हनुमद्भीमसंज्ञौ द्वौ प्रसिद्धौ विष्णुकिङ्करौ


 

मध्वस्यवायोस्तृतीयावतारत्वेश्रुतयः

 युक्तिमल्लिका

हनुमद्भीमसंज्ञौ द्वौ प्रसिद्धौ विष्णुकिङ्करौ ।

अतस्तृतीयोऽपि कश्चिद्भवेद्भक्तधुरन्धरः ।। ६८४ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। हनुमदिति ।। प्रथमद्वितीयावतारयो-र्विष्णुकिंकरतया रामायणभारतादौ प्रसिद्धत्वात्तृतीयोऽप्यवतारो विष्णुभक्ति-धुरन्धरो भवेत् । अतः अतोऽपि तत्ववाद्युदितो मध्वाचार्य एवासाविति भावः

।। ६८४ ।।

सत्यप्रमोदटीका

 उक्तं प्रमेयं हृद्यस्निग्धाभिः युक्तिमालाभिरलङ्करोति हनुमदिति । भवेत् स्वभावस्यानपायात् ‘प्रवर्धतां भक्तिरलं क्षणे’ इति प्रार्थनाच्च ।। ६८४ ।।

युक्तिमल्लिका

पूर्वौ द्वौ हरिसेनायाः सेनान्यौ यन्मतौ सताम् ।

अतस्तृतीयोऽपि सोयं वैष्णवाग्रेसरो भवेत् ।। ६८५ ।।

सुरोत्तमटीका

 पूर्वं विष्णुकिंकरत्वबलात् तृतीयो मध्वाचार्य इत्युक्तम् । इदानीं वैष्णवसेनानायकत्वबलादपि स एव तृतीय इत्याह ।। पूर्वाविति ।। हरिसेनायाः कपिसेनायाः पाण्डवसेनायाश्च यद्यस्मात् ।। ६८५ ।।

सत्यप्रमोदटीका

 ‘युद्धमखे आध्वर्यवं चक्रे’ इति ‘अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः’ इति चोक्तेः सेनान्यौ इत्युक्तम् । अग्रेसरः सेना-प्रेरकः । ‘तदा तदाननाम्भोजाद्वृत्तोपन्यासभारती । सेना सेनाग्रहाद्दिव्याच्छि-बिरादिव निर्ययौ’ इत्युक्तेः ।। ६८५ ।।

युक्तिमल्लिका

त्रेतायां द्वापरे चैव तौ द्वौ वायुकुमारकौ ।

तत्तृतीयः कलौ च स्याद्युक्त्या वायुकुमारकः ।

यौक्तस्य यस्य सुजनप्रसिद्धिर्मध्वतां दिशेत् ।। ६८६ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। त्रेतायामिति ।। तौ हनुमद्भीमौ । तत्तस्मात् । कलौ च कलियुग एव । यौक्तस्य उक्तयुक्तिबलात् कलियुगे आगतस्य सुजनप्रसिद्धिः तत्ववादिजनप्रसिद्धिः । कलियुगस्थवाय्ववतारः तत्ववाद्याख्यशिष्यप्रसिद्ध्या मध्वाचार्य एव भवेदिति भावः ।। ६८६ ।।

सत्यप्रमोदटीका

 वायोर्युगत्रयेऽवतारा इति प्रमितम् । अतः कलौ मध्व एव सः अन्यस्यानाशङ्कितत्वादसम्भवाच्चेत्याह तदिति

।। ६८६ ।।

युक्तिमल्लिका

बलकार्येषु यो विष्णोः साचिव्यमकरोन्मरुत् ।

हनूमदादिरूपेण ज्ञानकार्येऽपि स प्रभोः ।

व्यासरूपस्य सचिवीभावमर्हति नापरः ।। ६८७ ।।

सुरोत्तमटीका

 युक्त्यन्तरेणापि तृतीयो वाय्ववतारो मध्व एव भवे-दित्याह ।। बलेति ।। सः मरुत् ।। ६८७ ।।

सत्यप्रमोदटीका

 ‘रामकृष्णादिरूपेषु बलकार्यो जनार्दनः । दत्तव्यासादिरूपेषु ज्ञानकार्यः’ इति प्रथितिः । अतः कलौ व्यासस्य ज्ञानकार्ये प्रधानाङ्गं दुर्भाष्यसन्तमससन्ततिनिरासकस्य सूत्रभाष्यस्य प्रणयनेन साचिव्य-धुरन्धरः एष एव संसिध्यतीत्याह नापर इति ।। ६८७, ६८८ ।।

युक्तिमल्लिका

बलकार्ये सहायौ तौ प्रभोर्दानवमर्दनौ ।

ज्ञानकार्ये सूत्रकृतो भाष्यकृद्धि सहायकृत् ।

अतोऽपि मध्वनामा यस्तृतीयो वायुनन्दनः ।। ६८८ ।।

सुरोत्तमटीका

 प्रभोर्बलकार्ये सहायौ तौ हनुमद्भीमौ दानवमर्दनौ प्रभुर्यथा रावणशिशुपालादिदानवमर्दनः तद्वत्स्वयमपि प्रभुकार्यधुरन्धरत्वात् अक्षकुमारजरासन्धादिदानवमर्दनौ । एवं ज्ञानकार्ये सूत्रकृतो व्यासस्य सकलदुर्भाष्याणामन्ते सिद्धान्तीभूतश्रीमद्भाष्यकारो मध्व एव प्रभोः कार्ये एव धुरन्धरत्वात् तृतीयो वाय्ववतारो न्याय्य इति भावः

।।६८८ ।।

युक्तिमल्लिका

किञ्चाश्रमचतुष्कस्य धर्ममाचरतो गुरोः ।

प्रथमं तु वपुर्वर्णिवनिनोर्धर्ममाचरत् ।

द्वितीयं गृहिणो धर्ममाचरद्भीमसंज्ञितम् ।। ६८९ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। किं चेति ।। आश्रमचतुष्कस्य ब्रह्मचारिगृहस्थवानप्रस्थयत्याख्याश्रमचतुष्कस्य । गुरोः मुख्यप्राणस्य । आश्रमचतुष्टयधर्ममाचरिष्यामीत्यवतीर्णस्य मुख्यप्राणस्येति भावः । प्रथमं वपुः हनुमदाख्यं वपुः । वर्णिवनिनोः ब्रह्मचारिवानप्रस्थयोः । जितेन्द्रियतया गायत्रीमन्त्रजपात् ब्रह्मचारी । कन्दमूलफलाद्याहारं कृत्वा वन एव निवसनात् वानप्रस्थः । एवं चाश्रमचतुष्टयधर्माचरणायावतारचतुष्टयाभावात् प्रथमावतार एव स्वसंकल्पपरिपूरणाय आश्रमद्वयधर्ममाचरितवानिति भावः ।। ६८९ ।।

सत्यप्रमोदटीका

 वर्णिवनिनोः धर्मं ‘ख्यातस्तेऽग्य्रोवतारः सहित इह बहु ब्रह्मचर्यादिधर्मैः’ इत्युक्तेः । गृहिणो धर्मं वनेऽपि मुनीनामातिथ्यं सूदवेष-धारणेन परपाकवर्जनं अपात्रेषु दुर्योधनादिषु श्राद्धार्थमपि द्रव्यस्याप्रतिपादनं, ब्राह्मणे पात्रे रात्रावपि अप्रत्याख्यानेन तत्प्रतिपादनं इत्येवमादिकम् ।।६८९।।

युक्तिमल्लिका

तृतीयञ्च वपुर्युक्त्या यत्याश्रमधुरन्धरम् ।

भवेदवश्यं तद्वायोर्माध्वी तनुरभूद्बलात् ।। ६९० ।।

सुरोत्तमटीका

 युक्त्या आश्रमत्वयुक्त्या । तत् वपुः । बलात् युक्ति-बलात् ।। ६९० ।।

सत्यप्रमोदटीका

 यत्याश्रमधुरंधरं ‘पारिव्राज्याधिराजः’ ‘वराश्रमाचार- विशेषशिक्षणं विधित्सुरस्याचरितं निशामयन् । विशेषशिक्षां स्वयमाप्य धीरधीः यतीश्वरो विस्मयमायतान्तरं’ इत्युक्तेः ।। ६९० ।।

युक्तिमल्लिका

देवो वा दानवो वा स्याद्भाष्यकारो न मानवः ।

तत्र विष्णौ रता देवा दैत्या ब्रह्मशिवादिषु ।

अतोऽपि वैष्णवं भाष्यं देवमूलं न संशयः ।। ६९१ ।।

सुरोत्तमटीका

 पुनरपि मध्वस्य वाय्ववतारत्वे इतरभाष्यकाराणां दानवरूपत्वे च युक्तिमाह ।। देवो वेति ।। मनुष्यमात्रस्य सुयुक्त्या वादयुक्त्या सकलशास्त्रनिर्णायकसूत्रे प्रवृत्त्ययोगात् । दानवानां तु देववत्सहजशक्त्य-भावेऽपि शिवादिविषयककुत्सिततीव्रतपादिना आहितशक्तिसम्भवेन प्रवृत्त्युप-पत्तेः । मानवानां तु उभयविधशक्त्योरभावान्न प्रवृत्तिरिति भावः । को वा भाष्यकारो दानव इत्यतो विवेकमाह ।। तत्रेति ।। आदिपदेन निर्गुणापरपर्यायं शून्यं गृह्यते । विष्णावेव निष्ठावन्तो देवाः, ततोऽन्यत्र निष्ठावन्तो दैत्या इति तावत्सिद्धम् । एवं च वैष्णवभाष्यकारी देवः अवैष्णवभाष्यकारी दानव इति कथं न सिद्ध्येदिति भावः ।। ६९१ ।।

सत्यप्रमोदटीका

 देवः नैसर्गिकभगवदनुग्रहबलात् भगवदाज्ञया च । ‘आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ कृष्णस्याक्लिष्टकर्मा दधदि’त्याद्युक्तेः । दानवो वा तामसतपसा लब्धरुद्रादिवरावेशासादिताऽऽ-हार्यशक्त्या । ‘वाग्मी बुभूषुः परितोषितेशः’ इत्युक्तेः । वैष्णवं विष्णूत्कर्ष-तात्पर्यकम् । देवमूलं देवोत्तमवायुरचितम् ।। ६९१ ।।

युक्तिमल्लिका

अयादवीं क्ष्मां करिष्य इत्येकः प्रतिशुश्रुवे ।

अन्यस्तु कृष्णं जग्रास योऽग्रसीत्सकलं जगत् ।। ६९२ ।।

सुरोत्तमटीका

 किञ्च मायावादिनो निर्गुणब्रह्मण एव सत्यतां वदन्तः कृष्णस्य तदधीनजीवादेश्च विशिष्टपदार्थस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वं वर्णयन्ति । इयं च प्रक्रिया कृष्णावतारे दैत्यकृतोद्यमपर्यालोचनया दैत्यमूलैव भवितुमर्हतीत्याह ।। अयादवीमिति ।। अयादवीं कृष्णसहितसकलयादव-रहिताम् । एकः साल्वः । अन्यः बकः जग्रास जिघांसया भक्षितवान् । यः कृष्णः अग्रसीत् स्वोदरे निक्षिप्य रक्षितवान् । तस्माज्जगदुदरं कृष्णं हन्तुकामो बकः कृष्णेन सह सकलजगदभावकरणे कृतोद्यम इति भावः । एवं च साल्वः कृष्णाभावम् उपलक्षणया सर्वजीवाभावं च कामयमानः बकस्तु कृष्णाभावं सकलजगदभावं च कामयमान इति भागवतप्रसिद्ध्या सिद्धम् ।। ६९२ ।।

सत्यप्रमोदटीका

 ‘असत्यमप्रतिष्ठं ये जगदाहुरनीश्वरं’ इति गीतायां जगतः ईश्वरस्य च स्वरूपापलापपरा असुरा इति निरणायि । ईदृश उद्यमः कृष्णाद्यवतारेषु दैत्येष्वेव दरीदृश्यते इत्याह एक इति । साल्वासुरः । अन्यः बकः । जगदुदरकृष्णग्राससाहसः जगत्स्वरूपनाशोद्देश्यक एव ।। ६९२ ।।

युक्तिमल्लिका

स वादी मूलदैत्योवा तदावेशयुतोऽपि वा ।

अपरः कोऽपि दैत्यः स्यान्न चेदीदृङ्मतिः कुतः ।। ६९३ ।।

सुरोत्तमटीका

 स वादी कृष्णजीवजडात्मकजगतो मिथ्यात्ववादी । मूलदैत्यः पूर्वोक्तसाल्वः कोऽपि बकादिष्वेकः । न चेत् दैत्यो न चेत् । ईदृङ्-मतिः कृष्णादिसकलजगतो मिथ्यात्वमतिः ।। ६९३ ।।

सत्यप्रमोदटीका

 स वादी तत्समानदुराशया सूत्रभाष्यकारी । मूलदैत्यः कलिः । तदावेशयुतः मणिमान् । ‘आदेष्टव्योऽमुना राज्ञा कलिना कार्यसिद्धये’ इत्युक्तेः ।। ६९३ ।।

युक्तिमल्लिका

सूचिमात्रप्रदेशञ्च यः स्वतोऽन्यस्य नादिशत् ।

स भीमगदया शाम्येन्नाभीमस्य पराक्रमैः ।

मध्वस्य भीमरूपत्वे तद्यौक्तमिति मे मतिः ।। ६९४ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि भीमस्यैव मध्वरूपत्वमुपपादयति ।। सूचिमात्रेति ।। स्वतोऽन्यस्य सूचिमात्रप्रदेशं च न दिशतीत्यनेन मम चेत् जगदसद्विलक्षणं स्वविषये राज्यदेशादेरसत्वानङ्गीकारात् । अन्यस्य चेत् सद्विलक्षणम् । अन्यविषये राज्यदेशादिकं नास्तीत्यङ्गीकारात् । एवं चात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्ववादस्य पूर्वोक्तौ दैत्यौ गुरू । सदसद्वैलक्षण्यरूपमिथ्यात्ववादस्य च दुर्योधनो गुरुरित्युक्तं भवति । अथवा अहमेव राज्येश्वरो न त्वन्य इति वदन् दुर्योधनः ईश्वराभेदवादस्य गुरुः । तथा च कलिरूपमूलदैत्यरूपत्वादयं मतद्वयस्यापि गुरुरित्युक्तं भवति । सः दुर्योधनो वा तदावेशवशादीदृङ्मतं कुर्वन्मणिमान्वा भीमगदया तद्गदासदृशवाग्रूपगदया वा । अत एव नाभीमस्य पराक्रमैरित्युक्तम् । तत्तस्मात् ।। ६९४ ।।

सत्यप्रमोदटीका

 स कलिः दुर्योधनः । पाण्डवानां विषये इदं राज्यं सद्विलक्षणं मम विषये असद्विलक्षणं इति दुःसाधनपरः अर्थात् जगतः सदस-द्विलक्षणरूपानिर्वचनीयत्वप्रजल्पनपरः । भीमगदया तथा तदवतारमध्व-प्रणीतभाष्यरूपग्रन्थेन।। ६९४ ।।

युक्तिमल्लिका

किञ्च श्रुतौ मतिपदं हनुमद्वाचकं भवेत् ।

यतो गत्यर्थको धातुर्ज्ञानार्थ इति शाब्दिकाः ।

तज्ज्ञानशीलं तद्वन्तं निर्वक्ति हनुमत्पदम् ।। ६९५ ।।

सुरोत्तमटीका

 श्रौतपदमहिम्नापि वाक्यत्रये हनूमदाद्यवतारत्रयस्यैव प्राप्तिरित्याह ।। किञ्चेति ।। धातुः हन हिंसागत्योरिति धातुः । तत्तस्मात् हनुशब्दस्य ज्ञानवाचकत्वात् । ज्ञानशीलमित्यनेन हनूशब्दादुपरि ताच्छीलि-कार्थ उन् प्रत्यय इति सूचयति । तद्वन्तमित्यनेन हनुमत्पदे विद्यमानमतु-प्प्रत्ययार्थं दर्शयति । ततश्च ज्ञानशीलवान् हनुमानित्युक्तं भवति । क्वचिद्धनू-मानिति प्रयोगस्तु निरुक्तत्वात्पुनरपि उकाराख्यवर्णागममादायेति द्रष्टव्यम् । हन्वाख्याङ्ग विशेषवत्त्वस्य मर्कटान्तरेऽपि सत्त्वेन रामव्यासयोर्मुख्यशिष्ये मूलरामायणप्रवर्तकाचार्ये वैयाकरणगुरौ हनुमति श्रौतमतिपदसमाख्यया अस्मदुक्तव्युत्पत्तेरेव श्लाघ्यत्वादिति भावः ।। ६९५ ।।

सत्यप्रमोदटीका

 बत्थिासूक्तगतावतारप्रतिपादकनाममहिम्नैवोक्तार्थ-सिद्धिमाह किञ्चेत्यादिभिः । धातुः हनहिंसागत्योरिति धातुः । उन् प्रत्ययस्यार्थः शीलमिति ।। ६९५ ।।

युक्तिमल्लिका

मतिरूपं मतीत्याहुर्मतिमन्तं यतो बुधाः ।

अतः स्वाभाविकी यस्य मतिः स मतिरुच्यते ।

एवञ्च हनुमानेव मतिशब्दोदितो न किम् ।। ६९६ ।।

सुरोत्तमटीका

 तर्हि श्रुतावपि हनुमत्पदसमानार्थकतया मतिमानित्येव वक्तव्यं मतिरिति पदं किमर्थमित्यतस्तथोक्तावपि स एवार्थो लभ्यत इत्यत्र लौकिकप्रयोगं दर्शयति ।। मतिरूपमिति ।। ६९६ ।।

सत्यप्रमोदटीका

 मतिमान् मतिः एक एव मतेः स्वरूपत्वात् इत्याह मतीति । भगवान् भग इति विष्णुरेक एव यथा तद्वदिति भावः ।। ६९६ ।।

युक्तिमल्लिका

द्वितीयञ्च वपुः सा वाक्पितुमानिति शंसति ।

पितुरित्यन्ननामेति ब्राह्मणं पितुमांस्ततः ।

बह्वन्नवानभूद्भीमो बाहुल्यार्थमतुब्बलात् ।। ६९७ ।।

सुरोत्तमटीका

 सा वाक् पृक्षो वपुरिति श्रुतिः । पितुरित्यन्ननामेति ब्राह्मणवचनबलात् पितुरन्नमस्यास्तीति व्युत्पत्त्या बह्वन्नवान् भीम एव पितुमानित्युच्यते । बहुधने धनवानिति प्रयोगदर्शनेन बाहुल्यस्यापि मतुबर्थ-त्वादिति भावः ।। ६९७ ।।

सत्यप्रमोदटीका

 बाहुल्येति ‘भूमनिन्दा प्रशंसासु भवन्ति मतुबादयः’ इत्युक्तेः । अन्नं च उपजीव्यः कृष्णः एव । तस्य प्रेयसां प्रेष्ठ इति यावत् । ‘अङ्गुष्ठमात्रं जठरे प्रतिष्ठितं जाज्वल्यमानं मम जातवेदसं’ इत्याद्युक्तरीत्या बह्वन्नभोक्तृत्वमित्यप्यर्थः ।। ६९७ ।।

युक्तिमल्लिका

तृतीयं तु वपुः प्राह दशप्रमतिनामि सा ।

तच्च पूर्णप्रज्ञनाम समानार्थं प्रतीयते ।। ६९८ ।।

सुरोत्तमटीका

 दशप्रमतिरिति नाम अस्य वर्तत इति दशप्रमतिनामि । सा तृतीयमस्येति श्रुतिः । तत् नाम बहुत्वार्थदशत्वोक्तेरित्यनेन दशदशत-स्तच्छतं शतशतानि तत्सहस्राणि तत्सर्वमिति श्रुतिं सूचयति । युक्त्यापि दशदशकस्य शतत्वात् दशशतकस्य सहस्रत्वात् एवमनन्तानामपि दश-सङ्ख्ययैव गुणनात् दशप्रमतिपदं पूर्णत्वार्थकमिति मन्यते ।। ६९८ ।।

सत्यप्रमोदटीका

 सा श्रुतिः । नामीति नामवदित्यर्थः । अनेन ‘गुणानुरूपोन्नतिपूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः । उदाहरद्भूरियशा हि केवलं न मन्त्रवर्णः स च मन्वर्णकः’ इत्युक्तं प्रमापितं ध्येयम् ।।६९८।।

युक्तिमल्लिका

बहुत्वार्थदशत्वोक्तेः पूर्णत्वार्थेऽपि वर्तनात् ।

अतः पूर्णप्रज्ञ एव दशप्रमतिनामवान् ।। ६९९ ।।

सुरोत्तमटीका

 अतः दशपदस्य पूर्णपदपर्यायत्वात् ।। ६९९ ।।

युक्तिमल्लिका

अप्यक्षरस्य साम्येन निर्ब्रूयादिति वैदिकाः ।

सर्वसाम्ये तु शब्दौ द्वौ कथं नैकार्थवाचकौ ।। ७०० ।।

सुरोत्तमटीका

 द्वौ दशप्रमतिपूर्णप्रमतिशब्दौ । उक्तं च पञ्चरात्रे संहितायाम् । ‘दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञाप्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृत’ इति ।। ७०० ।।

सत्यप्रमोदटीका

 सर्वसाम्ये ‘दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः’ इति पञ्चरात्रसंहिताप्रकारेण ।।७००।।

युक्तिमल्लिका

दशप्रमतिनामाऽन्यो यतो नास्ति जगत्त्रये ।

अर्थालाभेन शब्दोऽसौ पूर्णप्रज्ञं बलाद्भजेत् ।। ७०१ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। दशप्रमतीति ।। अर्थालाभेन अस्म-दाचार्यार्थकत्वाभावे अर्थस्यैवालाभेन असौ शब्दः दशप्रमतिशब्दः । बलात् शब्दस्यार्थसाहित्यावश्यम्भावबलात् । यदाह कालिदासोऽपि वागर्थाविव संपृक्ताविति ।। ७०१ ।।

सत्यप्रमोदटीका

 बलात् अर्थालाभे स्वस्य पदत्वव्याघातपरिजिहीर्षया ।। ७०१ ।।