अतोऽवसानं तन्नित्ये न ब्रह्मणि जगत्यपि
स्वप्रमायासरूपेति इत्यादिश्रुतिविचारः
युक्तिमल्लिका
अतोऽवसानं तन्नित्ये न ब्रह्मणि जगत्यपि ।
एकं स्वरूपतो नित्यमन्यन्नित्यं प्रवाहतः ।। ६७ ।।
सुरोत्तमटीका
तद्भारतादिवाक्यबलात् । एकं ब्रह्म । अन्यज्जगत् । जगत्यपि कालाकाशप्रकृत्यादिकं ब्रह्मवत्स्वरूपतो नित्यमित्यपि द्रष्टव्यम् ।। ६७ ।।
सत्यप्रमोदटीका
एकमिति आकाशवर्णादिकं व्याप्तं वस्तुजातं स्वरूपत एव नित्यम् । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततमि’ति गीतोक्तेः ।। ६७ ।।
युक्तिमल्लिका
स्वप्रमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।। ६८ ।।
सुरोत्तमटीका
विश्वर्मिथ्यात्वब्रह्मपरिणामादिपक्षान्पूर्वपक्षीकृत्य श्रुत्यैव तत्सत्यत्वस्य स्वसिद्धान्ततया कथनाच्च विश्वं सत्यमित्याह ।। स्वप्नमायेति ।। यद्यपि विभूतिप्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तका इति श्रुतिः प्राचीना । तथापि ब्रह्मणो विविधतया घटपटाद्यात्मना भूतिं भवनं प्रसवं सृष्टिं मन्यन्त इति परिणामपक्षस्यैवोक्तत्वात्तस्य च विश्वसत्यत्ववादिनां साक्षाद्विरुद्धपूर्वपक्षत्वा-भावात् अस्यैव ग्रहणम् ।। ६८ ।।
सत्यप्रमोदटीका
श्रुत्यैवानूद्य स्वयं खण्डितत्वेन न मिथ्यात्वमित्याह स्वप्नेत्यादिना । विकल्पिता भ्रान्त्या कल्पिता ।। ६८ ।।
युक्तिमल्लिका
मिथ्यासृष्टिकथा येयं साऽन्येषां कल्पना किल ।
इत्यन्यमतमाक्षिप्य श्रुतिस्स्वमतमाह च ।। ६९ ।।
सुरोत्तमटीका
श्रुतेरभिप्रायमाह ।। मिथ्यासृष्टीति ।। स्वप्नमायास-रूप्येत्यस्य तात्पर्यकथनं मिथ्येति । विशेषेण कल्पिता विकल्पितेत्यस्याभि-प्रायः कल्पना किलेति । अन्यमतं मिथ्यासृष्टिमतम् । आक्षिप्य स्वकपोल-कल्पितत्वेनान्यमतत्वेन च निराकृत्य ।। ६९ ।।
सत्यप्रमोदटीका
आक्षिप्य निराकृत्य ।। ६९ ।।
युक्तिमल्लिका
इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः ।
स्वेच्छयैव प्रभुस्सर्वं सृजतीशो न मायया ।। ७० ।।
विशिष्य निश्चितं सृष्टौ येषां तेषां त्विदं हृदि ।
इति स्तुत्योत्तरार्धोक्तमेव स्वमतमाह सा ।। ७१ ।।
सुरोत्तमटीका
श्रुतेरभिप्रायमाह ।। स्वेच्छयेति ।। मात्रपदस्यार्थमाह ।। एवेति ।। तेनापि व्यवच्छेद्यमाह ।। नमाययेति ।। विनिश्चितपदस्यार्थकथनं विशिष्येति ।। निश्चितं निश्चयः । भावे क्तप्रत्ययः स्तुत्या एवं वदन्तो विशिष्य निश्चयवन्त इति स्तुत्या । उपलक्षणं चैतत् । अन्य इत्याद्यनुक्तया चेत्यपि द्रष्टव्यम् ।। ७०,७१ ।।
सत्यप्रमोदटीका
सिद्धान्तमाह इच्छेति । विनिश्चिताः विमर्शपूर्वकं निश्चयवन्तः । मायया अनिर्वचनीयया ।। ७० ।।
युक्तिमल्लिका
सृष्टौ निश्चयवन्तो ये पक्षमेनं वदन्ति ते ।
सन्दिग्धमनसस्त्वन्यान्पक्षानाचक्षते किल ।। ७२ ।।
सुरोत्तमटीका
विनिश्चितपदस्याभिप्रायान्तरमप्याह ।। सृष्टाविति ।।७२।।
युक्तिमल्लिका
यतः पक्षान्तरे सर्वत्रान्य इत्याह सा श्रुतिः ।
कालचिन्तकपक्षत्वमेकपक्षे जगाद च ।। ७३ ।।
सुरोत्तमटीका
एकपक्षे कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तका इति पक्षे ।। ७३ ।।
सत्यप्रमोदटीका
सिद्धान्तार्थे तात्पर्यज्ञापकं अर्थवादमाह स्तुत्येति । परपक्षे निन्दां दर्शयति सन्दिग्धेति । प्रमाणनिर्णीतार्थनिश्चयहीनेत्यर्थः । ‘व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसा-विनां’ इति गीतोक्तेः ।। ७१–७३ ।।
युक्तिमल्लिका
अतोऽपि पक्षास्ते सर्वे स्वपक्षा नेति शंसति ।
अत्र कर्तुः प्रभुत्वोक्त्याऽप्यभिप्रैति स्वपक्षताम् ।। ७४ ।।
सुरोत्तमटीका
प्रभुत्वोक्तया प्रभोरिति महासामर्थ्योक्तिरूपप्रशंसया । उपलक्षणं चैतत् । महासमर्थस्य ऐन्द्रजालिकसृष्ट्ययोगात् । हीनजगदाकारेण परिणामायोगात् जडे काले प्राधान्यादानायोगाच्च मिथ्यासृष्ट्यादिपक्षाणां पूर्वपक्षतां च सचयतीत्यपि द्रष्टव्यम् ।। ७४ ।।
सत्यप्रमोदटीका
सपक्षे उपपत्तिं चाह प्रभुत्वेति । सत्यसृष्टौ सामर्थ्ये-त्यर्थः । विमता सृष्टिः, न मायिका, समर्थकर्तृकत्वात् व्यतिरेकेण ऐन्द्र-जालिकसृष्टिवत् इति प्रयोगः । ‘अशक्ताः सत्यसृष्टौ हि मायासृष्टिं वितन्वते’ इति विपक्षे बाधकमुन्नेयम् ।। ७४ ।।
युक्तिमल्लिका
यतः फलविकल्पेऽपि सर्वान्पक्षानुपेक्ष्य सा ।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ।। ७५ ।।
इत्येकमेव स्वमतं निर्णिनाय ततोऽपि तत् ।। ७६ ।।
का स्पृहेति यतः क्रीडाभोगपक्षौ सहेतुकम् ।
आचिक्षेप स्वभावेन कर्तुः पूर्णस्य च प्रभोः ।। ७७ ।।
सुरोत्तमटीका
‘‘भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष-स्वभावोयमाप्तकामस्य का स्पृहे’’ति फलपरीक्षाग्रन्थे का स्पृहेति पक्षद्वयं स्पष्टं दूषयित्वा एकस्यैव स्वपक्षत्वेनोक्तत्वात् अत्रापि प्राचीनपक्षद्वयं पूर्वपक्ष एवेत्याह ।। यत इति ।। तत्पूर्वोक्तं प्रमेयम् । यथा आनन्दोद्रेकान्नर्तन-गानादिकं कुर्वतो न तदुद्देश्यं किंत्वानन्दोद्रेकादेव केवलं सा लीला । तथा भगवतोऽप्यानन्दोद्रेकादेव जगत्सृष्ट्यादिलीला । न पुनरुद्देश्यापि सा अपूर्णत्वा- पातात् । अतः क्रीडार्थं क्रीडोद्देशेन सृष्टिरित्यपि पूर्वपक्ष एव । अत एव हि सूत्रकारोऽपि लोकवत्तुलीलाकैवल्यमिति केवलं लीलेत्याह ।। ७५–७७ ।।
सत्यप्रमोदटीका
फलविकल्प इति । प्रयोजनं क्रीडा वा भोगो वा इति विकल्प इत्यर्थः । उपेक्ष्य तिरस्कृत्य । अयं सृष्ट्यादिविषयः एषः इच्छा-पूर्विका प्रवृत्तिः । स्वभावः आनन्दोद्रेकरूपा लीलैव केवलम् । न तु तदर्था । तत्र हेतुः आप्तकामस्येति । पूर्णकामस्येत्यर्थः । का स्पृहा । का स्वप्रयोज-नेच्छा ।। ७५,७६ ।।
युक्तिमल्लिका
का फलस्य स्पृहा तेन पूर्वौ द्वौ पूर्वपक्षिणाम् ।
प्रभुत्वदूषकौ विष्णोर्न मत्पक्षावुभावपि ।
तृतीय एव पक्षो मे प्रभुतापोषकः प्रभोः ।। ७८ ।।
सुरोत्तमटीका
विष्णोः प्रभुत्वदूषकौ पूर्वौ द्वौ पक्षौ पूर्वपक्षिणामिति सम्बन्धः ।। ७८ ।।
सत्यप्रमोदटीका
प्रभोः का फलस्य स्पृहेत्युत्तरेणान्वयः ।। ७७,७८ ।।
युक्तिमल्लिका
मामानयत्तमोजिद्यः पुत्रायोपदिदेश च ।
परार्थकर्ता कृत्यज्ञस्स्वार्थकृत्यसदोज्खितः ।। ७९ ।।
कोऽन्वर्थस्तस्य तेनाभूत्पूर्णस्स्वफलवान्न तत् ।
अन्वभावि मयैवेदं तेनानुभवबाधितौ ।। ८० ।।
तौ पूर्वौ नैव पक्षौ मे किन्तु गन्तुस्तमांसि तौ ।
इत्यर्थः प्रबलाक्षेपलभ्यो ह्यत्रोपलभ्यते ।। ८१ ।।
सुरोत्तमटीका
भगवतस्स्वप्रयोजनाभावे श्रुतेरनुभवं विशेष्यनिर्देशव्याजेन वासुदेवसहस्रनामस्थनामानि च प्रमाणयति ।। मामिति ।। ब्रह्मणस्सदना-त्तमोनामकदैत्येन नीतां श्रुतिरूपां मां तस्य ब्रह्मादीनां बुद्ध्यगोचरकौशलाभि-ज्ञस्य सर्वज्ञस्य । तेन श्रुतीनामानयनेन । अर्थाभावमेव विशदयति ।। पुत्रा-येति ।। पुत्रभूतब्रह्मणः प्रयोजनार्थमेवानीतवान् । न स्वार्थम् । तथा सति परस्मै प्रदानायोगादिति भावः । तत्तस्मात् । पश्वादेर्वेदेन प्रयोजनाभावस्य लोकसिद्धत्वात् स्वस्यापि वेदानयनेन प्रयोजनाभावं स्फोरयितुं ह्यश्वरूपेण मत्स्यरूपेण चानीतवान् । अन्यथा नररूपेणैवानेष्यत् । एतदप्यभिप्रेत्योक्तं तस्येति । अश्वस्य मत्स्यस्य चेत्यर्थः । इदं स्वप्रयोजनराहित्यम् ।।७९–८१।।
सत्यप्रमोदटीका
हरिः स्वप्रयोजनशून्य इत्यत्र श्रुतिः स्वानुभवं प्रमाणयति मामिति ।। दैत्यं निहत्य वेदानयनं मत्स्यरूपस्य हरेः चतुर्मुखा-योपदेशार्थमेवेति भावः । तदुक्तं भागवते ‘प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमि’ ति ।। ७९–८१ ।।
युक्तिमल्लिका
अतः फलपरीक्षायामेकस्यैव स्वपक्षताम् ।
साऽभिप्रैति तथा पूर्वत्राप्येकस्य स्वपक्षताम् ।। ८२ ।।
सुरोत्तमटीका
सा श्रुतिः ।। ८२ ।।
सत्यप्रमोदटीका
एकस्यैव स्वभावत्वेन प्रयोजनराहित्यस्य । एकस्य इच्छामात्रत्वस्य ।। ८२ ।।
युक्तिमल्लिका
देवस्य ह्याप्तकामस्य प्रागुक्ता प्रभुतोचिता ।
अतस्समाख्यया पक्षौ तावेवाभिमतौ जगौ ।। ८३ ।।
स्वभावतोक्तितश्चान्ते मायासृष्टिं निषेधति ।
अत्रोक्तं निःस्पृहत्वं च तथेशस्याप्तकामता ।। ८४ ।।
सृष्टेरिच्छामात्रतोक्त्या यत्तत्रापि निरूप्यते ।
अतोऽपि पक्षौ द्वावेतौ श्रुतेस्स्वमततां गतौ ।। ८५ ।।
सुरोत्तमटीका
तृतीयपक्षयोरेवोभयत्रापि सिद्धान्तत्वेन सूचकान्तरं चाह ।। देवस्येति ।। समाख्यया महार्महमर्पतपादकत्वेन समानाख्यया यत् यस्मात् । तत्र ‘‘इच्छामात्रं प्रभोस्सृष्टिरि’’ति पक्षे ।। ८३–८५ ।।
सत्यप्रमोदटीका
श्लोकद्वयस्य परस्परसंवादरूपतां स्फोरयति देवस्येति ।। निषेधप्रकारमेव दर्शयति अत्रेति । न हि मायावी आप्तकामः संभवति इति भावः । तत्रापि ‘स्वप्नमाया सरूपे’ ति पूर्व श्लोकेऽपि ।। पक्षौ स्वभावत्वं निःस्पृहत्वं चेति ।। ८३–८५ ।।
युक्तिमल्लिका
नानाजीवादिभावेन क्रीडाभोगादिलब्धये ।
यतस्सृष्टिपरीक्षायामपि पक्षद्वयं प्रभोः ।। ८६ ।।
सृष्टिमाह ततस्तच्च पक्षद्वयमियं श्रुतिः ।
फलस्याक्षेपिका न्यायसाम्यादाक्षिपदेव हि ।। ८७ ।।
का स्पृहेति श्रुतिस्तस्मात्स्थानद्वितयगौ च तौ ।
द्वौ द्वौ पक्षौ फलापेक्षापक्षपर्यवसायिनौ ।
धिक्कृत्य तत्र चात्रापि तृतीयं पक्षमाददे ।। ८८ ।।
सुरोत्तमटीका
किञ्च परिणामसृष्टिपक्षे मिथ्यासृष्टिपक्षे च ब्रह्मण एव सकलसांसारिकभोगक्रीडयोरुक्तेस्तयोरपि पक्षयोर्भोगार्थं सृष्टिरिति क्रीडार्थमिति च दूष्यपक्षद्वयपर्यवसायितया दूष्यत्वावश्यंभावेन पूर्वपक्षत्वस्याप्यपरिहार्यत्व-मेवेत्याह ।। नानेति ।। ८६–८८ ।।
सत्यप्रमोदटीका
लब्धये प्रयोजनाय । इयं आप्तकामस्येति श्रुतिः ।। द्वौ द्वौ स्वाप्नी, मायामयी, इति द्वौ तथा क्रीडार्था भोगार्था इति च द्वौ । तृतीयं आनन्दोद्रेकादेवेति पक्षम् ।। ८६–८८ ।।
युक्तिमल्लिका
चतुर्मुखस्य वाणीव वाणीयं शोभतेतराम् ।
एकाकारापि या पक्षचतुष्कं शुष्कमातनोत् ।। ८९ ।।
सुरोत्तमटीका
इयं वाणी का स्पृहेति वाणी । यथा चतुर्मुखस्य वाणी एकदैव मुखचतुष्टयेनोत्थितपक्षचतुष्टयमपि प्रत्याक्षिपति । तथा इयमेकैव वाणी पक्षचतुष्टयमपि धिक्करोति । अतश्चतुर्मुखस्य वाणीवेत्युक्तम् । वस्तुतस्तु सा विविधा । इयमेकैव । अतो निरुपमेति भावेनोक्तं शोभतेतरामिति । अभूतो-पामा वा इयमिति भावेनाह ।। एकाकारेति ।। या ब्रह्मणो वाणी पक्ष-चतुष्टयनिराकरणायैकाकारं नानार्थकं ब्रह्मापि प्रयुङ्क्ते चेत्सा वाणी अस्या उपमा स्यादिति भावः ।। ८९ ।।
सत्यप्रमोदटीका
शोभतेतरामित्युक्तस्य उपपादनं एकाकारेति । चतुर्भ्यो मुखेभ्यो निःसृता वाणी अनेकाकारा । यथोक्तं ‘युगपद्रचयन्नेनां’ इति । इच्छामात्रमित्येकया उक्त्यैव पक्षचतुष्टयमपि निराचष्टेति अत्र तरप्प्रत्यय-बोध्योऽतिशयः ।। ८९,९० ।।
युक्तिमल्लिका
इच्छामात्रमितीशस्य सृष्टीच्छैवास्ति केवलम् ।
न फलेच्छेत्याह तत्तान्पक्षानेषाऽप्यदूषयत् ।। ९० ।।
सुरोत्तमटीका
का स्पृहेति श्रुतेरिच्छामात्रमिति श्रुतेश्चैकार्थतामुपपाद-यति ।। इच्छेति ।। तत् फलाक्षेपकत्वात् । तान् स्थानद्वयस्थचतुष्पक्षान् । एषा इच्छामात्रमिति श्रुतिः ।। ९० ।।
युक्तिमल्लिका
अतस्स्थानद्वयगतावप्येकार्थपरायणौ ।
शब्दौ विधिप्राणसमौ सत्यं लोकमरक्षताम् ।। ९१ ।।
सुरोत्तमटीका
शब्दौ उक्तवाक्यद्वयरूपशब्दौ । उक्तविधया उभयो-रेकार्थत्वप्रतिपादकत्वादेकार्थपरायणौ सिंहासनद्वयगतयोर्विधिप्राणयोरपि सत्य-लोकाख्यैकार्थपरिपालकत्वाद्विधिप्राणसमावित्युक्तम् । ‘‘स्वप्नमायासरूपे’’ति मिथ्यासृष्टिपक्षादिपक्षचतुष्टयस्य प्रतिषेधाल्लोकं सत्यं कृत्वाऽरक्षताम् । विधिप्राणपक्षे तु सत्याख्यं लोकमिति योजना ।। ९१ ।।
सत्यप्रमोदटीका
शब्दौ इच्छामात्रं इति स्वभावोऽयं इति च शब्दौ । स्थानद्वयगतौ पूर्वोत्तरश्लोकगतौ । एकार्थः हरेः प्रभुत्वं, तत्र परायणौ तात्पर्यातिशयवन्तौ । सत्यं लोकं जगत्सत्यत्वम् । अरक्षतां समर्थयामासतुः । विधिप्राणपक्षे स्थानद्वयं प्रदेशद्वयम् । सत्यं तदाख्यं लोकम् ।। ९१ ।।
युक्तिमल्लिका
किञ्चाविकाररूपस्य ब्रह्मणो जगदात्मना ।
विकारापादकं विश्वोपादानत्वमतं पुरा ।
अन्य इत्यन्यपक्षत्वं वदन्ती नान्वमंस्त सा ।। ९२ ।।
विभूतिं प्रसवं त्वन्य इति यच्छयते श्रुतौ ।
विविधाकारभवनं विभूतिर्हि विदां मते ।। ९३ ।।
सुरोत्तमटीका
अधुना समस्तश्रुतेरिभिप्रायं वर्णयन्श्रौतपदपर्यालोचनायां मिथ्यासृष्टिपक्षस्य विरुद्धनानापक्षावलम्बनेन संशयमूलमततयाऽतिविनिन्दितत्व-लाभात्साक्षात्सूत्रविरुद्धतया च विश्वसत्यत्वमेव श्रुतिसूत्रयोरभिप्रेतार्थ इत्याह ।। किञ्चेत्यादिना ।। सा श्रुतिः । यत् यस्मात् । यस्माच्च विविधाकारभवनं विभूतिः । तस्मान्नान्वमंस्तेति पूर्वेणान्वयः
।। ९२,९३ ।।
सत्यप्रमोदटीका
अविकाररूपस्येति तदुक्तमनुव्याख्याने ‘इच्छामात्रं प्रभोः सृष्टिरविकारस्य सर्वदा । ‘स्वभावोऽयमनन्तस्य रजो येनाभवज्जगदि’ ति । ‘न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनमि’ति च ।। यत् इति । तत् नान्वमंस्तेति पूर्वेणान्वयः । तत्र हेतुः विविधेति । विकारपर्यवसानादिति भावः ।। ९२–९३ ।।
युक्तिमल्लिका
सर्वमिथ्यात्ववादं च मध्ये साऽतिविगर्हितम् ।
सोपहासं दूषयितुं पुनराहेति मे मतिः ।। ९४ ।।
सुरोत्तमटीका
मध्ये परिणाममतस्वमतयोर्मध्ये । अत एवं दृष्टान्त-विभ्रान्तस्वान्ता इत्यादि योजना । दृष्टान्तविभ्रान्तस्वान्ता इत्यनेनेदमभिप्रैति । स्वप्ने चक्षुरादीन्द्रियाणामभावेऽपि चाक्षुषत्वादिना दृश्यमानाः पदार्थास्संतु मिथ्या । जाग्रदवस्थायां तैस्तैरिन्द्रियैर्दृश्यमानास्ते ते पदार्थाः कुतो मिथ्येति वैषम्याद्भीतस्स्वप्नदृष्टान्तमुपेक्ष्य मायादृष्टान्तमूचिवान् । तेऽपि मायाविनाऽ-परमेश्वरेण दृश्यमानमिदं जगत्कथं मायाविनाऽदृश्यमानमायिकपदार्थवदिति शङ्काकलङ्कितधीस्तमपि जहौ । रज्जुभुजङ्गीशुक्तिरूप्यादिकमुक्तवान् । इहाप्यर्थक्रियानर्हेभ्यस्तदर्हे जगति पुनर्वैषम्यदर्शनाद्भीतः दृष्टान्तान्तरमचक्षाण-श्चेदमदो वेत्यद्यापि विभ्राम्यतीति ।। ९४–९८ ।।
सत्यप्रमोदटीका
मध्ये विकारपक्षस्वभावपक्षयोर्मध्ये । पुनः तात्पर्य-द्योतनाय ।। ९४ ।।
युक्तिमल्लिका
अन्यैरित्यन्यमततां यदत्राप्याह सा स्फुटम् ।
विकल्पितत्ववाचा च सर्वे सन्दिहते परम् ।। ९५ ।।
सत्यप्रमोदटीका
सन्दिहते स्वस्वपक्षेषु निश्चयवन्तोऽपि प्रमाण-निर्णीतार्थनिश्चयवन्तो न भवन्ति ।। ९५ ।।
युक्तिमल्लिका
नैव निर्णयवन्तस्त इति तानाह सा श्रुतिः ।
विरुद्धकल्पनारूपो विकल्पः संशयो यतः ।। ९६ ।।
सत्यप्रमोदटीका
श्रुतौ विकल्पिता इत्यस्य विपरीतनिश्चयवन्त इत्यर्थ इत्याह विरुद्धेति ।। ९६ ।।
युक्तिमल्लिका
यतः स्वप्नवदित्येको वक्ति मायावदित्यपि ।
अन्यो रज्जुभुजङ्गीवदिति वक्ति तथापरः ।। ९७ ।।
सत्यप्रमोदटीका
रज्जुभुजङ्गीवदिति । रज्जुरेव भुजङ्गात्मना विवर्तते इति ‘विभूति प्रसवं चेति’ वदन्तो विवर्तवादिनः ।। ९७ ।।
युक्तिमल्लिका
एवं दृष्टान्तविभ्रान्तस्वान्तास्ते सर्वखण्डने ।
दृष्टान्तं क्वाप्यपश्यन्तस्सदा संशेरते किल ।। ९८ ।।
सत्यप्रमोदटीका
दृष्टान्तेति दृष्टान्ताभासेत्यर्थः । स्वप्नदृष्टान्तः ‘वैधार्म्याच्च न स्वप्नादिवत्’ इति सूत्रेण दूषितः । तदुक्तं शाङ्करभाष्ये ‘किं पुनर्वैधर्म्यं बाधाबाधाविति ब्रूमः’ इति । मायादृष्टान्तस्तु ‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवधार्यतां’ इति आगमपराहतः । अधिष्ठाने कारणत्वाव्यवहारात्, निर्विशेषस्य ब्रह्मणोऽ-धिष्ठानत्वासम्भवाच्च विवर्तवादः निराकृतः । स्थितेऽप्येवं दृष्टान्ताभासान् दृष्ट्वा ‘तमसा मुष्टदृष्टयः’ इत्यर्थः । संशेरते इत्यस्य प्राग्वदर्थः ।। ९८ ।।
युक्तिमल्लिका
अन्ये तु वादिनो विश्वसत्यत्वद्रोहिणो न हि ।
इति तांस्तानुपेक्ष्यान्ते श्रुतिस्स्वमतमाददे ।। ९९ ।।
यतोऽन्यमतताशंसिपदं नात्र प्रदृश्यते ।
अतः स्वमतमेवैतदिति मन्यामहे वयम् ।।
विनिश्चितत्वस्तुत्या च तथाऽन्ते कथनादपि ।। १०० ।।
सुरोत्तमटीका
अन्ये तार्किकसाङ्ख्यादयः । तांस्तान् तार्किकसाङ्ख्या-दीन् । स्वमतातिविरुद्धत्वान्मतद्वयमेव दूषयित्वाऽविरुद्धं मतमतिदूष्यमतपङ्क्ता-वुपेक्ष्येति यावत् ।। ९९,१०० ।।
सत्यप्रमोदटीका
तार्किकाणां तु अनुमानाभासपरिकल्पितः अशरीर ईश्वरो न जगत्सर्जनस्येष्टे । एवं सांख्यपरिकल्पितं ज्ञानेच्छाविधुरं अचेतनं प्रधानं न जगत्कर्तृ संभवति । इति उपलक्षणतया तावपि दूषयित्वेत्यर्थः । जगत्सत्यत्वमङ्गीकुर्वाणानामपि तेषां सृष्टिकथा अपहसनीयैवेति श्रुतेराशयः ।। अनुवादकत्वलिङ्गाभावात् अन्ते सिद्धत्वाच्च ‘इच्छामात्रं प्रभोः सृष्टिः’ इत्युक्त एव श्रुतेः सिद्धान्त इत्याह यत इति ।। ९९,१०० ।।
युक्तिमल्लिका
कालचिन्तकपक्षं तु स्वानुकूलत्वतः श्रुतिः ।
पुनर्जगाद सिद्धान्तः स एवेति मतिर्मम ।। १०१ ।।
सुरोत्तमटीका
प्रकृतिकारणताप्रतिपादकसाङ्ख्यमतस्येश्वरकारणता-प्रतिपादकतार्किकमतस्य कालकर्मादिकारणताप्रतिपादककालचिन्तकादिमतस्य चैतावन्मात्रेण स्वानुकूलत्वेऽपि तत्स्वातन्त्र्यस्य तार्किकोक्तपरमाणुप्रेरकत्व-मात्रस्य च स्वानभिमतत्वेनानुकूलमतान्येतानि पूर्वपङ्क्तौ स्वपङ्क्तौ च निर्दिश्य सर्वथा स्वानुकूलत्वशङ्कानिरासायान्ते निर्देष्टुकामा श्रुतिर्ग्रन्थगौरवभयादुप-लक्षणयैकं मतमन्ते निर्दिष्टत्वेन स्वमतत्वभ्रान्तिं निवारयितुं स्वास्वरसबीजं च सूचयन्ती नानादुर्मतप्रवर्तनाय स्पष्टमदूषयन्ती चाहेत्याह ।। कालचिन्तकेति ।। तुशब्दोऽवान्तरविशेषद्योतनार्थः । स चोक्त एव । स एव इच्छामात्रमिति वाक्योक्त एव ।। १०१ ।।
सत्यप्रमोदटीका
साङ्ख्यमतनिराकरणेन तत्समानयोगक्षेमाः काल-चिन्तकादिपक्षा अपि निराकृता वेदितव्या इत्याह कालेति ।। जगत्सत्यता-मात्रमभ्युपगच्छन्तोऽपि कालकर्मादिकस्याचेतनस्य स्वातन्त्र्याभ्युपगमान्निन्द्या एव ते सर्वे वादा इत्याशयेनाह पुनरिति उपलक्षणतया निन्द्यत्वज्ञापनायेति भावः ।। तदुक्तं भगवत्पादैः ‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः’ इति ।। स एव इच्छामात्रं इत्युक्त एव ।। १०१ ।।
युक्तिमल्लिका
यतः स्वप्नादिवैधर्म्यं जगतः सूत्रकृत्स्वयम् ।
स्पष्टमाह ततोऽप्येष पक्षो न श्रुतिसूत्रयोः ।
मतस्तत्पूर्वपक्षोऽसावासीन्नास्त्यत्र संशयः ।। १०२ ।।
सुरोत्तमटीका
तत् तस्मात् श्रुतिसूत्रविरुद्धत्वात् ।। १०२ ।।
सत्यप्रमोदटीका
वैधर्म्यं बाधाबाधरूपम् । उक्तं हि परभाष्ये ‘बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्यांचिदवस्थायां बाध्यते’ । इति । (भे.प.ब्र.सू.भाग.२ प.१०) सिद्धान्ते स्वाप्नपदार्थानां सत्यत्वेन स्वाप्न-जाग्रत्त्ववदिति वैधर्म्यं मन्तव्यम् ।। १०२ ।।
युक्तिमल्लिका
तस्मात्स्वप्नादिसारूप्यान्मायासृष्टिं वदन्नयम् ।
मायावादी श्रुतेर्हार्दवेदी नैवाभवत्कुधीः ।। १०३ ।।
अतः सर्वस्य सत्यत्वसिद्धान्तोऽभूच्छ्रुतेर्बलात् ।
मिथ्यात्वं पूर्वपक्षत्वादुपेक्ष्यमिति च स्थितम् ।। १०४ ।।
सुरोत्तमटीका
तस्माच्छ्रुतिसूत्रविरुद्धमतावलम्बित्वात् । श्रुतेरत्युप-लक्षणम् । सूत्रस्येत्यपि द्रष्टव्यम् ।। १०३,१०४ ।।
सत्यप्रमोदटीका
मायासृष्टिं अज्ञानोपादानकत्वेन मिथ्याभूतसृष्टिम् । वदन् ‘स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः’ इति ग्रन्थेन । हार्दं अनित्यत्वविकारित्वपारतन्त्र्यरूपेणैव साम्यम् । न तु बोधनिवर्त्यता’ इत्येवंरूपम्
।। १०३,१०४ ।।
युक्तिमल्लिका
इच्छामात्रे तु सा सृष्टिर्यस्मादव्यवधानतः ।
स्यादेव तत्क्षणे तस्मात्तां तत्त्वेन श्रुतिर्जगौ ।। १०५ ।।
यथा सत्या हरेरिच्छा तथा सृष्टिश्च सा सती ।
इति प्रबोधनायापि तां तत्त्वेन जगौ श्रुतिः ।। १०६ ।।
सुरोत्तमटीका
तां सृष्टिम् । तत्त्वेन इच्छामात्रत्वेन । यथालीलामात्रेण शत्रून्संहरतो लीलैव शत्रुहरणमिति व्यपदेशः तथेत्यर्थः।। १०५,१०६ ।।
सत्यप्रमोदटीका
इच्छामात्रं सृष्टिरिति सामानाधिकरण्येन स्वातन्त्र्यैक्य-मेव विवक्षितम् । तेन अस्वतन्त्रकारणान्तरसद्भावोऽनुमत इत्याह इच्छेति । स्यादेवेति स्वातन्त्र्यमभिहितम् । ‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुरि’त्युक्तेः ।। अभेदव्यपदेशे सादृश्यैक्यमपि निमित्तम् । सादृश्यं च सत्त्वेनैवेत्याह यथेति ।। १०५,१०६ ।।
युक्तिमल्लिका
प्रभोस्सकाशाद्या सृष्टिस्तस्यां सृष्टावियं स्थितिः ।
प्रभोस्सकाशाद्यासृष्टिर्मत्स्यकूर्मादिरूपिणी ।। १०७ ।।
सा त्विच्छामात्रमेवेति भावाद्वा प्राह तां तथा ।
द्वयोरप्यनुकूलाय मन्ये सामान्यकीर्तनम् ।। १०८ ।।
सुरोत्तमटीका
या सृष्टिः जगत्सृष्टिः । मुख्यैक्यस्य सर्वमते बाधितत्वात् । प्रयोजनान्तरायाप्येवं प्रयोग इत्याह ।। प्रभोरिति ।। तां सृष्टिम् ।। १०७,१०८ ।।
सत्यप्रमोदटीका
इयं पारमार्थिकीति, स्वभावः इति प्रयोजननिरपेक्षतया इति च पूर्वोक्ता । स्वरूपैक्यं सामानाधिकरण्यार्थ इति स्वीकृत्य तदनुगुणं श्रुतेरर्थान्तरमाह मत्स्यकूर्मादिरूपिणीति । द्वयोः ईशसृष्टेः प्रपञ्चसृष्टेश्च । अनुकूलाय संग्रहाय । सामान्येति उभयसाधारणसृष्टिशब्देनेत्यर्थः ।। १०८ ।।
युक्तिमल्लिका
इच्छाऽधीनं यतस्सर्वमुपादानादिकारणम् ।
अतस्तस्याः प्रधानत्वात्सैव सृष्टिरितीरितम् ।। १०९ ।।
सुरोत्तमटीका
प्रयोजनान्तरं चाह ।। इच्छाधीनमिति ।। १०९ ।।
सत्यप्रमोदटीका
मात्रशब्देनेतरकारणनिषेधः स्वातन्त्र्यरूपधर्मान्तरेणैव न स्वरूपेणेत्याह इच्छेति ।। १०९ ।।
युक्तिमल्लिका
स्वज्ञानतो जगत्सृष्टिं तस्याः स्वानिष्टरूपताम् ।
न्यवारयत् प्रभुपदमिच्छामात्रपदं च तत् ।। ११० ।।
स्वाज्ञानञ्च प्रभुत्वञ्च यतो नैकत्र युज्यते ।
यतो नेच्छति सर्वोऽपि स्वानिष्टं किमुत प्रभुः ।
तस्मात्प्रकृतितः सृष्टिर्जीवानां सुखदुःखदा ।। १११ ।।
यतश्च का स्पृहेत्यन्ते स्वफलञ्च निषेधति ।
ततः स्वविफलाप्त्यै तां सृष्टिं कः कोविदो वदेत् ।। ११२ ।।
आप्तकामत्वमपि च कथं सङ्गच्छते तदा ।
अतः श्रुतिपदार्थज्ञो न तद्व्याख्यातुमर्हति ।। ११३ ।।
सत्यपीतांबरालाभे मायापीतांबरं सृजेत् ।
लब्धे तु सत्यवसने मायासृष्टौ यतेत कः ।। ११४ ।।
मायासृष्टिं निराचष्टे प्रभुत्वोक्तिरतः प्रभोः ।
स्वप्नमायासरूपेति ततोऽपि स्वमतं न तत् ।। ११५ ।।
सुरोत्तमटीका
श्रौतपदावल्या सिद्धप्रमेयान्तराणि च विस्तरेणाह ।। स्वाज्ञानत इत्यादिना ।। तस्मास्सृष्टेः इच्छामात्रेण सृष्टिर्न त्वज्ञानादित्यर्थ-स्येच्छामात्रेण सृष्टत्वादायासाभावस्य च सिद्धेः प्रभोश्चाज्ञानायासासम्भवादिति भावः । तस्मादज्ञानाद्यसम्भवात् ।। ११०–११५ ।।
सत्यप्रमोदटीका
स्वरूपतो व्यावर्त्या तु पराभिमतमायामयी सृष्टि-रेवेत्याह स्वज्ञानेति । स्वस्यैवाज्ञानापादकत्वे स्वानिष्टरूपता स्यादेवेति भावः । अज्ञानस्य सर्वानिष्टमूलत्वं ‘अविद्याक्षेत्रत्वमुत्तरेषां’ इति प्रमितम् । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इत्युक्तेः ।।
नैकत्र युज्यते सर्वधर्मोपपत्त्यधिकरणोक्तरीत्या । नेच्छतीति जिहासा, प्रभुरिति तत्प्रहाणसामर्थ्यं चोच्यते । तस्मादिति । ‘स्रक्ष्ये हि चेतनगणा-न्सुखदुःखमध्यसंप्राप्तये’ इति भगवत्पादवचनात् ।। प्रभोः सत्यसर्जनसमर्थस्य । ‘धाम्ना स्वेन सदा निरस्तकुहकमि’त्युक्तेः ।। ११०–११५ ।।
युक्तिमल्लिका
यतश्च सूत्रे वैधर्म्याच्च न स्वप्नादिवत्त्विति ।
स्वप्नवैधर्म्यमुदितं तस्मादपि न तन्मतम् ।। ११६ ।।
यतश्च पदशक्त्या तन्मतं श्रुतिरगर्हयत् ।
ततोऽप्यन्यमतं मन्ये नान्यत्वोक्त्यैव केवलम् ।। ११७ ।।
सुरोत्तमटीका
प्रागर्थतो गृहीतं सूत्रं स्पष्टं च दर्शयति ।। यतश्चेति ।। स्वप्नवैधर्म्यं स्वप्नादिवैधम्यम् । आदिपदेन मायाशुक्तिरूप्यादिकं गृह्यते ।। ११६,११७ ।।
सत्यप्रमोदटीका
स्वप्नवैधर्म्यं बाधितस्वप्नादिवैधर्म्यं अबाधितत्वरूपम् ।। पदशक्त्या विरुद्धकल्पनाबोधकविकल्पपदशक्त्या ।। ११६,११७ ।।
युक्तिमल्लिका
यतः स्वभावतैवोक्ता कर्तृत्वादेः परात्मनि ।
स्वभावस्यानपायादियुक्त्या तन्नित्यतोदिता ।
अज्ञानोपाधिकत्वञ्च तद्धर्माणां निवारितम् ।। ११८ ।।
सुरोत्तमटीका
तन्नित्यता कर्तृत्वादिनित्यता । तद्धर्माणां भगवद्धर्माणाम् । स्वभावस्यौपाधिकत्वायोगादिति भावः ।। ११८ ।।
सत्यप्रमोदटीका
स्वभावहानौ स्वरूपहानिप्रसङ्गरूपयुक्त्या । आदि-पदेन अनौपाधिकत्वसङ्ग्रहः ।। ११८ ।।
युक्तिमल्लिका
तेन लक्षणताटस्थ्यं नानुमेने परात्मनि ।
देवसम्बन्धितोक्त्या च नान्वमंस्त तदन्यगम् ।। ११९ ।।
सुरोत्तमटीका
देवसम्बन्धितोक्तया ‘‘देवस्यैष’’ इति भगवत्सम्बन्धि-तोक्तया । तत् जगत्सृष्टिकर्तृत्वम् ।। ११९ ।।
सत्यप्रमोदटीका
तेनेति । स्वरूपानन्तर्गतस्य, व्यावृत्तिधीकाले अविद्यमानस्यैव तटस्थत्वात् ।। तदन्यगं मायागतम् ।। ११९ ।।
युक्तिमल्लिका
यच्च सृष्ट्यादिकरणक्रियैवोक्ता स्वभावतः ।
तत्क्रियानित्यता चोक्ता शक्तिव्यक्त्यात्मता हरौ ।। १२० ।।
यतः क्रियानित्यतोक्त्या कार्यस्यापि प्रवाहतः ।
नित्यत्वमुदितं सर्वलयं तेन न्यवारयत् ।। १२१ ।।
भाविबाधकशङ्कां च तत एव निराकरोत् ।
पारमार्थिकसत्यत्वं जगतस्तेन सा जगौ ।। १२२ ।।
सुरोत्तमटीका
यत् यस्मात् । तत् तस्मात् क्रियायाश्च स्वभावत्वेनोक्त-त्वात् । शक्तिव्यक्त्यात्मता च उक्ता अर्थादुक्तप्राया जगत्सृष्ठ्यादिक्रियाया-स्सर्वदा व्यक्त्यभावेन शक्त्यात्मना सत्त्व एव तन्नित्यत्वस्य निर्वाह्यत्वादिति भावः ।। १२०–१२२ ।।
सत्यप्रमोदटीका
सृष्ट्यादेः करणरूपा क्रिया सर्जनक्रियेति यावत् । शक्तिव्यक्त्यात्मतेति । ‘सविशेषोऽपि क्रियाशक्त्यात्मना स्थिरः’ इत्यनु-व्याख्यानोक्तेः ।। न्यवारयत् ‘न चाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित्’ इत्यनुव्याख्यानोक्तेः ।। १२०–१२२ ।।
युक्तिमल्लिका
तस्मात्सृष्टेः स्वभावत्वकीर्तनात्सृज्यवस्तुतः ।
स्वभावतैव प्राप्तेति तदभावो न कर्हिचित् ।। १२३ ।।
सुरोत्तमटीका
तदभावः जगतस्सर्वथाऽभावः ।। १२३ ।।
सत्यप्रमोदटीका
तदभावः जगतः स्वरूपेण त्रैकालिकनिषेधः ।।१२३।।
युक्तिमल्लिका
स्वेच्छयैव च सृष्ट्युक्तेः कर्तृतां घटकर्तृवत् ।
आहोपादानतां तेन प्रत्याह परमात्मनः ।। १२४ ।।
सुरोत्तमटीका
तेन इच्छापूर्वकसर्जनेन ।। १२४ ।।
सत्यप्रमोदटीका
प्रत्याह ‘करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः’ इत्युक्तरीत्या ।। १२४–१२६ ।।
युक्तिमल्लिका
तदपि प्रभुतामाह यतश्च परमात्मनः ।
सर्वतोऽत्यन्तभेदं च सर्वेशत्वं च वक्ति तत् ।। १२५ ।।
सुरोत्तमटीका
तत्तस्मात् ।। १२५ ।।
युक्तिमल्लिका
स्वप्नमायासरूपेति सृष्टिं वाचा वदन्ति ते ।
अर्थतस्तद्विरोधात्तैः कल्पिता जगतो जनिः ।। १२६ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि श्रौतपदमर्यादयैव परस्याकौशलं प्रदर्श-यति ।। स्वप्नमायेति ।। स्वप्नमायासरूपा स्वप्नमाययोस्समानरूपा । विकल्पितेत्यस्यार्थमाह ।। अर्थत इति ।। १२६ ।।
युक्तिमल्लिका
स्वप्नेऽपि द्रष्टृदेहोऽस्ति शय्याभूवसनादिकम् ।
अन्ये च जाग्रतः सन्ति स्वाप्नं तन्नास्ति किञ्चन ।। १२७ ।।
सुरोत्तमटीका
विरुद्धकल्पनामेव विविच्य दर्शयति ।। स्वप्नेऽपीति ।। द्रष्टुर्जीवस्य देहः । सुप्तौ सर्वलयाङ्गीकारेऽपि स्वप्ने तदनङ्गीकारात् । जाग्रतः जाग्रदवस्थापन्नाः पुरुषाः । स्वाप्नं स्वप्ने दृश्यमानं करितुरगादिकम् । किञ्च न स्थूलरूपम् । तत्रापि सृष्टिकथनात् सूक्ष्मरूपेण करितुरगादिकमस्तीति भावः ।। १२७ ।।
सत्यप्रमोदटीका
चशब्देन स्वप्नदृष्टा वासनामयाः करितुरगादयश्च ग्राह्याः । किञ्चन स्वाप्नजाग्रत्त्वं बाह्यपदार्थोपादानकत्वं च ।। १२७ ।।
युक्तिमल्लिका
मायायां च स्वदेहोऽस्ति चक्षुरादीन्द्रियाणि च ।
भूर्द्रष्टारश्च ते सर्वे मायिकं नास्ति किञ्चन ।
तत्सरूपा स्वसृष्टिश्चेत्सर्वं मिथ्या कथं भवेत् ।। १२८ ।।
सुरोत्तमटीका
किञ्चनेत्यनेन मायिकेऽपि मायानिदानभूतं औषधादिकं वा तृणादिकं वा किञ्चिदस्तीति सूचयति ।। तत्सरूपा स्वप्नमायासरूपा । स्वसृष्टिः स्वाभिमतजगत्सृष्टिः । सर्वं चैतन्यव्यतिरिक्तं भूभूधरादिकम् ईश्वर-देहगेहवसनालङ्कारादिकं च ।। १२८ ।।
सत्यप्रमोदटीका
‘अधिष्ठानं च सदृशं सत्यवस्तुद्वयं विना । न भ्रान्ति-र्भवति क्वापि स्वप्नमायादिकेष्वापि’ इत्युक्तिमनुरुध्याह मायायामिति । सरूपत्वमुपेत्याप्याह सर्वेति ।। १२८ ।।
युक्तिमल्लिका
किञ्च मायासरूपत्वं कथमस्ति विचार्यताम् ।
मायया कल्पितं वस्तु मायाकालेऽपि नास्ति हि ।। १२९ ।।
सुरोत्तमटीका
प्रकारान्तरेण मायावैसादृश्यमाह ।। किञ्चेति ।। १२९ ।।
सत्यप्रमोदटीका
वस्तुतः प्रपञ्चस्यार्थक्रियाकारितायाः साक्षिसिद्धत्वेन अतथाभूतमायासरूपता नास्त्येवेत्याह किञ्चेति ।। १२९ ।।
युक्तिमल्लिका
भ्रान्त्या प्रतीयतेऽस्तित्वं तत्कार्यस्यापि विभ्रमः ।
जलञ्च मिथ्या परितस्स्यन्दनं पानमेव च ।। १३० ।।
मिथ्यैव दृश्यते पानजनितं तु सुखं तदा ।
साक्षिणा वीक्ष्यते नैव बाधात्पूर्वं च किञ्चन ।। १३१ ।।
जगतस्तत्सरूपत्वे ब्रह्मज्ञानात्पुरा जलम् ।
जलकार्यं च पानान्तं मृषाऽस्तु जलपानतः ।
तन्निवृत्तिस्सुखं चात्र साक्षिणा वीक्ष्यते कथम् ।। १३२ ।।
सुरोत्तमटीका
नैवेत्यनेन मिथ्याभूतमपि तन्नानुभूयत इति सूचयति । अत्र जगति ।। १३०–१३२ ।।
सत्यप्रमोदटीका
मायाकालेऽपि नास्ति । वियदादेस्तु भ्रान्तिकाले व्यावहारिकसत्यत्वमभ्युपगतम् । बाधात्पूर्वमपि तत्र जले स्यन्दनं पानं च न । पानेन दुःखाभावस्य सुखस्य च अनुभवस्तु दूरे ।। प्रपञ्चस्तु ब्रह्मज्ञानात्पूर्वं साक्षिपर्यन्तपरीक्षया अर्थक्रियावत्त्वेन निश्चित इत्येवं बहुधा वैषम्यमाह बाधात् पूर्वं चेति ।। १३०–१३२ ।।
युक्तिमल्लिका
बाधदूरत्वसामीप्यान्न विशेषोऽस्ति कश्चन ।
बाधात्प्राग्भ्रान्तिकाले स्यान्मिथ्यात्वे समतोभयोः ।। १३३ ।।
सुरोत्तमटीका
समता पानजन्यसुखानुभवाभावसाम्यम् । एकत्र सुखानुभवः । अपरत्र सुखानुभवाभाव इति वैषम्यं न स्यात् । अस्ति च वैषम्यम् । अतश्चमायासरूपत्वं जगतो न युक्तमिति भावः ।। १३३ ।।
सत्यप्रमोदटीका
बाधविलम्बमात्रं नार्थक्रियां प्रयोजयतीत्याह बाधेति । तदुक्तमनुव्याख्याने ‘‘दीर्घभ्रान्तिकरी चेत् स्यादतत्वावेदकप्रमा । रज्जु-सर्पादिविज्ञानादप्याधिक्यादमानता’’ इति ।। १३३ ।।
युक्तिमल्लिका
सत्यज्ञानोद्भवं सौख्यं मायायामपि दृश्यते ।
मिथ्यार्थजनितं सौख्यं नैव तत्रास्ति किञ्चन ।। १३४ ।।
सुरोत्तमटीका
सत्यज्ञानोद्भवं सत्यं यज्ज्ञानं मिथ्याभूतपशुपक्ष्यादि-विषयभ्रमरूपदर्शनम् । अर्थस्य मिथ्यात्वेऽपि दर्शनमात्रस्य तत्रापि सत्त्वात् । मिथ्यार्थजनितं मिथ्याभूतकदलीपक्वजलादिना जनितं सौख्यं क्षुन्निवृत्ति-तृण्णिवृत्त्यादि सौख्यम् । तत्र मायास्थले । तत्रेति वदता जगति तु भ्रमकाल एव तदस्तीति सूचितम् ।। १३४ ।।
सत्यप्रमोदटीका
‘सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् । तदेवार्थ-क्रियाकारि तत्सदेवार्थकारकमि’ त्यनुव्याख्यानोक्तं प्रकृते सङ्गमयति सत्येति ।। १३४–१३६ ।।
युक्तिमल्लिका
अतो मायाविरूपत्वाज्जगत्सत्यमभूद्बलात् ।। १३५ ।।
सुरोत्तमटीका
अतः विषयजन्यसुखसद्भावेन मायावैरूप्यात् ।।१३५।।
युक्तिमल्लिका
सत्यस्य सुखहेतुत्वं मिथ्याभूतस्य नेति च ।
अन्वयव्यतिरेकाभ्यां यतस्सिद्धमतोऽपि च ।। १३६ ।।
इत्थं सत्यस्य जगतस्सृष्टेर्मिथ्यात्वमाग्रहात् ।
विरुद्धं कल्पितं यस्मात्तस्मात्सृष्टिर्विकल्पिता ।। १३७ ।।
अतः स्वोक्तविरुद्धोक्त्या न मत्पक्षो भवेदयम् ।
अन्येषामेव पक्षोऽसौ नाहं व्याहतभाषिणी ।। १३८ ।।
तस्मान्निदर्शनाभावात्सर्वमिथ्यात्ववादिनः ।
दुरदृष्टानुसारास्ते नैव दृष्टानुसारिणः ।
पदानां शोधने त्वेवं श्रुतेर्भावोऽवसीयते ।। १३९ ।।
सुरोत्तमटीका
सत्यस्य कौतुकदर्शनस्य । मिथ्याभूतस्य मायिक-जलादेः । सिद्धं मायिकसृष्टावेव दृष्टम् । कौतुकदर्शनजन्यसुखं ज्ञानैककार्य-त्वाज्ज्ञानस्य च सत्यत्वात्तत्राप्यस्ति । जलाद्यर्थकार्यसुखं तु अर्थस्य मिथ्यात्वान्नियमेन भ्रममात्रे नास्ति । तस्मादन्वयव्यतिरेकाभ्यां सुखहेतुत्वं सत्यस्यैवेति भावः । अतस्सत्यस्यैव सुखहेतुत्वात् ।। १३६–१३९ ।।
सत्यप्रमोदटीका
इत्थं सरूपत्वहेतोरसिद्धत्वात्, उक्तरीत्या सत्यजग-द्द्वयाङ्गीकारापत्त्या विरुद्धत्वाच्च ।। निदर्शनाभावात् सर्वत्र भ्रान्तौ, अधिष्ठानस्य, प्रधानस्य, द्रष्टुः,तद्देहेन्द्रियादिकस्य, दोषस्य, बाधस्य, इत्येतदादीनां सत्यत्वा-वश्यम्भावादित्याशयः
।।१३७–१३९ ।।
युक्तिमल्लिका
अतस्सर्वं जगदिदं सत्यसङ्कल्पतः प्रभोः ।
जायमानं सदा सत्यमित्याहोत्तरवागियम् ।। १४० ।।
सुरोत्तमटीका
उत्तरवाक् इच्छामात्रमिति वाक् । अतः मायासृष्टिमतस्य व्याहतत्वात् । प्रभोस्सत्सङ्कल्पतः जायमानमिदं सर्वं सदा सत्यमित्याहेति योजना ।। १४० ।।
सत्यप्रमोदटीका
सत्येति समर्थप्रवृत्तिप्रयोजकेत्यर्थः ।। १४० ।।
युक्तिमल्लिका
स्वप्नमायासरूपत्वे त्वीषन्मिथ्या जगद्भवेत् ।
सर्वमिथ्यात्ववादोऽयं न श्रौतो नापि यौक्तिकः ।
इत्याह पूर्ववाक्ये सा शब्दशब्दार्थवेदिनाम् ।। १४१ ।।
सुरोत्तमटीका
पूर्ववाक्ये स्वप्नमायासरूपेति वाक्ये ।। १४१ ।।
सत्यप्रमोदटीका
यौक्तिक इति ‘एकदेशापवादेन कल्प्यमाने तु बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः’ इति युक्तिसंमतः
।। १४१ ।।
युक्तिमल्लिका
वागीशयोग्या वागेषा यदनेकैर्मुखैस्स्वकैः ।
प्रतिवक्ति परान्सर्वान् वक्ति विष्णोर्गुणानपि ।। १४२ ।।
एवञ्च सर्वमिथ्यात्ववादस्ते नैव शोभते ।
विश्वसत्यत्ववादो नः श्रुत्युक्तः शोभतेतराम् ।। १४३ ।।
सुरोत्तमटीका
वागीशयोग्या चतुर्मुखयोग्या । नानाभावभरितश्रुति-वचनानामर्थं चतुर्मुख एव वदेत् नापर इति भावः ।। १४२,१४३ ।।
सत्यप्रमोदटीका
वागीशः भाविचतुर्मुखः श्रीमध्वः ।। १४२–१४३ ।।
युक्तिमल्लिका
स्वप्नमायादिदृष्टान्तैर्जगन्मिथ्यात्वसाधनम् ।
उक्तश्रुत्या बाधितत्वान्नैव शक्यं परस्य तत् ।। १४४ ।।
सुरोत्तमटीका
जगन्मिथ्यात्वसाधनमनुमानेन मिथ्यात्वसाधनमित्यर्थः । तत् तस्मात् श्रुतौ मिथ्यात्वस्य निन्दितत्वात् ।। १४४ ।।
सत्यप्रमोदटीका
बाधितत्वात् निन्दामुखेनेति भावः ।। १४४ ।।
युक्तिमल्लिका
शश्वद्यथार्थतो ह्यर्थान् व्यदधात्परिभूः कविः ।
इत्यर्थानां यथार्थत्वं श्रुतिरन्या जगाद ह ।। १४५ ।।
सुरोत्तमटीका
अन्या । कविर्मनीषीपरिभूस्स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्य इति निरवकाशा अपरा ।। १४५ ।।
सत्यप्रमोदटीका
‘कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इति श्रुतिं अर्थतोऽनुवदति शश्वदिति । ‘‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति । तच्चान्यथा क्वापि न कस्य चेदं अभूत्पुरा नापि तथा भविष्यत्’’ इति तत्त्वनिर्णयोदाहृतश्रुत्यनु-सारेणार्थमाह यथार्थत्वं इति । याथातथ्यतः याथार्थ्येनैव सत्यानेव इति तट्टीकायां व्याख्यातम् । ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’ इत्युक्त-रीत्या शाश्वतत्वं ज्ञेयम् ।। १४५,१४६ ।।
युक्तिमल्लिका
अतो यथार्थसृष्ट्युक्तेर्भ्रमजत्वकथा गता ।
शाश्वतत्वोक्तितश्चास्य बाधोऽभूद्बाधितस्तव ।। १४६ ।।
सुरोत्तमटीका
अस्य विश्वस्य ।। १४६ ।।