतनप्रकारमेवाह ।। सत्याज्ञानेत्यादिना ।। आरोपा-सम्भवात् सत्यमनारोपितं यदज्ञानं तद्भवं तदुपादानकमित्यर्थः । केन हेतुना असत्यमिति सम्बन्धः । सत्योपादानकस्य कार्यस्य सत्यत्वावश्यम्भावादिति भावः । तत्र दृष्टान्तः ।। आम्रस्येत्यादि ।। उपादानोपादेययोस्सर्वत्र साजात्य-दर्शनादिति भावः। अनेन विश्वमिथ्यात्ववादाख्यशाखापतितेति द्रष्टव्यम् ।।६९।।
सत्यप्रमोदटीका
विश्वं असत्यं असत्याज्ञानोपादानकत्वादिति खलु हेतुः पराभिमतः । स त्वसिद्धः । आरोपनिराकरणेन अज्ञानसत्यतायाः समर्थितत्वादित्याह सत्येति । उपादानस्य सत्यत्वेऽपि उपादेयं असत्यं किं न स्यादिति संशयं बाधकशंसनेन हिंसयति आम्रस्येति । बीजस्य सत्यत्वे वृक्षस्य तदुत्पन्नस्य सत्यत्वं नियतमित्यत्रैव तात्पर्यम् । बीजस्याम्रेतिविशेषणं सत्यता-वादस्यामृतफलहेतुत्वं, वृक्षस्य विषेतिविशेषणं च मिथ्यावादस्य अनर्थहेतुत्वं ध्वनयितुमेवेत्यवधेयम् । वस्तुतस्तूत्पत्तिमात्रेणैव विश्वमत्यत्वसिद्धिरिति हृदयम् । उत्पन्नं च मिथ्येति च व्याघातः । न खलु यत्प्रागभावप्रतियोगि-तत्त्रैकालिकनिषेधप्रतियोगीति सम्भवति । तदुक्तं ‘न निरोघो न चोत्पत्तिः’ इति गौडपादकारिकाव्याख्याऽवसरे मायिभाष्यकारेणैव ‘सतो हि घटादे-रुत्पत्तिर्विनाशो वा दृष्टः । नासतः शशविषाणादेरि’त्यादि ।। ६९ ।।
युक्तिमल्लिका
सत्याज्ञानागतो भेदो ज्ञानबाध्यः कथं तव ।
सत्याज्ञाननिवृत्तेश्चायोगान्मोक्षः कथं तव ।। ७० ।।
सुरोत्तमटीका
सत्याज्ञानागतः सत्याज्ञानोपादानकः भेदः । अत एव सत्यः । तव मते ज्ञानबाध्यः कथम् । सत्यस्य ब्रह्मवद्बाधायोगादिति भावः । अथवा सत्याज्ञानागतः सत्याज्ञाननिमित्तको भेदः । अत एव सत्यः । अज्ञानसार्वज्ञाख्यभेदकधर्मयोस्सत्यत्वे भेदस्यापि सत्यत्वावश्यंभावादिति भावः । ज्ञानबाध्यः ब्रह्मज्ञानबाध्यः । मुक्तावपीश्वरसकलमाहात्म्याज्ञानस्य सत्त्वेन विरुद्धधर्मानुवर्तनादिति भावः । अनेन भेदमिथ्यात्वशाखा पतितेति द्रष्टव्यम् । ते तव मते । सत्यस्याज्ञानस्य निवृत्तेरयोगात् । परेण ब्रह्मव-त्सत्यस्य निवृत्त्यनङ्गीकारादिति भावः । मोक्षः अविद्यानिवृत्तिरूपमोक्षः । अनेनाज्ञाननिवृत्तिरूपचरमशाखा पतितेति द्रष्टव्यम् ।। ७० ।।
सत्यप्रमोदटीका
‘षडस्माकं अनादयः’ इति वचनेन मायिभिः ब्रह्म-वदज्ञानस्य भेदस्य च उभयोरनादित्वमङ्गीकृतम् । तत एव तद्वदेव तयोः सत्यत्वं च सेत्स्यति । अनादित्वाद्भेदस्य नाज्ञानोपादानकत्वं सम्भवति । कथञ्चिदज्ञानागतत्वाङ्गीकारेऽपि उक्तरीत्योभयोरपि सत्यत्वाज्ज्ञानबाध्यत्वं सुदूरपराहतमित्याह सत्येति । किं च आस्तां बाधवार्ता निवृत्तिरप्यज्ञानस्य त्वन्मतेऽसम्भाविनीत्याह सत्येति । यदि सत्यस्य निवृत्तिस्तर्हि आत्मनोऽपि निवृत्तिः स्यादिति प्रसङ्गमभिदधता त्वया सत्यस्य कस्यापि निवृत्त्यनङ्गी-कारादिति भावः । माऽस्तु अज्ञाननिवृत्तिः, का मे क्षतिरित्यत आह मोक्षः कथं तवेति ‘अविद्याऽस्तमयो मोक्षः’ इति त्वत्पक्षशास्त्रस्य प्रयोजनं व्याहन्यते इत्याशयः ।। ७० ।।
युक्तिमल्लिका
अज्ञानासम्भवे क्व स्यात्प्रतिकर्मव्यवस्थितिः ।
ऐक्यस्यावरणाभावाच्छास्त्रवेद्यं च किं भवेत् ।। ७१ ।।
सुरोत्तमटीका
प्रतिकर्मव्यवस्थितिः यदपरोक्षवृत्त्या यदधिष्ठानावारका-ज्ञानं निवर्तते स घटः पटो वा तस्य चैतन्यस्य विषय इति प्रतिविषय-व्यवस्थेत्यर्थः । उक्तरीत्या सत्यस्याज्ञानस्य निवृत्त्ययोगादिति भावः । अनेन प्रतिकर्मव्यवस्थाख्यशाखा पतितेति द्रष्टव्यम् । ऐक्यस्य जीवब्रह्मैक्यस्यावरका-भावात् सत्यस्याज्ञानस्य भेदस्थापकस्यैक्यघातकतया आरोपितमज्ञानमावरक-मिति वक्तव्यम् । तस्याभावादित्यर्थः । स्वतस्सिद्धब्रह्मस्वरूपभूतैक्यस्य शास्त्र-विषयता अज्ञानावरणादेव हि वक्तव्या । तदभावे तस्य कथं शास्त्रवेद्यतेति भावः । अनेन शास्त्रतरोर्विषयाख्यमूलशाखैव पतितेति द्रष्टव्यम् । अज्ञाना-सम्भवात् उक्तरीत्या ब्रह्मण्यज्ञानासम्भवात् । सर्वं ब्रह्मभ्रान्त्या ब्रह्मणो विपरीतज्ञानेन अधिष्ठानाज्ञानादेव हि विपरीतज्ञानं तदभावे कथं भ्रान्तिरिति भावः ।। ७१ ।।
सत्यप्रमोदटीका
अज्ञानस्य सत्यत्वं परं प्रति प्रसाध्य तदनिवृत्त्युक्त्या दोषोऽभिहितः । इदानीं परमतेऽज्ञानसम्भव एवेत्याह अज्ञानासम्भव इति ।। तथा हि । अज्ञानं सत्यं तेनाद्वैतभङ्गभीरुणा नाङ्गीकृतम् । न च अनिर्वचनीये किञ्चिन्मानम् । अतः परिशेषादसत्त्वमेवापततीति भावः । किं तत इत्यत आह क्वेति । अयमाशयः । अज्ञानावरणाभावे अनावृतब्रह्मचैतन्यस्य सर्वान्प्रत्यविशिष्टत्वात्तत्रारोपितं घटादिकं सर्वं सर्वदा सर्वेषां प्रकाशेतेति अतिप्रसङ्गेऽभिहिते यत्सन्निकृष्टकरणजन्यवृत्तिर्यदाकारा यदा च भवति वृत्त्यु पारूढचैतन्येन चाज्ञाननिवृत्तिः स एव तं प्रत्येव कदाचित्प्रकाशते न सर्वदेत्यतिप्रसङ्गः परिहर्तव्यः । इयं च प्रतिकर्मव्यवस्थितिः अज्ञानसद्भाव एव सम्भवति नान्यथा । उक्तरीत्याऽज्ञानासम्भवेऽतिप्रसङ्गो दुष्परिहर एवेति । किञ्च त्वन्मते नान्यथा । उक्तरीत्याऽज्ञानासम्भवेऽतिप्रसङ्गो दुष्परिहर एवेति । किञ्च त्वन्मते शास्त्रस्य ऐक्यमेव विषयः । तच्च ब्रह्मस्वरूपम् । अज्ञानाभावे स्वप्रकाशतया नित्यसिद्धत्वान्न ब्रह्मण ऐक्यस्य वा शास्त्रविषयत्वं सञ्जा-घटीतीत्याह ऐक्यस्येति ।। ७१ ।।
युक्तिमल्लिका
अज्ञानासम्भवाद्ब्रह्मभ्रान्त्या सर्वं न कल्पितम् ।
अज्ञानासम्भवादेव शास्त्रं सर्वं गतं तव ।। ७२ ।।
सुरोत्तमटीका
पूर्वं सत्योपादानकत्वेन सत्यत्वमुक्तम् । इदानीं तु भ्रान्त्ययोगेन सत्यत्वमिति भावः । उपसंहरति ।। अज्ञानासम्भवादिति ।। गुणानामाकारस्य च मिथ्याभूताज्ञानकल्पितत्वेन मिथ्यात्वेहि परमार्थतो नैर्गुण्यं निराकारत्वं च सिद्ध्येत् । अज्ञानासम्भवादेव तदुभयरूपशाखयोरपि पतनात्सर्वमित्युक्तम् । एवमज्ञानप्रतीतेरारोपत्वासम्भवे प्रमात्वावश्यंभावेन प्रमाविषयस्य च सत्यत्वनियमात् सत्याज्ञानं प्रसाध्य मायिमतं दूषितम् । वस्तुतस्तु मिथ्याभूताज्ञानस्यासम्भवे सत्याज्ञानस्य च तेनैवानङ्गीकारेणा-ज्ञानस्वरूपस्यैवाभावात् अज्ञस्याधिकारिणोऽज्ञातस्याज्ञाननिवृत्तिरूपस्य प्रयोजनस्याविद्यकभेदस्याऽऽविद्यकभगवद्गुणदेहादेराविद्यकप्रपञ्चादेश्चायोगेन तत् प्रक्रिया सर्वापि विक्रियैवाभूदिति द्रष्टव्यम् ।। ७२ ।।
सत्यप्रमोदटीका
अपि चार्थज्ञानात्मकस्य भ्रमस्य परेणाज्ञानोपादान-कत्वमुररीकृतम् । अज्ञानासम्भवे भ्रान्तिस्तदात्मकं सर्वं च न सम्भवतीत्याह अज्ञानेति । तथा च अज्ञस्य अधिकारिणः, अज्ञातस्य विषयस्य, अज्ञान-निवृत्तेः प्रयोजनस्य चायोगात्तत एव च तत्सबन्धस्याप्यनुपपत्तेः अनुबन्ध-चतुष्टयविरहात्सर्वं तच्छास्त्रं अनुपादेयमेवेत्याह अज्ञानासम्भवादेवेति ।।७२।।