आदिसृष्टौ ततः कुर्यात्कल्पे कल्पे महाप्रभुः

ज्ञाननिवर्त्यत्वभङ्गः

युक्तिमल्लिका

आदिसृष्टौ ततः कुर्यात्कल्पे कल्पे महाप्रभुः ।

सत्यं प्रकृत्युपादानं सर्वं जगदिति स्थितम् ।। १८२ ।।

सुरोत्तमटीका

 ततः यच्चिकेतेति श्रुतौ यच्चिकेत तत्सत्यमिति व्याप्तया सर्वत्र भगवतः सत्यजगत्कर्तृत्वस्य श्रूयमाणत्वात् । कल्पे कल्पे दैनंदिनसृष्टौ चेत्यर्थः ।। १८२ ।।

सत्यप्रमोदटीका

 सर्वं ‘स इदं सर्वमसृजदि’ति श्रुतेः ।। १८२ ।।

युक्तिमल्लिका

एवं मृदाद्युपादानैर्निमित्तैर्दण्डपूर्वकैः ।

कुम्भकारकुविन्दाद्याः कुर्युर्घटपटादिकम् ।। १८३ ।।

सुरोत्तमटीका

 अज्ञानोपादानकत्वेन जगतो मिथ्यात्वं परकीयभाष्ये प्रतिपादितम् । तत्राज्ञानोपादानकत्वमनुभवविरुद्धं युक्तिविरुद्धं चेत्याह ।। एवमिति ।। एवमादिसृष्टिवत् । दैनन्दिनसृष्टिवच्च । दृष्टवददृष्टस्याप्युन्नेय-त्वेनादिसृष्टेरपीदृशत्वनिर्णीतेस्सैव दृष्टान्ती कृता ।। १८३ ।।

सत्यप्रमोदटीका

 शून्यवादे संवृत्यैव औतब्रह्मवादे अज्ञानेनैव सर्व-कार्योत्पत्त्यङ्गीकारे घटादितत्तत्कार्यार्थिभिः कुलालादिभिः नियतदण्डमृदादि-तत्तत्करणानुसरणं विरुध्यते । तदुक्तं अनुव्याख्याने ‘कार्यार्थी कारणं सच्च नोपादद्यात्कथंचन । न प्रवर्तेत चेष्टाय शून्यादेवेष्टसंभवात्’ इति । कार्य-कारणात्मकविश्वस्य सत्यत्वाङ्गीकारे तु नैष दोषः इत्याह एवमिति ।।१८३।।

युक्तिमल्लिका

यद्यज्ञानमुपादानं मृदानयनयत्नवत् ।

तदर्थमपि किं कोऽपि यत्नं कुर्यान्न कुत्रचित् ।। १८४ ।।

सुरोत्तमटीका

 तदर्थम् अज्ञानार्थम् । घटपटस्तम्भकुड्यादिनानाकार्य-कर्तृभिर्लोकैस्तत्तदुपादानेषु क्रियमाणयत्नवत् अज्ञानसंपादनवार्ताया अपि केनाप्यकरणात् सर्वानुभवविरुद्धमज्ञानोपादानकत्वम् । दृष्टानुसारेणैवादृष्टस्यापि कल्प्यत्वात् मृदादिपरम्परायाः मूलोपादानभूतपृथिवीत्वादिजात्याक्रान्तमूल-प्रकृत्यंशा एव जगदुपादानं नाविद्येति भावः ।। १८४ ।।

सत्यप्रमोदटीका

 यत्नवत् यत्नमिव ‘तत्र तस्येवे’त्यस्य प्रायिकत्वात् ।। १८४ ।।

युक्तिमल्लिका

अन्वयव्यतिरेकाभ्यां कार्यकारणतेयते ।

अन्यथा रासभस्यापि कारणत्वं कथं न ते ।। १८५ ।।

अज्ञानोपादानकत्वं तदसिद्धं घटादिषु ।

कथं मिथ्यात्वसिद्ध्यै स्यान्न ह्यसिद्धस्य हेतुता ।। १८६ ।।

सुरोत्तमटीका

 ईयते ज्ञायते । अन्यथा अन्वयव्यतिरेकाभावेऽपि कारणत्वे ।। १८५,१८६ ।।

सत्यप्रमोदटीका

 मृदादेः घटादिकारणतायामिव अज्ञानस्य प्रपञ्च-कारणतायां अन्वयव्यतिरेकौ न स्तः । एवमपि कारणत्वाभ्युपगमेऽतिप्रसङ्गमाह अन्यथेति ।। तथा च प्रयुज्यते प्रपञ्चः न अविद्याकार्यः तदन्वयव्यतिरेकाननु-विधायित्वात् । यथा घटः न तन्तुकार्यः । सामान्यव्याप्तिः ।। १८५–१८६ ।।

युक्तिमल्लिका

अधिकार्याद्यभावस्य परिहाराय सूत्रितम् ।

यत्सूत्रं तत्र सर्वस्याभावे भावः कथं वद ।। १८७ ।।

सुरोत्तमटीका

 अध्ययनवैराग्यमोक्षेच्छादिसाधनसंपन्नस्य गुरुशिष्यदेश-कालपुस्तकादिसम्पत्तिमतश्चाधिकारिणोऽभावात् परमते वेदान्तवाक्यं हि विषयः तदभावात् विचारसाध्यतत्वज्ञानादिप्रयोजनाभावाच्च न ब्रह्मजिज्ञासेति पूर्वपक्षिते तस्य सर्वस्य सद्भावं प्रतिपादयितुं प्रवृत्तस्याथातो ब्रह्मजिज्ञासेत्यादिमसूत्रस्य जगन्मिथ्यात्वं नाभिमतमित्याह ।। अधिकारीति ।। तत्र सूत्रे । अभावः मिथ्यात्वम् । भावः अभिप्रायः । अतस्सूत्रभाष्ये प्रवृत्तस्य मिथ्यात्वकथन-मसङ्गतमेवेति भावः ।। १८७ ।।

सत्यप्रमोदटीका

 प्रथमं खलु सूत्रं अधिकार्यादिसद्भावं समर्थ्य तत एव जिज्ञासायाः कर्तव्यतां संसाध्य शास्त्रारम्भं प्रयोजयति । अधिकार्यादिकस्य मिथ्यात्वे सूत्रस्यैवानारंभणीयत्वापत्त्या तद्भाष्यकरणोद्यमः स्वव्याहत इत्याह अधिकारीति ।। १८७ ।।

युक्तिमल्लिका

अथ बन्धनिवृत्तिर्हि प्रयोजनमिहोदितम् ।

बन्धस्य ज्ञानतो नाशः श्रुत्या सूत्रेण चोच्यते ।। १८८ ।।

सुरोत्तमटीका

 जगन्मिथ्यात्वस्य परोदीरितसूत्रसङ्गतिं दूषयितुं तत्प्रक्रिया- मनुवदति ।। अथेति ।। श्रुत्या । ‘‘दृष्ट्वैव तं मुच्यत’’ इत्यादिश्रुत्या । सूत्रेण आदिसूत्रेण ।। १८८ ।।

सत्यप्रमोदटीका

 सौत्रप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति परमतमनुवदति अथेति । श्रुत्या ‘तमेवं विद्वानमृत इह भवति’ इत्यादिकया । सूत्रेण ज्ञानेन बन्धनिवृत्तिं प्रतिपादयता प्रथमसूत्रेण ।। १८८ ।।

युक्तिमल्लिका

तच्चासम्भवि यज्ज्ञानमज्ञानस्यैव नाशकम् ।

इति व्याप्तिस्तदज्ञानोपादानत्वमपीष्यते ।। १८९ ।।

सुरोत्तमटीका

 तत् ज्ञानेनैव बन्धनिवर्तनम् । यत् यस्मात् साक्षाज्ज्ञानेन बन्धनिवृत्त्ययोगात् । इष्यते । बन्धस्य ज्ञाननिवर्त्त्यत्वघटनाय अङ्गीक्रियते । बन्धस्याज्ञानोपादानकत्वे हि ज्ञानेनाज्ञाननिवृत्तौ तदुपादानकबन्धस्यापि उपादाननिवृत्त्या निवृत्तिर्वक्तुं शक्या । अन्यथा श्रुत्युक्तापि ज्ञानेन बन्ध-निवृत्तिर्ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिविरोधादयुक्ता स्यात् । अतो बन्धस्याज्ञानोपादानकत्वमप्यर्थाल्लभ्यत इति भावः ।। १८९ ।।

सत्यप्रमोदटीका

 तच्च ज्ञाननिवर्त्यत्वं च । असंभवि बन्धस्य वस्तु-कृतत्वे इति शेषः । तत् तस्मात् बन्धस्येति पूर्वश्लोकादनुकर्षः । इष्यते आक्षिप्यते ।। १८९ ।।

युक्तिमल्लिका

इदमेव च मिथ्यात्वमतस्तच्छ्रुतिसूत्रयोः ।

यद्यार्थिकमिति ब्रूषे तर्हि दोषेषु मज्जसि ।। १९० ।।

सुरोत्तमटीका

 इदमज्ञानोपादानकत्वम् । तदज्ञानोपादानकत्वरूप-मिथ्यात्वम् । दूषयति ।। तर्हीति ।। १९० ।।

सत्यप्रमोदटीका

 आर्थिकं अर्थाक्षिप्तम् ।। दोषेषु आक्षेपकस्य अप्रमि-तत्वं, अन्यथैवोपपत्तिः अन्यथाऽप्युपपत्तिः आक्षेप्यस्य अनुपपादकत्वं प्रमाणविरुद्धत्वं च इत्येवंरूपेषु अर्थापत्तिदोषेषु ।। १९० ।।

युक्तिमल्लिका

अनादिः किल संसारस्तवापि च ममापि च ।

यदनादि न तत्कार्यमिति व्याप्तिर्बलीयसी ।। १९१ ।।

तवार्थिकार्थमत्यर्थमनर्थीकुरुते न किम् ।

इदं तु भाष्यकारस्य महदासीदकौशलम् ।। १९२ ।।

सुरोत्तमटीका

 यदनादि न तत्कार्यं यथा ब्रह्मेति व्याप्तिर्बलीयसी अतिशयेन बलवती । अस्याव्याप्तेस्सर्वैर्वादिभिरङ्गीकारात् । ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तु त्वयैवाङ्गीक्रियते । परस्तु ज्ञानाभावरूपाज्ञानवादी ज्ञानमज्ञाननिवृत्तिरूपमेव वक्ति । न तु निवर्तकम् । अभावाभावस्य भाव-रूपतायास्सर्वैरङ्गीकारात् । अतः परकीयव्याप्तिरेवायुक्तेति सूचनाय बलीयसी-त्युक्तम् । आर्थिकार्थम् अनादेर्बन्धस्याज्ञानोपादानकत्वं अज्ञानकार्यत्वमिति यावत् । इदं प्रशिथिलमूलव्याप्त्या स्वरीत्यैवानादेः कार्यत्वकथनम् ।। १९१,१९२ ।।

सत्यप्रमोदटीका

 बन्धस्य अज्ञानोपादानकत्वलक्षणं मिथ्यात्वं हि आक्षेप्यम् । तच्च प्रमाणविरुद्धमित्याह अनादिरिति । अनादि च कार्यं चेति विरुद्धम् । इदं अनादेः कार्यताकल्पनम् ।। १९१,१९२ ।।

युक्तिमल्लिका

अनादृत्य श्रुतिं व्याप्तिमसतीमनुसृत्य च ।

मनोरथसुतस्स्वस्य यतो गर्भस्रुतोऽपतत् ।। १९३ ।।

सुरोत्तमटीका

 एतदेव विशदयति ।। अनादृत्येति ।। असतीं दृष्टान्ता-भावेन प्रशिथिलमूलाम् । मनोरथसुतः मन एव रथो यस्य सः मनोरथः । मनसि निहितो बन्धस्याज्ञानोपादानकत्वरूपाभिप्राय इत्यर्थः । स एव सुतः । वचनद्वारा बहिर्निस्सारितत्वात् गर्भस्रुतः गर्भे मनसा संकल्प एव स्रुतः । अनादेः कार्यत्वायोगेन मृतः ।। १९३ ।।

सत्यप्रमोदटीका

 श्रुतिं ज्ञानस्य साक्षात् बन्धनिवृत्तिप्रतिपादनपराम् । अनादृत्य अपलप्य । असतीं व्याप्तिम्। ज्ञानमज्ञानस्यैव निवर्तकं इत्येवं असाधुभूताम् । मनोरथसुतः अज्ञानोपादानकत्वरूपमिथ्यात्वं साधयामीत्येवं सङ्गल्पः । गर्भस्स्रुतः प्रतिज्ञाया एवासम्भावितत्वेन साधनानर्हः । यदुक्तं ‘संभावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न तस्य हेतुभिस्त्राणं उत्पतन्नेव यो मृतः’ इति ।। १९३ ।।

युक्तिमल्लिका

अज्ञानोपादानकत्वं मिथ्यात्वं भवबन्धने ।

आनेतुं किल तद्यत्नस्सोऽनादिस्सहते न तत् ।

तद्रीत्यैव न मद्रीत्या चित्रा भाष्यस्य सङ्गतिः ।। १९४ ।।

सुरोत्तमटीका

 गर्भस्रावप्रकारमेव दर्शयति ।। अज्ञानेति ।। तद्यत्नः मायावादिप्रयत्नः । स बन्धः । तत् अज्ञानोपादानकत्वम् ।। १९४ ।।

सत्यप्रमोदटीका

 असम्भावितत्वमेव विवृणोति अज्ञानेति ।। १९४ ।।

युक्तिमल्लिका

युक्तिः श्रुतिं जयति चेद्विरुद्धैक्यमतं गतम् ।

युक्तिं श्रुतिर्जयति तेद्बन्धं छिन्द्यादृशिस्स्वयम् ।। १९५ ।।

सुरोत्तमटीका

 प्रकारान्तरेण परस्योभयतः पाशां रज्जुमाह ।। युक्ति-रिति ।। युक्तिः ज्ञानमज्ञानस्यैव निवर्तकमित्यादियुक्तिः । जयति । अन्यथी-करोति चेत् । विरुद्धैक्यमतं विरुद्धयोस्सर्वज्ञाल्पज्ञत्वादिना विलक्षणयोर्जीव-ब्रह्मणोरैक्यमतम् । भेदसाधकविरुद्धधर्माक्रान्तत्वाख्ययुक्तिभयेन स्वरूपैक्यमतं त्यक्त्वा सिंहो देवदत्त इत्यादाविव तवैक्यवाक्यं सादृश्यैक्यपरमेव कुर्वित्यर्थः । श्रुतिः दृष्ट्वैव तं मुच्यत इत्यादिश्रुतिः । छिन्द्यात् साक्षाद्बन्धनिवर्तकतया स्वेनोदितज्ञानेनैव नाशयेदित्यर्थः । एवं च युक्तेस्सत्त्वेऽपि तवैव मतं गतम् । युक्तेरसत्त्वेऽपि तवैव मतं गतम् । अतोऽपि तव प्रक्रिया विक्रियैवेति भावः

।। १९५ ।।

सत्यप्रमोदटीका

 युक्तिः ज्ञानमज्ञानस्यैव निवर्तकं इत्येवंरूपा । श्रुतिं दृष्ट्वैव तं मुच्यते इति ज्ञानेन साक्षादेव बन्धनिवृत्तिं अभिदधतीम् । जयति चेत् बाधते चेत् । ऐक्यमतं तत्त्वमसिश्रुतिसिद्धत्वेनाभिमतम् । गतं बाधितम् । तत्र हेतुर्विरुद्धेति । विरुद्धधर्माधिकरणत्वरूपयुक्तिविरुद्धम् । त्वयैव युक्तेः प्राबल्योक्तेः । पक्षान्तरं शङ्कते युक्तिं इति । दूषयति दृशिरिति । ‘दृष्ट्वैव तं मुच्यते’ इत्युक्तः साक्षात्कारः छिन्द्यात् साक्षादेव नाशयेत् । अतो न मिथ्यात्व- प्रत्याशा इति उभयतः पाशारज्जुः । ऐक्यं सन्धित्सतो मिथ्यात्वस्य च्यवनात् ।। १९५ ।।

युक्तिमल्लिका

यदि श्रुतिरपेक्ष्या ते भावोऽनादिर्विनश्यतु ।

यदि श्रुतिरुपेक्ष्या ते भावोऽनादिर्न नंक्ष्यति ।। १९६ ।।

सुरोत्तमटीका

 पुनरपि प्रकारान्तरेणोभयतः पाशारज्जुमाह ।। यदीति ।। अपेक्ष्या । युक्तिमुपेक्ष्यापि श्रुतिरेव रक्षणीयेत्यर्थः । तर्हि अनादिर्भवस्संसारः विनश्यतु । यदनादिभावरूपं न तन्निवर्तते ब्रह्मवदिति व्याप्तेस्संकोचं कृत्वा श्रुतिबलादनादिभावस्यापि भवस्य निवृत्तिरस्त्वित्यर्थः । उपेक्ष्या युक्तिमेव प्रबलीकृत्य युक्तिविरोधे सत्यन्यथैव योज्येत्यर्थः । तर्ह्यनादिभावः अनादि-भावरूपः । भवः न नंक्ष्यति । श्रुतेरुपेक्षणीयत्वे युक्तेरेवापेक्षणीयत्वे च यदनादिभावरूपं न तन्निवर्तत इति प्रागुक्तयुक्तिबलेन श्रौतोऽपि बन्धविनाशो न स्यादिति भावः ।। १९६ ।।

सत्यप्रमोदटीका

 किं च तिष्ठतु तत्वमसिश्रुतिः । श्रुतिः दृष्ट्वैवेति श्रुतिः । भावोऽनादिरिति अविनाशकयुक्तिमाभासीकृत्य बन्धः विनश्यतु साक्षादेव ज्ञाने-नेति पूरणीयम् । न नंक्ष्यति । त्वयैव श्रुतेराभासीकरणेन नाशो प्रमाणाभावादेवेति भावः ।। १९६ ।।

युक्तिमल्लिका

उपादानमुपादेयसमानाश्रयमेव यत् ।

अनादिबन्धस्याधारो जीव एव ततस्तव ।

अज्ञानाधारतां प्राप्त इत्यप्यासीद्धि सङ्कटम् ।। १९७ ।।

सुरोत्तमटीका

 बन्धस्याज्ञानोपादानकत्वाङ्गीकारे परस्यानिष्टान्तरमप्याह ।। उपादानमिति ।। यद्यस्मात् उपादानमुपादेयसमानाश्रयम् । यत्र कुलालशा-लायां उपादेयो घटस्तिष्ठति तत्रैव मृत्पिण्डस्यापि स्थितिर्दृष्टा । न तूपादेय-घटाश्रयभूतलादन्यत्र तदुपादानमृत्पिण्डस्य स्थितिर्दृष्टेत्यर्थः । ततः उपादा-नोपादेययोस्सामानाधिकरण्यनियमात् । इतिहेतोः संकटं ब्रह्माश्रिताज्ञान-प्रतिक्षेपः ।। १९७ ।।

सत्यप्रमोदटीका

 भ्रमोपादानत्वमज्ञानस्य लक्षणं इति हि त्वन्मतम् । उपादानोपादेययोः समानदेशता स्थिता । कपालघटादिषु तथाभावदर्शनात् । भ्रमश्च जीवाश्रितः । तथा चाज्ञानस्यापि जीवाश्रितत्वं आस्थेयम् । तच्च ‘पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवती’ति त्वत्प्रक्रियाविरुद्धमित्याह उपादानेति ।। १९७,१९८ ।।

युक्तिमल्लिका

कुम्भकारस्य शालैव कपालस्य घटस्य च ।

आधारो दृश्यते स्थानभेदो न ह्यनयोः क्वचित् ।। १९८ ।।

सुरोत्तमटीका

 एतदेवोपपादयति ।। कुम्भकारस्येति ।। १९८ ।।

युक्तिमल्लिका

यस्मादनादि तेऽज्ञानं स्वोपादाने न तिष्ठति ।

तस्माच्छालावदुभयोरप्याधारस्स एव हि ।। १९९ ।।

सुरोत्तमटीका

 घटस्य कपालोऽप्याधारः कुलालशाला च । अज्ञानस्य त्वनादित्वेनोपादानान्तराभावात् कुलालशालावदुभयोरपि जीव एवाधार इत्याह ।। यस्मादिति ।। स एव जीव एव ।। १९९ ।।

सत्यप्रमोदटीका

 स्वोपादानस्यैवाभावेन तत्र स्थितिरसंभाविनीत्याह नेति । अतो भ्रान्त्या सहैव स्थातव्यम् । स एव जीव एव । तच्च त्वत्प्रक्रिया-विरुद्धमित्युक्तम् ।। १९९ ।।

युक्तिमल्लिका

अनादिभावरूपं ते यदज्ञानमभीप्सितम् ।

अनादिभावरूपं च वस्तु नैव निवर्तते ।। २०० ।।

इति व्याप्तिश्च तज्ज्ञानमज्ञानं नाशयेत्कथम् ।

उपसर्पसि सर्पस्य बिलं वृश्चिकभीतितः ।। २०१ ।।

सुरोत्तमटीका

 अधुना यदनादिभावरूपं न तन्निवर्तत इति प्रागुक्त-व्याप्तिं श्रुत्युपेक्षकमते प्रबलीकृत्य तदभिप्रेतं जगतो ज्ञानविनाश्यत्वं खण्डयति ।। अनादिभावरूपमिति ।। तत्तस्मात् । ज्ञानेन बन्धनिवृत्तौ युक्तितो भीतेन परेणाङ्गीक्रियमाणायाः ज्ञानादज्ञाननिवृत्तेरतिप्रबलयुक्तिविरुद्धत्वात् वृश्चिक-भीतितः सर्पस्य बिलमुपसर्पसीत्युक्तम् ।। २००,२०१ ।।

सत्यप्रमोदटीका

 ‘अनादिभावरूपस्य विज्ञानविलापनाऽसंभवाच्च ब्रह्म-वत्’ इति वादावल्युक्तमाह अनादीति ।। वृश्चिकः ज्ञानेन साक्षादेव बन्धनाशः । सर्पः अज्ञानस्य सर्वथा नाशाभावः ।। २००,२०१ ।।

युक्तिमल्लिका

अनादेरपि बन्धस्य नाशः स्याद्धि श्रुतेर्बलात् ।। २०२ ।।

सुरोत्तमटीका

 तर्हि भवतां मतेऽपि कथमनादिभावरूपबन्धनिवृत्ति-रित्यत आह ।। अनादेरिति ।। श्रुतौ कृतरतीनामस्माकं श्रुतिबलादनादि-भावस्यापि बन्धस्य निवृत्तिस्स्यात् । युक्तिबलाच्छ्रुतिमेवान्यथीकुर्वतस्तव कथं युक्तिविरुद्धोऽयं नाशस्स्यादिति भावः ।। २०२ ।।

सत्यप्रमोदटीका

 स्वमते श्रुतेः शरणीकरणान्न कोऽपि दोष इत्याह अनादेरिति ।। २०२ ।।

युक्तिमल्लिका

अयं तु यौक्तिको नाशः प्रतियुक्तिहतो यतः ।

अतो व्याप्तिद्वयबलादभावाज्ञानमस्तु तत् ।। २०३ ।।

सुरोत्तमटीका

 व्याप्तिद्वयबलात् ज्ञानमज्ञानस्यैव निवर्तकम् अनादिभावो न निवर्तत इति व्याप्तिद्वयबलात् । तत् विनाश्यमज्ञानम्

।। २०३ ।।

सत्यप्रमोदटीका

 ज्ञानमनादेरपि ज्ञानप्रागभावस्य नाशकमित्यत्रानु-पपत्त्यभावाद्व्याप्तिद्वयमपि रक्षितं भवतीति भावः ।। २०३ ।।

युक्तिमल्लिका

अनादिभावो ब्रह्मैव नैव नाश्यो यतो ध्रुवम् ।

अतो विनश्यदज्ञानमभावाज्ञानमेव हि ।। २०४ ।।

सुरोत्तमटीका

 स्वोक्तव्याप्तेर्दृष्टान्तं दर्शयन्नुक्तमर्थं दृढीकरोति ।। अनादीति ।। अतः अनादिभावस्य विनाशायोगात् ।। २०४ ।।

सत्यप्रमोदटीका

 भावरूपत्वे तु अविनाशो दोषो वज्रलेप इत्याह अनादीति ।। २०४ ।।

युक्तिमल्लिका

उपादानं तु नाभावस्ततस्तन्नाशनेऽपि ते ।

संसारनाशो नैवेति व्यर्थाऽर्थापत्तिरापतेत् ।। २०५ ।।

सुरोत्तमटीका

 अस्त्वभावाज्ञानं प्रकृते किमित्यत आह ।। उपादान-मिति ।। तन्नाशने अज्ञाननाशने । ते उपादाननाशद्वारा बन्धनाश इति वदत-स्तव मते । अर्थापत्तिः ज्ञानस्य बन्धनिवर्तकत्वान्यथानुपपत्त्याऽर्थात् मध्ये अज्ञानस्या-पत्तिः । अज्ञानकल्पनेऽप्युक्तविधया तस्याऽनिर्वाहात् व्यर्था ।। २०५ ।।

सत्यप्रमोदटीका

 अस्त्वज्ञानं ज्ञानाभावः, कीदृशो दोष इत्यत आह उपादानं त्विति । एवं च बन्धस्य ज्ञाननिवर्त्यत्वं न सिद्ध्यतीति आक्षेपकस्य अप्रमितत्वं अर्थापत्तिदोष इत्याह व्यर्थेति ।। २०५ ।।

युक्तिमल्लिका

यद्याग्रहस्ते भावत्वे नाशस्याशां तदा त्यज ।

अनष्टाज्ञानतोऽपि स्यान्मोक्षः पाशात्पशोरिव ।। २०६ ।।

सुरोत्तमटीका

 भावत्वे भावाज्ञानत्वे । नाशस्य अज्ञाननाशस्य । अनादिभावो न निवर्तत इति व्याप्तिं पुरस्कृत्याऽज्ञाननाशो नाङ्गीकार्य इत्यर्थः । तर्हि मोक्षः कथमित्यतस्तत्रोपायमाह ।। अनष्टेति ।। काञ्चिदाशां दत्वा-परेणाप्यज्ञाननाशाभावमङ्गीकारयितुमिदमुक्तम् । वस्तुतस्तु पशुपाशसंयोगस्येवा-ज्ञानसंयोगस्याप्यनादिभावतया विनाशायोगेन मोक्षानुपपत्तेरपरिहार एवेति ज्ञातव्यम् ।। २०६ ।।

सत्यप्रमोदटीका

 अज्ञाननाशाभावे कथं मोक्ष इत्यतः अज्ञानापसरणत एवेत्यवेहि । तत्र दृष्टान्तः पाशादिति ।। २०६ ।।

युक्तिमल्लिका

एवं च ज्ञाननाश्यत्वं गतं त्रिजगतो मम ।

यतो जगदुपादानमज्ञानं च न नश्यति ।। २०७ ।।

सुरोत्तमटीका

 एवं जगदुपादानभूताज्ञाननाशाभावे ।। २०७ ।।

सत्यप्रमोदटीका

 तथा च जगतो रक्षणं निष्प्रत्यूहमिति मदिष्टसिद्धि-रित्याह एवं चेति ।। २०७ ।।

युक्तिमल्लिका

बन्धनाशस्तु विज्ञानादज्ञानापसृतेः परम् ।

वाच्यस्त्वया यतोऽनादिर्भावार्थो न निवर्तते ।। २०८ ।।

सुरोत्तमटीका

 ततो वाच्य इति पूर्वेणान्वयः ।। २०८ ।।

सत्यप्रमोदटीका

 नाशस्यासम्भवादपसृतिरेव गतिरज्ञानस्येत्याह बन्धेति ।। २०८ ।।

युक्तिमल्लिका

किञ्चाज्ञानापसरणं तत्संयोगविनाशनम् ।

बन्धश्चाज्ञानसंयोग इति वाच्यं खलु त्वया ।

स चानादिस्ततोऽप्यासीत्प्रक्रिया विक्रियैव ते ।। २०९ ।।

सुरोत्तमटीका

 प्रागुपेक्षितं च दूषणमिदानीं स्पष्टमाह ।। किञ्चेति ।। २०९ ।।

सत्यप्रमोदटीका

 उपेत्यैवापसृतिरुक्ता । वस्तुतः साऽपि त्वत्प्रक्रियायां न सम्भवत्येव । अपसृतिः बन्धसंयोगनाश एवैष्टव्यः । संयोगोऽपि अज्ञान-वदनादिरिति तव प्रक्रिया । ‘अविद्यातच्चितोर्योगः षडस्माकमनादयः’ इति त्वद्वचनात् । तथा च भावरूपत्वादज्ञानस्येव संयोगस्यापि नाशोऽप्ययुक्त एवेत्याह किं चेति ।। २०९,२१० ।।

युक्तिमल्लिका

पक्षद्वयेऽप्यनिष्टं ते रूक्षमासीद्विचारय ।

विचार्यमाणेऽनादित्वं भावत्वं च द्वयोश्च यत् ।। २१० ।।

सुरोत्तमटीका

 पक्षद्वये अज्ञानस्य तत्संयोगस्य च संसारत्वपक्षे । यत् यस्मात् ।। २१० ।।

युक्तिमल्लिका

व्याप्त्येकशरणोऽपि त्वं व्याप्तिश्चात्र बलीयसी ।

श्रुतेः पादानुसरणे हता ते व्याप्तिसुन्दरी ।। २११ ।।

सुरोत्तमटीका

 श्रुतेः पादानुसरणे श्रुतिबलेन व्याप्तिमुपेक्ष्यानादिभावस्य विनाशाङ्गीकार इत्यर्थः । ते व्याप्तिसुन्दरी ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिसुन्दरी । हता श्रुत्यैव निराकृता ।। २११ ।।

सत्यप्रमोदटीका

 हता श्रुतिविरोधरूपहृदयाघातेन । व्याप्तिसुन्दरी ज्ञानमज्ञानस्यैव निवर्तकमित्येवंरूपा । सुन्दरीति विपरीतलक्षणया । दृष्टान्ता-भावाद्रूपविकलेति हृदयम् ।। २११ ।।

युक्तिमल्लिका

ममत्वनादेर्बन्धस्यापि स्यान्नाशः श्रुतेर्बलात् ।

ततो नात्रैव सा व्याप्तिरिति सिद्ध्येन्मनोरथः ।। २१२ ।।

ये तु श्रुतिमनादृत्य व्याप्तः पृष्ठमुपासते ।

तेभ्यो मदुक्तयुक्तीनां पृष्ठं कस्मान्न रोचते ।। २१३ ।।

सुरोत्तमटीका

 नात्रैव अत्रैव न । एतदतिरिक्तस्थले । अनादिभावो न निवर्तत इति व्याप्तेस्संकोच इति भावः ।। २१२,२१३ ।।

सत्यप्रमोदटीका

 अत्रैव न । श्रुत्या नाशस्य प्रमितेस्तत्रानुमानस्या-प्रसरात् । अन्यत्र श्रुतिविरोधाभावे वर्णाकाशादिस्थले नाशाभावोऽङ्गीक्रियत एवेति भावः ।। सत्यत्वप्रतिपादके श्रुतिसूत्रे अनादृत्य स्वच्छन्दं प्रवर्तमानस्य तव तु अन्यत्रादृष्टस्यानादेर्बन्धस्य नाशो नाङ्गीकारार्हः । अदृष्टकल्पनाऽऽपत्ते-रित्याह ये त्विति । मदुक्तेति अनादिभावो न निवर्तते इत्युक्तेत्यर्थः ।। २१२,२१३ ।।

युक्तिमल्लिका

अनादिभावनाशोऽयं यद्यदृष्टस्त्वयेष्यते ।

ज्ञानाद्बन्धस्यैव नाशस्तर्ह्यदृष्टः कुतो न ते ।। २१४ ।।

सुरोत्तमटीका

 अदृष्टः अन्यत्रादृष्टः ।। २१४ ।।

सत्यप्रमोदटीका

 तर्हीति अदृष्ट इत्यापाततः । श्रुतिसूत्रदृष्टत्वादित्यनु-पदं उक्तेः ।। २१४ ।।

युक्तिमल्लिका

तपोऽतप्यत किं किञ्चिद्भवतोऽदृष्टकल्पना ।

सौमङ्गल्यमियं धत्ते श्रुतिसूत्रार्थपोषणात् ।। २१५ ।।

सुरोत्तमटीका

 भवतः अदृष्टकल्पना अनादिभावनाशकल्पना । अन्यत्रादृष्टं ज्ञानस्य बन्धनिवर्तकत्वं नाङ्गीक्रियते । अनादिभावनिवर्तनं तु अदृष्टमप्यङ्गीक्रियत इति विशेषकल्पनायां न किञ्चित्कारणमिति भावः । इयं अस्मदुक्ताज्ञानस्यैव बन्धनिवर्तकत्वरूपा । सौमाङ्गल्यं सुवासिनीत्वम् । श्रुति-सूत्रार्थपोषणात् ‘‘दृष्ट्वैव तं मुच्यत’’ इति श्रुतेः ‘‘अथातो ब्रह्मजिज्ञासे’’ति सूत्रस्य चार्थपोषणात् । यथाश्रुतश्रुतिसूत्रार्थरक्षणादित्यर्थः । सुवासिन्यपि श्रुत्यर्थं कर्णभूषणं सूत्रार्थं कण्ठलग्नसूत्रानुस्यूतनीलमणिं च पोषयति । अत उभयोस्सादृश्यम् । श्रुतिसूत्रोपेक्षकस्य तवान्यत्रादृष्टा अनादिभावनाशकल्पना श्रुतिसूत्रार्थपोषणाया अनुक्तत्वात् प्रत्युतोक्तव्याप्तिरक्षणायैवोक्तत्वात् तव रण्डा । अस्माकं तु सापि श्रुतिसूत्रसङ्गत्यर्थमेव कथनात् सुवासिनी ।। २१५ ।।

सत्यप्रमोदटीका

 तप इति । व्याप्तेस्त्वदुक्तो विशेषभावस्तु अव्यभि-चारादिसंपत्त्यभावेऽकिञ्चित्करोऽतिप्रसङ्गावहश्चेति सुधोक्तमत्रानुसन्धेयम् । अतः तव कल्पना दृष्टान्तरूपभर्तुरभावात्, श्रुत्या बन्ध एव व्यभिचरितत्वात् विधवा व्यभिचारिणी च । मम व्याप्तिस्तु श्रुतिसूत्रार्थानुसारिणी, कर्णभूषण-सौमङ्गल्यसूत्रालंकृता सुवासिनीत्याह इयमिति ।। २१५ ।।

युक्तिमल्लिका

तत्रैव चेयं दृष्टार्था नाभूच्चादृष्टकल्पना ।

भवतः कल्पनामूलं न चाक्षं नागमोऽनुमा ।। २१६ ।।

सुरोत्तमटीका

 अङ्गीकृत्येदमुदितम् । वस्तुतोऽस्माकमुभयत्रापि नादृष्ट-कल्पनेत्याह ।। तत्रेति ।। तत्र श्रुतिसूत्रयोः । ननु तर्हि ममापि व्याप्तिरेव कल्पनामूलं भविष्यतीति चेत् न । कल्पनाघातकव्याप्तेरप्युक्तत्वेन तुल्याय व्ययत्वात् । कल्पनामूलत्वद्व्याप्तेर्निर्मूलत्वाच्च नोक्तकल्पनामूलत्वमित्याह ।। भवत इति ।। कल्पनाया अदृष्टकल्पनामूलव्याप्तिकल्पनायाः ।। २१६ ।।

सत्यप्रमोदटीका

 कल्पनाया अदृष्टत्वं नाम प्रमाणामूलत्वम् । तच्च सकलप्रमाणविरुद्धत्वात् तव कल्पनाया एव । नत्वेवं श्रुतिसूत्रमूलाया मम व्याप्तेरित्याह तत्रेति । श्रुतिसूत्रयोरित्यर्थः ।। २१६ ।।

युक्तिमल्लिका

ज्ञानाभावस्य तु ज्ञानं नाशकं नाश एव वा ।

भावरूपं तवाज्ञानं ज्ञानान्नश्यत्क्व दृश्यते ।। २१७ ।।

सुरोत्तमटीका

 अक्षाभावमेवोपपादयति ।। ज्ञानाभावस्येति ।। ज्ञाना-भावरूपाज्ञानस्य ज्ञानं नाशकं वा तन्नाशरूपं वा सर्वत्रदृष्टम् । भावरूपा-ज्ञानस्य तु ज्ञानं नाशकं वा तन्नाशरूपं वा न क्वापि दृष्टम् । अतस्त्वद्व्याप्तेः प्रत्यक्षं न मूलमिति भावः ।। २१७ ।।

सत्यप्रमोदटीका

 ज्ञानं ज्ञानोत्पत्तिक्षण इत्यर्थः । न हि भावः स्व-प्रागभावनिवर्तकः । अपि तु भावोत्पत्तिरेव तत्प्रागभावनिवर्तिका । इति वादावल्युक्तेः । नाश इति । अभावविपत्तिरेव प्रतियोग्यापत्तिरिति स्थितेः । पक्षद्वयेऽपि ज्ञानाभावपक्षे तन्नाशः सूपपादः । भावपक्षे तु सर्वथा नाशो दुर्घट इत्याह भावरूपमिति ।। २१७ ।।

युक्तिमल्लिका

शब्दसाम्येन तु व्याप्तिस्स्वर्गशृङ्गित्वसाधिका ।

शब्दसाम्यं च नास्त्यत्र यत्तेऽज्ञानं परस्य न ।। २१८ ।।

सुरोत्तमटीका

 ननु ज्ञानभावस्य ज्ञानविनाश्यत्वे शब्दसाम्याद्भावरूपा-ज्ञानस्यापि ज्ञाननाश्यत्वसिद्धिरित्यत आह ।। शब्दसाम्येनेति ।। गोशब्द-वाच्यत्वेन(गृ)घृष्टिवत् स्वर्गस्यापि शृृङ्गित्वप्रसङ्गात् शब्दसाम्येन न व्याप्ति-र्वाच्येति भावः । दोषान्तरं चाह ।। शब्दसाम्यमिति ।। यत् यस्मात् । अज्ञानं भावरूपाज्ञानम् । परस्य तार्किकादेः प्रतिवादिनः । ज्ञानमज्ञानस्यैव नाशकमित्याकारकवाक्यादर्शनेन सेतुदर्शनात्पापनिवृत्तिदर्शनेन चागमानुमाना-भावस्स्पष्टत्वान्नोक्तः ।। २१८ ।।

सत्यप्रमोदटीका

 अज्ञानं निवर्तते अज्ञानत्वात् ज्ञानाभाववदिति शब्द-साम्यमाश्रित्य प्रयुज्यते इति चेदतिप्रसङ्गमाह स्वर्ग इति । तत्रापि स्वर्गस्य गृष्टेश्च गोशब्दसाम्यसद्भावादिति भावः । नास्त्यपि च प्रकृते शब्दसाम्यं अभिधानाभावेन प्रतिवाद्यसंमतेरित्याह ते अज्ञानमिति ।। २१८,२१९ ।।

युक्तिमल्लिका

यतस्साधकमानाख्यपतिर्व्याप्तेर्मृतोऽभवत् ।

अतस्ते विधवासङ्गान्महान्दोषो भविष्यति ।। २१९ ।।

सुरोत्तमटीका

 प्रमाणामूलव्याप्तिमङ्गीकुर्वन्तं परं साहित्यमुद्रयाऽप-हसति ।। यत इति ।। २१९ ।।

युक्तिमल्लिका

व्याप्तिभङ्गाज्जगद्भङ्गं दोषं मन्ये महत्तरम् ।। २२० ।।

सुरोत्तमटीका

 किं च जगद्भंजकव्याप्तिभङ्गकरणमेव न्याय्यमित्याह ।। व्याप्तिभङ्गादिति ।। २२० ।।

सत्यप्रमोदटीका

 महत्तरमिति ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायादिति भावः ।। २२० ।।

युक्तिमल्लिका

नित्यं स्वरूपविज्ञानं स्वकार्यैस्सह वर्तते ।

इति तेऽभिमतं तस्मात्तत्रावरणवाग्वृथा ।। २२१ ।।

सुरोत्तमटीका

 अन्योन्याश्रयाच्च नेयं व्याप्तिर्वक्तुं शक्येत्याह ।। नित्य-मिति ।। स्वरूपविज्ञानं जीवस्वरूपविज्ञानं स्वकार्यैः स्वविषयविषयीकरणाद्यैः । स्वरूपज्ञानस्य नित्यत्वात् ज्ञानं ज्ञानकार्यं च सर्वदा वर्तत इति मायावादिनां मतम् । तस्मात्स्वरूपज्ञाने आव्रियमाणस्याभावेनावरणकृत्याभावात् ।। २२१ ।।

सत्यप्रमोदटीका

 किं च तवाज्ञानं न तावत्स्वरूपज्ञानं आवृणोति । तस्य नित्यं स्वप्रकाशत्वात् । नापि मनोवृत्तिज्ञानम् । आवरणनिवृत्त्युत्तर-कालीनाया वृत्तेरावरणनाशकत्वायोगात् । तदङ्गीकारे चान्योन्याश्रय इत्याह नित्यमिति ।। २२१,२२२ ।।

युक्तिमल्लिका

आवृणीते मनोवृत्तिज्ञानमित्येव तत्त्वया ।

वाच्यमावरणं तस्मात्कथं नान्योन्यसंश्रयः ।। २२२ ।।

सुरोत्तमटीका

 तत् अज्ञानम् ।। २२२ ।।

युक्तिमल्लिका

यदावरणनाशे स्यादपरोक्षप्रमा तव ।

तयैव तस्य नाशे च कथं नान्योन्यसंश्रयः ।। २२३ ।।

सुरोत्तमटीका

 यत् यस्मात् । तया अपरोक्षप्रमया । तस्याज्ञानस्य ।। २२३ ।।

सत्यप्रमोदटीका

 उपपादयति यदिति ।। २२३ ।।

युक्तिमल्लिका

सत्येवावरणे दृष्टिरपूर्वेति मतिर्मम ।

यतः कुड््यावृतघटे न कस्याप्यपरोक्षधीः ।

अन्येनावरणच्छेदे पश्चादेव हि तस्य दृक् ।। २२४ ।।

सुरोत्तमटीका

 तस्य कुड्यावृतघटस्य ।। २२४ ।।

सत्यप्रमोदटीका

 तदावरणे सत्येव तदपरोक्षप्रकाशे न दृष्टचर इत्याह सतीति । आव्रियमाणेनैवावरणनाशोऽपि दुर्घट इत्याह अन्येनेति।।२२४ ।।

युक्तिमल्लिका

अदृष्टकल्पना चेत्स्याद्गता व्याप्तिर्दिगन्तरम् ।

अकल्पितं जगदभूत्सूत्रमासीन्निराकुलम् ।। २२५ ।।

सुरोत्तमटीका

 व्याप्तिः ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिः । अन्यत्रादृष्टस्य बन्धनाशकत्वस्यैव ज्ञाने वक्तुं शक्यत्वादिति भावः

।। २२५ ।।

सत्यप्रमोदटीका

 निराकुलं ज्ञानेन साक्षादेव बन्धनिवृत्तिसिद्धेः ।।२२५।।

युक्तिमल्लिका

ब्रह्मण्यखण्डे तच्छब्दैस्तेऽस्त्यथाप्यपरोक्षधीः ।

अज्ञानस्य निवृत्तिर्न कथं तत्तस्य नाशकम् ।। २२६ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि ज्ञानस्याज्ञाननाशकत्वं न घटत इत्याह ।। ब्रह्मणीति ।। तच्छब्दैः अखण्डब्रह्मप्रतिपादकशब्दैः । अपरोक्षधीः ब्रह्मा-परोक्षधीः । ब्रह्मणि यदा यदा तत्प्रतिपादकशब्दप्रयोगः तदा तदा ब्रह्मा-परोक्षधीरस्ति । अज्ञाननिवृत्तिश्च नास्तीति मायिनो मतम् । अतश्चरमज्ञानादपि नाज्ञानानिवृत्तिरिति भावः ।। २२६ ।।

सत्यप्रमोदटीका

 ‘तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सहकार्येण नासीदस्ति भविष्यति’ इति मायिप्रक्रिया । जातायामपीदानीं तादृशधियां अज्ञाननाशो नानुभूयते इत्यतोऽपि तव व्याप्तिरनानुभाविकीत्याह ब्रह्मणीति ।। २२६ ।।

युक्तिमल्लिका

गुरूपसत्तिवेदान्तश्रवणाद्यैरुपस्कृतम् ।

नाशकं चेत्तर्हि घटे कथं वृत्त्यैव तत्क्षयः ।। २२७ ।।

सुरोत्तमटीका

 शङ्कते ।। गुर्विति ।। उत्तरमाह ।। तर्हीति ।। तत्क्षयः घटाधिष्ठानचैतन्यावरकाज्ञानक्षयः ।। २२७ ।।

सत्यप्रमोदटीका

 ननु सम्यग्धीरेवाज्ञाननाशिका । सम्यक्त्वं च गुरूप-सत्त्यादिसहकृतत्वमिति चेत् एवं तर्हि अतादृश्या घटवृत्त्याऽज्ञाननाशो न स्यादित्याह गुर्विति ।। २२७ ।।

युक्तिमल्लिका

श्रुतेर्बलादिहैवं चेत्तर्ह्यध्वनि समागतम् ।। २२८ ।।

सुरोत्तमटीका

 इह चरमापरोक्षज्ञाने ।। २२८ ।।

सत्यप्रमोदटीका

 इह चरमवृत्तौ । एवं गुरुपसत्त्यादिसहकारः ।। २२८ ।।

युक्तिमल्लिका

दृष्ट्वैव मुच्यत इति श्रुतिर्बलवती हि नः ।

अतो ज्ञानादेव बन्धनाशोऽप्यस्तु श्रुतेर्बलात् ।। २२९ ।।

सत्यप्रमोदटीका

 एवं श्रतौ श्रद्धालुना ‘दृष्ट्वैव’ इति श्रुतावपि दीयतां दृष्टिरित्याह दृष्ट्वेति ।। २२९ ।।

युक्तिमल्लिका

विलक्षणा हि सामग्री कार्यं कुर्याद्विलक्षणम् ।

तस्माद्विलक्षणार्थत्वाद्बन्धो ज्ञानेन नश्यतु ।। २३० ।।

सुरोत्तमटीका

 विलक्षणा श्रवणादिजन्यत्वेन नाज्ञाननिवर्तक घटवृत्तितो विलक्षणा । विलक्षणार्थत्वात् अज्ञानतो विलक्षणार्थत्वात् ।। २३० ।।

सत्यप्रमोदटीका

 विलक्षणा श्रवणाद्युपस्कृतचरमवृत्तिलक्षणा । विलक्षणं आवरणनिवृत्तिलक्षणम् । तस्मात् ब्रह्मज्ञानस्यैव बन्धविनाशकसामग्रीत्वेन प्रमितत्वात् । तथा च विनाशरूपकार्यस्य प्रमाणेन क्लृप्ता या विनाशकसामग्री तस्याः समवधानमेव प्रयोजकम् । अन्यत्र क्वचिददर्शनमात्रं न नियामकमिति भावः ।। २३० ।।

युक्तिमल्लिका

दृष्टानुसरणत्यागो यथा तत्र तथाऽत्र च ।

गुण एवास्तु दोषस्ते मिथ्यात्वस्यैव कल्पनम् ।। २३१ ।।

सुरोत्तमटीका

 तत्र चरमापरोक्षज्ञानस्याज्ञाननिवर्तकत्वे । अत्र तस्यैव ज्ञानस्य बन्धनिवर्तकत्वे । यथा अज्ञाननिवर्तकब्रह्मज्ञाने घटवृत्त्यादावदृष्टं श्रवणादिजन्यत्वं त्वया अङ्गीक्रियते तथाऽन्यत्रादृष्टं साक्षाद्बन्धनिवर्तकत्वमेव कुतो नाङ्गीक्रियत इति भावः ।। २३१ ।।

सत्यप्रमोदटीका

 दृष्टस्य श्रवणादिनिरपेक्षज्ञाननिवर्त्यत्वस्य घटाद्यज्ञाने दृष्टस्य अनुसरणत्यागो यथा तत्र चरमवृत्तिनिवर्त्यप्रपञ्चोपादानाज्ञाने तथा अत्र ज्ञानस्य साक्षाद्बन्धनिवर्तकत्वं इत्यत्र त्यागः गुण एव ‘दृष्ट्वैव तं मुच्यते’ इति श्रुतेरादरणात् । अस्तु इति पराभ्युपगमस्य तत्राप्यप्रामाण्यसूचकः । श्रवणादिना अखण्डार्थपरचरमवृत्त्यजननात् तादृशवृत्त्याऽज्ञाननाशासंभवात् समानप्रकारकयोरेव ज्ञानज्ञानयोर्निवर्त्यनिवर्तकभावक्लृप्तेरिति हृदयम् ।। २३१ ।।

युक्तिमल्लिका

यस्मादसङ्गतं ह्येतदयुक्तं चोक्तवर्त्मना ।

अनादिभेदमिथ्यात्वाप्राप्त्या व्यर्थं च तेऽन्ततः ।। २३२ ।।

सुरोत्तमटीका

 एतत् अज्ञानोपादानकत्वरूपमिथ्यात्वम् । दोषान्तरं चाह ।। अनादीति ।। २३२ ।।

सत्यप्रमोदटीका

 असङ्गतं अनादेर्बन्धस्य निरुपादानकत्वात् । अयुक्तं ज्ञानस्य स्वावरणनिवर्तकत्वायोगात् । व्यर्थं त्वदभिमतैक्यस्य कथमप्यसिद्धेः

।। २३२ ।।

युक्तिमल्लिका

ऐक्यस्य सिद्धये भेदमिथ्यात्वे ते महान्भरः ।

तस्यैतेनाप्यसिद्धिश्चेज्जगन्मिथ्यात्वतोऽपि किम् ।। २३३ ।।

सुरोत्तमटीका

 तस्य भेदमिथ्यात्वस्य । एतेन मध्ये अज्ञानकल्पनेन ।। २३३ ।।

सत्यप्रमोदटीका

 किमिति सार्वज्ञादिमिथ्यात्वेऽपि भेदबाधासिद्धेः इति भावः । तथा च भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायपतितोऽ-सीत्याशयः ।। २३३ ।।

युक्तिमल्लिका

अतस्सूत्रार्थकथनान्निवर्तस्व सुखी भव ।

यद्वा सूत्रार्थकुशलानुपास्स्व नृहरेर्भटान् ।। २३४ ।।

सुरोत्तमटीका

 अतः जगन्मिथ्यात्वस्य सूत्रासङ्गतत्वादिदोषात् ।।२३४।।

सत्यप्रमोदटीका

 निवर्तस्व अहं अवैदिक इत्येव छद्मना विना ख्यापय । सुखी भव । वाक्यलिङ्गकानुमा । प्रतारणेन सात्त्विकान् दुःखिनो मा कृथा इति भावः ।। २३४ ।।

युक्तिमल्लिका

किञ्च ज्ञानेन दुष्कर्मनाशस्साक्षाच्छ्रुतौ श्रुतः ।

तदा विद्वान् पुण्यपापे विधूयेति न किं श्रुतिः ।। २३५ ।।

इयं विधूयेति पूर्वं कर्मनाशमुदीर्य हि ।

पश्चान्निरञ्जन इति वक्त्यज्ञानस्य नाशनम् ।। २३६ ।।

सुरोत्तमटीका

 श्रुतिसूत्रबलात् अज्ञानातिरिक्तकर्मण एव साक्षाज्ज्ञान-नाश्यत्वसिद्धेः ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिरसिद्धा श्रुतिसूत्रविरुद्धा चेत्याह ।। किञ्चेति ।। २३५,२३६ ।।

सत्यप्रमोदटीका

 सत्यस्यैव साक्षाज्ज्ञाननाशे सोपपत्तिकं श्रुत्यन्तरमाह तदेति । ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’’ इति श्रुतिमनेनोपादत्ते ।। इयं च श्रुतिरुपलक्षणम् । ‘क्षीयन्ते चास्य कर्माणि’ ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ इत्यादिश्रुतिस्मृतयोऽपि ग्राह्याः ।। २३५,२३६ ।।

युक्तिमल्लिका

अतस्साक्षाज्ज्ञाननाश्यं कर्म नासीत्कथं वद ।

सूत्रकृच्चोत्तराघस्य ज्ञानेनाश्लेषमञ्जसा ।। २३७ ।।

पूर्वाघस्य विनाशञ्च स्वयमेव वदिष्यति ।

अतोऽर्थोऽयमनर्थस्ते श्रुतिसूत्रविरोधतः ।। २३८ ।।

सुरोत्तमटीका

 वदिष्यति ‘‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशावि’’ति सूत्रे वदिष्यति ।। २३८ ।।

सत्यप्रमोदटीका

 सूत्रेति । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’ इति सूत्रेत्यर्थः । त्रैकालिकनिषेधप्रतियोगित्वे अश्लेषविनाशौ कथं ब्रूयादिति भावः ।। २३८ ।।

युक्तिमल्लिका

व्याप्तिः कन्यैव यज्जाता कर्मणा खण्डितव्रता ।

तदुद्वाहप्रयत्नस्ते कथं दोषाय नेष्यते ।। २३९ ।।

सुरोत्तमटीका

 स्वोक्तदोषं साहित्यमुद्रयाऽलङ्करोति ।। व्याप्तिरिति ।। कन्यैव विदुषाङ्करे प्रदानात्पूर्वं विद्यमानैव । यत् यस्मात् । खण्डितव्रता खण्डितनियमा । अज्ञानस्यैव निवर्तकमिति नियमस्य उक्तविधया कर्मणैव त्याजितत्वात् । कर्मणा कन्यादशायामेव पुरुषपरिग्रहाख्यकर्मणा । खण्डितव्रता खण्डिताचारेति ध्वनिः । उद्वाहप्रयत्नः तस्याः व्याप्तेः ऊर्ध्वं ब्रह्मज्ञाने प्रापणप्रयत्नः । विद्वत्करे प्रदानप्रयत्नो वा । विवाहप्रयत्न इति ध्वनिः । दोषाय अविवेकित्वाख्यदोषाय । पापायेति ध्वनिः ।। २३९ ।।

सत्यप्रमोदटीका

 कन्या दृष्टान्तरूपपत्यभावात् । कर्मणेति ज्ञानेन साक्षा-न्नाश्यत्वेन श्रुते सत्ये पुण्यपापकर्मणि व्यभिचरिता । तदुद्वाहप्रयत्नः तदुपष्टम्भेन ब्रह्मणः सार्वज्ञाद्यपलापदुःसाहसम् । दोषाय तमःपाताय ।। २३९ ।।

युक्तिमल्लिका

यज्ज्ञानं तदनित्यं च यत्सुखं तद्विनाशवत् ।

न चेदेतादृशव्याप्त्या नित्ये ज्ञानसुखे त्यज ।। २४० ।।

यदि व्याप्तिविरोधेऽपि श्रुतत्वात्तदपेक्षितम् ।

तदा ज्ञानाद्बन्धनाशः श्रुतः कस्मादुपेक्ष्यते ।। २४१ ।।

सुरोत्तमटीका

 व्याप्त्येकशरणस्य दोषान्तरमप्याह ।। यज्ज्ञानमिति ।। न चेत् श्रुतिपुरस्कारी न चेत् ।। २४०,२४१ ।।

सत्यप्रमोदटीका

 ‘सहदर्शनमात्रेण न व्यप्तिरवसीयते’ इत्यनुव्याख्यानं हृदि निधायाह यदिति ।। श्रुत्या यत्रापवादस्तत्र, अन्यत्र सहदर्शनमात्र-मनादरणीयमेवेत्याह यदीति ।। २४०,२४१ ।।

युक्तिमल्लिका

त्रिक्षणस्थायि यत्कर्म तस्य कालान्तरे भवन् ।

स्वर्गस्तदैव साध्यस्स्यान्मध्येऽन्यद्यदि न विद्यते ।। २४२ ।।

सुरोत्तमटीका

 यथा यज्ञस्वर्गयोर्मध्येऽदृष्टं कल्प्यते तथाज्ञानबन्धध्वंसयो-र्मंध्येऽश्रुतस्याप्यज्ञानध्वंसस्य कल्पनमिति परेण स्वग्रन्थे लिखितम् । तत्र दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं दर्शयति ।। त्रिक्षणेति ।। कर्म यागरूपम् ।। २४२ ।।

सत्यप्रमोदटीका

 ‘यथा वा श्रुतस्यैव यागस्य स्वर्गसाधनत्वस्योप-पत्तयेऽपूर्वं कल्प्यते । तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति मैवम् । वैषम्यात् । युक्तं हि तत्रापूर्वकल्पनम् । यत्कालान्तरभावि न तत्कारणं इति नियमात् । न चेह तथाऽस्ति ।’ इति सुधामनुरुध्याह त्रिक्षणेति ।। २४२,२४३ ।।

युक्तिमल्लिका

असतः कारणत्वं तु श्रुतेस्सूत्रकृतोऽपि न ।

असतस्सत्कथं जायेतेति वेदोदितं स्मर ।

अन्तराऽनुपपत्त्यैव ततस्तत्रान्यकल्पना ।। २४३ ।।

अतस्तवैष दृष्टान्तो दृष्टान्तस्त्वदकौशले ।

यद्बाह्यव्याप्तिवैरेण श्रुत्युक्तं त्वं जिहाससि ।। २४४ ।।

सुरोत्तमटीका

 न अभिमतं न । तत्र यागस्वर्गयोर्मध्ये ।।२४३,२४४।।

सत्यप्रमोदटीका

 जिहाससि इत्यनेन नास्माकं परस्येव श्रुत्युक्तत्यागः इति ज्ञापितम् । यागरूपकरणस्य व्यापारतयैवापूर्वकल्पनात् । विस्तरः तर्कताण्डवे ‘स्वमतेऽपूर्वस्य कल्प्यत्वसमर्थनभङ्गे’ ।। २४४ ।।

युक्तिमल्लिका

येयं बाह्या च सन्दिग्धा स्खलद्व्याप्तिसहोदरी ।

श्रुतिसूत्रामतां तां तु जरद्वाराङ्गनां त्यज ।। २४५ ।।

सुरोत्तमटीका

 या इयं व्याप्तिः । बाह्या श्रौतार्थानुपपत्त्याऽप्राप्ता किंतु श्रुतिबहिर्भूतेत्यर्थः । स पक्षाभावात् संदिग्धा । स्खलद्व्याप्ती यज्ज्ञानं तदनित्यं यत्सुखं तदनित्यमिति व्याप्ती । तयोस्सहोदरी । ते यथा स्वकपोलकल्पिते तथा इयमपि स्वकपोलकल्पितेत्यर्थः । तत्कुलपरंपराप्राप्तत्वात् खण्डित-व्रतत्वाच्च जरद्वाराङ्गनामित्युक्तम् ।। २४५ ।।

सत्यप्रमोदटीका

 इयं अर्थापत्तिः । बाह्या अन्यथैव सत्यत्वेनैवोपपन्ना । सन्दिग्धा आक्षेपकस्य प्रमितत्वनिश्चयशून्या । स्खलदिति आभाससमान-योगक्षेमा । श्रुतिसूत्रामता प्रमाणविरुद्धमाक्षिपन्ती । व्यभिचारशीलत्वात् वाराङ्गना । अङ्गविकलत्वात् मिथ्यात्वप्रसूतियोग्यताविकलत्वात् जरती ।। २४५ ।।

युक्तिमल्लिका

ज्ञानाद्द्वयोश्च नाशोऽस्तु व्याघ्राद्गोमृगयोरिव ।। २४६ ।।

सुरोत्तमटीका

 किञ्च ज्ञानमज्ञानस्यैव नाशकमिति नियमस्तूक्तविधया कर्मणैव खण्डितः । अज्ञाननाशकत्वमात्रस्य दर्शनेऽपि नास्माकमनिष्टमित्याह ।। ज्ञानादिति ।। द्वयोः अज्ञानबन्धयोः ।। २४६ ।।

सत्यप्रमोदटीका

 अज्ञानस्यैव नाशकमित्यत्र कर्मादिषु व्यभिचारा-पादकैवकारपरित्यागे नास्माकमनिष्टम् । बन्धमिध्यात्वासिद्धेरित्याह ज्ञानादिति ।। २४६ ।।

युक्तिमल्लिका

अभावज्ञाननाशात्म न ज्ञानं तस्य नाशकम् ।

किं घटप्रागभावस्य घट एव विनाशकः ।। २४७ ।।

सुरोत्तमटीका

 अधुनाऽज्ञाननाशकत्वमात्रमपि नास्तीत्याह ।। अभावेति ।। अभावरूपाज्ञानमभावाज्ञानम् । तस्य अभावज्ञानस्य ।। २४७ ।।

सत्यप्रमोदटीका

 परित्यागेऽपि परेण तु व्याप्तिर्दुरुपपादैवेत्याह अभावेत्यादिभिः । नाशात्म नाशस्वरूपम् । नाश्यनाशकभावे खलु सहा-वस्थानमपेक्षितम् । ‘नाजात एकोन्यं हन्ति नाप्यन्यमन्याधार’ इति वचनात् । न हि प्रागभावप्रतियोगिनोः सहावस्थानमस्ति । येन नाश्यनाशकभावः । तदुक्तं वादावल्यां ‘भावाभावयोः सहावस्थानविरोधादि’ ति ।। २४७ ।।

युक्तिमल्लिका

मन्यते नान्यदज्ञानं प्रतिवादी ततस्तव ।

अज्ञाननाशकत्वं च ज्ञाने क्वापि न दृश्यते ।। २४८ ।।

सुरोत्तमटीका

 अन्यत् ज्ञानाभावव्यतिरिक्तम् । ततः अभावाज्ञानाति-रिक्ताज्ञानाभावात् तस्य ज्ञानविनाश्यत्वाभावाच्च ।। २४८ ।।

सत्यप्रमोदटीका

 प्रतिवादी तार्किकः ।। २४८ ।।

युक्तिमल्लिका

तस्यैव नाशकत्वं तु कुत्र वा दृश्यते वद ।

अस्याः प्रसाधनं तस्मादयश्चणकचर्वणम् ।। २४९ ।।

अभावस्य विनाशस्तु प्रतियोगीति यन्मतम् ।

तत्तवापि मतं सर्ववादिनामपि संमतम् ।। २५० ।।

सुरोत्तमटीका

 तस्यैव अज्ञानस्यैव । अज्ञाननाशकत्वमेव ज्ञानेन दृश्यते । अज्ञानस्यैव नाशकत्वं तु सुतरां नेति भावः । अस्याः व्याप्तेः । तस्मादुक्तदोषैरशक्यत्वात् ।। २४९,२५० ।।

सत्यप्रमोदटीका

 तस्य नाशकत्वं एव नास्ति । तस्यैव नाशकत्वं तु सुदूरे । साधनमशक्यमिति सदृष्टान्तमाह अस्या इति ।। १४९–२५१ ।।

युक्तिमल्लिका

तन्निदर्शनशून्यत्वादन्योन्याश्रयतश्च ते ।

व्याप्तिः प्रसाध्याङ्गिकापि नाभूद्गर्भस्रुताऽभवत् ।। २५१ ।।

सुरोत्तमटीका

 तत् तस्मात् ।। २५१ ।।

युक्तिमल्लिका

किञ्च सर्वस्य कार्यस्य जन्मस्थितिविनष्टिषु ।

निमित्तमीश्वरज्ञानमस्तीत्यखिलसंमतम् ।। २५२ ।।

दैनन्दिने च प्रलये नाज्ञानस्य विनाशनम् ।

तस्मात्साक्षादेव जगन्नाशकं जगदीशितुः ।। २५३ ।।

ज्ञानमासीदतो ज्ञानमज्ञानस्यैव नाशकम् ।

इति व्याप्तिर्महालोकमध्येऽभूद्व्यभिचारिणी ।। २५४ ।।

सुरोत्तमटीका

 अपि च सर्वोत्पत्तिमन्निमित्तकारणमीश्वरज्ञानं दैनंदिन-त्रैलोक्यनाशस्यापि कारणमिति तवापि मतम् । अज्ञाननिवृत्तेरत्र प्रसङ्गोऽपि न । अतोऽपि ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिरनुपपन्नेत्याह ।। किञ्चेति ।। २५२–२५४ ।।

सत्यप्रमोदटीका

 ‘‘नन्वीश्वरज्ञानेन प्रपञ्चस्य निवृत्तिस्त्वयाऽपीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः ज्ञानादिमत एव कर्तृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेत् । अपि तर्हि अज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम्’’ इति सुधोक्तवर्त्मना दूषयति किञ्चेति ।। नेति । अज्ञानिनां संसारिणामनुवृत्तेः ।। २५२–२५४ ।।

युक्तिमल्लिका

किञ्च साक्षाज्ज्ञाननाश्यं भवत्वज्ञानमेव ते ।

पारंपर्येण तन्नाश्यं ततोऽन्यच्च भवेत्किल ।। २५५ ।।

न चेज्ज्ञानविनाश्यत्वं कथ्यते जगतः कथम् ।

परंपरानाशकं च द्विविधं भुवि दृश्यते ।। २५६ ।।

किञ्चिद्विनाश्यैव किञ्चित्ततोऽन्यस्य विनाशकम् ।

किञ्चिच्च किञ्चित्कृत्वैव पश्चादन्यस्य नाशकम् ।। २५७ ।।

सुरोत्तमटीका

 अस्तु वा त्वदुक्तव्याप्तिबलात् ज्ञानमज्ञानस्यैव साक्षा-द्विनाशकं तथापि जगतो ज्ञानविनाश्यत्वं वदता त्वयापि परंपरया ज्ञानस्यान्य-विनाशकत्वमप्यङ्गीकृतम् । परंपरया नाशकं च द्विविधं साक्षात्किञ्चिद्विनाश्य किञ्चिदुत्पाद्य वा । तत्र द्वितीयपक्षरीत्या ज्ञानेन बन्धविनाशस्य श्रुतिसूत्रयो-रभिप्रेतत्वे त्वदभिलषिताज्ञानोपादानकत्वरूपमिथ्यात्वस्य सर्वथाऽसङ्गति-रेवेत्याह ।। किं च साक्षादिति ।। २५५–२५७ ।।

सत्यप्रमोदटीका

 किलेति परंपरया बन्धनाशकत्वं परेणापि स्वीकृत-मिति प्रसिद्धिमाह ।। न चेत् परंपरा नाङ्गीक्रियते चेत् ।। २५५–२५७ ।।

युक्तिमल्लिका

योऽयं तन्तुविभागेन तत्संयोगस्य नाशने ।

पटस्य नाशो भवति तदाद्यस्य निदर्शनम् ।। २५८ ।।

सुरोत्तमटीका

 तत् तन्तुविभागाख्यं नाशकम् ।। २५८ ।।

सत्यप्रमोदटीका

 आद्यं अभिनीय दर्शयति योऽयमिति । तथा च तन्तुविभागः पटस्य परम्परया नाशकः ।। २५८ ।।

युक्तिमल्लिका

यत्तु पर्णतृणारण्याद्युत्पाद्याग्निशिखां पुरा ।

तया तमो नाशयति तद्द्वितीयनिदर्शनम् ।। २५९ ।।

एवं च ब्रह्मणो ज्ञानं विनाश्यैव विनाशकम् ।

यदि स्यात्तर्हि ते व्याप्तिः प्रतिरोधं करोतु वा ।। २६० ।।

सुरोत्तमटीका

 पर्णतृणारण्यादि पर्णतृणारणिप्रभृतीत्यर्थः ।।२५९,२६०।।

सत्यप्रमोदटीका

 द्वितीयं निदर्शयति यत्त्विति । अरण्यादि कर्तृ । आदिपदेन मणिग्रहणम् । तृणफूत्कारसंयोगः, अरणिमथनसंयोगः, मणिकिरण- संयोगः इति त्रिभिर्विजातीयाग्नीनामुत्पत्तेस्तार्किकैरङ्गीकारः ।। तर्हि बन्धस्या-ज्ञानोपादानकत्वप्राप्त्या । प्रतिरोधं बन्धसत्यत्वस्य । वेत्यनास्थां सूचयति । तथात्वेऽपि सत्यत्वस्य समर्थितत्वात् ।। २५९,२६० ।।

युक्तिमल्लिका

यदि तद्भगवद्भक्तिमुत्पाद्य दृढया तया ।

बन्धं विनाशयेत्तर्हि व्याप्तेः क्वावसरो वद ।। २६१ ।।

सुरोत्तमटीका

 तत् ब्रह्मापरोक्षज्ञानम् । तया भक्त्या । क्वावसरः । न क्वापि । भक्तिमुत्पाद्य बन्धं नाशयतो ज्ञानस्याज्ञानातिरिक्तपदार्थ साक्षा-न्नाशकत्वादर्शनेन त्वद्व्याप्तेरत्रानव(ता)सरादित्यर्थः ।। २६१ ।।

सत्यप्रमोदटीका

 क्वावसर इति । अज्ञानातिरिक्तप्रसादादेरुत्पादस्यैव प्राप्तेर्नाशस्याप्राप्तेरेवेति भावः ।। २६१ ।।

युक्तिमल्लिका

ज्ञानान्नाश्ये तु नियमस्तज्जन्ये तु तवापि न ।

यत्प्रवृत्तिनिवृत्त्यर्थालापार्तिप्रीतिकृद्धि तत् ।। २६२ ।।

सुरोत्तमटीका

 तज्जन्ये ज्ञानजन्ये । यत् यस्मात् । पितृमरणश्रवणे सति आर्तिदर्शनात् पुत्रोत्पत्तिश्रवणे सति प्रीतिदर्शनात् आर्तिप्रीतिकृदित्युक्तम् । अन्यत्स्पष्टम् । तत् ज्ञानम् । तस्मादिति पूर्वेणान्वयः । अतो ज्ञानमेकस्यैव जनकं नापरस्येति नियमो नास्तीति भावः ।। २६२ ।।

सत्यप्रमोदटीका

 नियमः अज्ञानस्यैवेति नियमः । उत्पादकत्वं तु अनेकेषामपि अनुभवसिद्धमिति निदर्शयति प्रवृत्तीति ।। २६२ ।।

युक्तिमल्लिका

भक्तिश्च भगवत्स्नेहस्सा च तद्दर्शनाद्भवेत् ।

यतो रागस्य जनकं प्राहुर्विषयदर्शनम् ।। २६३ ।।

भक्त्या च बन्धविच्छेदः श्रूयते यौक्तिकश्च सः ।

यतः प्रियस्य निगडबन्धं भिन्दन्ति मानवाः ।। २६४ ।।

सुरोत्तमटीका

 ज्ञानस्य भक्तिजनकत्वं भक्तेश्च बन्धनाशकत्वं सुप्रसिद्ध-मित्याह ।। भक्तिश्चेति ।। २६३,२६४ ।।

सत्यप्रमोदटीका

 ज्ञानस्य प्रसादसाधनभक्तिजनकत्वमपि सार्वजनी-नानुभवसिद्धम् । स्मृतिसिद्धं चेत्याह प्राहुरिति । ‘ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते’ इति स्मृतेः ।। श्रूयते ‘भक्तिरेवैनं नयति’ इति भाष्यो-दाहृतश्रुतौ । मानवाः प्रभवः राजादयः ।।२६३,२६४ ।।

युक्तिमल्लिका

न सा ज्ञानं सैव बन्धं छिन्द्याच्चेत्किं गतं तव ।

तत्सर्वविप्लवायोक्ता प्रक्रिया विक्रियैव ते ।

अतोऽप्यसङ्गतैवाभून्मिथ्यात्वप्रस्तुतिस्तव ।। २६५ ।।

सुरोत्तमटीका

 सा भक्तिः । सैव भक्तिरेव । तत् तस्मात् । असङ्गता सूत्रासङ्गता ।। २६५ ।।

सत्यप्रमोदटीका

 किं गतं तव त्वदभिमतव्याप्तेरहानेः । असङ्गतैव अन्यथैवोपपन्ना । प्रसादनिवर्त्यनिगडबन्धे सत्यत्वस्यैव दर्शनात्

।। २६५ ।।

युक्तिमल्लिका

अथ ज्ञानेन सत्यस्य नाशे ब्रह्मापि नंक्ष्यति ।

तेन नाश्यत्वघटकं मिथ्यात्वं यदि कथ्यते ।। २६६ ।।

तर्हि मिथ्यार्थनाशे स्याच्छशशृङ्गस्य नाशनम् ।

तेन नाश्यत्वघटिकां ब्रूमो बन्धस्य सत्यताम् ।। २६७ ।।

त्रैकालिकनिषेधाख्यबाधायोग्यस्य सत्यता ।

तद्योग्यस्य च मिथ्यात्वमिति सर्वस्य संमतम् ।। २६८ ।।

पारिभाषिकमिथ्यात्वं शशशृृङ्गे न चेत्तव ।

जडत्वे सत्यबाध्यत्वं सत्यत्वं ब्रह्मणो न मे ।। २६९ ।।

सुरोत्तमटीका

 प्रकारान्तरेण सङ्गतिमाशङ्कते ।। अथेति ।। उत्तरमाह ।। तर्हीति ।। ननु सदसद्वैलक्षण्यमेव मिथ्यात्वं तच्च । शशशृृङ्गे नास्ति । अतो नातिप्रसङ्ग इति शङ्कां प्रतिबन्द्या परिहरति ।। त्रैकालिकेति ।। तस्मा-न्मिथ्याभूतस्य नाशेऽप्यतिप्रसङ्गसाम्यात् ।। २६६–२६९ ।।

सत्यप्रमोदटीका

 ननु सत्यस्यापि बन्धस्य नाशे आत्मनोऽपि नाशः प्रसज्यते । अतो नाशे मिथ्यात्वमेव प्रयोजकीभूतमेष्टव्यम् । मैवम् । तथा सति ज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते । किं ज्ञाननियमेन । किं चैवं मिथ्याभूतस्य शशविषाणस्य निवृत्तिरङ्गीकार्या । तथा सति ‘सतो हि घटा-देरुत्पत्तिर्विनाशो वा दृष्टः । नायतेः शशविषाणादेरि’ ति त्वदुक्तिर्व्याहन्यते । न च बन्धो न असन् किन्तु मिथ्यैवेति वाच्यम् । व्याहतेः । ‘‘नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः’’ इत्युक्तेः । सत्येऽपि बन्धे मिथ्याशब्दस्य परिभाषामात्रत्वापातः । परिभाषाऽऽश्रयणेन विरोधपरिहारे ब्रह्मण्यपि परिहारसौलभ्यात् । निवृत्तौ प्रयोजकं सत्यत्वं नाम बाध्यत्वे सति जडत्वम् । तच्चास्ति बन्धे, नास्ति च ब्रह्मणि, इति परिहारसम्भवात् इति सोपपत्तिकमाह अथेत्यादिभिः चतुर्भिः ।। २६६–२६९ ।।

युक्तिमल्लिका

अतो नातिप्रसङ्गोऽस्ति तवापि च ममापि च ।

तस्मादनाशे नाशे च सत्यत्वादेर्न सङ्गतिः ।। २७० ।।

सत्यप्रमोदटीका

 अतः दर्शनादर्शनमात्रस्य व्याप्त्यनियामकत्वात् । तव शशविषाणमपि निवर्तेत इति अतिप्रसङ्गः मम ब्रह्मापि निवर्तेत इत्येवंरूपः । सत्यत्वादेरिति । आदिपदेन जडत्वग्रहणम् ।। २७० ।।

युक्तिमल्लिका

कार्यताऽकार्यते एव नाशानाशप्रयोजिके ।

क्कचिन्नाशकसामग्री नाश्यतायाः प्रयोजिका ।। २७१ ।।

इति वाच्यं यतोऽनादिर्बन्धो ज्ञानाद्विनाशवान् ।

तत्सत्यबन्धनाशेऽपि ब्रह्मनाशः कुतो वद ।। २७२ ।।

सुरोत्तमटीका

 कार्यत्वमनित्यत्वे प्रयोजकमिति सार्वत्रिकी स्थितिः । क्वचिदपवादोऽप्यस्तीत्याह ।। क्वचिदिति ।। तत् तस्मात् कार्यत्वस्य नाशक-सामग्य्रा वा नाश्यत्वप्रयोजकत्वात् ।। २७१,२७२ ।।

सत्यप्रमोदटीका

 कार्यता घटादौ । अकार्यता आकाशादौ । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ इत्युक्तेः । ध्वंसे अपवादादाह क्वचिदिति ‘न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षमः’ इति वचनात् ।। नाशवान् प्रमित इति शेषः । तत् नाशके प्रमाणाभावात् ।।२७१,२७२ ।।

युक्तिमल्लिका

यच्च दृष्टबलाज्ज्ञानं सत्यबन्धनिवर्तकम् ।

इत्युक्ते नीलविज्ञानान्नैल्यादेर्न निवर्तनम् ।। २७३ ।।

दृष्टं ततो दृष्टबलं कथं स्यादिति चोदितम् ।

तच्च जात्युत्तरं मन्ये नैव जातिमदुत्तरम् ।। २७४ ।।

सुरोत्तमटीका

 यच्च परेण ज्ञानस्य सत्यबन्धनिवर्तकत्वं दृष्टबलाद्वा श्रुतिबलाद्वेति विकल्प्याद्ये दूषणमुक्तं नीलज्ञानान्नीलादिनिवृत्तेरदृष्टत्वादिति । तदनूद्य दूषयति ।। यच्चेति ।। जात्युत्तरम् । स्वव्याघातकत्वात् । तदेव विशदयति ।। यत इति ।। २७३,२७४ ।।

सत्यप्रमोदटीका

 विवरणकारोक्तमनूद्य सुधाऽनुरोधेन दूषयति यच्चेति । निवर्तनं न दृष्टमित्युत्तरेणान्वयः । जात्युत्तरं युक्ताङ्गहीनेन प्रत्यवस्थानात् स्वव्याघातकरम् ।। २७४ ।।

युक्तिमल्लिका

यतो दृष्टबलादेकभावे भावान्तरानुमा ।

न स्यात्स्वाभिमता रासभादौ वह्न्याद्यदर्शनात् ।। २७५ ।।

सुरोत्तमटीका

 एकभावे एकस्य धूमस्य सद्भावे भावान्तरानुमा वह्न्यनुमा स्वाभिमता स्वस्य मायावादिनोऽभिमता । दृष्टबलेन हि धूमे सति वह्न्यनुमानं परस्याप्यभिमतम् । तदपि न स्यात् । रासभे सति वह्नेर्दृष्ट्यभावेन दृष्टबलाभावादिति त्वद्वदेव परेणापि वक्तुं शक्यत्वात् । अतस्स्वव्याघातकत्वात् जात्युत्तरमिति भावः ।। २७५ ।।

सत्यप्रमोदटीका

 व्याप्तिविकलं परस्य प्रत्यवस्थानमिति निदर्शनेन दर्शयति रासभेति ।। २७५ ।।

युक्तिमल्लिका

अथ व्याप्यस्य सद्भावे व्यापकान्तरसङ्गतेः ।

दृष्टिर्दृष्टबलं नैव यस्य कस्यापि दर्शनम् ।

इति तत्र समाधाने समाधानं समं मम ।। २७६ ।।

सुरोत्तमटीका

 शङ्कते ।। अथेति ।। तत्र अनुमाने । उत्तरमाह ।। समाधानमिति ।। २७६ ।।

सत्यप्रमोदटीका

 व्याप्यस्य अनुपपद्यमानस्य सद्भावे समुचितदेशे इति शेषः । दृष्टिः अविनाभावदर्शनम् ।। २७६ ।।

युक्तिमल्लिका

भूयो भूयस्साहचर्याद्यद्धि यस्य विनाशकम् ।

दृष्टं तादृक्पदार्थो यस्स सत्यस्यापि नाशकः ।

इति सर्वैश्च वक्तव्यं शैत्ये सत्यनलार्थिभिः ।। २७७ ।।

सुरोत्तमटीका

 तादृक्पदार्थः नाशकतया भूयो भूयो दृष्टपदार्थः।।२७७।।

सत्यप्रमोदटीका

 भूय इति । भूयोदर्शनं व्यभिचारादर्शनं उपाध्यभाव-निश्चयः इत्येते व्याप्तिनिश्चये सहकारिण इति भावः । सत्यस्यापि शैत्यस्य विरोधिना अनलेन निवृत्तिर्व्याप्तिबलेनैव सिद्धेत्याह शैत्य इति ।। २७७ ।।

युक्तिमल्लिका

ज्ञानं चेदृग्दृश्यते चेत्तच्च सत्यं विनाशयेत् ।

यतस्स्वसुहृदां दृष्ट्या मनोदुःखं निवर्तते ।

महच्चरणदृष्ट्या च पापं सर्वं निवर्तते ।। २७८ ।।

सुरोत्तमटीका

 नन्वर्थे अस्त्वेवं दृष्टफलम् । ज्ञाने नास्तीत्यत आह ।। ज्ञानं चेति ।। ईदृक् सत्यस्यैव नाशकतया भूयो भूयो दृष्टम् । तत् ज्ञानम् ।। २७८ ।।

सत्यप्रमोदटीका

 ईदृक् विरोधि । महच्चरणेति । ‘दृष्टमात्राः पुनन्त्येते’ इत्युक्तेः ।। २७८ ।।

युक्तिमल्लिका

यथैव नृपतेर्दृष्ट्या भूयो भूयो निवृत्तिमान् ।

बन्धो दृष्टो भटाद्येषु तथा भगवदीक्षणम् ।

बन्धस्य शिक्षकं दृष्टं भूयोभूयश्शुकादिषु ।। २७९ ।।

अतो व्याप्तिमतो ब्रह्मज्ञानात्सत्यभवच्युतौ ।

साधितायां व्याप्तिशून्यनीलनीलधियोरपि ।। २८० ।।

नाश्यनाशकताचोद्यं कथं हृद्यं भवेत्सताम् ।

तस्मान्मिथ्यात्वकथनं न कथञ्चन सङ्गतम् ।। २८१ ।।

सुरोत्तमटीका

 सामान्यतो दृष्टान्तद्वयमुक्त्वाऽन्तरङ्गमपि दृष्टान्तमाह ।। यथैवेति ।। सुहृद्दर्शनात् गुरुदर्शनात् राजदर्शनाच्च नाश्यतया व्याप्यस्य नाश-दृष्टेर्भगवद्दर्शनादप्यतीतानन्तभक्तेषु भूयो भूयो भगवद्दर्शननाश्यतया व्याप्तबन्धस्य भक्तान्तरेऽपि सत्यस्यैव निवृत्तिर्दृष्टबलादेवोच्यत इति मयापि वक्तुं शक्यत्वात् समं समाधानम् । नीलज्ञानस्य नीलनिवर्तकतया क्वाप्यदृष्टस्य तदनिवर्तकत्वे निवर्तकतया दृष्टस्याप्यनिवर्तकत्वं शङ्कमानः अमेध्यस्य भोज्यत्वादर्शनाद्दृष्ट-मप्यन्नस्य भोज्यत्वं त्यजन्क्षुधितो म्रियेत । अतो न वचनतस्स्वव्याहतिमात्रं किन्तु स्वदेहव्याहत्यापि स्वव्याहतिरिति भावः ।। २७९–२८१ ।।

सत्यप्रमोदटीका

 ‘यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं दृष्टं स भगवान् कुर्याद्बन्धविभेदनमि’ त्यनुव्याख्यानमनुरुध्याह यथैवेति । शुकादिषु ‘बहवो ज्ञानतपसा पूता मद्भावमागता’ इत्युक्तमुक्तेषु ।। नील-नीलधियोरपीति । ज्ञानेन सत्यभूतः तद्विषयो निवर्तते इति व्याप्त्यभावात् । सूत्रे तदनुक्तेश्चेति भावः । न सङ्गतमिति । प्रयोजनाक्षिप्तं न भवतीति भावः

।। २७९–२८१ ।।

युक्तिमल्लिका

किञ्च दृष्टबलात्स्वार्थं यः सिषाधयिषत्यसौ ।

ज्ञानात्सत्यस्यापि नाशं यत्र यत्राभिपश्यति ।। २८२ ।।

तदेव दृष्टं दृष्टं च स्वबलं वष्ट्यभीष्टदम् ।

पूर्वोक्तवर्त्मना तच्च स्थानस्थानेषु वर्तते ।। २८३ ।।

सुरोत्तमटीका

 अत्रायं प्रयोगः । विमतो ब्रह्मसाक्षात्कारः बन्ध-निवर्तकः। बन्धनिवृत्त्यन्वयव्यतिरेकानुविधायित्वात् । यो यन्निवृत्त्यन्वय-व्यतिरेकानुविधायी स तन्निवर्तकः । यथा सुहृद्दर्शनादिकं दुःखादेरिति वा यो बन्धनिवृत्त्यन्वयव्यतिरेकानुविधायी स बन्धनिवर्तकः यथा राजसाक्षात्कारो निगडबन्धस्येति विशिष्यैव वा अन्वयव्यतिरेकपुरस्कारेण प्राक्समाधानमुक्तम् । इदानीं तद्वार्ताभावेऽपि समाधानकौशलं दर्शयति ।। किं वीप्सा चेति ।। दृष्टं दृष्टमिति । वष्टि वक्ति । तत् निवर्तकं ज्ञानम् ।। २८२,२८३ ।।

सत्यप्रमोदटीका

 प्रतिबन्द्याऽऽह किं चेति । अन्वयव्यतिरेकावनादृत्य दर्शनमात्राभिमाने, परेण पराक्रान्तम् । तदाह दृष्टबलादिति । अन्वय-व्यतिरेकशून्यदर्शनमात्रबलादित्यर्थः । यत्र यत्रेति सुहृद्दर्शनादिना दुःख-निवृत्त्यादौ । तदेव स्वबलं वष्टि । एवकारेण व्याप्तिसापेक्षतां वारयति ।। २८२,२८३ ।।

युक्तिमल्लिका

एवं दृष्टबलस्यास्य का नष्टिः क्वाप्यदृष्टितः ।

तेनासङ्गतसंबन्धि सर्वमासीदसङ्गतम् ।। २८४ ।।

सुरोत्तमटीका

 दृष्टं दृष्टमेव बलं यस्य सः दृष्टबलः तस्य । क्वापि नीलज्ञानादौ । असङ्गतसम्बन्धि सूत्रासङ्गतमिथ्यात्वसम्बन्धि । सर्वं सङ्गत्युप-पादकग्रन्थसन्दर्भः ।। २८४ ।।

सत्यप्रमोदटीका

 का नष्टिः क्वचिद्व्यभिचारदर्शनेऽपीति भावः । कापि चित्रावयविनि नैल्यादौ । सर्वं परस्य पर्यनुयोगेन प्रत्यवस्थानादिकम् । असङ्गतं ‘यत्रोभयोः समो दोषः’ इति न्यायादिति भावः ।। २८४ ।।

युक्तिमल्लिका

श्रेष्ठेष्टदृष्ट्याऽनिष्टस्य नष्टेर्दृष्टबलं च मे ।

अस्ति त्वदुक्तदुर्व्याप्त्युच्छित्त्या मानबलं च मे ।। २८५ ।।

सुरोत्तमटीका

 पूर्वविकल्पोत्तरमनुवदन्नुत्तरविकल्पस्याप्युत्तरमाह ।। श्रेष्ठेति ।। व्याप्तिबलाद्धि श्रुतेरर्थप्रच्यावने श्रुतिबलं न स्यात् । व्याप्तेश्चोक्त-विधया उच्छेदे यथाश्रुतश्रुत्यर्थे बाधकाभावात् श्रुतिबलं चास्तीति भावः

।। २८५ ।।

सत्यप्रमोदटीका

 श्रेष्ठेष्टः प्रसन्नः प्रभुः । दुर्व्याप्तीति । ज्ञानमज्ञानस्यैव निवर्तकमिति विशेषव्याप्तिरिति बलीयस्त्वेनाभिमतेत्यर्थः । उच्छित्त्या सुबहुत्र व्यभिचारप्रदर्शनेन दूषणेनेन । मानबलं व्याप्तिविरोधशून्यानां ‘दृष्ट्वैव तं मुच्यते’ इत्यादिनिरवकाशागमानां बलम्

।। २८५ ।।

युक्तिमल्लिका

तत्ते विकल्पोऽप्याकल्पकल्पः पश्य ममाभवत् ।

मनस्सङ्कल्पमाकल्पमप्यल्पीकुरुते तव ।। २८६ ।।

सुरोत्तमटीका

 तत् तस्मात् विकल्पद्वयस्यापि मदनुकूलत्वात् । आकल्पकल्पः आभरणसमानः । आकल्पं कल्पपर्यन्तम् । कल्पपर्यन्तमेवं विकल्पे कृतेऽपि त्वदभीष्टमिथ्यात्वसङ्गतिर्न भवेदिति भावः ।। २८६ ।।

सत्यप्रमोदटीका

 विकल्पः ज्ञानेन सत्यस्य नाशः किं दृष्टबलेन उत आगमबलेन इत्येवंरूपः । आकल्पकल्पः आभरणसदृशो मदनुकूल एवेति यावत् । पक्षद्वयेनापि मत्सिद्धान्तस्यैव सिद्धेः । आकल्पं सर्वकल्पेषु । आङ् अभिविधौ । अल्पीकुरुते व्यर्थीकरोति।।२८६ ।।

युक्तिमल्लिका

अज्ञानोपादानकस्य मिथ्यार्थस्य विनाशनम् ।

ज्ञानेन जायमानं यन्न दृष्टं नापि च श्रुतम् ।। २८७ ।।

सुरोत्तमटीका

 न केवलमिष्टकारीविकल्पोऽयं मायिनः किन्तु स्वप्रमेय-स्यैव दृष्टबलाभावेनानिष्टकारी चेत्याह ।। अज्ञानेति ।। शुक्तिरजतादेर-ज्ञानोपादानकत्वाभावात् तन्नाशाभावाच्च भवद्भाष्यकाराभिलषितमेव प्रमेय-मदृष्टमश्रुतं च । अतस्त्वद्विकल्पस्तव गुरुमेव हन्तीति भावः ।। २८७ ।।

सत्यप्रमोदटीका

 कुत इत्यत आह अज्ञानेति । विकल्पद्वयस्यापि त्वत्प्रतिकूलत्वादित्याह नेति । नापीति च ।। २८७ ।।

युक्तिमल्लिका

सत्यं सर्वं स्वस्वदृष्ट्या नश्यत्येवेति वक्तरि ।

चित्रावयविनो वार्ताप्रस्तावस्तु प्रशास्तिकृत् ।। २८८ ।।

दृष्ट्या सत्यस्यापि नाशो दृष्टोऽस्तीति तु वक्ति यः ।

नैल्यानाशकथा स्वस्य नैल्यानाशाय तं प्रति ।। २८९ ।।

सुरोत्तमटीका

 किं च चित्रावयविग्रन्थस्य प्रस्तावोऽप्यस्मान्प्रत्यसङ्गत इत्याह ।। सत्यमिति ।। दृष्टोऽस्ति क्वचित्क्वचिद्दृष्टोऽस्ति । नीलज्ञानेन नैल्या-नाशकथा सर्वं सत्यं वस्तु स्वस्वज्ञानेन निवर्तत इति कश्चिदुन्मत्तो वदति चेत्तं प्रति कथनीया स्यात् । सति कल्पके सत्यमपि वस्तुक्वचित्क्वचिज्ज्ञानेनापि निवर्तितुमर्हतीति वदन्तं प्रति नीलज्ञानानैल्यमपि नश्येदिति वचनमसङ्गतत्वात् वक्तुरास्य नैल्यायैव स्यादिति भावः ।। २८८,२८९ ।।

सत्यप्रमोदटीका

 अनुक्तानुपालम्भोऽपि दोषः परस्येत्याह सत्यमिति । सर्वं इति । विरोधि वा भवतु मा वा इत्यसङ्कोचेनेति भावः । इति वक्तरीति । ज्ञानं, स्वविषयं सर्वं सत्यं निवर्तयतीत्येवं यदि नाम यः कोऽपि ब्रूयात् तं प्रतीत्यर्थः । वार्ताप्रस्ताव इति । वार्तामात्रमेव । वस्तुतस्तं प्रत्यपि त्वदुक्त-दूषणस्यानवकाश एवेति भावः । ज्ञानेनाज्ञानस्य आरोपितस्य वा निवृत्तिरिति त्वत्पक्षेऽपि उक्तविकल्पदोषप्रसरात् । विस्तरोऽत्र न्यायामृते ज्ञाननिवर्त्यत्वभङ्गे । ‘एकमेवहि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः’ इति सुधोक्त-दोषाच्च ।। सत्यस्यापि विरोधिन इत्युपस्कारः । नैल्यानाशायेति । पराभव-प्राप्तमुखगतनैल्यस्य अनपगमायेत्यर्थः ।। २८८,२८९ ।।

युक्तिमल्लिका

ज्ञानात्स्वविषयस्तस्य धर्मो वा तद्विरोधि वा ।

निवर्तते स्वाश्रयस्थमुभयस्थमथापि वा ।। २९० ।।

इति पृष्ट्वा परो यत्तु दूषयामास दूषणैः ।

अनुक्तोपालंभनेन तत्स्वात्मानं हि दूषयेत् ।। २९१ ।।

सुरोत्तमटीका

 असङ्गतिमेव स्पष्टयति ।। ज्ञानादित्यादिना ।। स्व-विषयः ज्ञानविषयः । तस्य विषयस्य । तद्विरोधि विषयगतधर्मविरोधि । स्वाश्रयस्थं निवर्तते वा उभयस्थं निवर्तते वेति पूर्वक्रियावृत्त्या योजनीयम् । तद्ग्रन्थस्थसकलविकल्पानामुदाहरणमिदम् । दूषणैः नीलज्ञानेन नीलस्य नील-गुणस्य तद्विरुद्धपीतगुणस्य चानिवृत्तेरात्मगतधर्मादेरनिवृत्तेरात्मविषयसम्बन्धस्य चानिवृत्तेरित्यादिदूषणैः । अनुक्तोपालम्भेन अनुक्तोपालम्भाख्यनिग्रहस्थानेन । तद्दूषणम् । परानुक्तप्रमेयस्यैव विकल्प्य दूषितत्वेन स्वाकौशलद्योतकमित्यर्थः ।। २९०,२९१ ।।

सत्यप्रमोदटीका

 परोक्तान्सर्वविकल्पाननुवदति ज्ञानादिति ।। सर्वेऽपि परानुक्ता एवेत्याह तदिति ।। २९०,२९१ ।।

युक्तिमल्लिका

किं ब्रह्मज्ञानतो ब्रह्म तद्धर्मस्तदिद्वषोऽसुराः ।

जीवत्वं वा ब्रह्मजीवभेदो वा द्वित्वमेतयोः ।

निवर्त्यत इति ब्रूते त्वदग्रे कोऽपि मानुषः ।। २९२ ।।

सुरोत्तमटीका

 अनुक्तत्वमेव दर्शयति ।। किं ब्रह्मज्ञानत इति ।। तद्धर्मः ब्रह्मधर्मः सार्वज्ञादिः । तद्द्विषः ब्रह्मद्विषो ब्रह्मधर्मद्विषश्च । विषय-विषयधर्मतद्विरोधिनां सङ्ग्रहोऽयम् । जीवत्वमिथ्याश्रयनिष्ठधर्मग्रहणम् । एतयोः ब्रह्मजीवयोः द्वित्वमित्युभयगतस्योदाहरणम् ।। २९२ ।।

सत्यप्रमोदटीका

 उपपादयति किमिति । असुरा इति पर्यन्तं विषय-गतपक्षस्य अनुक्तत्वम् । जीवत्वं ब्रह्मप्रतियोगिकजीवधर्मिको भेद इति आश्रयगतपक्षस्य, द्वित्वमित्यनेनोभयगतपक्षस्य च अनुक्तत्वमुपपादितम् ।। २९२ ।।

युक्तिमल्लिका

किन्तु ज्ञानविनाश्यत्वं यस्य मानेन मीयते ।

तदज्ञानातिरिक्तं च नश्यज्ज्ञानेन दृश्यते ।। २९३ ।।

सुरोत्तमटीका

 तत् ज्ञाननिवर्त्यतया प्रमितम् । ज्ञानेन नश्यदिति सम्बन्धः ।। २९३ ।।

सत्यप्रमोदटीका

 यथाप्रमाणं सत्यस्यापि विरोधिनो ज्ञानेन नाश इति पक्षे न कोऽपि दोष इत्याह किं त्विति । दृश्यते इत्यस्य इतीत्युत्तरेणान्वयः ।।२९३।।

युक्तिमल्लिका

उत्तरज्ञानतः पूर्वज्ञानस्य विनिवर्तनात् ।

प्रमया भ्रमनाशाच्च सूर्यादीनां च दर्शनात् ।। २९४ ।।

दुरितध्वंसदृष्टेश्च सुहृद्दर्शनतो नृणाम् ।

चिन्ताज्वरादिनाशस्य दृष्टत्वात्तत्र तत्र च ।

इति ब्रूते परस्तत्र कुचोद्यावसरः क्व ते ।। २९५ ।।

सुरोत्तमटीका

 कुचोद्यं कुत्सितविकल्पः । तस्यावसरः ।।२९४,२९५।।

सत्यप्रमोदटीका

 भ्रमेति । तस्य सत्यत्वं च एतावन्तं कालं मम भ्रम आसीदित्यनुभवेन सिद्धिमिति भावः ।। २९४,२९५ ।।

युक्तिमल्लिका

त्वदुक्तदूषणानां च व्रणं विवरणव्रणे ।

द्रष्टव्यं विस्तरभयान्नेह तच्च वितन्यते ।। २९६ ।।

सुरोत्तमटीका

 दूषणानां विकल्पदूषणानाम् । तद्दूषणदूषणम् ।।२९६।।

सत्यप्रमोदटीका

 व्रणं दूषणम् ।। २९६ ।।

युक्तिमल्लिका

किञ्चैवमपि ते बन्धमात्रस्याज्ञानकार्यता ।

अस्तु सर्वस्य जगतो मिथ्यात्वं तु कुतो वद ।

न हि सर्वस्य च ज्ञानान्नाशः सूत्रेण सूत्रितः ।। २९७ ।।

सुरोत्तमटीका

 अपि चैवमपि ब्रह्मज्ञानाद्बन्धमात्रनिवृत्तिश्रवणात् तस्यैवाज्ञानकल्पितत्वं स्यात् । सर्वस्य जगतोऽज्ञानकल्पितत्वकथायाः का सङ्गतिरित्याह ।। किञ्चेति ।। २९७ ।।

सत्यप्रमोदटीका

 एवं सौत्रप्रयोजनाक्षिप्ततया । अस्त्विति अभ्युपगमः । सर्वस्य बन्धातिरिक्तस्य ।। २९७ ।।

युक्तिमल्लिका

अधिकार्यादिसद्भावाद्गुरुशिष्यादिसंभवात् ।

वक्तृश्रोतृमनोदेहगेहादेरनुपद्रवात् ।। २९८ ।।

स्वयोग्यदेशकालान्नसद्भावात्फलसंभवात् ।

मीमांस्यवेदसद्भावान्मीमांसाशास्त्रसंभवात् ।। २९९ ।।

कार्यैव ब्रह्ममीमांसा सदेत्यादावसूत्रयत् ।

यस्सूत्रकारस्स जगन्मिथ्यात्वं नैव मन्यते ।। ३०० ।।

सुरोत्तमटीका

 न केवलं सूत्रे जगन्निवृत्तेरश्रवणमात्रम् । किंत्वधिकार-सम्पत्तेरानन्तर्यार्थकाथशब्देन जगत्सत्यत्वमपि सूत्राभिप्रेतमित्याह ।। अधिकारीति ।। २९८–३०० ।।

सत्यप्रमोदटीका

 जिज्ञासाकर्तव्यत्वे हेतुत्वेन सूत्रितानां अधिकार्यादीनां सत्यत्वमेव सूत्रकृदभिप्रेतं अन्यथाऽसिद्ध्यापत्तेरित्याह अधिकार्यादीति

।। २९८–३०० ।।

युक्तिमल्लिका

जगज्जन्मादिहेतुत्वं यः प्रदीपमदीपयत् ।

स्वदत्तदीपतैलस्याभावं स मनुते कथम् ।। ३०१ ।।

सुरोत्तमटीका

 द्वितीयसूत्रार्थपर्यालोचनयापि जगत्सत्यत्वमेव सूत्रकार-स्याभिमतमित्याह ।। जगदिति ।। लक्षणस्यार्थनिर्णायकत्वात्प्रदीपमित्युक्तम् । जगतोऽभावे जगत्कारणत्वस्याप्यभावप्रसङ्गात् दीपतैलस्येत्युक्तम् ।। ३०१ ।।

सत्यप्रमोदटीका

 प्रदीपं लक्षणम् । वस्तुस्वरूपप्रकाशकत्वात् । तैलस्य तत्सत्यत्वस्य । तैलेन विना दीपस्येव, सत्यत्वेन विना जन्माद्यष्टकानुपपत्तेः ।। ३०१ ।।

युक्तिमल्लिका

अन्त्यावयविनो नाशः पूर्वं घटविनाशने ।

कपालं तदुपादानं किं नश्यति तदा वद ।। ३०२ ।।

कार्यात्मना विनष्टोऽसौ घटः कारणरूपतः ।

अस्त्येवेति मतं सर्वे पूर्वेऽङ्गीकुर्वते तव ।। ३०३ ।।

सुरोत्तमटीका

 किञ्च नदीमुभयतो वाहामित्यादिप्रमाणबलाद्विपर्ययेण लयं वक्ष्यन्सूत्रकारः उपादाननाशप्रक्रियया जगन्नाशं नाभिप्रैति । किंत्वन्त्या-वयविनामेव प्राङ्नाशः ततस्तदुपादानस्येत्येवाधोधः क्रमेण प्राथमिकोपादाने प्रकृतौ विकृतिनाशस्य पर्यवसानं वदति । मूलप्रकृतेस्त्वनाद्यनन्तजग-न्मूलोपादानभूतायाः प्रकृतित्वादविनाश एव श्रुतिसूत्रादीनामभिमतः । एवं चोपादाननाशद्वारा जगन्नाशाभावाच्च न ज्ञाननिवर्त्यत्वाख्यं मिथ्यात्वं जगती-त्याह ।। अन्त्येति ।। ३०२,३०३ ।।

सत्यप्रमोदटीका

 उपाद्यज्ञाननाशे उपादेयबन्धो विनश्यतीति त्वत्प्रक्रिया लोकदृष्टिविरुद्धा । वैपरीत्यस्यैव दर्शनादित्याह अन्त्यावयविन इति ।। त्वत्सिद्धान्तविरुद्धाचेत्याह तव पूर्वे अङ्गीकुर्वते इति । अन्यथा स्वाप्नपदार्थ-नाशेऽपि तदुपादानाद्युपलब्धिः स्यादिति तदापादनविरोधः ।। ३०२,३०३ ।।

युक्तिमल्लिका

कपालस्य तु नाशे तु घटस्यात्यन्तनाशनम् ।

रूपद्वयेनापि नाशात्पुनः कारणरूपतः ।

कपालानामेव सत्ता घटवार्ता गता तदा ।। ३०४ ।।

एवं प्रकृतिपर्यन्तं नाशोधोऽधः क्रमात्किल ।

भूभूधरादेरप्येवमेव नाशं विदुर्बुधाः ।। ३०५ ।।

इमां प्रलयमर्यादां वदन्त्यखिलवादिनः ।

एवञ्चोपादाननाशात्कार्यनाशः कदा वद ।। ३०६ ।।

सुरोत्तमटीका

 रूपद्वयेन कार्यरूपेण साक्षात्स्वकारणरूपेण च ।। ३०४–३०६ ।।

सत्यप्रमोदटीका

 तुशब्देन पश्चान्नाशपक्षं व्यवच्छिनत्ति । पूर्वमेव नाश इत्यर्थः । अत्यन्तेत्यस्यैव व्याख्यानं रूपद्वयेनापीति । तदा कारणरूपतः तत्ता इति घटवार्ता गता इत्यन्वयः । किन्तु कारणरूपतः कपालानामेव सत्ता इति वार्ता अवशिष्यते इति आवृत्त्या योज्यम् ।। अधोऽध इति । ‘नदी-मुभयतोवाहामि’ ति भगवते ‘विपर्येण तु क्रमो लयेऽत उपपद्यते च’ इति सूत्रे च तथोक्तेरिति भावः

।। ३०४–३०६ ।।

युक्तिमल्लिका

तस्मादनादितोऽनन्तब्रह्माण्डानां लये लये ।

अज्ञानच्छेदतश्छेदो न द्वेधाऽपीति धीर्मम ।

अद्याप्यज्ञानावशिष्टेर्नष्टेश्चोक्तविधत्वतः ।। ३०७ ।।

यस्ते सर्वलयो मुक्त्यै तत्राप्येष लयक्रमः ।

पृथिव्यप्सु विलीना स्यात्तास्तेजस्यनिले च तत् ।। ३०८ ।।

स व्योमि्न तदहङ्कारे महत्तत्त्वे स लीयते ।

तन्मायायां सा च मायाऽज्ञाने लीना भवेत्तव ।। ३०९ ।।

मम तु प्रलये सर्वा विकृतिः प्रकृतिं विशेत् ।

सा च प्रकृतिरेवास्या लयो नेति परं मतम् ।

एवञ्चाज्ञाननाशेन नाशो देशान्तरं गतः ।। ३१० ।।

सुरोत्तमटीका

 द्वेधा विपर्ययेण तु लय इति सूत्रे उपादाननाशद्वारा जगन्नाशस्याप्रस्तुतत्वात् । अज्ञाननाशद्वारा नाशस्य सुतरामभावाच्च । द्वेधेत्य-स्याभिप्रायान्तरमाह ।। अद्यापीति ।। अनादिकालतो जगतः कल्पे कल्पे विनष्टत्वात् अज्ञानस्य चाद्याप्युर्वरितत्वादित्यर्थः । छेदो जगन्नाशः ।। ३०७–३१० ।।

सत्यप्रमोदटीका

 न द्वेधाऽपीति । अज्ञानस्योपादानत्वाभावात् उपा-दानस्य पूर्वमनाशाच्चेति भावः । अभिप्रायान्तरमाह अद्यापीति पूर्वकल्पीय-जगन्नाशेऽपि । अज्ञानावशिष्टेः अन्यथेदानीं तदुपादानकसंसारानुपलम्भः स्यादिति भावः । उक्तविधत्वतः अधोऽधः इति पूर्वोक्तविधत्वतः ।। ते मुक्त्यै निष्प्रपञ्चताऽऽपत्त्यै । मम तु परान्तकाले । एषः क्ष्माम्भोनलानिलेत्यादि-स्मृत्युक्तः ।। मायायां प्रकृतौ । अज्ञाने इति । प्रकृतेरपि अज्ञानकार्यत्वोप-गमादिति भावः ।। विकृतिः कार्यजातम् । विशेत् तदात्मना अवतिष्ठते । अस्याः प्रकृतेर्लयो न । ‘नासतो विद्यतेऽभावः’ इति परं मतं गीतासंमतम् । असतः कारणस्य प्रकृतेः अभावः प्रागभावः प्रध्वंसश्च न विद्यते इति तद्वाख्यानात् ।। ३०७–३१० ।।

युक्तिमल्लिका

भूयश्चान्ते विश्वमायानिवृत्तिरिति हि श्रुतिः ।

अतो न लौकिकी नापि वैदिकीऽयं स्थितिस्तव ।। ३११ ।।

सुरोत्तमटीका

 तदभिमतश्रुत्यैव जगन्नाशोत्तरकालमज्ञाननाशं प्रतिपाद-यति ।। भूय इति ।। विश्वमाया विश्वोपादानभूतमाया । तस्याश्चान्ते निवृत्ति-श्रवणात् तन्नाशोत्तरकाले जगन्नाशस्त्वयापि वक्तुं न शक्यत इति भावः ।। ३११ ।।

सत्यप्रमोदटीका

 श्रुतिरपि अन्ते एवाज्ञाननाशं श्रावयतीत्याह भूय इति ।। ३११ ।।

युक्तिमल्लिका

त्वत्प्रक्रियालयव्याप्ता यस्मात्सर्वे महालयाः ।

तत्सूत्रसूत्रितार्थाख्यरत्नमालापकर्षणम् ।

यः करोति नराकारो वानरस्स न संशयः ।। ३१२ ।।

विपर्ययेण तु लयं यस्सूत्रे सूत्रयिष्यति ।

सोऽधुनोपादाननाशात्कार्यनाशं न बोधयेत् ।। ३१३ ।।

सुरोत्तमटीका

 त्वत्प्रक्रियालयव्याप्ताः त्वत्प्रक्रियाया लयेन नाशेन वैपरीत्येनेत्यर्थः । व्याप्ताः सर्वेऽपि महालयाः । सृष्टिवैपरीत्येनैव लयो न त्वेकोऽपि लयस्त्वदुक्तरीत्या उपादाननाशद्वारेत्यर्थः । यथा महालयश्राद्धं लयव्याप्तं तथेति सूचनाय महालया इत्युक्तम् । सूत्रसूत्रितार्थः ज्ञानस्यैव बन्धनिवर्तकत्वम् ।। ३१२,३१३ ।।

सत्यप्रमोदटीका

 तव प्रक्रियाया लयेन वैपरीत्येनैव व्याप्ताः सर्वे महालयाः । यथा महालयश्राद्धं लयव्याप्तं तथेति ध्वनिः । वानर इति अव्यवस्थितचित्तः इत्यर्थः । तदुक्तमभियुक्तैः ‘मणिस्रजं वा प्लवगोऽव्यवस्थः’ इत्यादि ।। ३१२,३१३ ।।

युक्तिमल्लिका

अर्थस्यास्यानर्थदस्य तस्मात्सूत्रं न सूचकम् ।

त्रिलोकीसूचको यस्ते गुरुरास्ते स सूचकः ।। ३१४ ।।

सुरोत्तमटीका

 त्रिलोकीसूचकः त्रिलोक्याः पैशुन्यकारी ।। ३१४ ।।

सत्यप्रमोदटीका

 तस्मात् तदुक्तार्थापत्तेः सर्वदोषावकुण्ठितत्वात् । अस्य जगन्मिथ्यात्वरूपस्य । अनर्थदस्य परतत्वप्रद्वेषपर्यवसायित्वेन तमः-फलकस्य । सूचकं आक्षेपकम् । सूचकः पिशुनः । सूचकः साधनदुरुप-क्रमवान् ।। ३१४ ।।

युक्तिमल्लिका

अज्ञानकार्यता चास्य समस्तस्य न युज्यते ।

यद्यज्ञानमुपादानं वृत्त्याऽज्ञाननिवर्तने ।

तदुपादेयकार्यस्य ह्यनिवृत्तिः कथं वद ।। ३१५ ।।

सुरोत्तमटीका

 तद्रीत्यैव जगतोऽज्ञानानुपादानकत्वं च समर्थयते ।। अज्ञानकार्यतेति ।। ३१५ ।।

सत्यप्रमोदटीका

 वृत्त्या चरमवृत्त्या । त्वद्रीत्या ‘तत्त्वमसि’ वाक्य-श्रवणोत्थया । अनिवृत्तिः इदानीमपि संसारोपलम्भादिति भावः ।। ३१५ ।।

युक्तिमल्लिका

घटवृत्त्या घटाज्ञाननाशे न हि घटक्षयः ।

तवाप्यस्ति मते तस्मात्तदुपादेयतापि न ।। ३१६ ।।

सुरोत्तमटीका

 घटक्षयो नास्ति हीति सम्बन्धः ।। ३१६ ।।

सत्यप्रमोदटीका

 व्यावहारिकं घटं प्रति ब्रह्मैवाधिष्ठानम् । ब्रह्माज्ञानमेव चोपादानमिति परस्याभ्युपगमः । घटवृत्त्या घटाज्ञाननाशेऽपि घटस्यानाशा-दित्याह घटेति । नाशे नेति पदच्छेदः ।। ३१६ ।।

युक्तिमल्लिका

उपादानस्य संबन्धनाशेनापि विनश्यतः ।

उपादानस्यैव नाशे कथं नाशो न जायते ।

अतोऽज्ञानमुपादानमिति रिक्तं वचस्तव ।। ३१७ ।।

सुरोत्तमटीका

 उपादानस्य तन्तोस्सम्बन्धनाशे संयोगाख्या समवायि-कारणनाशे । एवं च तत्प्रक्रिययैवाज्ञाननाशेऽपि घटादिकार्याणामनाशा-न्मृत्पिण्डनाशान्मृदादिकमेव घटाद्युपादानमिति भावः ।। ३१७ ।।

सत्यप्रमोदटीका

 संबन्धः कपालद्वयसंयोगादिः असमवायिकारणम् । विनश्यतः घटादिप्रपञ्चस्य । उपादानस्यैव त्वद्रीत्या ब्रह्माज्ञानस्यैव । अतः अन्वयव्यतिरेकाभ्यां मृदादिकमेव घटाद्युपादानं नाज्ञानमिति निष्टङ्कितम् ।। ३१७ ।।

युक्तिमल्लिका

तदज्ञानानुपादानवस्तुत्वाद् ब्रह्मवज्जगत् ।

सदा सत्स्यान्न चेन्न स्यात्प्रतिकर्मव्यवस्थितिः ।। ३१८ ।।

सुरोत्तमटीका

 परप्रक्रिययैव सिद्धत्वात् प्राक्सूचितस्याप्यनुमानस्य पुनर्वचनम् ।। ३१८ ।।

सत्यप्रमोदटीका

 सदा मुक्तावपि । तेन पारमार्थिकत्वलाभः । प्रतिकर्मव्यवस्थितिः सर्वस्यापि दृश्यस्य ब्रह्मात्मैकदृगध्यस्तत्वेऽपि कस्यचित् कदाचित् कंचित् प्रति प्रकाश इति व्यवस्था ।। ३१८ ।।

युक्तिमल्लिका

शुक्तेरावरणेऽज्ञाने नष्टे बाधप्रमा पुनः ।

इयं शुक्तिर्न रजतमित्याकारा हि जायते ।। ३१९ ।।

सुरोत्तमटीका

 किञ्चाज्ञानातिरिक्तस्यैव लोके ज्ञानविनाश्यत्वदर्शना-त्साक्षाद्बन्धस्यैव ज्ञानविनाश्यत्वमुचितमित्याह ।। शुक्तेरिति।। ३१९ ।।

सत्यप्रमोदटीका

 विषयावच्छिन्नचैतन्यावरकमज्ञानं न पुरुषगतमिति मते ज्ञानेनाज्ञाननिवृत्तिर्न सम्भवति । अन्योन्याश्रयादित्याह शुक्तेरिति । आवरणनिवृत्तौ प्रमा, प्रमयैव चाज्ञाननिवृत्तिरिति ।। ३१९,३२० ।।

Load More