न सहेत गुणश्लोकान्दोषश्लोकान्खलोऽर्जयेत्

उपसंहारः

युक्तिमल्लिका

न सहेत गुणश्लोकान्दोषश्लोकान्खलोऽर्जयेत् ।

त्यक्तानेकगुणोक्तीनां किं न वैगुण्यवाग्भरः ।। १०१५ ।।

सुरोत्तमटीका

 लौकिकनीतिविरुद्धतयाऽपि नैर्गुण्यवादमपहसति ।। नसहेतेति ।। खलः परगुणासहिष्णुर्दुर्जनः परेषां गुणप्रतिपादकश्लोकान्न सहेत । दोषप्रतिपादकश्लोकानार्जयेत् प्रयत्नेन संगृह्णाति । तत्कुत्र दृष्टमित्यत आह ।। त्यक्तेति ।। त्यक्ताः अनेकाः सार्वज्ञादिगुणोक्तयो यैस्तेषां मायावादिनां नैर्गुण्यवाग्भरः निर्गुणत्वरूपदोषप्रतिपादकवाक्ये आग्रहः ।। १०१५ ।।

सत्यप्रमोदटीका

 गुणासहिष्णोः दोषैकदृशः खलस्य स्वभावं मायावादे सङ्गमयति नेति । त्यक्ताः अतत्वावेदकत्वोक्त्या तिरस्कृताः अनेकाः सुबहवः गुणोक्तयः निरवकाशत्वादिना प्रबलाः सगुणश्रुतयो यैस्तेषां मायिनां वैगुण्यवाचि एकस्मिन् सावकाशत्वादिनाऽतिदुर्बले निर्गुण इति श्रुतौ भरः दुराग्रहः । तदुक्तमभियुक्तैः ‘तस्मिन्दुर्मनसि तदेव शोभनं स्यादि’ति ।।१०१५।।

युक्तिमल्लिका

निष्फलं जन्मिनां जन्म परलोकफलं न चेत् ।

यथा त्रिगुणशून्यत्वाद्गुणपूर्णोऽपि निर्गुणः ।। १०१६ ।।

सुरोत्तमटीका

 अधुना निर्गुणवाक्यस्य गुणत्रयनिषेधपरत्वं लोकनीत्यो-पपादयति ।। निष्फलमिति ।। जन्मिनां प्राणिनां यथाफलविशेषाभावमादाय निष्फलमिति सामान्यवचनं तथा गुणत्रयाख्यगुणनिषेधमभिप्रेत्य नैर्गुण्योक्तिरिति भावः ।। १०१६ ।।

सत्यप्रमोदटीका

 फलं द्विविधं ऐहिकं आमुष्मिकं चेति । तयोरन्यतरस्य परलोकफलस्याभावेऽपि तस्य जन्मिनः प्राणिनः जन्म निष्फलमिति लौकिका व्यवहरन्ति । तथा गुणा द्विविधाः आनन्दादयः सत्वादयश्चेति । तेषु दोषात्मकानामत एव गुणपूर्णत्वविरोधिनां सत्वादीनामभावेन भगवान् शुभगुणपूर्णोऽपि निर्गुण इति व्यवह्नियतां शास्त्रैः । तत्र फलसामान्यस्य यथा न निषेधस्तथाऽत्रापि गुणसामान्यस्य निषेधो माऽस्त्विति अत्रैव तात्पर्यम् । न त्वैहिकफलस्य शुभत्वोक्तौ परलोकफलस्य दोषत्वोक्तौ वेत्यवधेयम् ।।१०१६।।

युक्तिमल्लिका

ज्ञानादिगुणशून्यत्वं चेतनस्य न हि क्वचित् ।

अतो निर्गुणवाक्यार्थो न सर्वगुणशून्यता ।। १०१७ ।।

सुरोत्तमटीका

 इदानीं सर्वैरपि निर्गुणश्रुतेस्संकोच एवाश्रयणीय इति भावेनाह ।। ज्ञानादिगुणशून्यत्वमिति ।। चेतनस्येति हेतुगर्भविशेषणम् । अन्यथा चेतनत्वहानेरिति भावः । अतः ज्ञानादिगुणानामावश्यकत्वात् ।। १०१७ ।।

सत्यप्रमोदटीका

 चेतनशब्दार्थपर्यालोचनयैव निर्गुणशब्दः न गुण-सामान्यनिषेधपर इति सिध्यतीत्याह ज्ञानादीति । आदिपदेनेच्छादिग्रहः । न हीति । तदुक्तमनुव्याख्याने ‘कृत इच्छाऽचेतनस्य सेच्छं चेत्किमचेतनमि’ति । ज्ञानेच्छाप्रयत्नादिमत्त्वस्यैव चेतनत्वरूपत्वेन, चेतनं च ज्ञानेच्छाशून्यं चेति मे माता वन्ध्येतिवद्व्याहतमिति भावः । परमात्मा तु ‘चेतनश्चेतनामि’ति परमचेतनः । सर्वज्ञत्वसत्यसङ्कल्पत्वादिकं तत्स्वरूपान्तर्गतमेवेति न तन्निषेधः सम्भवतीत्याह अत इति । न हि प्रतियोगिविशेषसद्भावेऽपि सामान्यनिषेधः सम्भवतीति भावः ।। अतः सङ्कोचे आश्रयणीये प्रमाणानुसारेणास्मदुक्त एव सङ्कोचोऽवश्यमाश्रयणीय इति हृदयम् ।। १०१७ ।।

युक्तिमल्लिका

तस्माद्विष्णोर्गुणास्सर्वे नित्यास्सत्याश्च सर्वदा ।

अनन्ताश्श्रुतिसद्युक्तिसिद्धाश्चेत्यतिमङ्गलम् ।। १०१८ ।।

सुरोत्तमटीका

 गुणसौरभप्रमेयमुपसंहरति ।। तस्मादिति ।। तस्मात्सर्व-गुणपूर्णत्वस्य श्रुतियुक्तिरूपसाधकसद्भावाद्बाधकाभावाच्च सर्वदा नित्याः सत्याश्चेति सम्बन्धः । तेन बहुकालीनत्वरूपनित्यत्वं व्यावहारिकसत्यत्वं च व्यावर्त्यते इति उक्तं सर्वं प्रमेयं अतिमङ्गलं परममङ्गलम् ।। १०१८ ।।

सत्यप्रमोदटीका

 तस्मात् दुःसमयनिरासेन शब्दस्य, अपौरुषेयत्वेन शब्दविशेषस्य वेदस्य च प्रामाण्यस्य समर्थितत्वात्, प्रामाण्यस्य स्वतस्त्वेन आप्तोक्तत्वाभावेऽपि वेदप्रामाण्याप्रतिहतेः उपपादितत्वात्, कार्यतावाद-निराकरणेन सिद्धेऽपि व्युत्पत्तेः साधितत्वात्, निर्गुणश्रुतेः सावकाशत्ववर्णनेन निरपवादत्वनिरवकाशत्वादिना बलीयसीभिः सगुणश्रुतिभिर्विष्णोरनन्त-गुणपूर्णत्वसिद्धेः निरूपितत्वात्, अभेदेऽपि गुणगुणिभावादेर्विशेषशक्त्यैव निर्वाहप्रकारस्य वर्णितत्वात् इत्याद्यर्थो ध्येयः । सर्वदेत्यनेनोक्तस्यौपचारिकत्व-व्यावृत्तिः । चो यस्मादित्यर्थे । यस्माच्छ्रुतितन्मीमांसाशास्त्रसिद्धास्तस्मादिति पूर्वेणान्वयः । इति एतत्प्रमेयं, एतदुपपादकं वेदापौरुषेयत्वादिकं प्रमेयजातं च । अतिमङ्गलं विष्णोः परमप्रीतिसाधनत्वेन परमपुरुषार्थहेतुः ।। १०१८ ।।

युक्तिमल्लिका

वादिराजाख्ययतिना साधिता युक्तिमल्लिका

गुणसौरभसर्वस्वं मुदे विष्णोर्न्यवेदयत् ।। १०१९ ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजपूज्यचरणविरचितायां युक्तिमल्लिकायां गुणसौरभं सम्पूर्णम् ।। १ ।।

सुरोत्तमटीका

 इदानीं ग्रन्थकारस्स्वकृतयुक्तिमल्लिकाप्रथमपरिच्छेदस्य गुणोचितं नाम कुर्वन् भारतीकृपयाऽस्य ग्रन्थस्य कृतत्वाद्ग्रन्थाभिमानिन्या तयैव तं परिच्छेदार्थं हरावर्पयति ।। वादिराजेति ।। साधिता संपादिता । भारती-पक्षे स्ववाग्वैखरीप्रदत्वेन सम्पादिता युक्तिमल्लिका ग्रन्थः युक्तयो मल्लिका इव बुधजनमनोवासयंत्यो यस्यास्सेति ग्रन्थाभिमानिनी भारतीच गुणसौरभसर्वस्वं गुणप्रतिपादकश्रौतपदवासनाभरितत्वात् गुणसौरभाख्यस्वप्रमेयपरिच्छेदसंपदं विष्णोर्न्यवेदयत् अनया त्वं प्रीतो भवेति विष्णवे निवेदितवतीत्यर्थः । यथा हरिचरणसमर्पिता मल्लिका स्वसौरभं हरये समर्पयति तथेति रूपकान्तर्लीनोप-माच ध्वनितेति द्रष्टव्यम् ।। १०१९ ।।

इति श्रीमद्वादिराजतीर्थश्रीपादकृतयुक्तिमल्लिकाटीकायां सुरोत्तमतीर्थकृतायां भावविलासिन्यां णसौरभसर्वस्वव्याख्या संपूर्णा ।। १ ।।

सत्यप्रमोदटीका

 ‘वादी मध्वो यस्य राजा’ इति स्वयमेवान्यत्र प्रदर्शितरीत्या वादिराज इत्याख्या यौगिकं नाम यस्य तेन श्रीमध्वभटाग्रेसरेण साधिता सम्पादिता युक्तयो ब्रह्ममीमांसातद्भाष्यादिव्युत्पादिता मल्लिका इव सौगन्ध्यस्रावीणि मल्लिकाकुसुमानीव यस्यां कृतौ सा, यथोक्तं प्राक् ‘विदुषोऽ-विदुषोऽपीष्टा कं जनं रञ्चयेन्न गीः । भ्रमरैरमरैश्चार्थ्यं कुसुमं कोऽसुमां-स्त्यजेदि’ति पामराणां बुधानां विबुधानां च मनांसि रञ्जयन्ती । गुणानां भगवतः अनन्तानां कल्याणगुणानां सौरभं सौगन्ध्यं तत्प्रतिपादकप्रमाणवाक्यो-दाहरणात्मकस्याद्यपरिच्छेदस्य सर्वस्वं समस्तप्रमेयजातं विष्णोर्मुदे अधिकृत-देवताया हयग्रीवस्य प्रीत्यर्थं न्यवेदयत् समर्पयामास । यद्वा युक्तिमल्लिका एतद्ग्रन्थाभिमानिनी भारती । ‘अभिमान्यभिमन्यमानयोः ऐक्यव्यपदेशो महतश्चतुर्मुखादित्यादौ प्रसिद्ध’ इत्युक्तेः । साधिता मया प्रसन्नीकृता । साधनं च द्विविधं सिद्धं असिद्धं चेति । सिद्धं च साधनं भगवती भारती । सव्यापारीकरणीया । व्यापारश्च प्रसन्नतैव । गुणसौरभं षड्गुणैश्वर्यं च तत् सर्वं स्वं भगवत्स्वरूपभूतमेव । स्वं तत्सम्बन्धि च विशेषबलेन । तत्स्वरूपं तदीयमेव गुणजातं मयि कृपया सन्निहिता एतत्परिच्छेदे समुपवर्ण्य, सिन्धोर्जलं सिन्धावेवार्ध्यरूपेण यथा, तथा गुणसिन्धोर्गुणान् गुणसिन्धो-र्विष्णोर्मुदे परमप्रीत्यै । यथोक्तं ‘न तादृशी प्रीतिरीड््यस्य विष्णोर्गुणोत्कर्ष-ज्ञातरि यादृशी स्यादि’ति । न्यवेदयत् स्वप्राणनाथस्य मध्वस्य द्वारा समर्पितवती । यस्यैव वाण्याः प्राणनाथस्य मध्वस्य कृपया विष्णोः परम-प्रीतिकरोऽयं मया व्यरचि स एव मातरिश्वा एतत्सुकृतिसमर्पणेऽधिकारभाग् नैवाहमिति हृदयम् । यथोक्तं ‘तस्मिन्नपो मातरिश्वा दधाती’ति ।। १०१९ ।।

यत्कारुण्यबलादेषा विवृती रचिता मया ।

श्रीशे समर्पयत्वेनां सदभिज्ञगुरूत्तमः ।। ।। श्रीकृष्णार्पणमस्तु ।।