वादिराजाख्ययतिना साधिता युक्तिमल्लिका भैदसौरभसर्वस्वमथ विष्णोर्न्यवेदयत्

युक्तिमल्लिका

वादिराजाख्ययतिना साधिता युक्तिमल्लिका

भैदसौरभसर्वस्वमथ विष्णोर्न्यवेदयत् ।। १५९१ ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचितायां युक्तिमल्लिकायां भेदसौरभं सम्पूर्णम् ।।

सुरोत्तमटीका

 परिच्छेदमुपसंहरति ।। वादिराजेति ।। अथ शुद्धिसौरभानन्तरं भगवतो ब्रह्मशब्दसूचितं सकलगुणपूर्णत्वाख्य लक्षणमेव सजातीयविजातीय व्यावृत्ततया भगवदवधारणहेतुत्वाल्लक्षणप्रमाणाभ्यां वस्तु-सिद्धिरिति वदतापि लक्षणस्यैवादावुपात्तत्वाच्च प्रथमतो विचारयोग्यम् । यत्र गुणास्तत्र दोषा इति न्यायेन भगवति प्राप्तदोषाणां परिहाराय भगवतश्शुद्धिरेव तदनन्तरं विचारयोग्या । एवं चोभयसौरभार्थयोरपि भगवद साधारणधर्मत्वेन लक्षणत्वात्ताभ्यां किं भगवति सिद्धमिति बुभुत्सायां सजातीयविजातीय व्यवच्छेदात्मकलक्षणफलीभूतभेद एव भगवति तदनुविचारयोग्यः । ततश्च भेदावधिभूतसजातीय विजातीयात्मक चेतना चेतनरूप प्रपञ्चयितुं योग्यः । तदुपरिविषयभूतादस्मात्परमपुरुषान्ममापेक्षितफलं कथं सिद्ध्येदित्याकाङ्क्षायां मोक्षसाधकतया श्रुत्युक्तश्श्रवणमननजन्यापरोक्ष जन्य महाप्रसाद एव विचारयोग्यः । अन्तेस्वामिद्रोहितया भगवदैक्य प्राप्ते ष्षड्बुद्ध्यभावेन जडत्वा-पादक दुःखध्वंसस्य सततोर्ध्वगमनादेश्चानाकाक्षितत्वे न तत्सर्वं निरस्य सुखमेव मे स्याद्दुःखं मनागपि मा भूदिति सर्वापेक्षितमोक्षस्य स्वरूपमेव निरूपणयोग्यमिति पञ्चसौरभक्रमोऽप्यथेति वदतैव सूचित इति ज्ञातव्यम् ।। १५९१ ।।

इति श्रीमद्वादिराजतीर्थश्रीपादकृतयुक्तिमल्लिकाटीकायां

सुरोत्तमतीर्थकृतायां भावविलासिन्यां भेदसौरभसर्वस्वव्याख्या सम्पूर्णा ।।

सत्यप्रमोदटीका

युक्तिमल्लिका एतद्ग्रन्थाभिमानिनी भारती । साधिता सव्यापारीकृता । व्यापारश्च प्रसन्नतैव । इदमेव हि देवतायाः स्वेन साधनं नाम । प्रसन्नतां प्रापिता इति यावत् । भेदसौरभसर्वस्वं भेदस्य यत्सौरभं तज्ज्ञानस्य मोक्षहेतुत्वसमर्थनरूपं तद्रूपं समस्तं अर्हणम् । ‘विविक्तदृष्टि-स्तदुतार्हणं मे’ इति भागवतोक्तेः । विष्णोः सर्वस्वं विष्णोः न्यवेदयत् इति आवृत्त्या योजनीयम् । तथा च अर्घ्यं सिन्धोरित्यत्रेव तदीयस्यैव तस्मिन् समर्पणं इति कर्मणि अभिमानत्यागः ज्ञापितः । विष्णोः प्रीतये इत्युपस्कारः । न्यवेदयत् स्वप्राणनाथस्य मातरिश्वनः द्वारा । तस्यैव समर्पणाधिकारात् । तदुक्तं ‘तस्मिन्नपो मातरिश्वा दधाति’ इति । मङ्गलप्रयोजनकेनाथशब्देन अन्तेऽपि मङ्गलमनुष्ठितमिति ध्येयम् । आनन्तर्याभिधायकेन अनन्तरं करिष्यमाणविश्वफलसौरभयोः तत्पूजात्वेन सङ्कल्पनं च ।

यत्कारुण्यवशेनेयं विवृती रचिता मया ।

श्रीसत्याभिज्ञतीर्थार्याः प्रीयन्तां ते सदा मयि ।।

इति श्रीपूज्यपादश्रीसत्याभिज्ञतीर्थश्रीचरणचरणाराधकेन श्रीसत्यप्रमोदतीर्थमुनीन्द्रेण विरचिता भेदसौरभविवृतिः सम्पूर्णा ।।

।। इति युक्तिमल्लिकायां भेदसौरभम् ।।

।। श्रीकृष्णार्पणमस्तु ।।