इदं रूप्यं रूप्यताऽत्रेत्येवं वा भ्रमविग्रहः

अज्ञानारोपासंभवः

युक्तिमल्लिका

इदं रूप्यं रूप्यताऽत्रेत्येवं वा भ्रमविग्रहः ।

अन्योन्यधर्मानध्यस्य चान्योन्यात्मकतां तथा ।। ४८ ।।

इति भाष्यकृतो भाषा तेन भ्रान्तिर्द्विरूपिणी ।

तादात्म्यारोपरूपा वा धर्मारोपात्मिकाऽपि वा ।। ४९ ।।

सुरोत्तमटीका

 भगवति परोक्ताज्ञानाख्यं दोषं विना कर्तुं तदारोप एव न सम्भवतीत्याह ।। इदं रूप्यमिति ।। भ्रमस्य विग्रहः स्वरूपं इदं रूप्यमिति तादात्म्यारोपरूपं वा रूप्यताऽत्रेति संसर्गारोपरूपं वा । तृतीयः प्रकारो नास्ति । तस्मिन्नर्थे परभाष्यसंमतिमाह ।। अन्योन्यधर्मानिति ।। अन्योन्यस्मिन्न-न्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति वाक्यं संगृहीतम् । भाषा वाक्यम् । तेन कारणेन । तद्द्विरूपत्वमेव दर्शयति ।। तादात्म्येति ।। ४८,४९ ।।

सत्यप्रमोदटीका

 श्रीविष्णोः पराभिमतं मायाशबलत्वं निराकृत्य परब्रह्मत्वं सौरभशेषेण समर्थयिष्यन् मायिमतेऽज्ञानासम्भवं तावदुपपादयति इदमित्यादिना । मायावादिना स्वाभिलषिताज्ञानसिद्धौ ‘अहमज्ञ’ इति प्रत्यक्षमुदाहृतम् । प्रत्यक्षं चारोपरूपमेवेति तन्मतम् । तत्र विकल्पः किमयं अज्ञानस्यैवारोपः उत प्राक् सिद्धस्याज्ञानस्य सम्बन्धमात्रारोपः । तत्राद्यं निराकर्तुं भ्रमस्वरूपं द्विविधमेवेत्येतत्परसंमत्यैव निर्धारयति द्वाभ्यां इदमिति । ‘इदं रूप्यं’ इति तादात्म्यारोपः । अत्र रूप्यत्वं इति संसर्गारोपः । द्विरूपि-णीति । तृतीयः प्रकारो नास्ति इति भावः ।। ४८,४९ ।।

युक्तिमल्लिका

नाज्ञानमहमित्यस्ति नाज्ञानत्वं मयीत्यपि ।

भ्रमो ब्रह्मणि तेन स्यात्कथमज्ञानकल्पना ।। ५० ।।

सुरोत्तमटीका

 अस्तु भ्रान्तेर्द्विरूपत्वं तथाऽपि प्रकृते किमित्यत आह ।। नाज्ञानमिति ।। ब्रह्मणि अज्ञानमहमिति भ्रमः अज्ञानतादात्म्यभ्रमः मयि अज्ञानत्वमिति संसर्गारोपभ्रमश्च यस्मान्नास्ति तद्रीत्यैव नास्ति तेन सर्वसंमतभ्रमाकारभ्रमाभावेन अज्ञानकल्पना अज्ञानारोपः कथं स्यादिति सम्बन्धः ।। ५० ।।

सत्यप्रमोदटीका

 यावद्विशेषाभावादारोपसामान्याभाव इत्याह नेति ।। ५० ।।

युक्तिमल्लिका

अज्ञोऽहमिति तु ज्ञानं सिद्धाज्ञानस्य वेदनम् ।

उक्ताकारद्वयायोगात्सिद्धिश्च भ्रमरूपिणी ।। ५१ ।।

नास्त्येवेति कुतोऽज्ञानं कल्पितं स्यादियं तु धीः ।

नाज्ञानकल्पनारूपा ततोऽज्ञानमकल्पितम् ।। ५२ ।।

सुरोत्तमटीका

 नन्वहमज्ञ इत्येवाज्ञानारोपोऽस्त्वित्यत आह ।। अज्ञोऽहमिति ।। अहमज्ञ इत्यर्थः । इति ज्ञानं त्विति सम्बन्धः । सिद्धा-ज्ञानस्य वेदनं प्रतीत्यन्तरसिद्धस्वरूपस्याऽऽत्मनि संसर्गमात्रवेदनम् । सिद्धिः प्राथमिकी सिद्धिः नास्त्येवेति कृत्वाऽज्ञानं कुतः कल्पितं स्यादिति सम्बन्धः । इयं तु धीः अज्ञोऽहमिति धीः । अज्ञानकल्पनारूपा । अज्ञान तादात्म्यस्य वा अज्ञानत्वाख्यतद्धर्मस्य वात्रारोपादर्शनादिति भावः । ततः अस्यारोप-रूपत्वाभावात् । आरोपान्तरस्य चोक्तरीत्याऽदर्शनादित्यर्थः ।। ५१,५२ ।।

सत्यप्रमोदटीका

 उक्तरीत्या प्रतिभासानुपपत्तावपि अज्ञानसिद्धिः किं न स्यादित्यतस्तस्य प्रातिभासिकत्वोपगमान्नैवमित्याह सिद्धिश्चेति । नास्त्ये-वेत्यनेनान्वयः । इयं अज्ञोऽहमिति पूर्वोक्ता । नेति । किं तु प्राक्सिद्धाज्ञानस्य वेदनमिति भावः । ततः अन्यतराऽऽकारोपेतत्वरूपव्यापकाभावात् ।। ५१, ५२ ।।