मृदादिकमुपादानं कार्ये कार्ये च विद्यते
अज्ञानस्य जीवाश्रितत्वसमर्थनम्
युक्तिमल्लिका
मृदादिकमुपादानं कार्ये कार्ये च विद्यते ।
अतो जगत्सर्जनार्थमपि नाज्ञानमिष्यते ।। १८५ ।।
सुरोत्तमटीका
जगदुपादानतया ब्रह्मण्यज्ञानसिद्धिरिति मतमपाकरोति ।। मृदादिकमिति ।। आदिपदेन मूलप्रकृतेर्ग्रहणम् । अतः आदिसृष्टौ मूलप्रकृते-रवान्तरसृष्टौ च मृदादेरुपादानस्य विद्यमानत्वात् ।। १८५ ।।
सत्यप्रमोदटीका
अथापि स्यात् । प्रपञ्चस्तावद्ब्रह्मण्यारोपितः । स च भ्रमात्मकः । अतः तदुपादानतयैव ब्रह्माज्ञानसिद्धिः । यथा शुक्तिरूप्यो-पादानतया शुक्तिकाऽज्ञानस्य । तथा च प्रयोगः । प्रपञ्चः, अज्ञानोपादानकः कार्यत्वात् शुक्तिरूप्यवदिति । तत्राह । मृदादीति । अयमाशयः । आरोपितस्य प्रपञ्चस्य पक्षीकारे तस्यासत्त्वेन तत्र कार्यत्वहेतोः असिद्धिः । दृष्टान्तस्य साध्यसाधनवैकल्यं च । सत्यस्य पक्षीकारे तत्र कार्यत्वस्य मृदा-द्युपादानकत्वेनाप्युपपत्त्याऽर्थान्तरतेति । सर्वथा नाज्ञानसिद्धिरित्याह अत इति
।। १८५ ।।
युक्तिमल्लिका
मायी मायाधीश्वरत्वाद्गोमान्गोपालको यथा ।
तस्माद्ब्रह्माश्रिताज्ञानमज्ञानादेव वर्णितम् ।। १८६ ।।
सुरोत्तमटीका
प्राक् मायिनं तु महेश्वरमिति श्रौतमायापदस्य प्रकृति-परतोक्ता । इदानीं मायापरत्वेऽपि नास्माकमनिष्टमिति दृष्टान्तमुखेनाह ।। मायीति ।। उपसंहरति ।। तस्मादिति ।। अज्ञानात् पूर्वोत्तरापरिज्ञानात् ।। १८६ ।।
सत्यप्रमोदटीका
‘मायिनं तु महेश्वरं इत्यत्रत्यो मायिशब्दः प्रकृति-नियामकत्वमहिमानमेव ब्रह्मणो वर्णयति न पुनरज्ञानाश्रयत्वं इति ‘यतः प्रकृतिरेवैषामाये’त्यादिना प्रागुक्तं (श्लो.१२२) । इदानीं पराभिमताज्ञानार्थ-त्वोपगमेऽपि प्रागुक्तरीत्या महेश्वरश्रुतिसमभिव्याहारबलेन चाज्ञानाधीश्वरत्वमेव तस्य वक्ति गोमच्छब्दो गोपाले गोस्वामित्वमिवेत्याह मायीति । इन्द्रजालार्थ-कत्वं तु ‘न मायेत्यवधार्यतामि’ति स्मृत्यैव निषिद्धमित्यशक्यशङ्कम् । उपसंहरति तस्मादिति । अप्रामाणिकत्वात् सर्वप्रमाणविरुद्धत्वाच्च ।। १८६ ।।
युक्तिमल्लिका
जीवस्तु मायासुप्तत्वान्न स्वानन्दादि वीक्षते ।
मायाऽभावे सतीक्षेत तस्माज्जीवाश्रितैव सा ।। १८७ ।।
सुरोत्तमटीका
मायायाः जीवस्वरूपभूतानन्दाद्यनुभवप्रतिबन्धकत्व-घटनाय जीवाश्रितत्वमेव युक्तमित्याह ।। जीव इति ।। तस्माज्जीवानन्दाननु-भवस्यान्यथानुपपत्तेः । सा माया । अनेनाज्ञानस्य जीवाश्रितत्वेऽर्थापत्ति-रप्युक्तेति ज्ञातव्यम् ।। १८७ ।।
सत्यप्रमोदटीका
‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’ इति श्रुतिः सिद्धान्ते सुसङ्गतेत्याह जीव इति । मायया ईश्वरेच्छारूपावरणेन मुख्येन । विष्णोरिच्छावशत्वात्तु मायामात्रमि’त्यादिस्मृतौ मायाशब्दस्येच्छा-परत्वेन व्याख्यानात् । एवं तदधीनया अविद्याशब्दितप्रकृत्याख्यावरणेन चामुख्येन । सुप्तः संसारदशायामावृतानन्दस्वरूपः । यतोऽतः स्वानन्दादि स्वरूपभूतमप्यानन्दादिकं न वीक्षते नानुभवति । अभावे अपगमे । तस्मात् अन्वयव्यतिरेकाभ्यां जीवस्वरूपानन्दावरकत्वेन सिद्धत्वात् । सा मायाऽऽख्याऽ विद्या । यथोक्तं सुधायां जिज्ञासानये ‘अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याऽचिन्त्याद्भुतया स्वशक्त्या च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तमि’ति ।। १८७ ।।
युक्तिमल्लिका
जीवस्वरूपानन्दादीनाच्छादयति केवलम् ।
अहमित्येव तद्रूपज्ञाने न प्रतिबन्धिका ।
इमं तु न दहेत्युक्तं मन्त्रशक्त्या यथाऽनलः ।। १८८ ।।
सुरोत्तमटीका
अज्ञानस्य जीवरूपाच्छादकत्वेऽहमिति तदुल्लेखः कथमित्यत आह ।। जीवेति ।। तद्रूपज्ञाने तत्स्वरूपज्ञाने प्रतिबन्धिका नैवेति सम्बन्धः । तत्र दृष्टान्तमाह ।। इममिति ।। यथा मन्त्रशक्त्या प्रतिबद्धोऽनलः मन्त्रितमेकं पुरुषं विहायान्यं दहति । एवमज्ञानमप्यानन्दानुभवप्रतिबन्धक-मप्यहमिति स्वरूपमात्रानुभवे न प्रतिबन्धकमिति भावः ।। १८८ ।।
सत्यप्रमोदटीका
‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत्’ इत्यनु-व्याख्यानसुधोक्तरीत्या स्वमते दोषं परिहरति जीवेति । केवलमित्यनेन व्यवच्छेद्यं दर्शयति अहमित्यादिना ।। अत्रोपपत्तिः सुधोक्ताऽनुसन्धेया । ‘यद्यपि धर्माः स्वप्रकाशचैतन्यान्न भिद्यन्ते । तथाऽपि सविशेषत्वाङ्गीकारा-दज्ञानविषयतोपपत्तिरि’ति । ननु चैतन्यस्वरूपप्रकाशप्रतिबन्धकं अविद्याऽऽ-वरणं स्वप्रकाशस्वरूपाभिन्नतद्धर्माणां आनन्दपारतन्त्र्यादीनां कथं प्रकाश-प्रतिबन्धकं इति चेन्न । ईश्वराचिन्त्यशक्त्योपपत्तेरिति भावः । यथोक्तं सुधायां तत्रैव ‘यद्यपि जीवचैतन्यं ब्रह्मस्वधर्मप्रकाशात्मकं तथाऽपि परमेश्वरा-चिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयती’ति इति । नेदमदृष्टचरमित्याह इममिति । मन्त्रशक्तिः प्रयोक्तृपुरुषेच्छया व्यक्तिविशेषे दाहं प्रतिबध्ननन्ती सत्यपि व्यक्त्यन्तरविषये न तं प्रतिबध्नाति तथेति भावः । मान्त्रिकपुरुषस्यापि चेत्स्यादीदृशी शक्तिः किमु वाच्यं अशेषमन्त्रप्रतिपाद्यस्य प्रभोरिति भावः ।। १८८ ।।
युक्तिमल्लिका
सा सत्या प्रकृतेरंशभूता जीवेषु तिष्ठति ।। १८९ ।।
सुरोत्तमटीका
सा जीवाच्छादिका प्रकृतेरंशभूता माया सत्या शिला-कणादावारोपितमण्यादेर्दाहप्रतिबन्धकत्वादर्शनेन प्रतिबन्धकत्वादेवाबाध्या । प्रकृत्यंशत्वमपि सत्यत्वे हेतुः । सर्वप्रलयेऽप्युर्वरिताहि प्रकृतिरित्युच्यते । तस्यास्तु कथं मिथ्यात्वमिति भावः ।। १८९ ।।
सत्यप्रमोदटीका
पूर्वोक्तमविद्यास्वरूपं विशेषं विवक्षुर्निर्धारयति सेति । सा अविद्या पक्षः । सत्येति साध्यम् । प्रकृतेरंशभूतेति हेतुकथनम् । नासिद्धिः ।
‘सत्वं रजस्तम इति गुणाः प्रकृतिसग्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्’ ।
इति स्मृत्या तत्सिद्धेः । नाप्यप्रयोजकता । ‘प्रकृतिं पुरुषं चैव विध्द्यनादी उभावपि’ इति पुरुषवदनादित्वेन सिद्धायाः प्रकृतेर्मिथ्यात्वे ब्रह्मणोऽपि तथात्वापात इति विपक्षे बाधकसद्भावात् । यत्र सत्योपादानकत्वं तत्र सत्यत्वमिति सुस्थः प्रतिबन्धः । अंशभूतेत्यनेन वक्ष्यमाणद्वैविध्यं सूचयति । जीवेषु इत्यनन्तरं आवरणत्वेन आश्रितत्वेन चेति पूरणीयम् । तेन आश्रित-त्वात् आवरणत्वाच्चेति सत्यत्वे हेत्वन्तरे उक्ते ध्येये । न ह्यसतः क्वचिदाश्रि-तत्वं आवरणरूपार्थकियाकारित्वं वा सम्भवतीति भावः । जीवेषु इति बहुवचनेन प्रतिव्यक्तिनियतत्वोक्तिः, तत एवैकमुक्तौ सर्वमुक्तिरूपातिप्रसङ्ग-परिहारश्च सूचिते ध्येये
।। १८९ ।।
युक्तिमल्लिका
नारायणप्रसादेन काचिदक्षिमलोपमा ।
नश्येद्वस्त्रावृतिप्राया काचिच्चापसरेत्ततः ।। १९० ।।
सुरोत्तमटीका
जीवाच्छादिका परमाच्छादिकेति द्विविधा माया । तत्रैका नश्येत् । अपराचापसरेदित्येतद्दृष्टान्तमुखेन घटयति ।। नारायणेति ।। काचिज्जीवाच्छादिका अक्षिमलोपमा । यथाहि मलं काचादिकं नश्यत्येव । तथेयमपि नश्येदिति योजना । काचित्परमाच्छादिका । वस्त्रावृतिप्राया मुख-बद्धवस्त्ररूपनयनावृतिप्रायेत्यर्थः । ततः जीवनयनात् । अपसरेदेव । न तु नश्येत् । यथा नयनावरणभूतयोः काचवस्त्रयोरेकस्य नाशोऽपरस्यापसरणं च लोके दृष्टं तथेति भावः ।। १९० ।।
सत्यप्रमोदटीका
नारायणप्रसादेन नाशपसरणयोरुक्त्या नाशात् अपसारणादिति सत्यत्वे हेतू सूचितौ । मिथ्यात्वे तयोरयोगात् । अत्र बन्धक-प्रकृत्योः स्वरूपस्य तन्निवृत्तिप्रकारे विशेषस्य च विवरणं ‘अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते’ इत्यादिकात् भागवते श्रुतिगीतिकातात्पर्यादव-सेयम् । काचित् । द्वयोर्दुष्टप्रकृत्योर्मध्ये जीवाच्छादिका । काचिच्च अपरा परमाच्छादिका । यथोक्तं–
‘स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।
व्याघुट््य मोक्षपदवीं ददाति पुरुषोत्तमः’ इति ।
तत्र क्रमेण, अक्षिमलं काचादिकं, चक्षुपो वस्त्रेण आवृतिश्च दृष्टान्तौ
।। १९० ।।
युक्तिमल्लिका
जीवस्याच्छादिका त्वेका परस्याच्छादिका परा ।
द्वयं जीवगतं नित्यं हरिस्तूभयमोचकः ।। १९१ ।।
सुरोत्तमटीका
द्वयं जीवाच्छादकपरमाच्छादकभेदेन द्विविधम् । जीवोऽपिहितनयनः स्वदेहपरदेहाविव स्वस्वरूपं च न जानाति । अत-स्तत्प्रतिबन्धकमज्ञानद्वयमपि तद्गमेव भवेदिति भावः ।। १९१ ।।
सत्यप्रमोदटीका
जीवस्य तस्मिन्विद्यमानयथायोग्यैश्वर्यादिगुणसमूहस्य । परस्य जीवं प्रतीति शेषः । जीवगतं ब्रह्मादिव्यतिरिक्तजीवगतम् । ‘जीवस्यैव न तत्रापि ब्रह्मादेरस्ति सा क्वचिदि’ति वचनात् । नित्यं मोचक इत्यन्वयः । तुशब्देन तस्य तदावृतत्वं व्यवच्छिनत्ति । मोचकः एकस्य नाशनेन अपरस्यापसारणेन ।। १९१ ।।
युक्तिमल्लिका
उभयोश्चातिदूरस्थो न चेत्ते मोचयेत्कथम् ।
निगडेन निबद्धाङ्घ्रिर्न हि राजा विमोचकः ।। १९२ ।।
सुरोत्तमटीका
उभयोः उक्तद्विविधाज्ञानयोः । भगवतोऽज्ञानाति-दूरस्थत्वे युक्तिमाह ।। नचेदिति ।। न चेद्द्विविधमायादूरस्थो न चेत् ते द्विविधमाये । निगडबद्धपुरुषमोचकस्य राजादेः (कार्वादेर्वा) तदबद्धत्व-स्यावश्यंभावादिति भावः । तदेव दर्शयति ।। निगडेनेति ।। १९२ ।।
सत्यप्रमोदटीका
अदिदूरस्थः तदत्यन्ताभाववान् । हरिः बन्धात्यन्ता-भाववान् नित्यं तन्मोचकत्वात् । यो यदा यद्बन्धमोचको नासौ तदा तद्बद्ध इति सामान्यव्याप्तौ राजा दृष्टान्त इति व्यतिरेकमुखेनाह निगडेनेति ।।१९२।।
युक्तिमल्लिका
अस्मिन्नर्थे श्रुतिर्मानं पुराणानि च भूरिशः ।
अनिर्वाच्या तु या माया साऽनिर्वाच्यैव धीमताम् ।। १९३ ।।
सुरोत्तमटीका
श्रुतिरनादिमाययेत्यादिका । पुराणानि उक्तानि वक्ष्य-माणानि च । अनिर्वाच्या वक्तुमप्ययोग्या ।। १९३ ।।
सत्यप्रमोदटीका
आगमानुग्रहात्सुदृढा नित्यमुक्तत्वसाधकयुक्तिरित्याह अस्मिन्निति । भूरिश इति श्रुतिरित्यनेनाप्यन्वेति । एकवचनं तु ग्रहैकत्व-वदविवक्षितम् । ‘ज्ञानिनां मोक्षदश्च सः’ यस्य प्रसादात्परमार्तिरूपादस्मा-त्संसारान्मुच्यते’ इत्यादिकाः श्रुतयः ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ ‘एकस्यैव ममांशस्य जीवस्यैव महामते’ इत्यादि स्मृतयश्च मानं प्रमाणानि । नन्वेवं स्वमतेऽपि मायाया अङ्गीकारे कथं तन्निराकरणमित्यत आह अनिर्वचनीया त्विति । तु ना स्वाभिमतां व्यवच्छिनत्ति । एवेत्यनेन व्याहतत्वेनासम्भवित्वात्साधनानर्हतामाह । धीमतामिति । एवमपि तां ये ब्रूयुस्ते विवेकविधुरा इति भावः । एतेन मिथ्यात्वेऽप्यसद्विलक्षणत्वेनावरण-रूपार्थक्रियोपपन्नेति निरस्तम् । तथात्वे सत्यत्वस्यैव प्राप्तेः । तस्य च मयाऽप्यङ्गीकारात् । तदुक्तं वादावल्यां ‘सत्यतथाविधवस्तुपूर्वकत्वे सिद्ध-साधनं’ इति ‘न च भावरूपाज्ञाननिराकरणे सिद्धान्तविरोधः । परन्यायेन परनिराकरणादि’ति च ।। १९३ ।।
युक्तिमल्लिका
यो मायां वक्त्यधीशाने स प्रष्टव्यस्तयेशितुः ।
भ्रमस्सम्पाद्यते नेति न चेद्विद्यैव तामपि ।। १९४ ।।
निरस्तकुहकत्वोक्तया नोरीचक्रुः परं हरौ ।
आद्ये त्वविद्यैव तस्मात्कल्पोऽयं च विकल्पभीः ।। १९५ ।।
सुरोत्तमटीका
ब्रह्मण्यविद्यां निरस्य मायामपि निराकर्तुं पृच्छति ।। यो मायामिति ।। तया मायया भ्रमः संपाद्यते नवेति प्रष्टव्य इति पूर्वेणान्वयः । नेति पक्षं दूषयति ।। नचेदिति ।। नचेद्भ्रमसंपादिका न भवति चेत् । ऐन्द्रजालिकमायेवेश्वरनिष्ठापि मायेश्वरस्य न भ्रान्तिकरी किंतु द्रष्टृणामन्येषामेव भ्रान्तिकरीत्यर्थः । विद्यैव सा माया भगवतो विद्यैव परव्यामोहकमन्त्रौषधादि विद्यावद्विद्यैव । नत्वज्ञानवन्महादोष इति भावः । तर्हि तामङ्गीकृत्य जगतो मायाकल्पितत्वं कुतो नाङ्गीक्रियत इत्यत आह ।। तामपीति ।। सदा निरस्तकुहकं सत्यं परं धीमहीति भगवतो निरस्तकुहकत्वोक्त्या परं केवलं तामपि कुहकविद्यारूपमायां नोरीचक्रुरिति सम्बन्धः । अज्ञानभ्रमाख्य-महादोषानाधायकत्वेऽप्यवद्यगन्धविधुरे हरौ कुहकत्वरूपस्वल्पदोषोऽपि न वक्तुमुचित इति नाङ्गीचक्रुरिति भावः । आद्ये भ्रमसंपादकत्वपक्षे मायेति-शब्दभेदमात्रं साऽप्यविद्यैव । तस्मादयं कल्पः पक्षश्च विकल्पात् अज्ञान-पक्षोक्तविकल्पाद्भीर्यस्य सः विकल्पभीः ।। १९४,१९५ ।।
सत्यप्रमोदटीका
आह । द्विविधं खल्वज्ञानं अविद्या माया चेति । तत्राविद्योपाधिकं दुःखादि । मायोपाधिकं अम्बरादि । तत्र मास्तु ब्रह्मण्य-विद्या दुःखादिप्रसक्तेः । माया तु भविष्यतीति । तत्पक्षं दूषयितुं विकल्पयति भ्रम इति ।। स्वाश्रयव्यामोहकरी न वेति विकल्पार्थः । न द्वितीयः । परव्यामोहकर्यास्तस्यास्सत्यमन्त्रौषधादिविद्यायामेव प्रयोगात् । तस्या मिथ्या-त्वानुपपत्तेरित्याह विद्यैवेति । ‘मायामास्थाय युध्यस्ये’ति प्रकृतमायायां ‘आस्थाय तामसीं विद्यामि’ति विद्याशब्दप्रयोगस्य स्मृतत्वादिति भावः । अस्तु तर्हि सैवेश्वर इति तत्राह तामपीति । नोरीचक्रुरित्युत्तरेणान्वयः प्रामाणिका इति शेषः । कुत इति तत्राह निरस्तेति । तन्निषेधकप्रमाण-सत्त्वादिति भावः । ‘धाम्ना स्वेन सदा निरस्तकुहकमि’ति भागवतोक्तिमनेन सङ्गृह्णाति । परं भ्रमानापादकत्वेऽपि केवलं कुहकत्वादेव । कुहकविद्याश्रयणे सत्यसृष्टावशक्तताऽऽख्यदोषापादकत्वात् । तदुक्तं ‘अशक्ताः सत्यसृष्टौ हि मायासृष्टिं वितन्वत’ इति । नाद्यः । तथात्वे अविद्यालक्षणाक्रान्तत्वेना-विद्यात्वस्यैव प्राप्त्या तत्पक्षे प्रागुक्तसर्वविकल्पदोषाणामप्रतिहतप्रसरादित्याह विकल्पभीरिति । तथा च घट्टकुटीवृत्तान्त इति भावः । इदं च विकल्प-दूषणमुपलक्षणम् । मायाशब्दो हि ‘योगमायां समादिशदि’ति चित्प्रकृतौ, ‘एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाऽऽख्यये’ति भगवतो विचित्रशक्तौ, ‘माया वयुनं ज्ञानमि’ति वेदनिघण्टौ पाठात् ज्ञाने इत्यादौ व्युत्पन्न इति तदाश्रयत्वं हरावनुमतमेवेत्यपि ग्राह्यम् । विस्तरस्तु न्यायामृते श्रुतेरनिर्वाच्या-विद्यापरत्वभङ्गे ।। १९४,१९५ ।।
युक्तिमल्लिका
स्वदोषाच्छादनायाल्पो निर्दोषेष्वपि तं वदेत् ।
जीवे सम्भवदज्ञानं ब्रह्मण्यपि न किं जगुः ।। १९६ ।।
सुरोत्तमटीका
लोकनीत्याऽपि भगवत्यज्ञानकथनं परिहसति ।। स्वदोषेति ।। अल्पः मूर्खः स्वदोषाच्छादनाय स्वस्मिन्नागतजारत्वादि-दोषाच्छादनाय । तं दोषं जीवे स्वस्मिन् । मायावादिनः ब्रह्मण्यपि न जगुः किमिति सम्बन्धः । स्वस्याज्ञानित्वेनागत नैच्यपरिहाराय ब्रह्मण्यज्ञानं जगुः । न तु प्रमाणबलादिति भावः ।। १९६ ।।
सत्यप्रमोदटीका
असूयादोषस्य मायावादिषु समन्वयं व्युत्पादयति स्वेति । स्वस्य अल्पत्वापादकं दोषं आच्छादयितुं निर्दोषेषु अत एव स्वस्मा-दुत्कृष्टेषु अपि तं दोषं वदेत् आरोप्य तान् गर्हयेत् । दिवाभीतः सूर्येऽन्धकार-मिवेति भावः । अस्य च परोत्कर्षासहनाख्यमात्सर्यज्वरस्य मायावादी निदर्शनमित्याह जीवे इति । स्वस्मिन्मायावादिनि सम्भवत् अनुभवबलेन प्रमितं ब्रह्मण्यपि सर्वज्ञत्वेन प्रमितेऽत एवाज्ञानविरहितेऽपि ।। १९६ ।।
युक्तिमल्लिका
किं मलैस्समलस्यास्य निर्मलस्य मलं मलम् ।
नीलिमा दूषणं भानोस्स्वर्भानोस्तु स भूषणम् ।। १९७ ।।
सुरोत्तमटीका
ननु परोदीरितरीत्या ब्रह्मण्यज्ञानमस्तु भवतां किं गतमित्यतस्तदपि लोकनीतिविरुद्धमित्याह ।। किं मलैरिति ।। समलस्य कर्मलेपदुःखादिमलसहितस्य जीवस्य मलैरज्ञानभ्रमादिमलैः किं संसाराख्यमल- मलिनस्य जीवस्य सर्वमपि मलं सम्भावितमिति भावः । निर्मलस्य निरवद्यत्व- श्रुत्या दोषगन्धविधुरस्य भगवतः मलं अज्ञानकुहकत्वरूपमलमपि मलमेव । तत्र दृष्टान्तमाह ।। नीलिमेति ।। भानोस्सूर्यस्य । स्वर्भानोः राहोः । सः नीलिमा ।। १९७ ।।
सत्यप्रमोदटीका
समलस्य प्रमाणदुर्घटस्य अस्य अनन्तदोषदुष्टस्य मायावादस्य । मलैः अनवस्थादिकतिपयैर्दोषैः आपादितैः । किं न किमप्यनिष्टमापादितं भवति । प्रमाणगृहीताभावप्रतियोगित्वं ह्यनिष्टत्वं नाम आपाद्यस्य । यत्र मतेऽनन्तदोषाः प्रमाणगृहीता एव यत्र च दौर्घट््येन भूषणत्वं स्वयमङ्गीकृतं, तत्र दोषापादकतर्कस्येष्टापादनेनाभासत्वं प्रसज्यत इति भावः । कुत्र तर्हि दोषापादनेऽनिष्टमित्यत आह निर्मलस्य तत्ववादस्य दूषणसामान्यात्यन्ताभाववतः । मलं यत्किञ्चिद्दोषापादनमपि । मलं अनिष्टमेव, प्रमाणप्रतिषेधप्रदर्शनेन तद्दूषणं परिहार्यमेव । अत एव स्वमतेऽ-ज्ञानाङ्गीकारे परेणापादितो दोषः ‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवे-दि’त्यादिना परिहृत इत्याकूतम् । एकस्यैव दूषणत्वं विषयभेदेन भूषणत्वं च न दृष्टचरमित्यत आह नीलिमेति । भानोः शुक्लभास्वरतेजोराशेः सूर्यस्य । दूषणं स्वयमविद्यमानत्वेऽपि बुद्धिशून्यैरारोपितत्वात् अप्रामाणिकम् । स्वर्भानोः राहोः वस्तुगत्या नीलस्य विषये भूषणं वस्तुगत्या विद्यमानत्वेन प्रामाणिक-मेव । जीवे कर्मलेपादिवास्तवदोषाणामेव सद्भावेन न तत्र तदारोपः तत्पूर्वक-निषेधो वा सम्भवति । परमात्मनि तु नित्यनिर्दोषे लेपादिदोषारोपः तत्पूर्वक-निषेधश्च ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्यादि’त्यादिना तत्र तत्र क्रियत इति विभावनीयम् ।। १९७ ।।
युक्तिमल्लिका
स्वयं ह्यशक्तश्शक्तस्याप्यशक्तिं प्रथयेत्खलः ।
स्वज्ञानवद्धरेर्ज्ञानं किं नाज्ञानानुगं जगौ ।। १९८ ।।
सुरोत्तमटीका
भगवज्ज्ञानमज्ञानाविरोधीत्येतदपि नीतिविरुद्धमित्याह ।। स्वयमिति ।। समुद्रतरणादावशक्तः खलो मर्कटः शक्तस्य हनूमतोऽप्यशक्तिं प्रथयेत् । कश्शक्तो जलधिं विलंघितुमहो मिथ्येति रामायणमिति मर्कट-वचनात् । एवं मायावाद्यपीत्याह ।। स्वज्ञानवदिति ।। स्वस्य जीवस्य ज्ञानवत् जीवस्य ज्ञानं नित्यतया विद्यमानमपि हरेरिच्छया यथाऽज्ञानानुगं तद्वदित्यर्थः । हरेः परनिष्ठाज्ञाननिर्हरणे समर्थस्य ज्ञानं सर्वविषयकज्ञानं अज्ञानानुगं अज्ञानानुकूलं अज्ञानसहितमिति यावत् । न जगौ किम् । यथा स्वस्याशक्तौ परस्याप्यशक्तिकथनं दुर्नीतिरूपत्वान्नीतिविरुद्धं तथेदमपीति भावः ।। १९८ ।।
सत्यप्रमोदटीका
अपरमपि नीतिविरोधं मायावादिन आह सममिति । खलः मर्कटः । अशक्तः समुद्रतरणे असमर्थः । शक्तस्य हनूमतोऽपि तत्र अशक्तिं असमर्थतां प्रथयति ख्यापयति । इयमत्र लौकिकी कथाऽनुसन्धेया । कश्चित्क्षुद्रो वानरो रामायणं श्रुत्वा स्वयमपि समुद्रप्लवनदुःसाहसं उपक्रम्य तत्रैव समुद्रे निपतितो निमज्जन्नाह । ‘मिथ्यैव हनूमतः समुद्रलङ्घनवर्णनपरं रामायणम् । अपारोऽयं पारावार’ इति ।। इयं दुर्नीतिर्मायावादिनः कुत्र दृष्टेत्यत आह स्वज्ञानेति । स्वस्य संसारिजीवस्य ज्ञानं यथा अज्ञानानुगं अज्ञानावृतं ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव’ इत्युक्तेः । तथा हरेः अज्ञाननिर्हरणे समर्थस्य ज्ञानं स्वपराशेषविषयकं ‘यः सर्वज्ञ’ इति श्रुति-सिद्धम् । अज्ञानानुगं स्वरूपचितोऽज्ञानस्फोरकत्वेन अज्ञानावृतम् ।। १९८ ।।
युक्तिमल्लिका
अनृतं वदतो वाक्यमसम्बद्धं भवेद्ध्रुवम् ।
ज्ञानस्य सहकार्यस्य हानिर्नावरणे किल ।। १९९ ।।
सुरोत्तमटीका
मायिमतान्तरमपि नीतिविरुद्धमित्याह ।। अनृतमिति ।। अनृतं वदतश्चोरस्य । असम्बद्धं पूर्वोत्तरासम्बद्धम् । यामिकैर्विचार्यमाणश्चोरः पूर्वमेकं वदेत् पुनस्तद्विरुद्धमन्यदपि वदेत् । तदाऽयं चोर इति निश्चिनुयु-स्तथेति भावः । सहकार्यस्य अर्थप्रकाशनाख्यकार्यसहितस्य ज्ञानस्य स्वरूप-भूतनित्यज्ञानस्य आवरणे अविद्याख्यावरणे सत्यपि हानिर्न किल । ज्ञान-प्रतिबन्धकं ह्यावरणम् । तस्मिन्सत्यपि ज्ञानस्यान्यूनतेति यन्मायिमतं तदपि दुर्नीतिरूपत्वान्नीतिविरुद्धमिति भावः
।। १९९ ।।
सत्यप्रमोदटीका
प्रक्रियान्तरमपि नीतिविरुद्धं तन्मत आह अनृत-मिति । मूकोऽहमित्ययथार्थं वदतः इव मिथ्यावादिनः वाक्यं असम्बद्धं स्वक्रियाविरुद्धम् । यद्वा अनृतं जगतः अध्यासं वदतः उत्सूत्रं भाषमाणस्य असम्बद्धं तदुच्यमानसङ्गतित्रयशून्यम् । तदुक्तं ‘बन्धमिथ्यात्वं नैव मुक्ति-रपेक्षत’ इति । यद्वा अनृतं नेह नानास्तीति वाक्यं जगदनृतत्वप्रतिपादकं इति वदतः वाक्यं असम्बद्धं वन्ध्यासुतवचस इव स्वस्याप्यसाधकत्वप्राप्त्या बुबोधयिषितार्थेन असम्बद्धं सम्बन्धशून्यम् । तदुक्तं ‘तद्वाक्यस्याग्रतो भवे-दि’ति । यद्वा अनृतं ब्रह्मणो निर्विशेषत्वम् । असम्बद्धं निर्विशेषत्वेनैव विशेषेण सविशेषत्वप्राप्त्या व्याहतम् । तदप्युक्तं ‘निर्विशेषत्वमेतेन मूकोह-मितिवद्भवेदि’ति । यद्वा लोके चोरस्य अनृतभाषिणो यथा वाक्यं अन्योन्या-सम्बद्धं तथा अनृतं ‘अतत्वावेदकाः प्रायो वेदाः केचिन्निरर्थकाः’ इति एवं सूत्रजातविरुद्धार्थं वदतः प्रतिपादयतः वाक्यं भाष्यं असम्बद्धं मूलसूत्रेण सम्बन्धशून्यम् । यथोक्तं सुमध्वविजये ‘मान्योन्वयोऽन्योन्यमहो न दृश्यते’ इति । यद्वा अनृतं अविद्यमानं चित्स्वरूपावरणं वदतः चितः स्वप्रकाशाया अपि तत्स्फोरकत्वमेव न तु नाशकत्वं इति वदतो वाक्यं असम्बद्धं लिलक्षयिषितज्ञानाज्ञानसम्बन्धशून्यतल्लक्षणोक्तिपर्यवसितं भवेदिति योज्यम् । एतद्विवृणोति ज्ञानस्येति । सहकार्यस्येति बहुव्रीहिः । ज्ञानस्य कार्याणि अज्ञाननिवृत्तिः, संस्कारः व्यवहारः इत्यादीनि तत्सहितस्येत्यर्थः । तदावरणं च, तत्र तत्कार्येषु वाऽकिञ्चिद्धानिकरं चेति कथं न दुर्नीतिरिति भावः । तदुक्तं न्यायामृते ‘न हि ज्ञानानिवर्त्यमज्ञानं भवति’ इति, ‘अज्ञानाविरोधित्वे चैतन्यस्य घटादिवज्ज्ञानत्वायोगाच्च । ज्ञानाज्ञाने हि ज्ञातुरर्थप्रकाशाप्रकाशौ’ इति च ।। १९९ ।।
युक्तिमल्लिका
सकृद्भ्रष्टः खलः पश्चाद्भ्रष्टताया बिभेति किं ।
सर्वज्ञाज्ञानदौर्घट््यं किं नाभाषत भूषणम् ।। २०० ।।
सुरोत्तमटीका
मतान्तरमपि नीतिविरुद्धमित्याह ।। सकृदिति ।। सकृद्भ्रष्टः अनाचारादिना पतितः पश्चाद्भ्रष्टतायाः अनाचारान्तरेण पातित्यात् बिभेति किम् । भिक्षोर्मांसनिषेवणं किमुचितं किं तेन मद्यं विनेति भ्रष्टवचनान्न बिभेत्येव । यत एव हि सर्वज्ञे परमात्मनि यदज्ञानं कथितं तदेव प्रथमा-बद्धम् । सर्वज्ञे अज्ञानायोगात् । पुनस्तस्याज्ञानस्य यद्दौर्घट्यं दुर्घटत्वं तद्भूषणं नाभाषत किं अभाषतैव । इदं च द्वितीयमबद्धम् । अतः इदमपि मतं प्रागुक्तदुर्नीतेरुदाहरणमिति भावः ।। २०० ।।
सत्यप्रमोदटीका
सकृत् ब्रह्मणि सर्वज्ञेत्सम्भवदज्ञाननिरूपणेन भ्रष्टः वैदिकव्यवहाराद्बहिष्कृतः । पश्चात् स्वनिरूपितस्य प्रमाणदुर्घटार्थस्य उपपादने दुस्साहसे स्वीकृतोद्यमः भ्रष्टतायाः अनुपपत्तिः अलङ्कारः, दुर्घटत्वं भूषणं, इत्यादिप्रजल्परूपायाः । भयाभावे ज्ञापकमाह किमिति । यदि भीतोऽ-भविष्यन्नैवासम्बद्धं अभाषिष्यतेति भावः । राज्ञोऽज्ञानोक्तौ प्रसक्तात् सद्यः-शासनाद्बिभेति । देवस्य तु तदुक्तौ सद्यःशासनाभावात् कालान्तरे तमस्म-द्भावेऽपि तस्मादुन्मत्ततया न बिभेति । इदं च कुमतेर्लक्षणम् । वक्ष्यति च ग्रन्थकारः स्वयमुत्तरत्र ‘बिभेति कुमतिः सद्यःशास्तुर्न समयान्तरे’ इति ।।