एवं चार्वाकमर्यादा सर्वाप्यार्यैर्विगर्हिता
जैनमतनिराकृतिः
युक्तिमल्लिका
एवं चार्वाकमर्यादा सर्वाप्यार्यैर्विगर्हिता ।
जिनबुद्धागमाद्यध्वशोधनायाधुना यते ।। २३२ ।।
सुरोत्तमटीका
वृत्तानुवादपूर्वकं वर्तिष्यमाणं कीर्तयते ।। एवमित्यादिना ।। २३२ ।।
सत्यप्रमोदटीका
एवं धर्माद्यतीन्द्रियमनङ्गीकुर्वाणो नास्तिको निराकृतः। धर्मादिकमङ्गीकृत्यापि ईश्वरमनभ्युपगन्तॄन्निराकर्तुं प्रतिजानीते । जिनबुद्धेति ।। २३२ ।।
युक्तिमल्लिका
यदीदं न तदा तन्नेत्याज्ञा राज्ञः परं भवेत् ।
समानं नोभयोर्मानमनुमा ननु मा क्व मा ।। २३३ ।।
सुरोत्तमटीका
यदि क्रतुबाह्यहिंसादिकं न तदा क्रत्वन्तर्वर्तिनी हिंसाऽपि नेति बौद्धाद्यैरुच्यते । तदनूद्य दूषयति ।। यदीति ।। इदं क्रतुबाह्य-हननं यदि न तदा तत् याज्ञीयपशुहननं नेत्याज्ञा । ननु नेयं राजाज्ञा किंतु प्रमाणबलादेवोच्यत इत्यत आह ।। समानमिति ।। उभयोर्वादिप्रतिवादिनोः समानं मानं धर्माधर्मबोधकं न । प्रत्यक्षस्य धर्मादावनुपयोगात् आगमस्य च त्वदीयस्य मयाऽनङ्गीकारात् मदीयस्य त्वयानङ्गीकारादिति भावः । ननु वैधहिंसा अधर्मसाधनं हिंसात्वात् विप्रहिंसावदित्यनुमानं प्रमाणमित्यत आह ।। अनुमेति ।। व्याप्तिधर्मिलिङ्गग्राहकप्रमाणं प्रत्यक्षमागमं वा अनुसृत्य प्रमाणं नतु अनुमा । अनेनैव मूलीभूतप्रत्यक्षागमयोरुक्तविधया अभावात् पाप-साधनानुमैव न सम्भवतीति सूचितम् । ननु केवलानुमयैव धर्मादिसाधनं क्रियते । किं मूलीभूतप्रमाणेनेत्यौद्धत्याद्वदन्तं प्रत्याह ।। मा क्व मेति ।। अनुमेत्यावर्तनीयम् । अनुमा क्व कुत्र मा प्रमाणं मा न भवति । अमानोनाः प्रतिषेध इति वचनादत्र माशब्दो नञर्थकः । सर्वत्रापि प्रयोक्तुं शक्येति भावः ।। २३३ ।।
सत्यप्रमोदटीका
धर्मादिकं अपौरुषेयवाक्यैकप्रमाणकं इति प्राक् प्रतिज्ञातम् । तत्र तदितराप्रमाणकत्वे सति सप्रमाणकत्वादिति हेतौ विशेषणासिद्धिपरिहाराय अतीन्द्रियार्थविषये प्रत्यक्षाप्रमाणकत्वं सिद्धवत्कृत्य लिङ्गाप्रमाणकत्वं सिषाधयिषुस्तदभिमतं लिङ्गं उपलक्षणतयाऽनूद्य व्याप्त्यभावेन दूषयति । यदीदमिति । वैधी हिंसा पापसाधनं हिंसात्वात् विप्रहिंसावत् इति खलु तव अनुमानम् । तत्र व्याप्तिनिश्चयः त्वद्वाङ्मात्रेण वा, साहचर्यदर्शन-मात्रेण वा, अथ प्रत्यक्षेण, उत प्राचां वाग्भिः, निर्मूलयुक्त्या वा इति विकल्प्य नाद्य इत्याह राजाज्ञेति । द्वितीयं दूषयति अनुमेति । साहचर्य-दर्शनमात्रेण प्रवृत्तेति शेषः । क्व, मा प्रमाणं, मा न इति योजना । द्वितीयो माशब्दो निषेधार्थकः । तदुक्तं ‘सर्वत्र शक्यते कर्तुं आगमं हि विनाऽनुमा’ इति ।। २३३ ।।
युक्तिमल्लिका
न चेत्सुरावत्क्षीरं च किमपेयं न ते मते ।
द्रवद्रव्यत्वतो हेतोस्ततो मूलानुगैव सा ।। २३४ ।।
सुरोत्तमटीका
तदेव विशदयति ।। नचेदिति ।। क्षीरमपेयं द्रव-द्रव्यत्वात्सुरावदित्यनुमाने न ते मते क्षीरमपेयं किं किमर्थं नेति योजना । ततः उक्तविधया शुष्कानुमानस्यातिप्रसञ्जकत्वादित्यर्थः । मूलानुगैव मूल-प्रमाणानुसारिण्येव साऽनुमा प्रवर्तत इत्यर्थः।। २३४ ।।
सत्यप्रमोदटीका
तदेवोदाहरणप्रदर्शनेनानुभावयति न चेदिति । मूलानुगेति । तदुक्तं पद्धतौ ‘अन्ततः प्रत्यक्षागममूलत्वात्’ इति ।। २३४ ।।
युक्तिमल्लिका
मूलं नातीन्द्रियेऽध्यक्षं स्वस्ववाक्कस्य कस्य न ।। २३५ ।।
सुरोत्तमटीका
ननु प्रत्यक्षं मूलप्रमाणं भविष्यतीत्यत आह ।। मूल-मिति ।। अतीन्द्रिये क्रतुहिंसादेः पापसाधनत्वादौ । ननु स्वस्वाचार्यवचांसि मूलानि स्युरित्यत आह ।। स्वस्ववागिति ।। स्वस्वाचार्यवाक् कस्य कस्य वादिनो न सर्वस्याप्यस्तीत्यर्थः । अतस्तन्मात्रेण धर्मनिर्णये परस्पर-विरुद्धसर्ववादिभिरुक्तः सर्वोऽपि धर्मस्स्यादिति भावः ।। २३५ ।।
सत्यप्रमोदटीका
तच्च मूलं अत्र प्रत्यक्षं न सम्भवतीत्याह अतीन्द्रि-येति । आगमोऽपि न त्वद्वाक्यं अतिप्रसङ्गादित्याह स्वस्वेति ।। २३५ ।।
युक्तिमल्लिका
प्राचां वाचस्तु शोचन्ते देहः कारागृहं किल ।
अतो युक्त्यापि नार्थस्ते यत्सा हिंसां प्रशंसति ।। २३६ ।।
सुरोत्तमटीका
तर्हि पूर्वेषां व्यासवाल्मीकिप्रभृतीनां वाचः प्रमाणानि स्युरित्यतस्सत्यमिदं न त्वया तानि धर्ममूलत्वेनाङ्गीक्रियन्त इत्याह ।। प्राचामिति ।। वाचस्तु वाचः भारतरामायणाद्याः शोचन्ते । तासां त्वया प्रामाण्यानङ्गीकारादिति भावः । ननु युक्त्या धर्माधर्मनिर्णयः क्रियत इत्यतः सा तवैव विरुद्धेत्याह ।। देह इति ।। देहः बहुतरदुःखहेतुत्वेन कारागृहं कारागृहप्रायम् । किलेत्यनेन चार्वाकव्यतिरिक्तसर्ववादिनां अस्मिन्नर्थे संमतिं सूचयति । अतो देहस्य कारागृहोपमत्वेन हेयत्वात् युक्त्या हिंसाया अकर्तव्यत्वोपपादकयुक्त्याऽपि ते अर्थो न । यद्यस्मात् सा युक्तिः हिंसां प्रशंसति । कारागृहद्वारोद्घाटनेन तदन्तस्थपुरुषबहिष्करणस्य पुण्यहेतुत्ववत् बन्धकीभूतदेहान्तस्थितजीवस्य शिरश्छेदेन देहाद्बहिष्करणरूपहिंसां पुण्यहेतुतया स्तौति । त्वदभिमताहिंसां तु कारागृहान्तरवस्थितिहेतुप्रयत्नवत् बन्धकीभूत-देहगुहायामेव स्थितिहेतुभूतां पापहेतुत्वेन निन्दति च । तस्माद्युक्त्याऽपि नार्थः । प्रत्युतानर्थ एवेति पूर्वेणान्वयः ।। २३६ ।।
सत्यप्रमोदटीका
नापि भारतादिपूर्वजवाक्यम् । विरोधेन तत्प्रामाण्यस्य त्वयैवाङ्गीकर्तुमशक्यत्वात् इत्याह शोचन्त इति । इवेति शेषः । ‘बिभेत्यल्प-श्रुताद्वेदः’ इत्यत्रेवात्रापि तात्पर्यं विभावनीयम् । अयं दुराग्रही श्रुतिसिद्धं अस्मत्प्रामाण्यमपलपतीति हेतोरिति भावः ।। नापि निर्मूलयुक्त्येति पञ्चमः कल्प इत्याह युक्त्येति । ‘देहबन्धाद्बहिः कुर्याज्जीवान् कारागृहादिव’ इति प्रागुक्तमनुसन्धेयम् । हिंसा पुण्यसाधनं बन्धविमोचनरूपत्वात् संमतवदित्यपि प्रयोगसम्भवेनातिप्रसङ्गात् । तथा च त्वदनुमाने दृष्टान्तः साध्यविकलः । हिंसा पुण्यसाधनं हिंसात्वादिति प्रकरणसमश्च ।। २३६ ।।
युक्तिमल्लिका
तन्मानिनोऽप्यमानस्य कथंकारं मिथः कथा ।। २३७ ।।
सुरोत्तमटीका
यदीत्यादिनोक्तमुपसंहरति ।। तदिति ।। मानिनोऽपि प्रतिवादिभिः कथां करोमीत्यभिमानिनोऽपि अमानस्य उक्तविधया स्वाभि-मतार्थे प्रमाणशून्यस्य मिथः परस्परं कथा जल्पादिः कथंकारं स्यात् किं कृत्वा स्यात् । न कथमपीति भावः ।। २३७ ।।
सत्यप्रमोदटीका
उभयसम्प्रतिपन्नप्रमाणाभावात् तव मिथः कथाया-मधिकार एव नेत्याह अमानस्य इति ।। २३७ ।।
युक्तिमल्लिका
किं च युक्त्येकभक्तश्चेत्कथं मांसं निषेधसि ।। २३८ ।।
सुरोत्तमटीका
केवलयुक्तिसिद्धार्थाङ्गीकारे बाधकान्तराणि चाह ।। किं चेत्यादिना ।। २३८ ।।
सत्यप्रमोदटीका
व्याप्तिविकलतर्कैः प्रत्यवस्थानेऽतिप्रसङ्गान्तराण्याह किञ्चेत्यादिना ।। २३८ ।।
युक्तिमल्लिका
भूतेभ्योऽन्यन्न वै मांसे नान्यदन्नेऽपि दृश्यते ।
एकं त्याज्यं भोज्यमन्यदित्येतत्केन ते मते ।। २३९ ।।
सुरोत्तमटीका
युक्त्यैकशरणस्य मांसभक्षणनिषेधायोगः कथमित्यत आह ।। भूतेभ्य इति ।। मांसे भूतेभ्यः पञ्चमहाभूतेभ्योऽन्यत् वस्तु न वै नास्ति वै । अन्नेऽपि भूतेभ्योऽन्यद्वस्तु न दृश्यते । तस्मादेकं मांसं त्याज्य-मन्यदन्नं भोज्यमित्येतत् ते मते केन न केनापि उभयोरपि पाञ्चभौतिकत्वा-दिति भावः । सुगन्धदुर्गन्धाभ्यां विशेष इति चेत् तर्हि सौकर्याभावमात्रं न पापहेतुता । दुःखसहिष्णुत्वेन पुण्यहेतुताया एवौचित्यात् । कथमन्यथा पञ्चमलधारणेन स्वांगदौर्गन्ध्यस्य महाव्रततया पुण्यहेतुताङ्गीकारः । न च सौकर्याभावोऽपि । पाकविशेषेण सुगन्धीकरणसम्भवात् । अभिनवमांसे दुर्गन्धादर्शनेन तद्भक्षणप्रसङ्गाच्च । पर्युषितमांसे दुर्गन्धदर्शनस्य पर्युषितान्ने दुर्गन्धदर्शनसमानयोगक्षेमत्वात् । दधिलवणादिना पर्युषितान्ने दुर्गन्धपरिहारश्चेत् पर्युषितमांसेऽपि संस्कारादिना तत्परिहार इति समं समाधानम् । अतो न कोऽपि विशेषः ।। २३९ ।।
सत्यप्रमोदटीका
मांसं न त्याज्यं किन्तु भोज्यमेव, भौतिकत्वात् अन्नवत् इति प्रयोगोऽभिमतः । न च मांसस्य दुर्गन्धत्वेनाभोज्यत्वम् । सर्वत्र मांसेऽभावात्, विद्यमानस्यापि उपायतः परिहारसम्भवात्, सर्वथा पाप-हेतुताऽभावाच्च । तथाच अन्नहेतुपाकादिवत्, हिंसात्वेन हेतुना मांसहेतुहिंसाया अपि न त्वदभिमतं पापसाधनत्वानुमानं युक्तम् ।। २३९ ।।
युक्तिमल्लिका
हिंसादोषेण यौक्तस्य यज्ञावज्ञा च ते कथम् ।। २४० ।।
सुरोत्तमटीका
यौक्तस्य युक्तिमात्रशरणस्य हिंसादोषेण याज्ञीयपशु-हिंसाख्यदोषेण यज्ञावज्ञाच ते मते कथं न कथंचित् । हिंसाया एव पुण्यहेतुत्वस्य पूर्वोक्तरीत्या यौक्तत्वादिति भावः ।। २४० ।।
सत्यप्रमोदटीका
तेनैव न्यायेन, त्वयोच्यमानं यागीयहिंसाया दोषत्व-मपि दूषितमित्याह हिंसेति ।। २४० ।।
युक्तिमल्लिका
जिनमन्दिरनिर्माणे तद्यात्रायां च कोटिशः ।
भूशोधाद्यैः पादघातैर्हिंसाऽऽस्ते मखवन्न किम् ।। २४१ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। जिनेति ।। जिनमन्दिरनिर्माणे भूशोधनाद्यैः आद्यपदेन छिद्यमानस्थूलवृक्षपतनादिकं गृह्यते । भूम्यन्तःस्थितं मण्डूकपिपीलिकाद्यनेककोटिनानेन्द्रिययुक्तप्राणिहिंसाः प्राप्नुवन्ति । जिनयात्रायां च पादघातैः पिपीलिकादीनामेव हिंसाः प्राप्नुवन्ति । तास्सर्वास्ते तव मते क्रियमाणहिंसाः मखवत् यज्ञे क्रियमाणहिंसावन्न किं भवन्त्येवेत्यर्थः । सावद्यलेशो बहुपुण्यराशिरिति तु तव प्रक्रिया ममैवानुकूला । एकपशुहिंसाया बहुतरदेवताप्रीणनेनानन्तपुण्यराशेस्सिद्धेः । त्वन्तु सावद्यराशिर्लघुपुण्यलेश इति न्याये पतितोऽसि । बहुप्राणिहिंसया एकजिनप्रीणनाङ्गीकारात् ।। २४१ ।।
सत्यप्रमोदटीका
जिनमन्दिरनिर्माणे अपरिहार्यतया समापतिता, या कृमिकीटादीनां कोटिशो हिंसा, तत्र हिंसात्वहेतुरनैकान्तिकश्चेत्याह जिनेति
।। २४१ ।।
युक्तिमल्लिका
बर्हहस्तस्य या शङ्खे गर्हा साऽपि न शोभते ।। २४२ ।।
सुरोत्तमटीका
शङ्खस्पर्शनिन्दां निषेधति ।। बर्हेति ।। बर्हहस्तस्येति हेतुगर्भं विशेषणम् । बर्हस्यादावस्थ्नः रोममूले त्वचः अन्ते रोम्णां च दर्शनात् सदा तादृशबर्हग्राहित्वाख्यहेतोस्सूचनात् । शङ्खेति कृष्णाजिनवराह केसराणामप्युपलक्षणम् ।। २४२ ।।
सत्यप्रमोदटीका
वेदमनादृत्य शुष्कतर्कमुपजीव्य रचिता सर्वाऽपि तत्प्रक्रिया शङ्खकृष्णाजिनवराहकेसरादीनां अपावित्र्यवर्णनपरा अनेनैव न्यायेन पराहता वेदितव्येत्याह बर्हहस्तेत्यादिना ।। शङ्खस्य अस्थित्वात्, कृष्णाजिनस्य चर्मत्वात्, वराहकेसराणां केशत्वात्, अपावित्र्यं खलु परेणानुमित्सितम् । सर्वेषां हेतूनां बर्हे व्यभिचारः । तस्यास्थिचर्मकेश-सकलात्मकत्वात् । तत्र साध्याभावः परस्य बर्हहस्तस्य संमतः ।। २४२ ।।
युक्तिमल्लिका
लवणं भक्ष्यते चेत्स्याच्छुक्तिरुपास्थिभक्षणम् ।
जलीकृत्य स्वीकृतिश्चेदस्थिक्षालनवारिणः ।। २४३ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। लवणमिति ।। लवणं तथैव शाकादिषु दत्वा भक्ष्यते चेत् शुक्तिरूपास्थिभक्षणं स्यात् । शुक्तिरूपाणां लवणोदके निक्षिप्यमाणसिकतावदणूनां अस्थ्नां लवणे बहुलमुपलम्भात् । जलीकृत्य लवणं जलमयं कृत्वा स्वीकृतिस्स्वीकारश्चेदस्थिक्षालनवारिणः स्वीकृतिः स्यादित्यावृत्त्या योजनीयम् । मम तु शङ्खोदकप्रोक्षणमात्रं तवतु अस्थ्नां भक्षणं तत्क्षालनोदकपानं वा स्यादिति महद्वैलक्षण्यम् । तस्मा-च्छुष्कयुक्तिमात्रानुसारेण वैदिकमतनिराकरणे सकलस्वप्रक्रियानिराकरणमेव स्यादिति भावः ।। २४३ ।।
सत्यप्रमोदटीका
अस्थित्वहेतोः तन्मिश्रे लवणे व्यभिचारः इत्याह जलीकृत्येति ।। २४३ ।।
।। अहिंसावादनिराकरणम् ।।
युक्तिमल्लिका
कर्ता सर्वस्य कार्यस्य कस्मादीशो विसृज्यते ।। २४४ ।।
सुरोत्तमटीका
यच्चोक्तं मुक्तवर्गः संसारिवर्गश्चेति द्विधैव चेतनराशिः । न तु सर्वेश्वराख्यस्तृतीयश्चेतनोऽस्तीति । तदनूद्य दूषयति ।। कर्तेति ।। सर्वस्य कार्यस्य कर्तेति सम्बन्धः ।। २४४ ।।
सत्यप्रमोदटीका
इदानीं निरीश्वरवादिनः जिनबुद्धसाङ्ख्यभाट्टप्राभाकरा-न्निराकर्तुं प्रतिजानीते कर्तेत्यादिना ।। २४४ ।।