ये स्मरन्त्यात्मनि भिदां निरुपाधिकयोगिनः


 

'ये स्मरन्त्यात्मनि भिदां' इति श्रुतिगीतिकाद्यर्थाः

युक्तिमल्लिका

ये स्मरन्त्यात्मनि भिदां निरुपाधिकयोगिनः ।

त्वं तानुपविशेत्याह विस्पष्टं श्रुतिगीतिका ।

स्फुटत्वाच्छ्रुतिमूलत्वात्फलवत्वाद्बलीयसी ।। १०६२ ।।

सुरोत्तमटीका

 अधुना जीवेश्वरभेदे प्रमाणं दर्शयति ।। ये स्मरन्तीति ।। अनेन ‘तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतस्सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मर-न्त्युपविश ध्वनिमारुवत इति श्रुतिगीतिकावचनं सङ्गृह्णाति । तत्र विपणमृते आत्मनि भिदां ये स्मरन्ती’त्यस्यार्थकथनं निरुपाधिकयोगिन इति ।। त्वं तानुपविशेति उपविशध्वनिमारुवत इत्यस्य तात्पर्यकथनम् । तेषां ध्वनिं वेदव्याख्यानादिध्वनिं उपविश ध्वनिं कुर्वतां तेषां हृदि सदा तिष्ठेत्यर्थः । आसमन्तात् रुवन् प्राणघोषं कुर्वन्मुख्यप्राणः आरुवन् । तस्मात् तस्य प्रसादात् उपविशेति सम्बन्धः । स्फुटत्वात् आत्मनि परमात्मनि भिदामिति स्पष्टार्थ-त्वादित्यर्थः । फलवत्त्वात् उपविशेति फलश्रवणादित्यर्थः ।। १०६२ ।।

सत्यप्रमोदटीका

 इदानीं

तर्हि न सन्न चासदुभयं न च कालजवः

 किमपि न तत्र शास्त्रमपकृष्य शयीत यदा ।

 जनिमसतः सतो मृतिमजात्मनि ये च भिदां

 विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः’

इति प्रलयकालीन जीवेश्वरभेदप्रतिपादिकां श्रुतिगीतिकां व्याख्याति । ये इति । विपणमृते इत्यस्यार्थः निरुपाधिकेति । आशिषः काम्यफलस्याशासनं विना इत्यर्थः । तथात्वे वणिक्त्वप्राप्तेः ‘यस्त आशिष आशास्ते न स भृत्यः स वै वणिक्’ इति प्रल्हादवचनात् । ये स्मरन्ति इत्यस्यार्थः योगिन इति । अखण्डस्मृतिरूपयोगवन्त इत्यर्थः । आरुवतः प्राणघोषं कुर्वतः वायोः । वायोः प्रसादात् । ल्यब्लोपः । अनुग्रहं निमीत्तीकृत्य । तेषां ध्वनिमुपविश हृदये प्रवेशं कुरु । स्फुटत्वादिकं त्रयं बलीयस्त्वे हेतुः ।। १०६२ ।।

युक्तिमल्लिका

उपस्थितात्स्मर्तृतया जीवाख्यात्प्रतियोगिनः ।

परमात्मनि भेदोऽत्र प्रलये प्रतिपाद्यते ।। १०६३ ।।

सुरोत्तमटीका

 आत्मनि भिदामिति परमात्मनिष्ठतया प्रतीयमानभेदस्य प्रतियोगी क इत्यत आह ।। उपस्थितादिति ।। स्मरन्तीत्यत्र स्मर्तृतयोप-स्थितात् जीवाख्यात् जीवसमुदायाख्यात् प्रतियोगिन इति सम्बन्धः । अत्र वाक्ये उपस्थितपरित्यागे कारणाभावात् जीवप्रतियोगिकः परमात्मधर्मिक एव भेदः प्रतिपाद्यत इति भावः । अजेति परमात्मनस्सम्बुद्धिः । उपलक्षणं चैतत् । जगज्जन्ममरणहेतुतया उपस्थितात् परमात्मनः आत्मनि स्वेषु भिदामिति योजनया जीवधर्मिकोऽपि भेदो ग्राह्यः । अत एव आत्मनीति सामान्यपदम् ।। १०६३ ।।

सत्यप्रमोदटीका

 आत्मनि प्रलयकर्तरि परमात्मनि धर्मिणि । भिदां स्मर्तृतया उपस्थितजीवप्रतियोगिकाम् । न सन्न चासदिति प्रलयज्ञापकम् । ‘नासदासीन्नोसदासीत्’ इति श्रुतेः ।। १०६३ ।।

युक्तिमल्लिका

अपकृष्य शयीतेति प्रस्तावः प्रलयस्य हि ।

यस्सर्वस्य लये चास्ति सोऽस्त्येव परमात्मवत् ।। १०६४ ।।

सुरोत्तमटीका

 प्रलयत्व ज्ञापकमाह ।। अपकृष्येति ।। अनेन तर्हि न सन्नित्यादि श्लोकार्धं गृह्णाति । शास्त्रं वेदम् । पूर्वार्धपर्यालोचनया महाप्रलय-कालोऽयमिति ज्ञायत इति भावः । यः जीवेश्वरभेदः । अनेन जीवेश्वरभेदः पारमार्थिकसन् महाप्रलयेऽप्युर्वरितत्वात् । ब्रह्मवदिति युक्तिमूलतयाप्यस्य वाक्यस्य बलीयस्त्वमिति ज्ञापयति ।। १०६४ ।।

सत्यप्रमोदटीका

 शास्त्रं अपकृष्य वेदं पदसमन्वयवृत्त्या स्वप्रतिपादन-परं आपाद्य । यः भेदः । सः, परमार्थतः अस्त्येव, प्रलयकालीनावस्थिति-मत्त्वात् परमात्मवत् इति युक्तिसंवादित्वेन उक्तं बलीयस्त्वं उपपादितम् ।। १०६४ ।।

युक्तिमल्लिका

फलं च स्मर्तृजीवेषु प्रवेशः किल नैकता ।। १०६५ ।।

सुरोत्तमटीका

 तत्तस्मात् महाप्रलयकालीनस्मरणफलतयापि भगवतः जीवेषु प्रवेशस्यैव श्रवणात् ।। १०६५ ।।

सत्यप्रमोदटीका

 फलं च प्रवेशः भेदाविनाभूतः । ‘न हि ग्रामं प्रविष्टस्य तदेकता’ इति भगवत्पादोक्तेः ।। १०६५ ।।

युक्तिमल्लिका

तत्ते ब्रह्मैकता नाभूद्विरुद्धे दृग्गिरः परम् ।

सभायामसहायस्य स्यादेकाकितयैकता ।। १०६६ ।।

सुरोत्तमटीका

 तर्ह्यैक्याशायाः का गतिरित्यत आह ।। विरुद्धेति ।। सर्वानुभवविरुद्धवादिनस्तव कोऽपि सहायो न भविष्यतीति एकाकित्व-रूपैक्येनैव त्वदाशापूरणं कुर्विति भावः ।। १०६६ ।।

सत्यप्रमोदटीका

 एकशब्दस्य असहायवाचित्वात् साधकप्रमाण-साहाय्यशून्यत्वादेव एकतेत्याह सभायामिति ।। १०६६ ।।

युक्तिमल्लिका

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिः ।। १०६७ ।।

इति भागवते प्रोक्त्या सदा दोषोपमर्दने ।

सुशक्तमीशचैतन्यं तदशक्तमनीदृशम् ।। १०६८ ।।

सुरोत्तमटीका

 युक्तिगर्भभागवतवाक्यान्तरेणापि जीवेश्वरभेदं साधयन् तन्मूलयुक्तीश्च दर्शयति ।। क्वेति ।। अज्ञसम्भवाः अज्ञेषु सम्भवन्तीत्यज्ञ-सम्भवाः । अज्ञानिष्वेव शोकमोहादीनां सम्भवः । न त्वज्ञानातिदूरे निरवधिकज्ञानैश्वर्य संपन्ने ब्रह्मचैतन्य इति भावः । इति हेतोः तत् जीवचैतन्य ब्रह्मचैतन्याख्यं चैतन्यद्वयं मिथो विरुद्धमेवेति सम्बन्धः । एवं च नीचोच्च-चितोरनयोरैक्यं कथं न कथं चित् । अज्ञानमूलं हि शोकादिकं अज्ञानं च चिन्मात्राश्रितमिति तवापि मतम् । एवं चानर्थहेतोरज्ञानस्यावकाशं ददत् जीवचैतन्यमसमर्थत्वान्नीचं ब्रह्मचैतन्यं च तस्य तन्मूलशोकादेश्च विद्रावण-समर्थत्वात् अत्युच्चम् । नीचोच्चयोश्च तयोः कथमैक्यमिति भावः ।। १०६७-१०६९ ।।

सत्यप्रमोदटीका

 स्नेेहः दुर्विषयेषु । अज्ञसम्भवाः अविद्याक्षेत्रत्व-मुत्तरेषामित्युक्तेः । अखण्डितेति । यावद्द्रव्यभावित्वात्स्वरूपभूतेत्यर्थः । तदर्थः सदेत्यादिकम् ।। १०६७, १०६८ ।।

युक्तिमल्लिका

जीवचैतन्यमिति तच्चैतन्यद्वयमेव हि ।

मिथोविरुद्धं नीचोच्चचितोरैक्यं कथं वद ।। १०६९ ।।

सत्यप्रमोदटीका

 इति हेतोः ।। १०६९ ।।

युक्तिमल्लिका

एवं च ब्रह्मचैतन्यं नैव जीवस्य चित्क्वचित् ।

अभयत्वादमोहत्वादशोकत्वाच्च कुड््यवत् ।। १०७० ।।

सुरोत्तमटीका

 ततश्चैतद्वाक्यादनुमात्रयं सिद्धमित्याह ।। एवं चेति ।। क्वचिदपि जीवस्य चिन्नैव जीवचिदभिन्नं नैवेति यावत् । हेतौ च भयाद्यत्यन्ता-भावाधिकरणत्वं विवक्षितम् । अतो न जीवचैतन्ये व्यभिचारः ।। १०७० ।।

सत्यप्रमोदटीका

 न चासिद्धिः तन्मूलाज्ञानरहितत्वादित्युक्तं अज्ञ-सम्भवा इति अज्ञे एव सम्भावितानां अज्ञानाशून्ये असम्भवादिति भावः

।। १०७० ।।

युक्तिमल्लिका

किं न श्रुतं हरिर्ब्रह्मरुद्राद्युत्कृष्टचेतनः ।

इति नामसहस्रस्थं पुण्यनाम महात्मनः ।। १०७१ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि चैतन्ययोरेव नीचोच्चभावं साधयति ।। किं न श्रुतमिति ।। १०७१ ।।

सत्यप्रमोदटीका

 नामसहस्रस्थं वासुदेवसहस्रनामपठितम् ।।१०७१।।

युक्तिमल्लिका

उत्कृष्टचेतनत्वोक्त्या चिन्मात्रमपि मापतेः ।

अत्युच्चं जीवचैतन्यादित्यर्थः किं न सिध्यति ।। १०७२ ।।

सुरोत्तमटीका

 जीवचैतन्यादत्युच्चमित्यर्थ इति सम्बन्धः ।। १०७२ ।।

सत्यप्रमोदटीका

 चेतनश्चेतनानां इति श्रुतिप्रतिपाद्ये विष्णौ चेतनशब्दः अन्तर्भावितोत्कर्ष एव । चित् चेतन इति चानर्थान्तरम् । तथा च ‘पवित्राणां पवित्रो यः’ इत्यत्र पवित्राणामिति निर्दिष्टवस्त्वपेक्षया पवित्र इति निर्दिष्टस्य स्वतन्त्रं निरतिशयं पावित्र्यं इव अत्रापि चेतनानामिति निर्दिष्टजीवचेतना-पेक्षया चेतन इति निर्दिष्टस्य हरेः उत्कर्षसिद्धिर्निष्प्रत्यूह इत्याह उत्कृष्टेति ।। १०७२ ।।

युक्तिमल्लिका

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थितआत्मनि ।

इति भागवतोक्त्या च समर्था नृहरेर्हि चित् ।। १०७३ ।।

सुरोत्तमटीका

 भागवतवचनान्तरेणापि भगवच्चितोऽतिसमर्थभूताया उच्चतां साधयति ।। मायामिति ।। तत्तस्मात् ।। १०७३ ।।

सत्यप्रमोदटीका

 अतः चिन्मात्रलक्षणायामपि ईशचितः स्वशक्त्यैव मायाव्युदासकत्वादुत्कृष्टत्वं अतथाभूतचितः सकाशादित्याह मायामिति

।। १०७३, १०७४ ।।

युक्तिमल्लिका

तत्पूर्णापूर्णयोश्शक्ता शक्तयोरुच्चनीचयोः ।

जीवब्रह्मचितोरैक्यमपि शक्यं कथं वद ।। १०७४ ।।

सुरोत्तमटीका

 जीवब्रह्मचितोरप्यैक्यं कथं शक्यम् ।। १०७४ ।।