षष्ठेऽष्टकेऽन्तिमाध्यायद्वयमारभ्य सप्तमे
मध्वस्य वायोस्तृतीयावतारत्वे श्रुतयः
युक्तिमल्लिका
षष्ठेऽष्टकेऽन्तिमाध्यायद्वयमारभ्य सप्तमे ।
पवमानः पूयमानस्सोमश्चोक्तः पदे पदे ।। ४९९ ।।
सुरोत्तमटीका
षष्ठेऽष्टके अष्टाष्टकात्मकऋग्वेदस्य षष्ठाष्टके । अष्टाध्यायात्मक एको भागष्षष्ठाष्टकमित्युच्यते । अन्तिमाध्यायद्वयं पञ्चदश-वर्गेभ्य उपरि स्वादिष्ठयेत्यादिसप्तममध्यायं सम्पूर्णमष्टमञ्चाध्यायमित्यर्थः । सप्तमेऽष्टके पञ्चवर्गो नाध्यायपञ्चके । मिलित्वाऽऽदावन्ते च किञ्चिदूनाध्याय-सप्तक इत्यर्थः । वायोर्गमनं तस्य कर्ता पवमानः । पूयमानः पवित्री-करणसमर्थः । वायुर्वह्निश्शुचिश्श्रेष्ठ इति स्मृतेः । अत एव हि पांसवोऽस्मा-न्पुनंत्विति शुद्धिप्रार्थना । जाग्रत्स्वप्नसुप्त्याख्यावस्थासु देहिनां देहे श्वासरूपेण सत्त्वात्सोमः । निरुक्तत्वादाधिकारिकवर्गेषु वायोरतिशयेनोत्तमत्वज्ञापनार्थं वा कारस्याकाराख्यवर्णविकारः । द्वौ चापरौ वर्णविकारनाशाविति निरुक्तलक्षणे कथनात् । सु प्रसवैश्वर्ययोरिति धातोरौणादिके मप्रत्यये गुणे च कृते सति जगत्प्रसवितृत्वादैश्वर्यवत्त्वाद्वा सोमः । पितरतुलगुरो, पीठे रत्नोपक्लृप्ते रुचिर-रुचिमणिज्योतिषा सन्निषण्णमिति वचनात् ।। ४९९ ।।
सत्यप्रमोदटीका
मध्वाख्यो मारुतस्य तृतीयावतार इत्येतन्मन्त्र-सिद्धमिति समर्थयते षष्ठे इत्यादिभिः । तात्पर्यावधारणयोपक्रमं तावदाह पवमान इति । पवते इति पवमानः । उत्तरत्र तथैव वर्णनात् । पूयमानः पवित्रीकरणसमर्थः । अत एव ‘हंसाय तस्मै शुचिषद्मने नमः’ इति भागवते वायोः परमात्मसद्मनः शुचिरिति संज्ञा । तं प्रति ‘पांसवोऽस्मान्पुनन्तु’ इति शुद्धिप्रार्थना च । श्वासनियामकत्वात् जगत्प्रसवितृत्वात् ऐश्वर्यवत्त्वाद्वा सोमः । सु प्रसवैश्वर्ययोरिति धातुः । ‘मारुतिं प्राणिनां प्राणभूतं, नन्दयामो वयं नन्दतीर्थं,’ ‘पितरतुलगुरो,’ ‘पीठे रत्नोपक्लृप्ते’ इति वर्णितत्वात् ।। ४९९ ।।
युक्तिमल्लिका
स मध्व इति तत्रैव पवमानस्य मध्वता ।
यत्स्पष्टं श्रूयते तस्मान्मध्वाख्या मारुती तनुः ।। ५०० ।।
वेविजानः पृथक्कुर्वन्स मध्वः पञ्चधा जगत् ।
पृथग्भावातिशयवाग्विजे रूपमिदं यतः ।। ५०१ ।।
सुरोत्तमटीका
तत्र पूयमाने । यद्यस्मात् । मारुती मरुत्सम्बन्धिनी । समध्व इत्यनेन ‘‘स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः । समध्व आयुवते वे विजान इत्कृशानोरस्तुर्मनसा ह बिभ्युषा । तेनः पूर्वा स उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो न चारवो ब्रह्म ब्रह्म ये जुजुषुर्हविर्हविरि’’ति ऋग्द्वयं गृह्णाति । अयमस्यार्थः । सर्वेषां जीवानां पूर्व्यः पूर्वं विद्यमानस्सर्वजीवज्येष्ठ इत्यर्थः । ‘‘वन्द्यं चन्द्रेन्द्ररुद्रद्युमणि-फणिवयो नायकाद्यैरिहाद्ये’’ति वचनात् । स पवमानः पवते श्वासरूपेण पवनं करोति । यं पवनं दिवो द्युनामकवैकुण्ठलोकस्य परि परितो वदन्ति । ‘‘आनन्दान्मन्दमन्दा ददति हि मरुत’’ इति वचनात् । श्येनः शी निरवधिकसुखवान्नारायण आसमन्तादिनः प्रभुर्यस्य स तथोक्तः । त्राता यस्य त्रिधामेति वचनात् । इषितस्सज्जनानामिष्टः । ‘‘भ्रातरिष्टे’’ति वचनात् । यः पवमानो रजो रजोगुणनिर्मितं तदुपलक्षिततमोगुणनिर्मितं च दुश्शास्त्रं तिरस्तिरस्कृत्य ‘‘दुर्भाष्यं व्यस्य दस्योरि’’ति वचनात् । मथायद्वेदशास्त्राख्य-समुद्रस्य विचाराख्यमन्थनं कृतवान् । ‘‘असुकरमकरोर्ब्रह्मसूत्रस्य भाष्यमि’’ति वचनात् । सः दुश्शास्त्रमधःकृत्य सच्छास्त्रं प्रवर्तयन्पवमानो मध्वो मध्वनामा वेविजानः ईशजीवजडात्मकप्रपञ्चस्य विशेषेण पृथग्भावं कुर्वन् । सर्वथाऽ-तिरोहितस्य पुनस्समर्थनमपि करणमित्येवोच्यते । पञ्चभेदस्थापनं कुर्वन्नित्यर्थः । विजृ पृथग्भाव इति धातोः ।
आयुवते समंतात्सज्जनेषु सर्वदा मिश्रितो भवति । भेदशास्त्रमुपपादयंस्तेषु कृपां करोतीत्यर्थः । सज्जनान्मोदयन्तमिति वचनात् । दुर्जनेष्वमिश्रितश्च भवति । तदभिमतमद्वैतं खण्डयित्वा तत्रापि भेदस्यैव स्थापनात्तेषामसह्यो भवतीत्यर्थः । ‘‘दैत्यानामार्तिमन्धे तमसि विदधतामि’’ति वचनात् ‘‘प्रमदद-सुधियां मोहकद्वेषभाजामि’’ति वचनाच्च । यु मिश्रणामिश्रणयोरिति धातोः युत इति वक्तव्ये युवत इति बहुवचनं सकलसज्जनानां हृदिस्थरूपबाहुल्या-पेक्षया तत्रस्थितदुर्जनानां पराभावनाय गृहीतरूपबाहुल्यापेक्षया च व्यत्ययो बहुलमिति वचनाद्वा । वायोर्दिव्यानि रूपाणि पद्मत्रययुतानि चेत्यादिवचनात् । ‘‘स्वामिन्सर्वान्तरात्मन्नित्यादि वचनाच्च । इदित्थं मध्वरूपवदेव । कृशानो-र्ब्रह्मप्रलयकाले जलावरणोपरि तेजोरूपावरणतया स्थिताग्नेः अस्तुर्निरसन-शीलः । ‘‘असु क्षेपण’’ इति धातोरौणादिके तुन्प्रत्ययः । तेजसो वायौ विलयस्य शास्त्रसिद्धत्वात् । तेजोरूपावरणसंहर्ता वायुरूपावरणस्थो वायो-स्संहारकरूपविशेष इत्यर्थः । बिभ्युषा भयङ्करेण मनसा संहारकमूर्तित्वा-द्भयङ्करचित्तेन सहित इत्यर्थः । आयुवते विष्वगूर्ध्वमधश्च विद्यमाने आवरण-रूपवायौ । तत्र तत्रत्यतेजस्संहाराय बहुमूर्तिभिर्मिश्रितो भवति । अत्रापि रूपबाहुल्यविवक्षया बहुवचनम् । दंष्ट्रोग्रकरालवदनानां तेषां रूपाणामाश्चर्य-करत्वाद्धेत्युक्तम् अहो इत्यर्थः । अभेदि बभ्रे बभूवे । ‘‘येन भ्रूविभ्रमस्त’’ इत्यादिवचनात् । नोऽस्माकं पूर्वासः उपदेष्टृतया प्रेरकतया च ज्ञानोदयात्पूर्वं विद्यमानाः । इन्दवः इष्टदानशीलास्ते वायोरवताराः उपरासो मोक्षप्रापकतया तदुपयुक्तसंहारकर्तृतया च ज्ञानोदयादुपरि विद्यमानास्ते वायोरवताराश्च । आविष्कर्तुकामम् । ‘‘पितरतुलगुरो । तत्वज्ञान्मुक्तिभाजस्सुखयसि हि गुरवि’’त्यादि वचनात् । गोमते ज्ञानवते महे महते महे पञ्चपर्वाद्युत्सवे वा । वाजाय अन्नाय होतॄणां व्याख्यातॄणां च पोषणोपयुक्तान्नाय यज्ञसाधनाय यज्ञोपयुक्तान्नाय चेत्यर्थः । धन्वन्तुः धनदा भवन्तु । धन धान्य इति धातोः । ‘‘भूरि मे भूतिहेतुरि’’ति वचनात् । ये उक्ता द्विविधा अपि वायोरवताराः ।
अह्योऽहिसम्बन्धिन्यः रत्नप्रभाः न इव ईक्षेण्यास ईक्षणीयाः । वरेण्यपदवदौणादिकण्यप्रत्ययादिपदं द्रष्टव्यम् । रत्नप्रभावद्द्योतनाद्दिव्यदेहा इत्यर्थः । ‘‘निजरुचिनिकरव्याप्तलोकावकाशः । भूमिभूषामणिः । प्रोद्यद्विद्या-नवद्यद्युतिमणिकिरणश्रेणिसम्पूरिताश’’ इत्यादि वचनात् । चारवोऽगण्य-लावण्ययुक्ततया मनोहराश्च सन्तः । ‘‘सन्द्रक्ष्ये सुन्दरमि’’ति वचनात् । ब्रह्म ब्रह्मा देहिनां देहे देहे विद्यमानं परमात्मानं युगे युगे रामकृष्णव्यासादि-रूपेणावतीर्णं परमात्मानं च । जुजुषुस्सिषेविरे । जुषी प्रीतिसेवनयोरिति धातोः । ‘‘जुष्टिं मातरिश्वा जगाम ।’’ ‘‘आसेवोद्यद्दयार्द्रः । याभ्यां शुश्रूषुः । भक्तिमद्यापि राम’’ इति वचनात् । हविः यज्ञे यज्ञे याज्ञिकैर्वा यवे स्वाहेति दत्तं स्वं हविः हविः भोक्तृभिर्वैदिकैः प्राणादिपञ्चकरूपेण दत्तं हविर्हविः भीमरूपेणैकचक्रानगरे गृहे गृहे बकाय च दत्तं हविर्हविः मध्वरूपेण भिक्षादातृभिर्दत्तं हविर्हविश्च जुजुषुः प्रीत्या बुभुजिर इति । इममेवार्थं मनसि निधायाह ।। वेविजान इति ।। पृथग्भावातिशयकर्तृत्ववाक् । भेदस्य पारमार्थिकत्वाख्यातिशयसूचनार्थमेवं प्रयोगः । अत्यन्तभेदसूचनार्थं वा । विजेर्विजपृथग्भाव इति धातोरिदं वेविजान इति पदम् ।। ५००,५०१ ।।
सत्यप्रमोदटीका
तत्रैव अध्यायसप्तके पूयमानविषये वा । तस्मात् मध्वरूपश्रुतिसद्भावात् प्रकरणसद्भावाच्च ।। मध्वः मारुतीतनुरिति भावः ।। ‘स पूर्वः पवतेयम् दिवस्पतिरिश्येनो मथायदिषितस्तिरोरजः । स मध्व आयुवते वेविजान इत्कृशानोरस्तुर्मनसा ह बिभ्युषा । तेनः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो ३ न चारवो ब्रह्मब्रह्मये जुजुषुर्हविर्हविः’ इति ऋग्द्वयं मध्वश्रुतिघटितं पूर्वोक्तप्रतिज्ञासाधनाय व्याख्याति । वेविजान इति । विजः विजृ पृथग्भाव इति धातोः इदं वेविजान इति पदम् । पृथक् कुर्वन् ‘जीवेशयोर्भिदा चैव जीवभेदः परस्परम् । जडेशयोर्जडानां च जडजीवभिदा तथा । पञ्च भेदा इमे नित्याः सर्वावस्थासु सर्वदा’ इति प्रमाणोदाहरणेन समर्थयमानः।।५००,५०१ ।।
युक्तिमल्लिका
मिश्रोऽमिश्रश्च भवति सदा सुजनदुर्जनैः ।
युमिश्रणामिश्रणयोरिति धात्वर्थता द्वयोः ।
सख्यं नावैष्णवैर्यस्य प्रतीपो नैव वैष्णवे ।। ५०२ ।।
सुरोत्तमटीका
द्वयोर्मिश्रणामिश्रणयोः प्रतीपो विरोधः ।। ५०२ ।।
सत्यप्रमोदटीका
आयुवते यु मिश्रणामिश्रणयोरिति धातोः सज्जनै-र्मिश्रः दुर्जनैरमिश्रश्च भवति । ‘व्याप्तिर्यस्य निजे निजेन महसे’ति ‘व्यावृत्तिश्च विपक्षत’ इति चोक्तेः । बहुवचनं बहुरूपत्वतः ।। ५०२ ।।
युक्तिमल्लिका
इत्थं कृशानोरसनशीलोस्तु प्रलये सति ।
मनसा भीषकेणोग्रो वाया वायुवते सह ।
सत्यर्थे बहुतैकस्यैवास्ति यद्व्यत्ययस्ततः ।। ५०३ ।।
सुरोत्तमटीका
यद्यस्मादर्थे प्रयोजने सत्येकस्यैव रूपस्य बहुताऽस्ति यतश्च व्यत्ययो विभक्तिवचनादीनां व्यत्यासो वेदेऽस्ति ततस्तस्मात्कारणात्स आयुवत इति युक्तमिति हृदयम् ।। ५०३ ।।
सत्यप्रमोदटीका
कृशानोः प्रलयकालीनस्य ब्रह्माण्डावरणभूताग्नेः । अस्तुरित्यस्यार्थः असनशील इति । व्युत्क्रमेण अग्नेर्वायौ लयात् । ‘हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते’ इति भागवतोक्तेः बिभ्युषा भीषकेण मनसा चित्तेन सहितः संहाररूपत्वात् । आयुवते इत्येतदत्रापि सम्बध्यते । संहाराय सर्वतो दिक्षु मिश्रितो भवति । पूर्ववद्बहुरूपत्वाद्बहुवचनम् । व्यत्यय इति ‘व्यत्ययो बहुलं छन्दसि’ इति सूत्रात् ।। ५०३ ।।
युक्तिमल्लिका
ते वायोरवतारा नः पूर्वासो गुरुतां गताः ।
उपरासोऽपरासश्च प्रलये मुक्तिदायकाः ।। ५०४ ।।
सुरोत्तमटीका
उपरास इत्यस्य तात्पर्यकथनमपरास इति । पूर्वपद-समभिव्याहारसामर्थ्याद्वर्णव्यत्यासतो वाऽपरास इत्युक्तम्
।। ५०४ ।।
सत्यप्रमोदटीका
पूर्वासः ज्ञानोदयात्पूर्वं उपदेष्टृतया प्रेरकतया च विद्यमानाः । सत्ताप्रदवायुनामकचेष्टाप्रदप्राणनामकधारणाप्रदधर्मनामकरूपैः हृदि स्थिताः । अपरासः ज्ञानोदयानन्तरं मुक्तिप्रदभक्तिनामकरूपेण हृदि स्थिताः ।। ५०४ ।।
युक्तिमल्लिका
इन्दवश्चेष्टदातृत्वात्परमैश्वर्यतोऽपि वा ।
महेति महते वाजायान्नाय ज्ञानगोमते ।
धन्वन्तु धनदास्सन्तु धनधान्य इतीरणात् ।। ५०५ ।।
सुरोत्तमटीका
‘‘इदि परमैश्वर्य’’ इति धातोः परमैश्वर्यतो वेन्दव इत्युक्तम् । इन्द्रशब्दवदत्राप्यनुस्वार इति भावः । वाजाय अन्नं वै वाजमिति श्रुतेरन्नपदवाच्याय । ज्ञानगोमते ज्ञानाख्यगोमते ।। ५०५ ।।
सत्यप्रमोदटीका
इन्दवः भक्तिज्ञानाद्यैश्वर्येण सहभोगसंपदा च समृद्धाः स्वेष्टरमापतेरुपदेष्टारश्च । अन्नाय ज्ञानयज्ञार्थं अपेक्षिताय गुरुशिष्याणां पोषकान्नाय ।। ५०५ ।।
युक्तिमल्लिका
प्रसिद्धिं लौकिकीं सौत्रीं चाह रूपद्वयेऽस्य हा ।
इत्यर्थोऽत्र यतस्स्पष्टं दृश्यते पदसंपदा ।। ५०६ ।।
सुरोत्तमटीका
रूपद्वये उपदेशकरूपे संहारकरूपे च । अहा ओ-त्यव्यय शब्दः । आद्यरूपे पञ्चभेदख्यापकत्वस्यालौकिकीप्रसिद्धिः द्वितीयरूपे तेजस्संहारकत्वस्य विपर्ययेण तु लय इति सौत्रीप्रसिद्धिरिति भावः । आश्चर्यार्थस्याप्युपलक्षणमेतत् । अस्मदुक्तार्थद्वयार्थस्यापि सूचकमिदम् ।।५०६।।
सत्यप्रमोदटीका
लौकिकी ‘पितरतुलगुरो’ इत्यादिरूपा । सौत्री ॐ इयदामननात् ॐ विपर्ययेण तु क्रम इत्यादिरूपा ।। ५०६ ।।
युक्तिमल्लिका
पवमानेति सोमेति प्राक्प्रस्ताव्यैव यं श्रुतिः ।
सोमः पवत इत्याह स सोमो मारुतो ध्रुवम् ।
पवते नस्स किं नाभूत्पवमानो विदां मते ।। ५०७ ।।
सुरोत्तमटीका
पवमानेति सोमेत्यनेन ‘‘अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तदुशन्ति विश्व इमे सखायस्तदहं वद्मि पवमानसोमे’’ति श्रुतिं सङ्गृह्णाति । अयमर्थः । हे सोम सोमनामकपवमानमुख्यवायो । त्वं पवस्व इतस्ततो गमनं कुरु । तव पवनं विश्वे सर्वे इमे सखायो मममित्रभूता वैष्णवाः । अजीतये जीतिरसुरेभ्योऽस्मज्जयस्तदभावाय । अहतये तेभ्य एवा-स्मद्धननाभावाय । स्वस्तयेऽस्माकं क्षेमाय तुभ्यं च क्षेमदेभ्य इति वचनात् । सर्वतातये सर्वत्र विस्तारवते सर्वाभीष्टकराय वा । बृहते सर्वगुणपूर्णाय सर्वोत्त-माय च परमात्मने तत्सेवार्थमित्यर्थः । उशन्तीच्छन्ति च । त्वत्पवन-मुक्ताजीत्यादिफलाय वद्मि वच्मीच्छामि च । तव हनुमदवतारे राममूढ्वा सुग्रीवं प्रति पवनेन सीतान्वेषणार्थं मेरोर्दक्षिणभागे सर्वत्र पवनेन लङ्कायां प्रति पवनेन युद्धे सञ्जीवनार्थं पवनेन रथस्थरावणं प्रति राममूढ्वैवेतस्ततः पवनेन । भीमावतारे च कारागृहाद्युधिष्ठिरादीनूढ्वा गुहायां पवनेन एकचक्रानगरे बकवधार्थं पवनेन, कृष्णेन सह जरासन्धवधार्थं, पवनेन वनवासे सौगन्धिका-नयनार्थं पवनेन, युद्धे गदां गृहीत्वेतस्ततः, पवनेन च साधूनां राक्षसेभ्यः अहतिस्वस्तिरूपफलस्य रामकृष्णरूपिणो हरेस्सेवारूपफलस्य च दर्शनात् ।
मध्वावतारे च बाल्ये विमानगिरीन्द्रान्मातृगृहं प्रति पवनेन, गोरक्षणार्थं पवनेन, रामसेवार्थं प्रति पवनेन, ज्ञानदानार्थं देशे देशे पवनेन, द्वारका-पुरादागतकृष्णानयनार्थं, ज्ञानदृष्ट्यैव दृष्ट्वा विप्रैस्सह समुद्रं प्रति पवनेन, च दुर्मतप्रवर्तकेभ्यो दैत्येभ्यस्तवावतारप्रतिपादकसाधूनामज्ञानहत्याख्यफलस्य सत्यत्वस्थापनेन प्रपञ्चस्य सत्त्याख्यफलस्य मोक्षसाधनज्ञानात्परमस्वस्ति-रूपमोक्षाख्य फलस्य सूत्रापव्याख्याप्रत्याख्यानेन यथावस्थितार्थप्रतिपादक-भाष्यकरणेन हरेर्मूलरूपे सर्वावतारेषु च निर्दोषत्वव्याप्तत्वसर्वगुणपूर्णत्व-सर्वोत्तमत्वस्थापनेन च भगवत्सेवारूपफलस्य च दर्शनात् । एतदर्थप्रतिपादक-रामायणभारतवचनात् । ‘‘द्वैपायनस्य सेवार्थं बदर्यान्तु कलौ युगे । वायुश्च यतिरूपेण कृत्वा दुश्शास्त्रखण्डनमि’’त्यादि वायुपुराणवचनात् । ‘‘प्राक्पञ्चा-शत्सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वम् । मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे । देव्यादेशप्रणोती’’त्यादि वचनात् । ‘‘जघ्ने निघ्नेन विघ्नः । क्ष्वेलाक्षीणाट्टहासं तवरणमरिहन्नुद्गदोद्दामबाहो । गच्छन्सौगन्धिकार्थं पथि । बह्वीः कोटीरटीकः । ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येषपाषण्डवादः । तद्युक्त्याभासजाल-प्रसरविषतरूद्दाहदक्षप्रमाणज्वालामालाधरोऽग्निः ।। स्वच्छस्स्वच्छन्दमृत्यु-स्सुखय सिसुजनं देव किञ्चित्रमत्र । पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणी’’त्यादिवचनाच्च । मुख्यप्राणस्य पवन-प्रार्थनमिति भावः । अस्त्वस्यामृचि सोमेति पवमानस्य प्रार्थनम् । तथापि प्रकृते किमायातमित्यत आह ।। प्राक्प्रस्ताव्येति ।। यं पवमानम् ।। ५०७ ।।
सत्यप्रमोदटीका
प्रस्ताव्येति तत्प्रकारः प्राक् प्रदर्शित इति भावः । श्रुतिः ‘अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तदुशन्ति विश्व इमे सखायस्तदहं वद्मि पवमान सोम ।’ इत्येवंरूपा । अत्र खलु वायोः सखिभिः सुरैः स्वस्वामिनं वायुं प्रति बाह्याभ्यन्तरशत्रुनिग्रहाय स्वस्तये च प्रार्थनोच्यते ‘अयि स्वामिन् दुष्टान्दमय दमय व्यक्तमचिराद्गुणान्गूढान्विष्णोः कथय कथय स्वान्प्रमदयन्’ इति । तेन च एतत्प्रकरणोक्तो मध्वः पवमानो वायुरेवेति निश्चीयते इति भावः।।५०७ ।।
युक्तिमल्लिका
प्रसेनानीरिति श्रुत्या यद्भीमहनुमत्कथा ।
स्पष्टं निरूपिताऽत्रैव तत्सोमस्सोमवंशजः ।। ५०८ ।।
सुरोत्तमटीका
प्रसेनानीरित्यनेन ‘‘प्रसेनानीश्शूरो अग्रे रथानां गव्यं नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवांत्सखिभ्य आसोमो वस्त्रा रभसानि दत्त’’ इति श्रुतिं संगृह्णाति । अयमर्थः । शूरश्शौर्यवान् । गव्यं रथं विहाय गवि भूमौ पादचारेणैव गच्छन् । इदं च भीमासाधारणधर्मत्वा-द्भीमसेनत्वज्ञापकः । सेनानीः पाण्डवसेनानायको भीमसेन इत्यर्थः । भीमा सेना यस्येति व्युत्पत्त्या भीमसेनपदस्य सेनानीपदस्य च समानार्थकत्वात् । स्कन्दाख्यसेनान्याः पूयमाने प्रस्तावायोगात् । गव्यपदोक्तपदाचारयुद्धायोगाच्च भीमसेन एवायं सेनानीः । रथानां प्रति सेनास्थितरथिकरथानामग्र एति युद्धार्थं गच्छति । तदाऽस्य भीमसेनस्य सेना प्रहर्षते । भीमपराक्रमं दृष्ट्वा प्रकर्षेण हर्षं करोति । इन्द्रहवानिन्द्रेणाहूयन्त इति व्युत्पत्त्या कवीन्द्रस्य वेदव्यासस्य यादवेन्द्रस्य चाप्रतिमोऽयं पराक्रम इत्याह्वानयोग्यान्भद्रान्शोभनपराक्रमा-न्कृण्वन्कुर्वन्सोमस्सोमकुलोत्पन्नो भीमो धर्मराजस्य राज्याभिषेके युवराज-सम्पदमनुभवन्नाऽऽसमन्तादागतेभ्यस्सखिभ्यो वैष्णवेभ्यो रभसानि नोदरादि-सम्भ्रमवंति वस्त्रेषु रचितचित्रप्रतिमादिसम्भ्रमवन्ति च । ‘‘अर्श आदिभ्योऽ-जि’’ति मतुबर्थेऽच्प्रत्ययः । वस्त्रा वस्त्राणि । उपलक्षणमेतत् । धनभूम्या-भरणादीनि च दत्त इत्येकोऽर्थः ।
शूरत्वादिसकलविशेषणवान्सेनानीः कपिनायको हनूमांश्च । रथानां राक्षसरथानामग्र एति तदाऽस्य सेना प्रहर्षते । इन्द्रहवान्सीताप्रतिकृतिस्थित-देवेन्द्रस्य स्तुतिरूपाह्वानयोग्यान्भद्रान्समुद्रलङ्घनवनभङ्गलङ्कादाहादिशोभन-पराक्रमान्कृण्वन्सोमो हनुमदाख्यो वायुरासमंतात्स्थूलस्वपुच्छवेष्टनाय दैत्यजनै-र्दत्तानि रभसानि वस्त्राणि । सखिभ्यो वायोरग्निसखत्वात्पुच्छदत्ताग्निना स्वस्य क्लेशो नास्तीति सूचनाय सखिभ्य इत्युक्तम् । दत्ते स्वपुच्छे प्रक्षिप्ताग्निस्थित-विष्णोराहुतितया दत्तवानित्यर्थः । परकृतानिष्टमपि तस्य हरिसेवाख्यपुण्य-हेतुरेवाभूदिति भावः । इममेवार्थं प्रपञ्चयन्नाह । प्रसेनानीरिति श्रुत्येत्यादिना । यद्यस्मात्तत्तस्मात् ।। ५०८ ।।
सत्यप्रमोदटीका
‘प्रसेनानीः शूरो अग्रे रथानां गव्यं नेति हर्षते अस्य सेनाः । भद्रान्कृण्वन्निन्द्र ह वांत्सखिभ्य आ सोमो वस्त्रा रभसानि दत्त’ इति श्रुतौ भीमसेनस्य प्रकृष्टसेनानायकत्वं स्वसेनाप्रहर्षकत्वं युवराजपदे स्थित्वा विष्णुभक्तेभ्यो वस्त्रादिदातृत्वं संवर्ण्यते । एवं हनूमतो वानरसेनानायकत्वं तत्प्रहर्षकारणत्वं लङ्कादाहाय पुच्छपिधानाय शत्रूणां वस्त्रसञ्चयमादाय सखिभ्यो मरुत्सुहृद्भ्यः अग्निभ्यः प्रदानं चेति महिमा निरूप्यते । एवं मध्वस्य वैष्णवधुरन्धरत्वं मुकुन्दगुणवर्णनेन साधुवृन्दानन्दसन्दायित्वं, मोक्षे सङ्कल्प-मात्रे वस्त्रादिदानं चेत्येवमनुभावातिशयः प्रतिपाद्यते । एतेन विष्णु-भक्ताग्रणीत्वरूपस्य चरित्रसाम्यस्य शंसनेन वायोरेवैतदवतारत्रयमिति सुस्फुट-मित्याशयेन श्रुत्यर्थं विविनक्ति अग्रे इत्यादिभिः ।। ५०८ ।।
युक्तिमल्लिका
अग्ने रथानां सेनानीश्शूरोऽसौ भुवि यस्तदा ।
एति प्रहर्षते भीमसेनसेना तदा किल ।
भीमसेनो ह्यसौ सेनानीत्वं यत्तस्य शोभते ।। ५०९ ।।
सुरोत्तमटीका
यद्यस्मादसौ भीमसेनः । हि तस्माद्धेतोस्सेनानीत्वं तस्य शोभत इति सम्बन्धः ।। ५०९ ।।
सत्यप्रमोदटीका
सेनानीत्वमिति ‘अस्मिन्युद्धे भीमसेन त्वयि भारः समाहित’ इति कृष्णवचनात् ।। ५०९–५११ ।।
युक्तिमल्लिका
कवीन्द्रयादवेन्द्राद्धानोचितान् सुरराट्स्तुतान् ।
भद्रान्पराक्रमान्कुर्वन्युवराजपदे स्थितः ।। ५१० ।।
सखिभ्यो विष्णुभक्तेभ्यो वस्त्रावस्त्राणि सम्भ्रमाः ।
युतानि च समन्तात्स दत्ते किल दिने दिने ।। ५११ ।।
इति भीमं स्तौति सैव हनूमन्तं च शंसति ।
एकप्रकारकार्यत्वादेकरूपत्वतोऽपि वा ।। ५१२ ।।
भद्रान्कृण्वन्कवीन्द्रस्य राघवेन्द्रस्य वा प्रभोः ।
आह्वानार्हान्निजगुणान्सखिभ्योऽर्थे रिपोः पुरीम् ।
गत्वा वस्त्राणि चादत्ते रभसानि किल द्विषाम् ।। ५१३ ।।
सुरोत्तमटीका
सुरराड् देवेन्द्रः ।। ५१०–५१३ ।।
सत्यप्रमोदटीका
एकप्रकारेति । भगवत्कार्यसाधकत्वरूपेत्यर्थः ।। ‘इन्द्रहवान्’ इति श्रौतपदस्यार्थः ‘यादवेन्द्रः राघवेन्द्रः कवीन्द्र’ इति विष्णो रूपत्रयम् ।। ५१२–५१३ ।।
युक्तिमल्लिका
स्वबालासक्तवस्त्राणि सखिभ्योऽग्निभ्य एव वा ।
आसमन्ताद्विभुर्दत्ते प्रागादत्ते च तत्कृते ।। ५१४ ।।
द्विट्पुरीदाहपूर्वांश्च सीतास्थेन्द्रस्य तोषदान् ।
भद्रान्पराक्रमान्कुर्वन्वनभङ्गादिकान्प्रभः ।। ५१५ ।।
सुरोत्तमटीका
तत्कृतेऽग्न्यर्थम् ।। ५१४,५१५ ।।
युक्तिमल्लिका
अग्रे रथानामित्यादि योज्यमस्मिंश्च पूर्ववत् ।
स सोमः पवामानोऽस्मद्धनूमान्वा भविष्यति ।। ५१६ ।।
सुरोत्तमटीका
अस्मिन्पक्षे ।। ५१६ ।।
युक्तिमल्लिका
मतीनां जनिता विष्णोर्जनिता यः श्रुतौ श्रुतः ।
विप्राणामृषिरित्युक्तः स मध्व इति च श्रुतः ।। ५१७ ।।
एक एव भवेद्विष्णुर्मतिं विप्रेषु योऽदिशत् ।
विष्णोः प्रमापनाल्लोके स विष्णोर्जनिता श्रुतः ।। ५१८ ।।
यस्ता विजानात्स पितुः पितेत्यस्ति यतः श्रुतिः ।
देशकालगुणव्याप्तविष्णोर्जन्मेदमेव हि ।
यतः प्रागसतस्सत्ता कालव्याप्ते न शोभते ।। ५१९ ।।
सुरोत्तमटीका
‘‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः’’ । ‘‘ब्रह्मादेवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्नि’’ति श्रुतिद्वयार्थपर्यालोचनयापि मध्वस्यैवात्रोक्तसोमत्वं घटत इत्याह ।। मतीनां जनितेत्यादिना ।।
अयमर्थः । उपदेशादिना मतीनां बुद्धीनां जनिता । ‘‘अयमिहसुमतिं वायुदेवो विदध्यादि’’ति वचनात् । जीवजडात्मकप्रपञ्चस्य मिथ्यात्व-प्रतिपादनेन नष्टप्रायस्य सत्यत्वस्थापनेन पुनःप्रसवाद्द्युभ्वादीनामिन्द्रपर्यन्तानां जनिता । ‘‘उन्मथ्या तथ्यमिथ्या त्ववचनवचनानुत्पथस्थानि’’ति वचनात् । ‘‘ब्रह्मा देवानामि’’त्यव्यवहितोत्तरस्यामृचि देवानां मध्ये ब्रह्मेति वायोरेव चतुर्मुखब्रह्मत्वकथनाद्भाविपूर्वगत्या वाय्वादीनां जनिता । ब्रह्माणं भाविनं त्वामिति वचनात् । अथवा ‘‘साभ्रोष्णा भीशुशुभ्रप्रभमभयनभ’’ इत्यादि-वचनात् ‘‘वायुना वै गौतमे’’ति श्रुतेश्च महत्तत्वाभिमानिनो वायो-रप्यहङ्कारादितत्वस्रष्टृत्वसद्भावात्स्वमूलरूपापेक्षयैव मध्वेऽपि दिवो जनितेत्यादि योजनीयम् ।
सर्वोत्तमत्वादिमहिम्नो ज्ञापनाद्विष्णोर्जनिता । यस्ता विजानात्सपितुः पितेति श्रुतेः । ‘‘अजस्रसेवानुवृद्धप्राज्ञात्मज्ञानधूते’’त्यादिवचनात् । सोम-स्सोमनामको वायुस्सोमवच्छान्तमूर्तिर्मध्वाख्यो वायोरवतारो वा पवते हंसमन्त्रजपादिमहिम्नो ज्ञापनाद्धरिसेवार्थं पवते । देवानां मध्ये ब्रह्मा । विप्राणां मध्ये ऋषिर्ज्ञानोपदेष्टा गुरुरित्यर्थः । मृगाणां मध्ये महिषो बलदेवतात्वात् बलदायकतया महिषे स्थितः । गृध्राणां मध्ये श्येनो बलदायकतया श्येने स्थितः । वनानां छेदे स्वधितिर्बलदायकतया परश्वधे स्थितः । द्वयोः कुठारश्श्वधितिः परशुश्च परश्वध इत्यमरः । रेभन्गर्जनं कुर्वन् । भशब्द इति धातोः । सोमश्शैत्यदायकतया सोमे स्थितस्सोमनामको वायुः कवीनां ज्ञानिनां मोक्षं प्रति गन्तॄणां पदवीर्मार्गान्मोक्षमार्गभूतार्चिरादिविद्युदन्त-देवतालोकान् पवित्रं ज्योतिश्चक्रं चात्येत्यतिक्रम्य वर्तते । सर्वस्मादुपरितन-लोकाधिपतिरिति भावः । तत्पुरुषो मानवस्स एनान्ब्रह्मगमयतीति श्रुतेः । ‘‘ज्वलति निजपदे वैदिकाद्या हि विद्या’’ इति वचनात् । इममेवार्थं प्रपञ्चयितुं मतीनां जनितेत्यादि ।। ५१७–५१९ ।।
सत्यप्रमोदटीका
अत्र सर्वत्र सोमपदोक्तो मध्व एवेत्येतच्छ्रुत्यन्तरेण साधयति मतीनामिति ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ।। ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येतिरेभन्’ इति श्रुती व्याख्याति । जनितेत्यस्य सर्वत्र यथायोग्योऽर्थः ध्येयः । जनिता उपदेष्टा विष्णोः ‘तस्माद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यते इत्यादि व्याख्येयमिति’ इति सुधानुसारेणार्थो ध्येयः ।। इति च श्रुत एक एव भवेदित्युत्तरेणान्वयः ।। विष्णोरित्यस्य परममुख्यार्थत्व-मुपेत्याह विष्णोरिति । अस्मिन्पक्षे जनितेत्यस्यार्थः प्रमापनादिति ।। प्रमापयितरि जनिता पिता इति शब्दप्रयोगे श्रुतिसंमतिमाह य इति । न शोभते इति । ‘प्रीत्या मोक्षपरस्यास्य तात्पर्यं नैव दूषणे’ इत्यनुव्याख्यानोक्तेः ।। ५१७–५१९ ।।
युक्तिमल्लिका
द्यावापृथिव्यादिजन्महेतुत्वं ब्रह्मणो गुणम् ।
ऐक्याद्घटयितुं ब्रह्मा देवानामिति तं जगौ ।। ५२० ।।
सुरोत्तमटीका
यो मध्वस्तम् ।। ५२० ।।
सत्यप्रमोदटीका
ऐक्यात् ‘एको ब्रह्मा च वायुश्च’ इति श्रुतेः ।। ५२० ।।
युक्तिमल्लिका
बाधाभावे तु वाक्यानामर्थो वाच्यो यथाश्रुतः ।
बाधितार्थं तु यद्वाक्यं तत्सम्बन्धादिकं वदेत् ।। ५२१ ।।
सुरोत्तमटीका
तद्वाक्यम् । सम्बन्धस्सन्निधानादिकम् । आदिपदेन सादृश्यं गृह्यते ।। ४२१ ।।
सत्यप्रमोदटीका
वदेदिति । तद्गुणसारत्वादिति सूत्रोक्तदिशेति भावः ।। ५२१ ।।
युक्तिमल्लिका
अथवा पवनं नाम मरुतो गमनं किल ।
मतीनां जन्म किं तेन दिवो जन्म भुवश्च किम् ।
विष्णोर्जन्म ततः किं स्यात्तत्र तत्रोपदेशनात् ।। ५२२ ।।
मध्वाख्यदिव्यरूपेण मतीनां जनकोऽप्यभूत् ।
द्युभ्वादेर्जनकश्चाभून्मिथ्यात्वप्रविमोचनात् ।। ५२३ ।।
सुरोत्तमटीका
दिवो जनितेत्यादेस्सयुक्तिकमर्थान्तरं वक्तुमाह ।। अथवेति ।। तेन पवनेन । ततो वायोर्गमनाच्छ्वासोच्छ्वासादिरूपेण पवनेन जीवन हेतुतैव स्यान्न तु जन्महेतुता । द्युभ्वादिलोकेषु श्वासोच्छ्वासादेरप्य-भावादिति भावः । किं तर्हि जन्मेत्यत आह ।। तत्र तत्रेति ।।५२२,५२३।।
सत्यप्रमोदटीका
मध्वावतार एव द्यावापृथिव्यादिजनकत्वं घटयितुमाह मिथ्यात्वप्रविमोचनादिति ।। ५२३ ।।
युक्तिमल्लिका
नीचैक्यनिर्गुणत्वादेर्निराकरणतः प्रभोः ।
विष्णोश्च जनकोऽप्यासीद्भयत्राता पिता किल ।। ५२४ ।।
सुरोत्तमटीका
किलेत्यनेन ‘‘जनिता चोपनीता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरस्स्मृता’’ इति वचनं सूचयति । सर्वोत्तमे सर्वगुणपूर्णे च हरौ नीचैक्यनिर्गुणत्वादेर्भयरूपत्वात्सत्यस्य जगतो मिथ्यात्वस्यापि भयरूपत्वात्तन्मोचको मध्वो हरेर्जगतश्च त्रातृतया पितेति भावः।। ५२४ ।।
सत्यप्रमोदटीका
विष्णुविषयकमिथ्याज्ञानप्रसक्तदुर्गति भयात्सज्जनानां त्राणमेव उपचारेण विष्णुत्राणमित्यत्र स्मृतिप्रसिद्धिमाह किलेति ।। ‘भयात्त्राता पञ्चैते पितरः स्मृताः’ इति वचनात् ।। ५२४ ।।
युक्तिमल्लिका
स्वस्य स्वजगतश्चेत्थं स्थापनात्परितुष्यता ।
सत्यलोकाधिपत्ये च दत्ते ब्रह्माऽपि सोऽभवत् ।। ५२५ ।।
सुरोत्तमटीका
अस्मिन्पक्षे ‘‘ब्रह्मा देवानामि’’त्युत्तरश्रुतेःका सङ्गति-रित्यत आह ।। स्वस्येति ।। स मध्वः ।। ५२५ ।।
सत्यप्रमोदटीका
पूर्वोक्तं ब्रह्मैक्यमप्यनेनैव विवृतमित्याह स्वस्येति ।।
युक्तिमल्लिका
विप्राणामृषिरप्यासीद्यस्तानित्थमशिक्षयत् ।
स एव बलदेवोऽभूद्यद्बलाद्बलिनां बलम् ।। ५२६ ।।
सुरोत्तमटीका
तान् विप्रान् । यद्बलाद्यस्य सन्निहितपवनस्य बला-द्बलिनां महिषश्येनकुठारादीनां बलं स एव वायुरेव बलदेवोऽभूदिति योजना ।। वायोर्बलाधिदेवत्वसमर्थनाय ‘‘श्येनो गृध्राणामि’’त्यादिकमुक्तमिति भावः ।। ५२६ ।।
सत्यप्रमोदटीका
बलिनां महिषश्येनकुठारादीनाम् ।। ५२६ ।।
युक्तिमल्लिका
अत्येति मोक्षपदवीर्यन्मोक्षाध्वसु षोडशः ।
कालचक्रं च सोऽत्येति यतस्सर्वोच्चलोकगः ।
स रेभन्मेघगम्भीरनादी यत्प्रतिगर्जति ।। ५२७ ।।
सुरोत्तमटीका
यद्यस्मात्षोडशः पञ्चदशमोक्षमार्गस्थानेभ्य उपरितन-स्थाने विद्यमान इत्यर्थः । ‘‘उत्क्रान्तस्तु शरीरात्स्वाद्गच्छत्यर्चिषमेव तु । ततोऽतिवायोः पुत्रं च योऽसौ नाम्नातिवाहिकः । ततोहःपूर्वपक्षं चाप्युद-क्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च । सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमिति ब्रह्मतर्कवाक्ये वायुलोकस्य षोडशत्वकथनात्षोडश इत्युक्तम् । कालचक्रं कालप्रवर्तक-ज्योतिश्चक्रम् । स वायुः ।। ५२७ ।।
सत्यप्रमोदटीका
षोडशः प्राप्येषु मार्गदेवेष्विति भावः ।। कालचक्रं ज्योतिश्चक्रम् । अत्येतीत्यस्य विवरणं यत इति । रेभन्नित्यस्यार्थः मेघेति ‘वायुर्भीमो भीमनादो महौजा’ इत्युक्तेः ।। ५२७ ।।
युक्तिमल्लिका
एवं प्रत्युक्तिसद्रत्नमालाऽलङ्कुरुते गुरुम् ।
इति वा वाक्यसन्दर्भस्यार्थो यौक्तो भविष्यति ।। ५२८ ।।
सुरोत्तमटीका
श्रुत्युक्तसद्रत्नमाला श्रुत्युक्तमहिमाख्यसद्रत्नमाला ।। ५२८ ।।
युक्तिमल्लिका
पवमानः पूयमानो वायुस्सर्वस्य सम्मतः ।
तत्सूक्ते सहतेनोक्तस्सोमोऽन्यो न पदे पदे ।
समानाधिकृतत्वं यद्वस्त्वैक्यस्य प्रमापकम् ।। ५२९ ।।
सुरोत्तमटीका
तत्सूक्ते पवमानपूयमानसूक्ते । तेन पवमानादिनाम्नाम् । अन्यो वायोरन्यः । यद्यस्मात् ।। ५२९ ।।
सत्यप्रमोदटीका
समानाधिकृतत्वं ‘मतीनां जनिता’ इति पूर्वोक्तम् ।। ५२९ ।।
युक्तिमल्लिका
प्रावीविपदिति श्रुत्याऽप्येषोऽर्थस्स्पष्टमीर्यते ।
गिरः सिन्धुस्स मध्वाख्यो मनीषाश्च मनोरमाः ।। ५३० ।।
वाचश्चोर्मिं नोर्मिमिव सोमस्सोमाभिमानवान् ।
पवमानो मुख्यवायुरवतीर्णो महीतले ।। ५३१ ।।
प्रावीविपद्विशेषेण प्रावर्तयदिति स्फुटम् ।
अर्थः प्रतीयते सर्वैः प्रवृत्त्यर्थो यतो विपिः ।। ५३२ ।।
गोषु विद्यासु सर्वासु यानीमान्यवराणि च ।
जनैस्सर्वैस्स बहुशो वृतत्वाद्वृजनानि च ।। ५३३ ।।
राजसानि कुशास्त्राणि तामसान्यपि सर्वशः ।
जानंस्तदर्थदोषं च पश्यन्सुजनचेतसाम् ।। ५३४ ।।
सुरोत्तमटीका
वायोस्तृतीयावतारे वादिविवादपरिहाराय तमेवावतारं पुनरपि श्रुतिस्स्तौतीत्याह ।। प्रावीविपदिति श्रुत्येति ।। अनेन ‘‘प्रावी-विपद्वाच ऊर्मिं न सिन्धुर्गिरस्सोमः पवमानो मनीषाः । अन्तःपश्यन्वृजने मा वराण्याऽतिष्ठति वृषभो गोषु जानन्नि’’ति श्रुतिं सङ्गृह्णाति । अयमर्थः । गिरः क्षणे क्षणे स्वमुखान्निस्सरत्तरङ्गोपमवाक्यसमुदायस्य । जात्येकवचनत्वादयमर्थो लभ्यते । अन्यथा सिन्धुत्वस्यासम्बद्धत्वप्रसङ्गात् । सिन्धुस्समुद्र इव विद्यमानः। सद्योरचनपटुमथापाद्यविद्यासमुद्रेति वचनात् । यथा परिसरत्तरङ्गाणां समुद्र आधार एवमनन्तवेदवाक्यानां सकलविद्योपदेष्टृत्वादयमप्याधार इत्यर्थः । सोमस्सोमनामकः पवमानो मध्वरूपी वायु मनीषा मनसामिष्टाः वाचो वेदब्रह्मसूत्रादिवाचः ऊर्मिनोर्मिमिव प्रावीविपत्सकलसज्जनेषु प्रकर्षेणावर्तयत् । विप प्रवर्तन इति धातोः । मध्वाख्यसमुद्रे वाक्यतरङ्गोद्बोधनाय सोमरस प्रसवितृत्वेन सोमशब्दवाच्यचन्द्रस्यासमर्थत्वात्सकलसच्छास्त्रप्रसवितृत्वा-त्सोमोऽप्ययमिति भावेन सोम इत्युक्तम् । भगवद्दत्तसामर्थ्येनैव गिरामुद्बोधक इति भावः ।
दुश्शास्त्ररूपवाचां व्युदासाय मनीषा इति विशेषणम् । ‘‘त्वद्व्याख्या-सिंहनादे सपदि ददृशिरे मायिगोमायवः’’ । ‘‘वैदिकाद्या हि विद्यास्सेवन्त’’ इत्यादिवचनात् । अस्य च ब्रह्मसूत्रोपनिषदां भाष्यकर्तरि वैष्णवमतप्रवर्तके मध्वरूपे वायावेव सम्भवात्स मध्व इति प्राक्प्रस्तावितो मध्व एवात्रापि स्तूयत इति भावः ।
गोषु विद्यासु । वृजना यादृशतादृशजनैर्वृतानि न तु सज्जनवृतानि । इमानि ‘‘सुपां सुलुगि’’ति सूत्रेणेडादेशः अवराण्यनुत्तमानि मध्यमान्यधमानि पुराणशास्त्रादीनि । गोष्विति निर्धारणसप्तमीबलादत्रापि विद्यानामेव सङ्ग्रहः । अवरत्वोक्त्या च दुर्विद्यात्वमपि ज्ञातव्यम् । जानन्मध्यमतया च सङ्ग्राह्याणीति जानन् । अतस्तेषां शास्त्राणामन्तःपश्यन्पूर्वोत्तरविरोधादिदोषं पश्यन् । अन्तः-पश्यन्स्वहृदयकमले परमात्मानं च पश्यन् । वृषभस्सकलाधिकारिवर्गाणां श्रेष्ठो मध्वाख्यः पवमान आतिष्ठति समन्तात्सकलहृदयेषु तत्तच्छुभबुद्धिप्रेरकतया च तिष्ठति । अत एव पूर्वार्धेऽपि मनीषा इत्युत्तमविद्यानामेव सङ्ग्रहार्थं विशेषणम् । पूर्वोत्तराविरुद्धैव हि विद्या विद्वन्मनसामिष्टा न तु विरुद्धा । एवं च मनीषापदं सद्विद्यानामेव प्रापकम् । इममेवार्थमभिप्रेत्याह ।। गिर इत्यादिना ।। ऊर्मिं-नेत्यस्यार्थकथनमूर्मिमिवेति । सोमाभिमानवान्सोमलताभिमानवान् । अभिमन्यमानशब्दस्याभिमानिन्येव मुख्यत्वात्सोम इत्युक्तमिति भावः । अनेन कर्ममीमांसात्मकवाचामपि प्रवर्तक इति सूचयति ।। ५३०–५३४ ।।
सत्यप्रमोदटीका
‘प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः । अन्तः पश्यन्वृजने मावराण्या तिष्ठति वृषभो गोषु जानन्’ इति श्रुतिं व्याख्याति गिरः सिन्धुरिति ‘उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः’ इत्युक्तेः ।। मनीषाः वाचः प्रावीविपदिति योजना । मनसामिष्टा वेदसूत्रादि-वाचः ऊर्मिमिव सज्जनेषु प्रावर्तयत् ।। गोषु विद्यासु इमा इमानि । वृजना अव्यवसायिभिर्जनैवृतानि कुशास्त्राणि सदागमविरुद्धानि तदुदासीनानि च । जानन् तत्प्रसक्तदोषं च पश्यन् अन्तः सज्जनानां मनसि आतिष्ठति प्रतिक्षणं बुद्धिशोधकत्वेन सन्निधीयते ।। ५३०–५३४ ।।
युक्तिमल्लिका
अन्तरातिष्ठति हरिं पश्यंश्च वृषभः किल ।
वागूर्मिता वाक्प्रदत्वं बुद्धिदत्वादयो गुणाः ।। ५३५ ।।
सुरोत्तमटीका
अन्तः आतिष्ठतीति पदच्छेदः ।। ५३५ ।।
सत्यप्रमोदटीका
अन्तः इत्यस्यार्थान्तरम् अन्तरिति हृदयकमले इत्यर्थः ।। ५३५ ।।
युक्तिमल्लिका
सारासारविवेकश्च यद्गुरुत्वप्रमापकाः ।
अतः प्रागुक्तमध्वाख्यरूपवागेव वागियम् ।। ५३६ ।।
सुरोत्तमटीका
यद्यस्माद्रूपवाग्रूपप्रतिपादकवाक् ।। ५३६ ।।
सत्यप्रमोदटीका
फलितमाह अत इति ।। ५३६ ।।
युक्तिमल्लिका
हृदन्तः प्राणरूपस्य बहिश्च गुरुरूपिणः ।
पवमानस्य चरितं श्रुतिरित्थमबोधयत् ।। ५३७ ।।
सुरोत्तमटीका
अन्तरातिष्ठतीत्यस्य भावकथनायोक्तम् ।। हृदन्तरिति ।। प्राणरूपस्य नियामकरूपस्य ।। ५३७ ।।
सत्यप्रमोदटीका
प्राणरूपस्य तात्विकदेवताप्रेरकस्य ।। ५३७ ।।
युक्तिमल्लिका
उन्मध्व इति चान्या वाक्सूक्तेऽस्मिंस्तौति मद्गुरुम् ।
वसानो भूतले मध्वो महिषः सर्वतो महान् ।
ऊर्मिरुत्कृष्टमतिमानूर्मिवद्वासदोन्नदन् ।। ५३८ ।।
वननाभजनार्हत्वादपो ज्ञानप्रदत्वतः ।
ऋगादिविद्याः सरित इव विद्वान्विगाहते ।। ५३९ ।।
सुरोत्तमटीका
‘‘उन्मध्व इत्यनेन’’ उन्मध्व ऊर्मिर्वनना अतिष्ठपदपो वसानो महिषो विगाहते । राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहदि’’ति श्रुतिं सङ्गृह्णाति । अयमर्थः । वसानस्सत्यलोकादागत्य भूमौ निवासं कुर्वन् । ऊर्मिः उ उत्कर्षेणोरुरुर्वी मिर्मतिर्यस्य तथोक्तः । निरुक्त-त्वादुकारनाशः । अथवा सर्वेभ्य ऊर्ध्वं मिर्मतिर्यस्य स ऊर्मिः । अप्यदश्च साम्यान्निब्रूयादिति वचनात् । इय इत्यस्योर्ध्वमित्यप्यर्थसम्भवात् । महिष-स्सकलाधिकारिवर्गेषु श्रेष्ठः मध्वः । वनना वननीया भजनीया इत्यर्थः । वन सम्भक्ताविति धातोः । ‘‘कृत्यलुटो बहुलमि’’ति वचनादर्हार्थे ल्युट् । अथवा वन्यते सेव्यते भगवानाभिरिति वननाः । अपः आपयन्ति ज्ञापयन्ति परमात्मानमिति व्युत्पत्त्याऽप्पदवाच्या ऋगादिविद्याः अप इव विगाहते । सकलविद्यास्वपि स्वमनश्चारयित्वा विचारयतीत्यर्थः । पवित्रनामकसुदर्शन-चक्रमेव रथो रथ इव यस्य स तथोक्तः । चक्रोपरि स्थित इत्यर्थः । चक्रस्थितं चक्रिणमष्टबाहुमिति वचनात् । सहस्रभृष्टिश्चक्रसहस्रदलेषु सहस्रधा व्याप्त-स्वकरचरणशिरोरुहादिज्वालामाल इत्यर्थः । भ्रस्ज् पाक इति धातोर्भृष्टयः परदहनसमर्थकिरणाः । मध्याह्नसूर्यप्रतिमप्रकाशमिति वचनेन सुदर्शनाख्यहरे-रग्निवज्जाज्वल्यमानसर्वावयवत्वादिति भावः ।
यस्य राजा । सर्वेषां स्वामी सुदर्शनरूपी नारायणः । दुष्टसंहारकर्ता भक्तरञ्जकतां दर्शयितुमिदं विशेषणद्वयम् । बृहत्सर्वेभ्य उत्कृष्टं वाजमन्न-वदतिप्रियं श्रवः मध्वाचार्यैस्साक्षाद्भगवन्मुखाच्छ्रुतवेदपञ्चरात्रादिश्रवणमारुहत् सदा विषयतया तत्र संनिहितोऽभवदित्यर्थः ।
जयत्युत्कृष्टो वर्तते परानभिभावयति च । स्वकृतश्रवणपरितुष्टसुदर्शनकृपया मध्वस्य पूर्वार्धोक्तसकलविद्योद्धारणसामर्थ्यं विरोधिभूतसकलदुर्मतनिवारण-सामर्थ्यं च भगवन्मुखादेव श्रुतश्रवणबलाच्छ्रवणपरितुष्टदुष्टसंहारकसुदर्शनात्म-कात्युग्रभगवत्कृपया चेति दर्शयितुमुत्तरार्धं प्रवृत्तम् । दुर्मतप्रवर्तकदैतेयमुख-भङ्गस्य सुदर्शनस्थहरिणैव कर्तव्यत्वात् । अत एवारुहज्जयतीति क्रियाद्वयं चेति भावः । एतत्सर्वमभिप्रेत्याह ।। वसान इत्यादिना ।। ५३८,५३९ ।।
सत्यप्रमोदटीका
‘उन्मध्व ऊर्मिर्वनना अतिष्ठदपो वसानो महिषोऽव-गाहते । राजा पवित्रस्थो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहदि’ति श्रुतिभावं व्यनक्ति वसान इति । अवतीर्ण इति भावः । ऊर्मिवदिति न्यूनोपमा ‘गाम्भीर्यात्स्वनमधरीकरोति सिन्धोरि’ति सुमध्वविजयोक्तेः ।। ‘बुद्धिशुद्धि-करगोनिकराढ्यं तीर्थजातमुभयं च धरिण्याम् । आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः’ इति वचनोक्तमाह वननेति ।। अतिष्ठत् पर्यशोधय-दिति भावः ।। ५३८–५४० ।।
युक्तिमल्लिका
यस्मादुदस्थापयत्तास्तस्मात्सोऽतिष्ठयत्प्रभुः ।
अन्यार्थे पातनं पातस्स्वस्वार्थे प्राप्तिरुत्थितिः ।। ५४० ।।
सुरोत्तमटीका
अतिष्ठयदुदतिष्ठयदित्युच्यत इत्यर्थः ।। ५४० ।।
युक्तिमल्लिका
यस्य राजा पवित्राख्यसुदर्शनरथो हरिः ।
सहस्रारेषु यद्भृष्टिर्ज्वाला चाग्नेस्सहस्रधा ।। ५४१ ।।
सुरोत्तमटीका
यस्य मध्वस्य सहस्रारेषु यद्भृष्टिर्यस्य हरेर्भृष्टिः । भृष्टि-पदार्थमाह ।। अग्रेर्ज्वालेति ।। अग्नेरग्निवज्जाज्वल्यमानतया अग्निशब्दवाच्यस्य ।। ५४१ ।।
सत्यप्रमोदटीका
रथः चक्रोपरि स्थितः । ‘चक्रस्थितं चक्रिणमष्ट-बाहुमि’त्युक्तेः । भृष्टिशब्दस्यार्थः ज्वालेति ।। ५४१ ।।
युक्तिमल्लिका
सहस्रभृष्टिस्स बृहच्छ्रवः श्रवणमात्मनः ।
कृतं वाजं स्वेष्टदत्वादन्नमन्नसमं सदा ।। ५४२ ।।
आरुहद्विषयीभूय सदा तत्रैव संस्थितः ।
जयत्यखिलदुर्वृत्तांस्तस्यासाध्यं न किञ्चन ।। ५४३ ।।
सुरोत्तमटीका
तस्य मध्वस्य ।। ५४२,५४३ ।।
सत्यप्रमोदटीका
सः वेदव्यासः । श्रवणम् ‘अशृणोदनन्तहृद-नन्ततोऽचिरात्परमार्थमप्यगणितागमावलेरि’ति वर्णितम् । जयति उत्कृष्टो वर्तते । अभिभावयति च । तस्य एवं वेदव्यासप्रेष्ठस्य मध्वस्य ।।५४२,५४३।।
युक्तिमल्लिका
यस्य श्रवणसंपत्त्या विष्णुः प्रीतोऽभवत्प्रभुः ।
नापूर्वो निगमोद्धारस्तस्येति हृदयं श्रुतेः ।। ५४४ ।।
सुरोत्तमटीका
यस्य मध्वस्य ।। ५४४ ।।
सत्यप्रमोदटीका
ऊद्धारः निर्णायकसूत्रभाष्यरचनम् ।। ५४४ ।।
युक्तिमल्लिका
सप्तस्वसृरिति श्रुत्या मध्वः प्रस्तूयते स्फुटम् ।। ५४५ ।।
वावशानोतिशयितकान्तियुक्तस्सुखात्मकम् ।
कं ब्रह्म परमं विद्वान्मध्वो ज्ञानदृशे सताम् ।। ५४६ ।।
सुरोत्तमटीका
‘‘सप्तस्वसृरित्यनेन’’ सप्तस्वसृररुषीर्वावशानो विद्वा-न्मध्व उज्जभारादृशेकम् । अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिम-विदत्पूषणस्ये’’ति श्रुतिं गृह्णाति । अयमर्थः । वावशानोऽतिशयेन दीप्य-मानः । ‘‘वश कान्तावि’’ति धातोर्यङ्लुगन्तस्येदं रूपम् । ‘‘दीप्तांगुष्ठ’’ इत्यणुमध्वविजयवचनात् । कमानन्दरूपं परमात्मानम् । ‘‘कं ब्रह्म खं ब्रह्मे’’ति श्रुतेः । ‘‘श्रुतोपनिषत्कगत्यभिधानादि’’ति सूत्राच्च । विद्वान्साक्षा-त्पश्यन्सकलवेदार्थतया पश्यंश्च मध्वः । अऋषीः रोषविरोधिभूताश्शान्त्यादि-गुणदायका इत्यर्थः । वर्णव्यत्यासेन प्रलये भगवतोऽतिरिक्तऋषिरहिता वा । अकारवाच्यहयग्रीवाख्यऋषिसहिता वा । स्वसृस्स्वत एवार्थोपलब्धिपूर्वककर्तारं विना नित्यत्वात्स्वसामर्थ्यादेव स्वतन्त्रभगवतो मुखात्सॄस्सृता निस्सृता इत्यर्थः । ‘‘नित्या वेदास्समस्ताश्च शाश्वता विष्णुबुद्धिगाः । सर्गे सर्गेऽमुनैवेत उद्गीर्यन्ते तथैव चे’’ति वचनात् । स्वतन्त्रभगवतो मुखात्सृष्टाश्च । ‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । अष्टादशपुराणानां कर्ता सत्यवतीसुतः । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेदि’’ति वचनाच्च । सप्त ऋगादिचतुष्टय-
पञ्चरात्रपुराणभारतभेदेन सप्तसङ्ख्याका विद्याः । दृशे ज्ञानायोज्जभारोर्ध्वं जहार । ‘‘हृग्रहोर्भश्छन्दसी’’ति सूत्राद्धकारस्य भकारादेशः । अप्रमाणत्वपौरुषेयत्व-मिथ्यात्वावेदकत्वादिनाऽधःपतिताः प्रमाणत्वादिस्थापनेनोद्धृतवानित्यर्थः । ज्ञानार्थमुद्धृतत्वात् । ‘‘सप्तस्वसारो अभिसंनवन्ते यत्र गवां निहिता सप्त-नामे’’ति श्रुतिसमाख्यया च विद्या एव सप्तस्वसारः ।
अभि अभितः संनवन्ते स्तुवन्ति । यत्र यासु सप्तस्वसृषु गवां विद्यानां सप्तनाम नामानि संज्ञाः निहिता निहितानि ‘‘व्यत्ययोबहुलमि’’ति वचनात् बहुवचनस्थान एकवचनम् । एवं चात्र सप्तस्वसॄणां विद्यात्वेन स्पष्टमुदितत्वा-दत्रापि विद्या एव सप्तस्वसारः ।
केन सामर्थ्येन किमर्थं चोद्धृतवान् उद्धृत्य च किं कृतवानिति शङ्का-परिहारायोत्तरार्धस्य प्रवृत्तिः । पूषणस्य पूपूर्णौ षणौ बलनियमने बलानन्दावा यस्य स तथोक्तः । तस्य परमात्मनः अप्यक्षरसाम्यान्नि ब्रूयात् षकारो बलं णकारः प्राण आत्मा णश्च निर्वृतिवाचक इत्यादिवचनात् । ‘‘उणादयो बहुलमि’’ति सूत्रात् पॄपालनपूरणयोरिति धातोः औणादिक उप्रत्ययान्तो वा पूशब्दः । अस्यां व्युत्पत्तौ खलप्वादितिवत् पौ पूर्णौ षणौ यस्येति विग्रहः । पुष पुष्टाविति धातोः पूषा पूर्णः आनन्दो यस्येति वा ।
वव्रिःवरणमङ्गीकारं प्रसादमित्यर्थः । वृञ् वरण इति युवर्णान्ताद्धातोरा-दृगमहनजनः किकिनौ लिट्चे’’ति सूत्रात् किप्रत्यये लिट् भावे च कृते सति च क्रिमितिवत् वव्रिमिति शब्दो द्रष्टव्यः । इच्छन्मध्वः । ‘‘निखिलमखभुजं तर्पयामासिथासावि’’ति वचनात् । अन्तरिक्षे पुराजाः जगत्सृष्टेः पूर्वं जाताः । अपौरुषेयविद्यात्वेन कर्तुरभावादशरीरवाणीवदाकाशजा इत्युक्तम् । आकाशाभिमानिन्यां दुर्गायां वा पूर्वं जाताः । प्रलयावसाने प्राक् दुर्गया वेदैर्भगवतस्स्तोत्रकरणस्य प्रमाणसिद्धत्वात् । अन्तः ईक्षते सर्वमिति व्युत्पत्त्या अन्तरिक्षे परमात्मनि वा पूर्वं जाताः । प्रागुक्तवेदादिविद्याः अविदत् स्वयं ज्ञातवान् उपक्रमादिलिङ्गबलेन तत्तत्वार्थं सम्यग्ज्ञातवानित्यर्थः । अन्तः साधूनां हृदयान्तःस्थित्वा ता एव विद्या एव येमे न्ययमयत् प्रेरयामासेत्यर्थः । ‘‘स्वामिन्सर्वान्तरात्मन्नि’’ति ‘‘श्रावयास्मांश्च किञ्चिदि’’ति वचनात् । सकलवेदपुराणादीनां तत्वज्ञानवत्त्वाद्विष्णुप्रीत्यर्थं वेदादीन्स्वभाष्यादावुद्धृत्य सकलसज्जनेषु उपदिदेशेति भावः । इममेवार्थमभिप्रेत्याह ।। वावशान इत्यादिना ।। ‘‘कं ब्रह्म’’ इति श्रुत्यनुसारेणार्थः सुखात्मकमिति पूर्णसुख-मित्यर्थः । दृशे ज्ञानाय सतामिति योग्यतया सम्बन्धः ।। ५४५,५४६ ।।
सत्यप्रमोदटीका
‘सप्तस्वसृररुषीर्वावशानो विद्वान्मध्व उज्जभारा-दृशेकम् । अन्तर्येमे अन्तरिक्षेषु राजा इच्छन्वव्रिमविदत्पूषणस्य’ इति श्रुतिं व्याख्याति सप्तेत्यादिभिः ।। ५४५ ।।
युक्तिमल्लिका
ऋगाद्यास्सप्त सद्विद्यास्स्वतन्त्रेशसृतत्वतः ।
स्वसृस्स्वतः पूर्वजा वा परमात्ममुखाम्बुजात् ।। ५४७ ।।
सुरोत्तमटीका
स्वतः ब्रह्मणा सह जातात् स्वमूलरूपात् पूर्वं जाताः, पूर्वं जातः ब्रह्मसृष्टितोऽपि वेदसृष्टेः पूर्वकालीनत्वात् । स्वतःपूर्वं सृष्टत्वाद्वा स्वसृशब्दवाच्या इत्यर्थः ।। ५४७ ।।
सत्यप्रमोदटीका
स्वसृः स्वतन्त्रस्य हरेर्मुखान्निःसृता चतस्रः श्रुतीः एवं तेन रचिता इतिहासपुराणपञ्चरात्राख्याः श्रुतिसमाः तिस्रः विद्याः ।। ५४७ ।।
युक्तिमल्लिका
अरुषीस्सर्वभिन्नाख्यहयग्रीवर्षिसंयुताः ।
तदन्यद्रष्टशून्या वा लयेऽप्यच्युतबुद्धिगाः ।। ५४८ ।।
सुरोत्तमटीका
अऋषीरित्यस्यार्थकथनं सर्वभिन्नाख्यहयग्रीवर्षिसंयुता इति । सर्वभिन्नत्वात् अः इति आख्या यस्य सर्वभिन्नाख्यः । अ एव ऋषिर्यासां ताः अर्षयः । ताः अर्षीः ।। ५४८ ।।
सत्यप्रमोदटीका
अ सर्वभिन्नः हयग्रीव एव ऋषिः द्रष्टा यासां ताः । ‘यतस्ता हरिणा दृष्टा’ इति वाराहवचनात् । लयेऽपीति ‘‘शाश्वता विष्णुबुद्धिगाः’ इति वचनात् ।। ५४८ ।।
युक्तिमल्लिका
वर्णव्यत्यासतोऽस्त्वित्थं नोचेदक्रूररूपिणीः ।
उज्जभारोद्दधारात्मभाष्यादिग्रन्थविस्तरे ।। ५४९ ।।
सुरोत्तमटीका
नो चेत् वर्णव्यत्यासो नो चेत् । अक्रूररूपिणीः ‘‘रुष दाह’’ इति धातोः न विद्यते रुषिर्दाहो यासां याभ्यो वा ता अर्षय इति व्युत्पत्त्या नित्याः शान्ताश्चेत्यर्थः ।। ५४९ ।।
सत्यप्रमोदटीका
अर्षीरिति भाव्यम् । अरुषीरिति कथमिति तत्राह वर्णेति । अक्रूरेति सतां दुःखप्रहाणोद्देश्यकेत्यर्थः । उद्दधार असाधु-निबन्धान्धतमसावकुण्ठितान् यथावद्व्याचख्यौ ।। ५४९ ।।
युक्तिमल्लिका
असदास्यान्धकूपेभ्य उज्जह्रे वा बलात्प्रभुः ।
हभौ निभौ हृञि छन्दो भागे क्वापीति शाब्दिकाः ।
ज्ञानाय यासामुद्धारस्ता विद्या नात्र संशयः ।। ५५० ।।
सुरोत्तमटीका
असदास्यान्धकूपेभ्यः असतां मायावादिप्रभृतीनाम् आस्याख्यान्धकूपेभ्यः बलात् युक्तिबलात् । हभौ हकारभकारै निभौ समानौ । हृञि हृञिधातौ ।। ५५० ।।
सत्यप्रमोदटीका
हृञि धातौ । निभौ सदृशौ । तेन उज्जभारेति साधुः ।। ५५० ।।
युक्तिमल्लिका
पूषणस्य हरेः पूर्णबलप्रेरणकर्मणः ।
वव्रिं वरणमिच्छन्स प्रसादाभिधमुत्तमम् ।। ५५१ ।।
सुरोत्तमटीका
वरणं प्रसादाभिधमिति सम्बन्धः ।। ५५१ ।।
सत्यप्रमोदटीका
उद्धारे सामर्थ्यस्य कारणमाह पूषणस्येति पू इत्यस्य पूर्णमिति षकारस्य बलमिति णकारस्य प्रेरणमिति चार्थमाश्रित्याह पूर्णबल-प्रेरणेति । प्रसादाभिधमिति ‘यमेवैष वृणुते’ ‘वृणीमहे ते परितोषणाय’ इत्यादिप्रयोगादिति भावः । उद्धारे स्वप्रयोजनमुक्तम् ।। ५५१ ।।
युक्तिमल्लिका
अन्तरिक्षेन्तरिक्षाख्याऽव्याकृताकाशमानिनि ।
दुर्गाननाम्बुजे पूर्वं सर्वस्य जगतः पुरा ।
जाजातास्सप्तविद्यास्ता अन्तस्सुजनचेतसाम् ।। ५५२ ।।
मध्ये येमे न्ययमयत्स्वयं चाविददञ्जसा ।
आहान्तरिक्षे जातत्वमनादित्वं च सूचयन् ।। ५५३ ।।
सुरोत्तमटीका
जा इत्यनूद्य जाता इत्यर्थकथनम् । वेदद्रष्टा ऋषिः ।। ५५२,५५३ ।।
सत्यप्रमोदटीका
अन्तरिक्षो विष्णुः स्वतन्त्रज्ञानवान् । तस्माज्जाताः तद्बुद्धौ सर्वदा प्रतीयमानाः श्रुतीः । अव्याकृताकाशाभिमानिन्या दुर्गाया आस्यात्प्रलये विनिर्गता वा । न्ययमयत् दृढनिरूढानकरोत् । अनेन उद्धारस्य परप्रयोजनमपि फलमुक्तम्
।। ५५२, ५५३ ।।
युक्तिमल्लिका
इत्यस्तौत्पवमानस्य सूक्तेयं स्पष्टवागियम् ।
स मध्वः पवमानांशस्सिद्धो विद्वच्छिरोमणिः ।। ५५४ ।।
सुरोत्तमटीका
अस्त्वस्यां श्रुतौ प्रतिपादितो मध्वः आनन्दतीर्था-चार्यः । तस्य पवमानत्वं कथमित्यत आह ।। इतीति ।। ५५४ ।।
सत्यप्रमोदटीका
सिद्ध इति । न हि अन्यसूक्ते अन्यस्य प्रतिपाद्यत्वं सम्बोभवीति इति भावः ।। ५५४ ।।
युक्तिमल्लिका
विष्टम्भो दिव इत्यत्राप्युक्तो मध्वो गुरुर्मम ।
विष्टम्भो धारको योऽसौ दिवोधारणशीलवान् ।। ५५५ ।।
धरुणोऽस्याः पृथिव्याश्च विश्वाश्च क्षितयोऽस्य हि ।
हस्ते हस्तवशा मिथ्यात्वाख्यबाधविमोचनात् ।। ५५६ ।।
वायो तवांशुरंशाऽसौ मध्वस्तच्छीलशीलवान् ।
नितरां योगयुक्तत्वान्नियुक्तानुत्स उत्सुकः ।। ५५७ ।।
सुरोत्तमटीका
विष्टम्भो दिव इत्यनेन ‘‘विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नित्युत्वान्मध्वो अंशुः पवत इन्द्रियाये’’ति श्रुतिं गृह्णाति । अयमर्थः । हे पवमान दिवः स्वर्गलोकस्य विष्टम्भः आधारभूतः । पृथिव्याः भूलोकस्य धरुणः धारणशीलः । उभयोरपि मिथ्यात्वाख्यनाशत उद्धारात् लोकद्वयस्थसाधूनां गुरुत्वेनोद्धारकत्वाद्वा ‘‘श्रीमदानन्दतीर्थत्रैलोक्याचार्ये’’ति वचनात् । उत्सः हरिस्तोत्रकरणे हरिस्तोत्रश्रवणे च उत्सुकः । नियुत्वान् नितरां हरिविषयकयोगवान् । युत् योगः तद्वानित्यर्थः । हे वायो ते तव अंशुः अंशः । मूलरूपताच्छीलिकत्व-प्रदर्शनाय उकारः । मध्वः मध्वाचार्यः । असत् दुर्जनाज्ञेयत्वादसच्छब्दवाच्यं परं ब्रह्म । सदिधातोर्गत्यर्थकत्वात् गत्यर्थानां च ज्ञानार्थकत्वात् । गृणते गृणीते स्वयं स्तौतीत्यर्थः । बहुरूपापेक्षया बहुवचनम् । हरिस्तुतिं कुर्वति च इन्द्रियाय सज्जनवागिन्द्रियाय । हरिस्तुतिं कुर्वत्सज्जनवागिन्द्रियोद्बौधनायेत्यर्थः । पवते देशे देशे पवनं करोति । हरिस्तुतिरूपश्रुतिपुराणपञ्चरात्रादिकमुपदिश्य सज्जनवागिन्द्रियेण हरिं स्तावयितुं सर्वत्र सञ्चरतीत्यर्थः । ‘‘रचनपटुमथा-पाद्यविद्यासमुद्र वाग्देवी सा सुविद्या द्रविणदे’’ति ‘‘केशवानन्दतीर्थ-श्रीमत्पादाब्जभक्तस्स्तुतिमकृत हरेरि’’ति वचनात् । एत एव अस्य मध्वस्य विश्वाः समस्ताः क्षितय उत क्षितयश्च हस्ते तिष्ठन्ति । सकलदेशस्थसज्जन-गुरुत्वात् सर्वापि क्षितिर्हस्तवशैवेत्यर्थः । ‘‘जगदुतवशगमि’’ति वचनात् । इममेवार्थमभिप्रेत्याह ।। विष्टम्भ इत्यादिना ।। विष्टम्भ इत्यस्यार्थकथनं धारक इति । आधार इत्यर्थः । पृथिव्याः धरुण इत्यस्यार्थकथनं धारणशीलवानिति ।। ५५५–५५७ ।।
सत्यप्रमोदटीका
‘विष्टम्भो दिवो वरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नियुत्वान् मध्वो अंशुः पवत इन्द्रियाय’ इति श्रुतिं व्याचष्टे विष्टम्भ इति । दिवः स्वर्गलोकस्य । धरुणः धारणशीलः । विमोचनात् पराकरणात् । सत्यत्वसमर्थनादिति यावत् । ते तव । सर्वप्रकारेण मूलरूपशीलवान् । नित्युत्वान् नितरां अनवरतं योगयुक्तः ईश्वरप्रवणकाय-करणवृत्तिः । उत्सुकः ‘प्रवर्धतां भक्तिरलं क्षणे क्षणे’ इति प्रार्थनात्
।। ५५५–५५७ ।।
युक्तिमल्लिका
हरिस्तुतिश्रोतुकामस्सर्वैश्चादृश्यरूपतः ।
असत्संज्ञं परं ब्रह्म गृणते स्तोत्रसञ्चयैः ।। ५५८ ।।
सुरोत्तमटीका
गृणते स्तुतिं कुर्वते ।। ५५८ ।।
सत्यप्रमोदटीका
सर्वैः असज्जनैः । सदेः गत्यर्थकत्वात् असत् अज्ञेयम् । गृणते बहुरूपत्वाद्बहुवचनम् ।। ५५८ ।।
युक्तिमल्लिका
वागिन्द्रियाख्येन्द्रियाय पवते प्रेरणेच्छया ।
सत्सु वाग्वैखरीरित्सुरेव सञ्चरति क्षितौ ।
इत्यर्थोऽत्र यतस्सम्यग्दृश्यते पदसम्पदा ।। ५५९ ।।
सुरोत्तमटीका
इन्द्रियाय पवत इत्यस्याभिप्रायमाह ।। सत्स्विति ।। एवेत्यनेन विरक्तशिरोमणेर्मध्वस्य प्रयोजनान्तरं नास्तीति सूचयति । यत इत्यस्य अतोऽत्राप्युक्तो मम गुरुरिति पूर्वेण सम्बन्धः ।। ५५९ ।।
सत्यप्रमोदटीका
इन्द्रियाय वागिन्द्रियवैखरीप्रदानाय । सत्सु पद्मनाभतीर्थप्रभृतिषु । पवते सञ्चरति ‘गोदावरीतटमगादलेशधीः’ इत्याद्युक्तेः।। ५५९ ।।
युक्तिमल्लिका
सिंहं न सन्तेति वाक्च मध्वस्य चरितं जगौ ।। ५६० ।।
सिंहं नृसिंहं विवृत नमोऽन्तो यस्य तं सुपः ।
लोपे नसान्तेति पदस्यार्थं दुर्जनसंहृतेः ।। ५६१ ।।
हरिं भक्तेषु शान्तत्वादरुषं रोषवर्जितम् ।
अयासमागतं स्तम्भात्प्रह्लादार्थं सभान्तरे ।
अस्य सज्जनवर्गस्य दिवो ज्ञानद्युतेः पतिम् ।। ५६२ ।।
सुरोत्तमटीका
सिंहं न सन्तेत्यनेन ‘‘सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परिपात्युक्षे’’ति श्रुतिं गृह्णाति । अयमर्थः । युत्सु वाग्युद्धेषु शूरः शौर्यवान् प्रथमः नृहरिशिष्येषु आद्य मध्वाचार्यः अस्य सज्जनवर्गस्य दिवः ज्ञानस्य पतिं सज्जनवर्गज्ञानदातारमित्यर्थः । अरुषं सज्जनेषु कोपरहितम् । अयासं स्तम्भमध्यादागतम् । अयतेः कसुन्प्रत्ययः अत्वसन्तस्य चाधातोरित्युपधायाः दीर्घः । हरिं दुर्जनसंहारकत्वाद्धरिनामकम् । नसन्त नसन्तं नसो नासापुटयोः अन्तः अवकाशो यस्य तं विवृतनासाप्रदेशमित्यर्थः । सुपां सुलुगिति सुपो लोपः । सिंहं नृसिंहं गाः विद्याः पृच्छते शिष्यो भूत्वा वेदादिसकल-सच्छास्त्राणामर्थं विचारयतीत्यर्थः । ‘‘नरसिंहोऽखिलाज्ञानमतध्वान्त-दिवाकर’’ इति ‘‘जयत्यानन्दतीर्थेष्टदेवता नरकेसरी’’ति वचनात् ‘‘पान्त्व-स्मानि’’ति ‘‘दूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैरिति वचनाच्च मध्वस्य नृसिंहशिष्यत्वप्रसिद्धेः । अस्य नृसिंहस्य चक्षसा ज्ञानचक्षुषा नृसिंहोपदिष्टज्ञानेनेत्यर्थः । उक्षा ज्ञानप्रोक्षणं कुर्वन् मध्वः परिपाति परितः सज्जनवर्गं पातीति । इममेवार्थमभिप्रेत्याह ।। सिंहं नृसिंहमित्यादिना ।। विवृतनसः विवृतनासापुटस्य अन्तःपरं प्रदेशः । अर्थं अर्थभूतम् ।। ५६०–५६२ ।।
सत्यप्रमोदटीका
‘सिंहं न संत मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते मा अस्य चक्षसा परिपात्युक्षा’ इति श्रुतिं विवृणोति मध्वस्येति ।। सिंहं नामैकदेशे नामग्रहणम् । नसन्त सुलोपः । दुर्जनसंहाराय विवृतनासापुटम् । ‘अम्भोधयः श्वासहता विचुक्षुभुः’ इत्युक्तेः ।। भक्तेष्विति ‘दारितारातिदूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः’ इत्युक्तेः । ज्ञानद्युतेः पतिं अखिलाज्ञानमतध्वान्तदिवाकरम् ।। ५६०–५६२ ।।
युक्तिमल्लिका
शूरोतिशौर्यवान्युत्सु वाग्युद्धेषु महीतले ।
मध्वो मध्वाभिधो योगी श्रोतृषु प्रथमस्सदा ।
गा गोपदोक्तसद्विद्या व्यक्त्युत्कर्षाय पृच्छते ।। ५६३ ।।
अस्य प्रसादादाप्तेन चक्षसा ज्ञानचक्षुषा ।
सत्सु बोधोक्षणं कुर्वन्नुक्षा भिक्षुगणाग्रणीः ।
परिपाति सतां वृन्दमित्यर्थोऽत्र स्फुटो यतः ।। ५६४ ।।
सुरोत्तमटीका
गा इत्यनूद्य गोपदोक्तसद्विद्या इत्यर्थकथनं व्यक्त्युत्कर्षाय ज्ञानाभिव्यक्तेरुत्कर्षाय ऋजुयोगिज्ञानस्यानादित्वादुत्कर्षायेत्युक्तम् ।। ५६३,५६४ ।।
सत्यप्रमोदटीका
गाः विद्याः । बुद्धिशाणत्वसिद्धये किञ्चित् अप्राप्त-लाभाय च । पृच्छते उत्तरश्रवणेन विशेषज्ञानवांश्च भवति ।। उक्षा ज्ञानामृत-सेचकः । प्रथमः भिक्षुगणाग्रणीः ‘पारिव्राज्याधिराजः’ इत्युक्तेः ।। ५६३,५६४ ।।
युक्तिमल्लिका
प्रधारा मध्व इत्यत्राप्युक्तो मध्वस्य विक्रमः ।। ५६५ ।।
अग्य्रो मध्वो मध्वमुनिः प्रकृष्टज्ञानधारया ।
सहिताः सप्तविद्याख्या महीस्स महतीरपः ।। ५६६ ।।
सुरोत्तमटीका
प्रधारेत्यनेन ‘‘प्रधारा मध्वो अग्रियो महीरपो विगाहते । हविर्हविष्षुवन्द्य’’ इति गृह्णाति । अयमर्थः । अग्रियः श्रेष्ठः हविः विष्णोर्हविरिव प्रियः प्रलयकाले हविर्भूतो वा । हविष्षु हविर्भूतेषु देवेषु वन्द्यः स्तुत्यः हविः ज्ञानयज्ञे विष्णोः परिवारतया ध्यानार्थमाहूयमानः हविष्षुवन्द्यः तत्रैवाहूयमानदेवेषु स्तुत्यः हविः यज्ञवेद्यां ‘‘वायवायाही’’ति मन्त्रेणाहूय-मानः । हविष्षुवन्द्यः तत्रैवाहूयमानदेवेषु स्तुत्यो वा । मध्वः मध्वाचार्यः । प्रधाराः प्रकृष्टज्ञानधारासहिताः महीः महतीः । अपः ज्ञानसाधनीभूता ऋगादि सप्तविद्याः विगाहते स्वबुद्ध्या अवगाहते । सूत्रभाष्यकरणार्थं विचारयतीत्यर्थः ।
अथवा बदरिकाश्रमगमनकाले अग्रियः स्वशिष्याणामग्रीभूत्वा गच्छन् अग्रतो गच्छन्नित्यर्थः । हविः अपारगङ्गापारगततुरुष्कभटैर्माऽऽयाहीत्याहूतः आहूतस्वशिष्येषु भयात् स्तुत्यश्च मध्वः प्रधारा प्रकृष्टधारारूपप्रवाहसहिताः महीः कूर्मपृष्ठवाहित्वान्महतीः अपः बहुतरगङ्गाजलानि विगाहते स्वशिष्या-न्स्कन्धभुजादिषु बिभ्रद्बलाद्विगाहते । अथवा प्रधाराः प्रकृष्टसूर्यधारादिसहिताः मार्गस्थसपादलक्षपर्वतविषमभूमीः अपः पर्वते तत्र तत्र गमनप्रतिबन्धकी-भूतनदीप्रवाहांश्च विगाहते । ‘‘वारयत वारयत वैरि सुहृदोऽमून्मारयत मारयत पारगमनात्प्राक् । आपतत आलपत इत्यवददुच्चैः सत्वरकराजपुरुषानुचित-वाचे’’ति मध्वविजयवचनात् ।
सागस्त्वादीशदेवं परवशखननं यो व्यधादप्लवस्स्वै
र्गङ्गातारी स्वनीत्या वशितयवनराड् वर्त्मनि क्वापि चोरान् ।
हन्तुं यातान्मिथोहन्क्वचिदपि निजशिष्येण चाद्रावयद्द्रा
ग्योगेनासीच्छिलाभः क्वचिदपि सगणस्तं महेक्षं दिदृक्षे ।।
इति अणुमध्वविजयवचनाच्च ।।
इममेवार्थं मनसि निधायाह ।। अग्य्र इत्यादिना ।। ५६५, ५६६ ।।
सत्यप्रमोदटीका
‘प्रधारा मध्वो अग्रियो महीरपो विगाहते । हवि-र्हविष्षु वन्द्य’ इति श्रुतिभावं व्यनक्ति अग्रय इति । प्रधाराः प्रकृष्टज्ञानधारया सहिताः । महीः महतीः अपः सप्तविद्याः विगाहते भाष्यादिनिर्माणाय विचारयति ।। ५६५, ५६६ ।।
युक्तिमल्लिका
हविर्वन्द्यः स्वयं विष्णोर्हविः प्रियतमत्वतः ।
ध्यातृभिर्ज्ञानयज्ञेषु हूयमानत्वतोऽपि वा ।। ५६७ ।।
सत्यप्रमोदटीका
हविः हविरिव विष्णोः प्रेयसां प्रेष्ठः । स्वयं प्रलये हविः विष्णौ हव्यमानो वा । हूयमानत्वतः ‘नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि’ इत्येवंप्रकारेणेति भावः ।। ५६७ ।।
युक्तिमल्लिका
हविर्ज्ञानघृतस्रावी तेषु तत्प्रतिमात्वतः ।
स्तुत्यो वा तास्स्फुटीकर्तुं स्वबुद्ध्येत्थं विगाहते ।। ५६८ ।।
प्रकृष्टसूर्यधारादिधारा विषमभूमयः ।
यासु ताः पर्वतमहीस्सर्वाः पथि पथि प्रभुः ।
प्रकृष्टोग्रप्रवाहाख्यधाराश्च सरितामपः ।। ५६९ ।।
सुरोत्तमटीका
तेषु ध्यानायाहूयमानदेवेषु । तत्प्रतिमात्वतः देवानां मध्ये ध्येयस्य विष्णोः प्रतिमात्वतः मध्वाचार्यहृत्कमल एव सद्भिर्विष्णो-र्ध्यानादिति भावः । ताः सप्तविद्याः ।। ५६८,५६९ ।।
सत्यप्रमोदटीका
प्रतिमात्वतः मुख्यसन्निधानपात्रत्वहेतोः । वा ताः इति पदच्छेदः । स्तुत्यः ‘श्रीमध्वहृत्कमलवासरमानिवासः प्रीतोऽस्तु’ इत्येवं रीत्या ।। यद्वा प्रधाराः विषमभूमयः ‘व्याश्रयान्तरसुदूरशिलासु’ इति बदरिकाध्वनि दुर्गमप्रदेशान् । यद्वा प्रधाराः तुरङ्गतरङ्गमालाः गङ्गायाः प्रवाहधाराः ।। ५६८,५६९ ।।
युक्तिमल्लिका
अग्य्रो मध्वो मध्वमुनिर्गच्छन्बदरिकाश्रमम् ।
अग्रीभूत्वा व्रजन्वाऽसावग्रियोऽग्रेसरस्तदा ।। ५७० ।।
नेत्याहूतो म्लेच्छभटैस्तैराहूतस्वसेविषु ।
वन्द्यस्स्तुत्यचरित्रश्च लीलयैव विगाहते ।। ५७१ ।।
इदं च नाद्भुतं तस्य यो हविर्वायुरूपतः ।
आहूयते यज्ञवेद्यां तत्राहूतसुरेषु च ।। ५७२ ।।
सुरोत्तमटीका
आहूतस्वसेविषु आहूतेषु स्वशिष्येषु ।। ५७०–५७२ ।।
सत्यप्रमोदटीका
अग्य्रः ‘इमान् स्वस्वपूर्वाश्रयान्’ इति वाक्यात् अग्रगामी ।। नेति ‘वारयत वारयत वैरिसुहृदोमून्’ इति वार्यमाणः । सेविषु शिष्येषु ।। आहूयते ‘वायवायाहि दर्शते’ति मन्त्रेण ।। ५७०–५७२ ।।
युक्तिमल्लिका
हविष्षु वन्द्यस्तस्येदृङ्माहात्म्यं युक्तमेव हि ।
इति वा सा श्रुतिस्सत्सु प्रसिद्धां तत्कथां जगौ ।। ५७३ ।।
सुरोत्तमटीका
तस्य मध्वस्य । प्रसिद्धां मध्वविजयादिवाक्येषु प्रसिद्धाम् ।। ५७३ ।।
सत्यप्रमोदटीका
हविष्षुवन्द्यः ‘वायुना त्रिरपि पूर्वपायिना सर्वदैवत-जिता तरस्विना’ इति हविःपानार्हदेवेषु स्तुत्यः ।। ५७३ ।।
युक्तिमल्लिका
अस्मभ्यमिन्दवित्यत्राप्यस्मद्गुरुरभिष्टुतः ।। ५७४ ।।
अभीष्टदानशीलत्वादिन्दो हे पवमान ते ।
योवतारो महैश्वर्यवन्तं नारायणं सदा ।
युनक्तीतीन्द्रयुर्नाम्ना मध्वो मध्व इतीरितः ।। ५७५ ।।
तेन रूपेण विज्ञानधारया सह सर्वदा ।
अस्मभ्यमस्मानुद्दिश्य पर्जन्य इव वृष्टिमान् ।
पवस्वेति यतस्स्पष्टमर्थोऽत्रापि प्रतीयते ।। ५७६ ।।
मध्वस्स त्वं पवस्वेति वाऽऽशास्ते मुनिमण्डली ।
इत्यर्थोऽत्र यतस्स्पष्टं दृश्यते पदसम्पदा ।। ५७७ ।।
सुरोत्तमटीका
अस्मभ्यमिन्दवित्यनेन ‘‘अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया । पर्जन्योवृष्टिमा इवे’’ति श्रुतिं गृह्णाति । अयमर्थः । हे इन्दो इष्टदानशीलत्वादिन्दुनामकपवमान इन्द्रयुः परमैश्वर्यसंपन्नं परमात्मानं सदा युनक्तीति इन्द्रयुशब्दवाच्यः यो मध्वः मध्वाख्यः तेऽवतारः । तेन वृष्टिमान् पर्जन्य इव अस्मभ्यम् अस्मानुद्दिश्य धारया ज्ञानधारया सह पवस्व पवनं कुरु । त्वं पवस्वेति वा । मध्वरूपेण ज्ञानोपदेशं कुर्वन् अस्मल्लोकं प्रत्यागच्छेत्यर्थः ।। एतदेवाभिप्रेत्याह ।। अभीष्टदानशीलत्वादित्यादिना ।। ५७४–५७७ ।।
सत्यप्रमोदटीका
‘अस्मभ्यमिन्द्रदविन्द्रयुर्मध्वः पवस्व धारया । पर्जन्यो वृष्टिमां इव’ इति श्रुतिं विशदयति अभीष्टेति । इन्द्रयुः परमात्मविरहरहितः ‘नैष नाथविरही ततोऽभवदि’त्युक्तेः ।। पवस्व त्वच्चरित्रश्रावणेन पवित्रीकुरु । ‘इति विविधगोधारावारैर्विशारदवारिदो हरिपदरतः’ इत्याद्युक्तरीत्या स्वभक्तद्वारा भवघर्मपरिहारं कुर्विति भावः।।५७५–५७७।।
युक्तिमल्लिका
येन देवाः पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु मा ।
इति श्रुतिः प्राक्पवित्रमाम्नाऽऽहूय पुनश्च तत् ।
सहस्रधारं यत्प्राह तत्सहस्रारमेव तत् ।। ५७८ ।।
सुरोत्तमटीका
इदानीं तप्तसुदर्शनधारणस्यापि श्रुतिमूलतां दर्शयति ।। येनेति ।। अनेन ‘‘येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रं शतोद्यामंहिरण्मयम् । तेन ब्रह्म विदो वयं पूतं ब्रह्मपुनीमह’’ इति श्रुतिद्वयं गृह्णाति । अस्यायमर्थः । देवाः ब्रह्मदिदेवाः । पवित्राख्यतप्तसुदर्शनेन । उत्तरार्धे तेनेति पूर्वोक्तसुदर्शनधारणमेव परामृश्य पावमान्यः पुनंत्विति तस्यैव गुरुकरकमलेन प्रार्थितत्वादुभयत्रापि तप्तसुदर्शनधारणमेव गम्यते । गोपीचन्दनादिना स्वकरेण क्रियमाणतप्तचक्र-धारणस्य परहस्तानपेक्षणात् । आत्मानं स्वदेहं मनश्च सदा नियमेन श्रवणद्वादश्यादिपुण्यदिनेषु पुनते पवित्री कुर्वन्ति । गोपीचन्दनादिना प्रतिदिनं क्रियमाणचक्रधारणस्य सूचनायापि सदेत्युक्तम् । तेन सहस्रधारेण सहस्रं धाराः अराग्रधारा यस्य तेन । शतधाराख्यवज्रं परितः क्रूरधारावत् षट्कोणाकारचक्रं परितः दलाकारेण स्थितसहस्रारेषु सहस्रसङ्ख्याकक्रूराग्र-धारायास्सत्त्वात् वज्रस्यैव शतधारत्ववत् चक्रस्यैव सहस्रधारत्वम् । पूर्वोक्त-पवित्रपदस्यान्यार्थत्वशङ्कानिरासायोत्तरार्धे चक्रासाधारणसहस्रपदेन परामर्शः । उपलक्षणं चैतत् । सोमरसशोधकदशापवित्रस्य सदा देवाङ्गपवित्री-करणासम्भवाच्च सुदर्शनमेवेदं पवित्रमित्यपि द्रष्टव्यम् । अतो निरवकाशेयं श्रुतिः । पावमान्यः पवमानसम्बन्धिन्यः युगे युगे अवतारान्मध्वाचार्यस्य तनव इत्यर्थः । मा मां पुनन्तु भुजयोस्तप्तमुद्राधारणं कृत्वा पवित्रीकुर्वंत्वित्यर्थः । उत्तरश्रुत्यां दशापवित्रव्यावृत्त्यर्थं तस्यैव पवित्रस्य महिमोच्यते । प्राजापत्यं प्रजानामधिपतेर्नारायणस्य सम्बन्धि प्राग्विष्णुना स्वकरेणैव ब्रह्मभुजे अङ्कनाद्वा प्राजापत्यम् । शतोद्यामं शतशः उद्यामः प्रयोगकाले भ्रमणरूपसन्नाहो यस्य तत् । हिरण्मयं सौवर्णम् । इदं विशेषणत्रयं सुदर्शनस्यैव शोभते न तु दशापवित्रस्य । तेन अस्मद्भुजेंकिततप्तसौवर्णसुदर्शनचक्रेण । सुवर्णेन चक्र-करणस्य आगमिकत्वात् ब्रह्मविदः ‘‘अतप्ततनूर्नतदामो अश्नुत’’ इत्यकरणे प्रत्यवायप्रतिपादकवेदवाक्यविदः वयं पूतं स्वभावत एव पवित्रं ब्रह्मवेदं पुनीमहे विष्णुचक्राङ्करहितेन विप्रेण पठितवेदस्य शूद्रस्पृष्टब्राह्मणवत् अपवित्रत्वात् तप्तचक्राङ्कनं कृत्वाऽस्मत्पठितवेदं पवित्रीकुर्म इत्यर्थः । इममेवार्थं मनसि निधायाह ।। इति श्रुतिरिति ।। यद्यस्मात् । तत्तस्मात् । तत्पूर्वार्धोक्तं पवित्रम् । वज्रस्य शतधारशब्दवत् सहस्रधारस्यैव सहस्रधारत्वौचित्यादिति भावः।।५७८ ।।
सत्यप्रमोदटीका
अत्र ‘प्राजापत्यं पवित्रं शतोद्यामं हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्मपुनीमहे’ इति श्रुतिरपि ग्राह्या । व्याख्याति प्रागित्या-दिभिः । पवित्रनाम्ना पूर्वं सुदर्शनपरत्वेन पवित्ररथ इत्यादौ बहुत्र प्रयुक्तेनैव पवित्रेति नाम्ना । तत् सुदर्शनम् । पवित्रस्य चक्रत्वे युक्त्यन्तरं सहस्रधार-मिति । एवकारेण दशापवित्रादिव्यावृत्तिः ।। ५७८ ।।
युक्तिमल्लिका
देवाश्च येन चक्रेण लाञ्छितेन भुजे सदा ।
स्वस्वदेहं मनश्चापि पुनते वैष्णवोत्तमाः ।। ५७९ ।।
सुरोत्तमटीका
पूर्वार्धस्यार्थमाह ।। देवाश्चेति ।। आत्मपदस्य मनो-वाचित्वाद्देहवाचित्वाच्च देहं मनश्चापीत्युक्तम् ।। ५७९ ।।
सत्यप्रमोदटीका
लाञ्छितेन भुजे इति योग्यतया सम्बन्धः । सदेत्यनेन नित्यं गोपीचन्दनादिना प्रतिदिनं धार्यमाणं चक्रधारणमपि सङ्गृह्णाति । आत्मानं इत्यस्यार्थः देहं मनश्चापीति । देवा इत्यस्यार्थः वैष्णवोत्तमाः इति । ब्रह्मादयः ।। ५७९ ।।
युक्तिमल्लिका
तेन चक्रेण मरुतो मूर्तयो मां पुनन्विति ।
मुनिः प्रार्थयते कश्चिदित्यर्थोऽत्र दृश्यते ।
शब्दाननुपमृद्यैव शब्दशब्दार्थवेदिभिः ।। ५८० ।।
सुरोत्तमटीका
उत्तरार्धस्यार्थमाह ।। तेनेति ।। पावमान्य इत्यस्यार्थ-कथनं मरुतो मूर्तय इति । पवमानस्येमाः पावमान्यः । मुनिः एतच्छ्रुति-वाक्यद्रष्टा । अत्र श्रुतौ ।। ५८० ।।
सत्यप्रमोदटीका
उत्तरार्धं मुनिप्रार्थनापरं व्याचष्टे तेनेति । पावमान्यः मरुतो मूर्तयः । मुनिः एतद्वाक्यद्रष्टा ।। ५८०,५८१ ।।
युक्तिमल्लिका
एवं च सर्वदेवानां कार्यं चक्रादिधारणम् ।
प्रार्थ्यं महर्षिभिः को वा मानवोऽन्यो न मानयेत् ।। ५८१ ।।
सुरोत्तमटीका
फलितमाह ।। एवं चेति ।। ५८१ ।।
युक्तिमल्लिका
सदेत्युक्त्या च यद्गोपीचन्दनैश्चक्रलाञ्छनम् ।
अद्यापि कुर्वते वृद्धास्तच्च श्रुतिरसूचयत् ।। ५८२ ।।
सुरोत्तमटीका
वृद्धाः अद्यापि गोपीचन्दनैर्यच्चक्रलाञ्छनं कुर्वते तदिति सम्बन्धः । सदा सुदर्शनधारणस्य गोपीचन्दनेनैव सम्भावितत्वादिति भावः ।। ५८२ ।।
सत्यप्रमोदटीका
वृद्धा इत्यनेन अविगीताशिष्टाचारपरंपरामप्यत्र संवादयति ।। ५८२ ।।
युक्तिमल्लिका
देवास्तु तप्तचक्राङ्कयोग्ये शुभदिने सदा ।
तप्तेन तेन पुनते मृदा तल्लाञ्छनैस्सदा ।। ५८३ ।।
सुरोत्तमटीका
तप्तसुदर्शनधारणविषयेऽपि सदापदं योजयति ।। देवा-स्त्विति ।। शुभदिने श्रवणद्वादशीप्रथमैकादश्यादिदिने । तेन चक्रेण । मृदा गोपीचन्दनेन । तल्लाञ्छनैः चक्रलाञ्छनैः । सदा प्रतिदिनम् ।। ५८३ ।।
सत्यप्रमोदटीका
शुभदिने आषाढशुद्धैकादश्यादिपवित्रदिने । सदा प्रतिसंवत्सरम् । मृदा गोपीचन्दनेन । सदा प्रतिदिनम् ।। ५८३ ।।
युक्तिमल्लिका
इति पूर्वार्धवाक्यार्थो लभ्यते पदसम्पदा ।
उत्तरप्रार्थनाहेतुरूपया चार्थसम्पदा ।। ५८४ ।।
सुरोत्तमटीका
सदापदस्योक्तरीत्या तप्तसुदर्शनधारणविषये गोपी-चन्दनेन सुदर्शनधारणविषये च योजनासम्भवात् पदसंपदेत्युक्तम् । ननु तप्तेति पदाभावात् तप्तसुदर्शनधारणस्य कथमिदं वाक्यं प्रापकमित्यत आह ।। उत्तरेति ।। उत्तरप्रार्थना उत्तरार्धोक्तप्रार्थना । तस्या हेतुरूपया हेतुत्वरूपया । प्रार्थनायां हेतुत्वं गुरुकरपङ्कजेन क्रियमाणतप्तसुदर्शनधारणस्यैवोचितं न तु गोपीचन्दनादिना स्वकरेण क्रियमाणसुदर्शनधारणस्य । एवं चोत्तरार्धोक्त-प्रार्थनाबलात् पूर्वार्धेऽपि तप्तसुदर्शनधारणस्यैव प्रस्तुतिः । अन्यथा पूर्वोत्तरार्धयोर्वैयधिकरण्यप्रसङ्गादिति भावेनोक्तमर्थसंपदेति ।। ५८४ ।।
सत्यप्रमोदटीका
उत्तरार्धे मुनिप्रार्थनाऽनुपपत्त्याऽपि पवित्रपदस्य तप्तचक्रपरत्वार्थोऽवधार्यते इत्याह उत्तरेति ।। ५८४ ।।
युक्तिमल्लिका
अर्थ्यमानं तु मुनिना तप्तचक्रस्य लाञ्छनम् ।
गुरूणां करकञ्जेन धार्यं चक्रं तदेव हि ।
अतः पूर्वार्धवाक्येऽपि तप्ताङ्कप्रस्तुतिर्बलात् ।। ५८५ ।।
सुरोत्तमटीका
अतः पूर्वोत्तरार्धयोरैकार्थ्यावश्यम्भावात् । बलात् युक्तिबलात् ।। ५८५ ।।
सत्यप्रमोदटीका
बलात् अन्यथाऽनुपपत्तिबलात् ।। ५८५ ।।
युक्तिमल्लिका
मुनींश्च देवदेहांश्च शुद्धीकुर्वत्सुदर्शनम् ।
परं पवित्रमत्र स्यान्नान्यत्पुंमतिनिर्मितम् ।। ५८६ ।।
सुरोत्तमटीका
परं केवलं पवित्रं पवित्रपदवाच्यम् । देवऋष्यादिदेहं पावयतोऽस्मदुक्तसुदर्शनस्यैव पवित्रपदयोगार्थसम्भवात् सोमरसमात्रश्रपण-हेतुभूतदशापवित्रस्य सोमरसशोधयितृत्वमात्रसद्भावेऽपि सोमरसपावयितृत्वा-भावात् । देवाद्यङ्गपावयितृत्वस्य सुतरामभावाच्च चक्रमेवात्रोक्तं पवित्रमिति भावः । अत एव ग्रन्थकारः क्षालनाभावे स्पर्शायोग्यतया स्वतोऽपवित्र-पटखण्डरूपदशावस्त्रे पवित्रपदवाच्यसुदर्शनसन्निधानादेव पवित्रन्त इति मन्त्रस्य विनियोग इति वक्ष्यति ।। ५८६ ।।
सत्यप्रमोदटीका
अन्यत् परपरिकल्पितं दशापवित्रादिकम् ।। ५८६ ।।
युक्तिमल्लिका
अतोऽप्यन्यार्थकथनं व्यर्थमासीद्दुरात्मनाम् ।
सदेति च पदं कुप्येत्पवित्रान्तरकल्पने ।। ५८७ ।।
सुरोत्तमटीका
अतः उक्तयुक्त्या अस्यां श्रुतौ सुदर्शनस्यैव पवित्र-पदवाच्यत्वात् । अन्यार्थकथनं पवित्रं ते विततमित्यस्यां ऋचि पवित्रपदस्य दशापवित्ररूपार्थकथनम् । पवमाने प्राक् प्रस्तावितपवित्रस्यैव पूयमाने प्रस्ताव्यत्वादिति भावः । तर्ह्यत्रापि दशापवित्रस्यैव प्रस्तावोऽस्त्विति चेत् न । दूषितत्वात् । दूषणान्तरं चाह ।। सदेति ।। यज्ञ एव सम्भावितदशापवित्रस्य सार्वकालीनत्वायोगात् दिविस्थदेवेषु प्रायशोऽसम्भवाच्चेति ।। ५८७ ।।
सत्यप्रमोदटीका
कुप्येत् विरुध्येत । दशापवित्रस्य यज्ञ एव सम्भावितत्वादिति भावः ।। ५८७ ।।
युक्तिमल्लिका
अतः श्रुतिः पवित्रं त इत्यत्रापि सुदर्शनम् ।
प्रभोरायुधमेवाह नियोगस्तस्य सन्निधेः ।
अन्यत्रापि भवेदन्नमन्त्रणे सौरमन्त्रवत् ।। ५८८ ।।
सुरोत्तमटीका
अतः पूर्वश्रुतिसमाख्यानात् । आयुधं सुदर्शनम् । कथं तर्हि दशापवित्रपरतया अस्य मन्त्रस्य विनियोग इत्यत आह ।। तस्येति ।। तस्य सुदर्शनस्य संनिधेः दशापवित्रे सन्निधानात् । छिद्रे वस्त्रे पवित्रीकरण-शक्त्याधानाय सहस्रछिद्रसहितभगवत्सुदर्शनस्यैवावश्यं सन्निधेयत्वादिति भावः। अन्यत्र दशापवित्रे ।। अन्यार्थकमन्त्रस्यान्यत्रविनियोगे दृष्टान्तमाह ।। अन्न-मन्त्रण इति ।। सौरमन्त्रवत् गायत्रीमन्त्रवत् । सूर्यार्थकत्वसूचनाय सौरेत्युक्तम् ।। ५८८ ।।
सत्यप्रमोदटीका
अतः समाख्याबलात् अन्यत्र दशापवित्रे । नियोगः विनियोगः । तस्य सुदर्शनस्य । सौरेति सूर्यार्थकगायत्रीत्यर्थः
।। ५८८ ।।
युक्तिमल्लिका
पवित्रं चरणं नेमिररिश्चक्रं सुदर्शनम् ।
सहस्रारं प्राकृतघ्नं लोकद्वारं महौजसम् ।। ५८९ ।।
विष्णुचक्रस्य नामानि पर्यायेण निबोध मे ।
इति पाद्मोक्तगौरीशवाग्धि लिङ्गानुशासनम् ।। ५९० ।।
सुरोत्तमटीका
व्यासनिघण्टुपर्यालोचनयापि सुदर्शनमेव पवित्रपदवाच्य-मित्याह ।। पवित्रमिति ।। गौरीशस्य लिङ्गपदवाच्यत्वात् लिङ्गानुशासन-मित्युक्तम् । अमरसिंहादिग्रन्थं लिङ्गानुशासनमिति मानयता महालिङ्गानु-शासनमिदं कथं न माननीयमिति सूचनाय लिङ्गानुशासनमित्युक्तम् । अनेन ‘‘चरणं पवित्रं विततं पुराणं लोकस्य द्वारमर्चिमत्पवित्रमिति श्रुतिद्वयं सुदर्शनविषयमेवेति सूचितं भवति । परोदीरितपवित्रेचरणपदाप्रयोगाल्लोक-द्वारत्वायोगात् अनन्तासनलोकगमनायांधेतमसि द्वारं कृतवतश्चक्रस्यैव तद्योगाच्च ।। ५८९, ५९० ।।
सत्यप्रमोदटीका
लिङ्गेति । तत्पदवाच्यगौरीशेत्यर्थः ।। ५८९,५९०।।
युक्तिमल्लिका
पावमानी तनुश्चेयं स्यादाचार्यस्वरूपिणी ।
याऽस्य वैष्णवधर्मस्य सर्वत्रापि प्रवर्तिका ।। ५९१ ।।
सा च प्रसिद्धेर्बदरीमध्ये मुनिमनःप्रिया ।
व्यासकैङ्कर्यधुर्या च माध्वी भवितुमर्हति ।। ५९२ ।।
सुरोत्तमटीका
आचार्यस्वरूपिणी जगद्गुरुस्वरूपिणी । मुनिभिस्तत्कर-कृतपवित्रधारणेन स्वशुद्धेः प्रार्थितत्वात् । न तु बलकार्याय प्रवृत्ताहनूमदादि-तनुरित्यर्थः । या तनुः । अस्य तप्तमुद्राद्यारणाख्यस्य । प्रसिद्धेः लोकवेदयोः ।। ५९१, ५९२ ।।
सत्यप्रमोदटीका
आचार्यस्वरूपिणी न तु बलकार्यार्थे उपात्तहनुम-द्भीमरूपिणी । या तनुः । अस्य मुद्राधारणादिरूपस्य । प्रसिद्धेः सर्वप्रमाणैः प्रमितेः ।। ५९१, ५९२ ।।
युक्तिमल्लिका
युगे युगेऽवतीर्णानां बहुत्वमपि युक्तिमत् ।
द्विविधस्यास्य धर्मस्य मौल्यं सा मूर्तिरर्हति ।। ५९३ ।।
सुरोत्तमटीका
मौल्यं मूलस्य भावं मौल्यं मूलकारणत्वमित्यर्थः ।। ५९३ ।।
सत्यप्रमोदटीका
युगे युगे प्रवाहतः । अवतीर्णत्वात् अनन्तावतार-वत्त्वात् । द्विविधस्य तप्तचक्रस्य गोपीचन्दनचक्रस्य च धारणरूपस्य । मौल्यं मूलसम्प्रदायप्रवर्तकत्वम् । सा मध्वी ।। ५९३ ।।
युक्तिमल्लिका
बलकार्याणि रूपाणि वायोस्सन्तु सहस्रशः ।
ज्ञानकार्यं तु तद्रूपमिदमेव प्रदृश्यते ।। ५९४ ।।
सुरोत्तमटीका
ज्ञानकार्यं ज्ञानमेव कार्यं यस्य तत्तथोक्तम् ।। ५९४ ।।
सत्यप्रमोदटीका
ज्ञानकार्यं ज्ञानप्रधानककार्यम् हनुमदाद्यवतारेऽपि कदाचिज्ज्ञानकार्यस्यापि दर्शनात् ।। ५९४ ।।
युक्तिमल्लिका
यत्ते पवित्रमर्चिष्यग्नेविततमन्तरा ।
ब्रह्म तेन पुनीहीति तस्यैव प्रार्थनान्तरम् ।। ५९५ ।।
सुरोत्तमटीका
पूर्वोक्तपरिशिष्टश्रुतावपि तप्तसुदर्शनधारणस्यैव प्रस्तुति-रिति सूचनाय स्पष्टं तप्तसुदर्शनधारणप्रतिपादकं तस्यैव ऋषेः संहितास्थं वचनमप्याह ।। यत्त इति ।। पुनीहीति पुनीहिन इति श्रुत्या । अयमर्थः । हे अग्ने अङ्गभूतरुद्रादिदेवनेतृत्वेनाग्नौ सन्निहितत्वेन च अग्निपदवाच्यपवमान-कुण्डस्थितलक्ष्म्यां नारायणसमागमेन विष्णुकुमारतया जातस्याभिनवाग्नेः विष्णुं प्रति क्रियमाणहोमयोग्याग्नौ तान्त्रिकैः सन्निधाप्यमानत्वात् पवमान-सूक्तत्वाच्च अग्निस्थपवमानाग्नेरेवात्र ग्रहणम् । ते तव अर्चिषि ज्वालायां अन्तरा अन्तः विततं विशेषेण ततम् । तापाय यावत्तापंविस्तारितमित्यर्थः । यत् पवित्रं पावमानत्वात् पविवत् वज्रवत् त्रातृत्वाद्वा पवित्रपदवाच्यं सुदर्शनम् । वस्त्ररूपदशापवित्रस्य अग्निर्ज्वालान्तर्निवेशने दाहेन नाशावश्यंभावात् अग्नि-ज्वालान्तर्निवेशनेऽप्यनश्यत्पवित्रं चक्रमेव भवेत् । दशापवित्रे अग्निज्वालान्त-र्निवेशनस्य शिष्टैरक्रियमाणत्वात् चक्रे तप्तमुद्राधारणाय क्रियमाणत्वादपि चक्रमेवेदं भवेत् । तेन अस्मद्भुजेंकितेन वैष्णवाग्नौ संस्कृतसुदर्शनेन । न इत्युक्त्या स्वसम्बन्धस्याप्यावश्यकत्वात् नः अस्माकं ब्रह्म वेदं अस्मात्पठित-वेदमित्यर्थः । पुनीहि पवित्रं कुरु । विष्णुचक्रलांछनाभावे अवैष्णवतया वेदे अनधिकारित्वेन अनधिकारिपठितवेदस्य च शूद्रपठितवेदस्येव शूद्रस्पृष्ट-ब्राह्मणवदपवित्रत्वात्तप्तसुदर्शनधारणेनास्मत्पठितं वेदं पुनीहीत्यर्थः । ‘‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यत’’ इति वचनात् ।। ५९५ ।।
सत्यप्रमोदटीका
परिशिष्टश्रुत्योक्तमर्थं द्रढयति यत्त इति । तस्य पूर्वोक्तमन्त्रद्रष्टुः मुनेः ।। ५९५ ।।
युक्तिमल्लिका
सख्युरग्रे हृदि गतमग्न्याख्यं तं गुरुं प्रति ।
स्पष्टीकर्तुं महाधर्मं तप्तचक्राङ्कधारणम् ।। ५९६ ।।
सुरोत्तमटीका
इममेवार्थमभिप्रेत्याह ।। सख्युरित्यादिना ।। गुरुं मध्वरूपिणं पवमानम् ।। ५९६ ।।
सत्यप्रमोदटीका
अग्निशब्दस्य वाय्वर्थकत्वं विशदयति सख्युरिति वायुसखे हुताशने नियामकत्वेन हृदि स्थितत्वादग्न्याख्यम् । तत्पदमुख्य-वाच्यम् । ते अर्चिषि ज्वालायां अन्तरा विततं तापनाय स्थापितं यत् पवित्रं चक्रम् । तेन इत्युत्तरार्धेणान्वयः ।। ५९६ ।।
युक्तिमल्लिका
अग्निश्च दह्यात्त्वां नोचेत्पूर्वा वाक्च प्रधक्ष्यति ।
अन्यथा वाक्यभेदः स्यात्सूक्तं चैतत्प्रकुप्यति ।। ५९७ ।।
सुरोत्तमटीका
नो चेत् अत्रत्यपवित्रपदवाच्यं चक्रं नो चेत् दशापवित्रमुच्यते चेदित्यर्थः । त्वां त्वदभिमतदशापवित्रं दह्यात् त्वदभिमत-दशापवित्रस्यात्र ग्रहणेऽनुपपत्तिं दर्शयित्वा पराभवजातलज्जया अग्नौ पतं तं त्वां दह्यादिति वा । पूर्वा अस्माभिः पूर्वमुदाहृता । वाक् येन देवा इति वाक् । अन्यथा पूर्ववाक्येऽपि सुदर्शनाग्रहणे वाक्यभेदः उद्दिष्टपरिशिष्ट-वाक्ययोरर्थभेदः। सूक्तं एकार्थप्रतिपादकवाक्यसमुदायात्मकं सूक्तम् ।। ५९७ ।।
सत्यप्रमोदटीका
नो चेत् पवित्रपदार्थतया दशापवित्रमेव वदसि चेत् । त्वां तव दशापवित्रं पराभवलज्जाभिभूतं त्वां च । प्रधक्ष्यति भस्मीकरोति, तमसि पातयति ‘विद्युद्व्यूढस्फुलिङ्गप्रकरविकिरणोत्क्वाथिते बाधिताङ्गा-नि’त्युक्तेः । वाक् येन देवा इति वाक् । वाक्यभेदः उद्दिष्टपरिशिष्ट-वाक्ययोर्विरोधः । सूक्तं एकार्थप्रतिपादकम् ।। ५९७ ।।
युक्तिमल्लिका
आग्ने तेऽर्चिषि यच्चक्रमन्तराविततं कृतम् ।
तप्तेन तेन चक्रेण ब्रह्म वेदं पुनीहि नः ।। ५९८ ।।
सुरोत्तमटीका
यद्यस्मात् ।। ५९८ ।।
सत्यप्रमोदटीका
‘ब्रह्म वेदस्तपस्तत्वं’ इत्यभिधानाद्वेद इति । पुनीहि अयातयामं सार्थकं कुरु ।। ५९८ ।।
युक्तिमल्लिका
इति प्रार्थनरूपोऽर्थो यस्स्पष्टोऽत्र प्रतीयते ।
अतश्चक्राङ्कशून्यानां वेदाभ्यासो वृथा भवेत् ।। ५९९ ।।
सुरोत्तमटीका
अतः चक्राङ्काभावे पठितवेदापावित्र्यस्य श्रौतत्वात् ।। ५९९ ।।
सत्यप्रमोदटीका
वृथा अनर्थप्रयोजनकः ।। ५९९ ।।
युक्तिमल्लिका
यदा चक्राङ्कशून्योक्तवेदस्याप्यपवित्रता ।
तदा तेषां तु मूर्खाणां हीनादपि च हीनता ।
किं वाच्या तेन चण्डालादधमं तं स्मृतिर्जगौ ।। ६०० ।।
सुरोत्तमटीका
तेन चक्राङ्कशून्यस्याधमाधमत्वेन । स्मृतिः ‘‘अवैष्णवस्तु यो विप्रश्चाण्डालादधमःस्मृत’’ इत्यादिका ।। ६०० ।।
सत्यप्रमोदटीका
तेन अतिहीनत्वनिमित्तेन । स्मृतिः ‘अवैष्णवस्तु यो विप्रश्चण्डालादधमः स्मृतः’ इत्यादिका ।। ६०० ।।
युक्तिमल्लिका
प्रतप्तं बिभृयाच्चक्रं शङ्खञ्च भुजमूलयोः ।
श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यर्थमेव च ।। ६०१ ।।
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ।
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् ।। ६०२ ।।
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनाभिसमन्येत स पाषण्डो नरः स्मृतः ।। ६०३ ।।
यो मोहाद्विष्णुमन्येन हीनदेवेन दुर्मतिः ।
साधारणं सकृद्ब्रूते सोऽन्त्यजो नान्त्यजोऽन्त्यजः ।।६०४।।
सुरोत्तमटीका
तामेव स्मृतिमुदाहरति ।। प्रतप्तमित्यादिना ।। ६०१–६०४ ।।
सत्यप्रमोदटीका
उक्तार्थे पद्मपुराणं प्रमाणयति प्रतप्तमिति ।। पाषण्डः भगवद्द्वेषी । समत्वज्ञानस्य ‘साम्याधिक्ये तदन्येषां’ इति नवविधद्वेषेषु परिगणनात् ।। ६०१–६०४ ।।
युक्तिमल्लिका
अतः श्रुतेः स्मृतेश्चैको मार्गः सद्धर्मरक्षणे ।। ६०५ ।।
सुरोत्तमटीका
अतः प्रतप्तमित्यादिपद्मपुराणे वासिष्ठस्मृतौ येन देवा इत्यादि श्रुतौ चोक्तरीत्या अचक्रधारिणां निन्दनात्।। ६०५ ।।
सत्यप्रमोदटीका
सद्धर्मेति चक्रधारणरूपेत्यर्थः ।। ६०५ ।।
युक्तिमल्लिका
किञ्च श्रुत्यन्तरं प्रोक्तं शतोद्यामं हिरण्मयम् ।
पवित्राख्यं विष्णुचक्रं धारणाय विनिर्मितम् ।
यज्ञरक्षाकरं सोऽग्निः सहते स्वोदरेऽर्पितम् ।। ६०६ ।।
सुरोत्तमटीका
अग्निश्च दह्यादिति प्रागुक्तमर्थं स्पष्टयति ।। किं चेति ।। श्रुत्यन्तरप्रोक्तं प्राजापत्यमिति श्रुतौ प्रोक्तम् । धारणाय भुजयोर्धारणाय । सुदर्शनेन यज्ञघ्नराक्षसवधकरणस्य पुराणादौ श्रवणात् यज्ञरक्षाकरमित्युक्तम् । सः यज्ञाङ्गभूतः । स्वोदरे स्वज्वालामध्ये ।। ६०६ ।।
सत्यप्रमोदटीका
शतोद्यामं अङ्कनाय गुरुणा बहुवारं बाहूद्यमनोपेतम् । यज्ञरक्षाकरं ‘दन्दग्धि दन्दग्ध्यरिसैन्यमाशु’ इति भागवतोक्तेः विरोधि-संहारकरम् । अर्पितं तापनायेति शेषः ।। ६०६ ।।
युक्तिमल्लिका
अन्यत्तु कुपितः सर्वं दहेद्वायुसखो ह्यसौ ।
अतोऽर्थान्तरवार्ताऽत्र दग्धैवाभून्न संशयः ।। ६०७ ।।
सुरोत्तमटीका
अन्यत् । वस्त्ररूपदशापवित्रं दर्भरूपकर्माङ्गपवित्रं तन्तुरूपपञ्चदर्भाङ्गपवित्रम् । धारणाय कृतसौवर्णसुदर्शनमेव हिरण्मयमिति श्रुतिः ‘‘यत्ते पवित्रमर्चिष्यग्ने विततमन्तरे’’ति श्रुतिश्च शंसति । तस्यैव हिरण्मयत्वसम्भवात् अग्निज्वालान्तःप्रवेशसम्भवाच्च अन्यस्य हिरण्मयत्वा-भावात् अग्निज्वालान्तःप्रवेशासहत्वाच्च नात्र प्रतिपादनावसर इति भावः । वायुरूपमध्वाचार्येण सुदर्शनधारणस्यैव प्रतिष्ठापितत्वात् तदनुकूल एवाग्निः नत्वन्यस्येति सूचनाय वायुसख इत्युक्तम् ।। ६०७ ।।
सत्यप्रमोदटीका
अन्यत् दशापवित्रम् । तस्य हिरण्मयत्वासम्भवात् ।। ६०७ ।।
युक्तिमल्लिका
चक्रं सुवर्णतः कुर्याच्छङ्खं तु रजतेन च ।
इति पौराणिकी गोष्ठी तत्सर्वं मे मनोरमम् ।। ६०८ ।।
एवञ्च तप्तचक्रं मे नांहोदाहाय केवलम् ।
विरुद्धपक्षकक्षाणामपि दाहमचीक्लृपत् ।। ६०९ ।।
सुरोत्तमटीका
धारणयोग्यचक्रस्य हिरण्मयत्वं पद्मपुराणवचनेन दर्शयति ।। चक्रमिति ।। तत्तस्मात् श्रुतिस्मृत्यनुकूलत्वात् । मे मम प्रमेयम् ।। ६०८,६०९ ।।
सत्यप्रमोदटीका
पौराणिकी पद्मपुराणस्था । गोष्ठी वाक् । मे मदुक्तं प्रमेयजातम् ।। अंहः पापम् ।। ६०८,६०९ ।।
युक्तिमल्लिका
पवमानपदैः सोमपदेन च य ईर्यते ।
स एवाग्निसवित्रादौ स्थितस्तत्तत्पदोदितः ।। ६१० ।।
सुरोत्तमटीका
‘‘यत्ते पवित्रमर्चिष्यग्न’’ इत्यत्रोक्ताग्निपदं ‘‘उभाभ्यां देवसवितः’’ इत्यादौ उक्तसवित्रादिपदं च पवमानसूक्तत्वात् पवमानेऽपि योगसम्भवाच्च वायुपरमेवेत्याह ।। पवमानपदैरित्यादिना ।। वायुवाचक-मध्वादिपदसङ्ग्रहाय बहुवचनम् ।। तत्तत्पदोदितः अग्निसवित्रादिपदोदितः । स्वातन्त्र्यस्य शब्दवृत्तिकारणत्वात् । योगं च प्रदर्शयति ।। ६१० ।।
सत्यप्रमोदटीका
उदितः प्रवृत्तिनिमित्तं प्रति स्वातन्त्र्यात् आश्रयत्वा-च्चेति उभयथा योगवृत्त्येति भावः ।। ६१० ।।
युक्तिमल्लिका
अङ्गीभूताग्निनेतृत्वादङ्गेष्वग्निशिखां नयन् ।
प्राणाग्निरिति यः प्रोक्तः स एवाग्निस्थितामलः ।। ६११ ।।
सुरोत्तमटीका
अङ्गीभूतेति ।। अप्रधानभूताग्निनेतृत्वादित्यर्थः । योगान्तरं चाह ।। ओष्विति ।। करचरणाद्यङ्गेष्वित्यर्थः । अग्निशिखामिति योग्यतया सम्बन्धः । सन्तापयति स्वं देहमापादतलमस्तकादिति वचनात् । हृदयस्थिताग्नेः नानानाडीषु व्यानाख्यवायुसहायेनैव गमनात् ओष्वग्निशिखां नयन्नित्युक्तम् । अनेन अङ्गं नयन्निति ओषु नयन्निति चाग्निपदस्य योगः प्रदर्शितः । निरुक्तत्वादकारलोपो बिन्दुलोपश्च । नीञ् प्रापण इति धातो-रौणादिको डिप्रत्ययः । रूढिं च प्रदर्शयति ।। प्राणाग्निरिति ।। ६११ ।।
सत्यप्रमोदटीका
अङ्गीभूताग्निनेतृत्वात्, अप्रधानाग्निनिष्ठप्रवृत्तिनिमित्तं प्रति स्वातन्त्र्यात् । नयन् व्यानरूपेण नाडीषु प्रापयन् । एतेन तद्गतत्वं प्रवृत्तिनिमित्तं दर्शितम् । प्रोक्त इति रूढिदर्शनम् ।। ६११ ।।
युक्तिमल्लिका
अलम्भावो यतो नास्य पवित्रीकरणे सताम् ।
उपस्थातृषु यः पुण्यराशिं सूते दिने दिने ।। ६१२ ।।
स एव सविता सोमबिम्बस्थः सोमनामकः ।
समत्वाह्लादकारित्वपूर्वैः शुभगुणैः प्रभुः ।। ६१३ ।।
सुरोत्तमटीका
अनलपदस्य सवितृपदस्य च योगमाह ।। अलम्भाव इति ।। सतां पवित्रीकरणे अस्य अलम्भावः यतो नेति सम्बन्धः । उप-स्थातृषुप्रातः कालादिसन्ध्याकालेषु सूर्योपस्थानं कुर्वत्सु । उभाभ्यां देवसवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः’’ इति श्रुतौ सवितः पुण्यस्रष्टः हे देवपवमान पवित्रेण सन्ध्याङ्गतया बाहुमूले धृतचक्रेण सवेन सवनेन सन्ध्याङ्गभूतप्रातःकालादिकालेनेत्युभाभ्यां मां विश्वतः सर्वतः पुनीहि । अवैष्णवसन्ध्याकरणदोषात् कालातिक्रमदोषाच्च पवित्रीकुर्विति त्रिषुवर्णेषु क्रियमाणमध्वाचार्योक्तचक्रधारणपूर्वकसन्ध्यावन्दनेन स्वपावित्र्यं पवमानं प्रति प्रार्थयमानेन तस्मिन्सवितृपदप्रयोगादुपस्थातृषु यः पुण्यराशिं सूत इत्युक्तम् । अनेन पवित्रनामकसुदर्शनधारणस्यापि उभाभ्यामिति सहैव गृहीतत्वात् काल-त्रयेऽपि क्रियमाणसन्ध्यावन्दनस्य गोपीचन्दनेन क्रियमाणसुदर्शनधारण-पूर्वकत्वनियमोऽपि सूचितो भवति । पुण्यराशिमित्युपलक्षणम् । त्रिभिष्ट्वंदेव-सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहिनः’’ इति श्रुतौ सन्ध्यावन्दनाङ्गभूताहोरात्रिसन्ध्याप्रवर्तकसवितृसोमाग्निषु स्थितं पवमानदेवं तत्तत्पदैः सम्बोध्य वर्षिष्ठैः बहुवर्षस्थायिभिः अनाद्यनन्तकालीनैरित्यर्थः ।
दक्षैः कामान्नादिसकलाभीष्टदानकुशलैः । त्रिभिर्धामभिः तदुक्तरीत्या कृतविष्णुप्रीतिकरसन्ध्यावन्दनत्रयीफलभूतैः वैकुण्ठश्वेतद्वीपानन्ताख्यत्रिसङ्ख्या-कलोकैः । त्वं नः पुनीहि । उक्तलोकत्रयं दत्वा संसाराख्यमलं विनाश्य पवित्रीकुर्विति मोक्षरूपफलस्यापि प्रार्थितत्वान्मौक्तभोगराशिं च सूते सुनोति । अप्रधानभूतमुक्तवर्गेषु तं नयतीति व्युत्पत्त्या च सवित्रादिपदवाच्यत्वं द्रष्टव्यम् । अनेन वायोरपि वायुश्च तदनुज्ञयेति स्मृत्युक्तमोक्षदातृत्वमपि स्पष्टीकृतं भवति । पूर्वैरित्यनेन सु प्रसवैश्वर्ययोरिति धातुनिष्पन्नसोमशब्दार्थो गृह्यते ।। ६१२,६१३ ।।
सत्यप्रमोदटीका
अनलशब्दं वायौ निर्वक्ति अलम्भाव इति । उपस्थातृषु गोपीचन्दनमुद्रादिधारणपूर्वकं सन्ध्याद्युपस्थानं कुर्वत्सु । जीवोत्तमत्वेनाराधकेषु । पुण्यराशिं मुक्तिप्रयोजकं वायोर्विष्ण्वाज्ञया मोक्ष-दातृत्वात् । सोमेत्यादिना सोमशब्दनिर्वचनम् ।। ६१२, ६१३ ।।
युक्तिमल्लिका
पवमानस्य यत्सूक्ते पवमानप्रशंसनम् ।
उचितं तेन वायुश्च वायुगो हरिरेव च ।
सूक्तस्थिताखिलर्ग्भिश्च स्तुत्यो नान्यस्य वागियम् ।। ६१४ ।।
सुरोत्तमटीका
यद्यस्मात् । तेन कारणेन । इयं पवमानपूयमानरूपा ।। ६१४ ।।
सत्यप्रमोदटीका
इयं पवमानाग्निसवितृसोमादिरूपा ।। ६१४ ।।